प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः।


षड्विंशतमथ ब्रूमः प्रासादान् नागरक्रियान्।

साधारान् प्रथमस्तेषु श्रीकूटः श्रीमुखस्ततः ॥१


श्रीधरो बदरश्चैव तथाभ्यः प्रियदर्शनः।

कुलनन्दोऽन्तरिक्षश्च पुष्पभासो विशालकः ॥२


सङ्कीर्णोऽथ महानन्दो नन्द्यावर्तस्तथापरः।

सौभाग्यश्च विभङ्गश्च विभवस्तदनन्तरम् ॥३


बीभत्सकोऽथ श्रीतुङ्गो मानतुङ्गस्तथापरः।

भवतो रुद्र संज्ञश्च भवद्वाह्योदरस्तचः ॥४


निर्यूहोदरसंज्ञोऽन्यस्ततो ज्ञेयः समोदरः।

नन्दिभद्रो भद्र कोशश्चित्रकूटस्ततः परम् ॥५


विमलो हर्षणो भद्र सङ्कीर्णस्तदनन्तरम्।

ततो भद्र विशालाख्यो भद्र विष्कम्भ एव च ॥६


उज्जयन्ताभिधानश्च सुखे मेरुरथ मन्दरः।

कैलासः कुम्भकाक्षश्च गृहराजश्च नामतः ॥७


एतेषां त्रिंशदुद्दिष्टा लक्षणं कथ्यतेऽधुना।

चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ॥८


प्रासादं विभजेत् प्राज्ञः श्रीकूटं नाम शोभने।

ज्येष्ठः स्याद्विंशतिर्हस्ता मध्यमो दश पञ्च च ॥९


कनीयान्दश विज्ञेयः प्रमाणं हस्तसङ्ख्यया।

भद्रं षड्भागिकायासं कर्णाः कार्या द्विभागिकाः ॥१०


तिलकं भागिकं कार्यं भागेनैकेन निर्गतम्।

तस्माद्भागेन निष्क्रान्तं भद्र मस्य विधीयते ॥११


भागिकी बाह्यभित्तिः स्याद्द्विपदा चान्धकारिका।

भागिकी गर्भभित्तिश्च गर्भः कार्यश्चतुष्पदः ॥१२


अधश्छन्दः समुद्दिष्ट ऊर्ध्वच्छन्दोऽभिधीयते।

विस्तारार्धेन जङ्घा स्यान्मेखला चैकभागिका ॥१३


भागत्रयोच्छ्रितं शृङ्गं द्वितीयमपि तादृशम्।

पूर्वशृङ्गस्य मध्ये तद्विधातव्यं विचक्षणैः ॥१४


सार्धभागोदयः कार्यस्तिलकोऽन्यश्च तादृशः।

द्वितीयतिलकस्योर्ध्वं सुश्लिष्टा रूपसंयुता ॥१५


स्यादुरोमञ्जरी सप्तभागोत्सेधा षडायता।

स्याद्भागिकमधश्छाद्यं मञ्जर्या या तु विस्तृतिः ॥१६


दशधा प्रविभाज्यासौ शेषं श्रीवत्सवद्भवेत्।

स्कन्धः षड्भागविस्तारो ग्रीवा भागार्धमुच्छ्रिता ॥१७


अण्डकं भागिकं कार्यं कुमुदं चार्धभागिकम्।

सार्धभागेन कलशो बीजपूरकसंयुतः ॥१८


द्वितीयकर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी।

--- अष्टभागसमुच्छ्रिता ॥१९


श्रीवत्सवद्विभागोऽस्याः स्कन्धग्रीवादिके भवेत्।

एवं श्रीकूटसंक्षेपं प्रासादः परिकीर्तितः ॥२०


यं कृत्वा त्रिसहस्राणि दिव्यानि दिवि मोदते।

श्रीकूटः ।।

अथ लक्ष्म --- स्याभिधीयते ॥२१


तुल्यं प्रासादमानेन विदध्यादिह मण्डपम्।

मुखायामेन तिर्यक्तु चतुरश्रं --- ॥२२


--- भद्र विस्तारः कर्णाश्च तिलकास्तथा।

मध्ये चतुष्किका कार्या भद्र विस्तारसम्मिता ॥२३


नि --- विधातव्यस्तु मण्डपे।

जङ्घाप्रासादजङ्घायाः समोत्सेधा विधीयते ॥२४


मेखलं भागिक --- च पूर्ववत्।

स्तम्भं त्र्यंशोच्छ्रितं भागं वेदी घण्टा त्रिभागिका ॥२५


