समराङ्गणसूत्रधार अध्याय ६

समराङ्गणसूत्रधार अध्यायसूची

अथ प्राक्कथितादस्माद्भूतसर्गादनन्तरम्।

प्रजासीदमरैः सार्धमियं पूर्णजनाकुला ॥१


शोकव्याधिशरातङ्कविमुक्तास्त्रिदशा इव।

पुराभवन् कृतयुगे पुमांसः स्थिरयौवनाः ॥२


ते निकुञ्जेषु शैलानां नदीषु च सरस्सु च।

वनेषु च विचित्रेषु चिक्रीडुर्दैवतैः सह ॥३


हेलया ते समुत्पत्य कदाचिदमरैः सह।

निरर्गलाः समासाद्य स्वर्विचेरुः सुरा इव ॥४


चित्राम्बरावृताः सर्वे नानाभरणशालिनः।

विमानाकृतयस्तेषामासन् कल्पद्रुमा द्रुमाः ॥५


मनोज्ञाभिः सह स्त्रीभिर्विचित्राभरणास्त्रियः।

कल्पद्रुमेष्वकार्षुस्ते वासं क्रीडां च तेष्वथ ॥६


क्षुत्तृड्दुःखोज्झिताः सर्वे बभूवुरयुतायुषः।

रत्नावदातदेहास्ते कदाचिद्भूरसाशिनः ॥७


रतिप्रायास्तदासंस्ते स्वेच्छाहारविहारिणः।

स्वीकारविग्रहच्छेदविशदीकृतचेतसः ॥८


नास्मिन्नर्कस्तपत्युग्रं न वाति प्रबलोऽनिलः।

नीहारच्छेदसुन्दर्यो निशाः पूर्णेन्दुभूषणाः ॥९


भिन्नस्निग्धाञ्जनश्यामाः सतडिन्मन्द्र निस्वनाः।

अचण्डाशनयश्चासन् कबरीकान्तयो घनाः ॥१०


माद्यत्पिकवधूदष्टमाकन्दमुकुराङ्कुराः।

आसन्सदापुष्पफलाभोगा येषां वनालयाः ॥११


एकोऽग्रजन्मा वर्णोऽस्मिन् वेदोऽभूदेक एव च।

ऋतुर्वसन्त एवैकः कुसुमायुधबान्धवः ॥१२


रूपश्रुतसुखैश्वर्यभाजस्ते निखिला अपि।

समत्वान्नाभवत्तेषामुत्तमाधममध्यता ॥१३


न खेटनगरग्रामपुरक्षेत्रखलादिकम्।

न दंशमशकक्रव्याद्भयं वा न ग्रहादि च ॥१४


कल्पद्रुमाप्तभोगानां न चैषां प्रभुरप्यभूत्।

पुरास्मिन् भारते वर्षे तेषां निवसतामिति ॥१५


जगाम सुबहुः कालः सुरैः सार्धं सुरश्रियाम्।

अज्ञाततत्प्रभावानां सहसंवाससंभवा ॥१६


अथैषामभवद्दैवादवज्ञा त्रिदशान् प्रति।

अपूज्यमानास्ते पूज्याः सर्वेऽप्यखिलवेदिनः ॥१७


आदाय तत्कल्पतरुं निपेतुर्द्यां दिवौकसः।

दिवंगमनशक्तिश्च दिव्यो भावश्च तद्गतः ॥१८


सरसः परमो भूमौ भूरसश्च न्यवर्तत।

स्मृत्वा कल्पद्रुमांस्तांस्तान् क्रीडास्ताश्च सुरैः सह ॥१९


व्यलपन् बहुधात्यर्थमनर्थकृतचेतसः।

ततो विलपतां भूरि स्वैरमाहारहेतवे ॥२०


प्राणत्राणार्थमेतेषामभूत् पर्पटको भुवि।

भूरसेनैव तेनैते कुर्वाणाः प्राणरक्षणम् ॥२१


विना कल्पद्रुमैर्वासमन्यवृक्षेषु चक्रिरे।

अथैषां पश्यतामेव कदाचिद्भाग्यसंक्षयात् ॥२२


विपर्ययाच्च कालस्य भूमेः पर्पटकोऽप्यगात्।

ततः पर्पटके नष्टे तुषशूककणोज्झिताः ॥२३


अकृष्टपच्या मेदिन्यामभवञ्शालितण्डुलाः।

शाल्योदनेन तेनाथ सुखादुव्यञ्जनेन ते ॥२४


परमां तृप्तिमासेदुः परितोषात्तचेतसः।

तन्नाशशङ्कया शालितण्डुलानां द्रुमेष्वधः ॥२५


ते व्यधुर्महतो राशींस्तत्क्षेत्राणि च चक्रिरे।

अजायत ततो लोभो मात्सर्येर्ष्यापुरस्सरः ॥२६


तत्र तत्र शनैश्चक्रे पदन्यासं च मन्मथः।

द्वन्द्वप्राप्त्या ततस्तेषां बिभ्रतामुत्तमां गतिम् ॥२७


धैर्यध्वंसादभूत् स्त्रीषु भृशं रागतुरङ्गमः।

दारक्षेत्रनिमित्तानि भूयांस्येषामनन्तरम् ॥२८


परिक्लेशैकमूलानि द्वन्द्वान्यासन्पृथक्पृथक्।

ततः स्वकॢप्तमर्यादोच्छेदिष्वेष्वजितात्मसु ॥२९


अविनीतेष्वभाग्येषु स शालिस्तुषतामगात्।

प्रवृद्धरजसां तेषां सा पुण्यश्लोकता गता ॥३०


मलप्रवृत्तिरभवत् तुषधान्योपसेवया।

तुषधान्ये ततो नष्टे परिभुक्ते च सञ्चये ॥३१


चीरवल्कलवस्त्राणां कन्दमूलफलाशिनाम्।

ऋतवः कालपर्यासात् षड् वसन्तादयोऽभवन् ॥३२


ततस्तेषामभूद्दोषरोगशोकाकुलं वपुः।

मनश्च कामक्रोधेर्ष्यादैन्यासूयादिदूषितम् ॥३३


आधिदैवकमुष्णाम्बुशीतादिजनितं महत्।

आधिभौतिकमप्यासीद्दुःखं व्यालमृगादिजम् ॥३४


इत्थं दुःखत्रयार्त्तास्ते व्यवायाद्यभिगुप्तये।

हिमनीहारशीताम्बुवाताद्यापच्छिदेऽपि च ॥३५


अजातप्रीतयो वृक्षैः कुट्टिमानि गृहाणि ते।

व्यधुश्छित्त्वाश्मभिर्वृक्षानन्यान् दुःखार्तेचेतसः ॥३६


स्मृत्वा कल्पद्रुमाकारास्तद्रू पाणि गृहाणि ते।

एकद्वित्रिचतुःसप्तदशशालानि चक्रिरे ॥३७


शब्दा प्राकारपरिखेष्वाच्छन्नेषु तृणादिभिः।

हृष्टास्तेष्वनयन् कालमाप्तेषु गृहमेधिनः ॥३८


इत्यमीषु गृहिणो गृहेषु ते शीतवातजलतापनाशिषु।

हर्षसंवलितमानसाश्चिरं सन्निरस्तविपदोऽवसन् सुखम् ॥३९


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे सहदेवाधिकारो नाम षष्ठोऽध्यायः।