क्रमाश्रयो यवाः पञ्च सिंहक ---।

शोभिताः सिंहकर्णैश्च नृच्छाद्याङ्गातिभूषिताः ॥२६


मण्डपं कारयेदेवं श्रीकूटस्य विचक्षणः।

श्रीकूटस्य मण्डपः समाप्तः ।।

अलिन्दे तु यदास्यैव क्रियते भद्र वेदिका यदा ॥२७


प्रासादः श्रीमुख --- तदानीं स्यात्सुखावहः।

श्रीमुखः ।।

यदा कूर्परमस्यैव चतुरश्रमधो भवेत् ॥२८


तदा स्याच्छ्रीधरो नाम प्रासादो देवताश्रयः।

श्रीधरः ।।

अस्यैव तु यदालिन्दः क्रियते भद्र वर्जितः ॥२९


रुचेः भवेत्तदानीं वरदः प्रासादः शुभदायकः ।

वरदः ।।

विधीयते यदास्यैव भद्र मेकं विनिर्गतम् ॥३०


निर्यूहश्च तदा स स्यात्प्रासादः प्रियदर्शनः।

प्रियदर्शनः ।।

विधीयते यदास्यैव नन्द्यावर्तो विनिर्गमः ॥३१


कुलनन्दस्तदा ज्ञेयः प्रासादः सुखकारकः।

कुलनन्दनः ।।

इति श्रीकूटादिषट्कम् ।।

अन्तरिक्षस्य ब्रूमस्तस्य द्वादशभागिकाः ॥३२


षड्विंशत्या करैर्ज्येष्ठमानायां दशभिर्भवेत्।

मध्यमे मध्यमानेन हस्तसंख्येयमीरिता ॥३३


पञ्चभागायतं भद्रं कर्णाः कार्या द्विभागिकाः।

विस्तारस्तिलकानां स्यादन्तरं भद्र कर्णयोः ॥३४


निर्गमः साधभागः स्याद्भद्र स्य तिलकस्य च।

गर्भः षोडशभागः स्याद्भागिकी भित्तिविस्तृतिः ॥३५


प्रदक्षिणा तु भागौ द्वौ बाह्यभित्तिः पदं भवेत्।

कथितोऽयमधश्छन्दो ब्रूमश्छन्दमथोर्ध्वतः ॥३६


जङ्घा षड्भागिकोत्सेधा भागोत्सेधा च मेखला।

--- भागत्रयोत्सेधे शिखरं प्रथमं तथा ॥३७


द्वितीयं तत्समं चोर्ध्वं तिलकस्योपरि स्थितम्।

अधस्ता --- छाद्यं तु भागिकम् ॥३८


शिखरं गर्भविस्तारं कर्तव्यं षट्पदोच्छ्रितम्।

अर्धेन गर्भविस्तारा --- स्तथा ॥३९


द्वितीयशिखरस्योर्ध्वं प्रागुल्भ्यान् मूलमञ्जरी।

इत्येष कथितः सम्यगन्तरिक्ष --- ॥४०


अन्तरिक्षप्रिया देवाः सर्वे वैमानिका यतः।

अन्तरिक्षः ।।

भागैरष्टभिरत्रैव क्रियतेऽलिन्द --- ॥४१


पुष्पाभासस्तदा ज्ञेयः प्रासादश्चारुदर्शनः।

पुष्पाभासः ।।

अथास्य क्रियते भद्र मलिन्दा --- ॥४२


--- विशालको नानाप्रासादाज्जायते शुभः।

विशालकः ।।

अथास्य क्रियते भद्र युक्तस्य --- वर्जितः ॥४३


तदा संकीर्णको नाम प्रासादः परिकीर्तितः।

संकीर्णकः ।।

यदा संकीर्णकस्यैव नन्दिका समभागिकी ॥४४


क्रियते निर्गमेणैव महानन्दस्तदा भवेत्।

महानन्दः ।।

विस्तारेण समश्च स्यान्नन्दिकानिर्गमो यदा ॥४५


नन्द्यावर्त इति ज्ञेयः प्रासादः स तदा बुधैः।

नन्द्यावर्तः ।।

अन्तरिक्षषट्कम् ।।

सौभाग्यमथ वक्ष्यामः स स्याद्द्वादशभिः पदैः ॥४६


उत्तमो विंशतिर्हस्ता मध्यमो दश पञ्च च।

कनीयात्रिसन् दश मानेन सौभाग्यो मानतस्त्रिधा ॥४७


गर्भश्चतुर्भिर्भागैः स्याद्भद्रं तद्विस्तृतेः समम्।

भद्र स्यार्धेन तिलकाः कर्णाः कार्या द्विभागिकाः ॥४८


द्वे द्वे पदे विधातव्यस्तथैकैकस्य निर्गमः।

भद्रा णां निर्गमं यद्वा विदध्यादेकभागिकम् ॥४९


भागिका गर्भभित्तिस्तु द्विपदा च प्रदक्षिणा।

भागिकी बाह्यभित्तिः स्याज्जङ्घोच्छ्रायः पदानि षट् ॥५०


भागिका मेखला प्रोक्ता तन्मध्ये शिखरं भवेत्।

मल्लच्छाद्यं च मध्ये स्याच्छृङ्गस्य शिखरस्य च ॥५१


एकभागोच्छ्रितं तच्च मञ्जर्यास्त्विह विस्तृतिः।

गर्भभित्तिसमा कार्या सप्तभागा समुच्छ्रितिः ॥५२


ऊर्ध्वं द्वितीयशृङ्गस्य पूर्ववन्मूलमञ्जरी।

अण्डकाद्यं यथोक्तं स्यात्सौभाग्योऽयं प्रकीर्तितः ॥५३


सौभाग्यः ।।

विधीयते यदास्यैव विना भद्र मलिन्दकः।

तदा विभङ्गको नाम प्रासादः स्यात्सुशोभनः ॥५४


विभङ्गकः ।।

यदि भद्र स्य निष्कासः क्रियतेऽस्य तदा पुनः।

प्रासादो विभवो नाम जायते परमोत्तमः ॥५५


विभवः ।।

भागद्वयविनिष्क्रान्ता नन्दिका क्रियते यदि।

तदा वदन्ति बीभत्ससंज्ञं प्रासादमुत्तमम् ॥५६


बीभत्सः ।।

यदा निर्गमविस्तारसमा भवति नन्दिका।

श्रीतुङ्ग इति विज्ञेयस्तदा प्रासादसत्तमः ॥५७


श्रीतुङ्गः ।।

यदा त्वलिन्दकोऽस्यैव क्रियते न विनिर्गतः।

प्रासादो मानतुङ्गाख्यस्तदानीमुपजायते ॥५८


मानतुङ्गः ।।

ब्रूमोऽथ सर्वतोभद्रं दशधा तं विभाजयेत्।

षड्विधान्त्या भवेज्ज्येष्ठः कनीयान् दशभिः करैः ॥५९


हस्तैस्तथाष्टादशभिर्मध्यमः परिकीर्तितः।

कर्णा द्विभागिकाः कार्या अलिन्दाः षट्पदोन्मिताः ॥६०


चतुर्भागानिन् भद्रा णि विभागस्तद्विनिर्गमः।

गर्भभित्तिर्बहिर्भित्तिरन्धारी च पदं पदम् ॥६१


गर्ग्भस्तु षोडशपद इत्येवं छन्द ईरितः।

विस्तारार्धेन जङ्घा स्यान्मेखला चैकभागिका ॥६२


प्रथमं कल्पयेच्छृङ्गं विस्तारात्सार्धमुच्छ्रितम्।

द्वितीयशृङ्गं तत्राल्पं पूर्वशृङ्गस्य मध्यगम् ॥६३


प्राच्छ्रिता षडायाम्या सुरःशिखमिष्यते।

कर्तव्यं मूलशिखरं तद्वच्चोपरिशृङ्गयोः ॥६४


मञ्जर्या विभजेद्भागं विस्तारं दशधा बुधः।

स्कन्धः षड्भागविस्तारो धनुर्ग्रीवाण्डकादिकम् ॥६५


श्रीवत्सस्येव तत्कार्यं मञ्जरी भागमानतः।

क्रमार्धं वा पञ्चसिंह --- रूपैर्विभूषिता ॥६६


इत्युक्तः सर्वतोभद्रः --- कल्याणकारकः।

सर्वतोभद्रः ।।

अलिन्दशोभितं भद्रं यदास्यैव विधीयते ॥६७


तदा बाह्योदरो नाम प्रासादप्रवरो भवेत्।

बाह्योदरः ।।

यद्यलिन्दो न भवति भद्र मेकं तु निर्गतम् ॥६८


स्यान्निर्यूहोदरो नाम प्रासादप्रवरस्तदा ।

निर्यूहोदरः ।।

यदा न तत्र भद्रं स्यान्नन्दिकानिर्गमो भवेत् ॥६९


भद्र कोशं तदा विद्यात्षष्ठं प्रासादमुत्तमम्।

भद्र कोशः ।।

सर्वतोभद्र षट्कम्।

चित्रकूटमथ ब्रूमस्तं भजेदष्टभिः पदैः ॥७०


कुर्यात्करेभ्योऽष्टाभ्यस्तं यावत्स्याद्धस्तविंशतिः।

कर्णभागिकविस्ताराः शेषालिन्दति विस्तृतिः ॥७१


भद्रं चतुष्पदं विद्याद्भागेनैकेन निर्गतम्।

भागेन निर्गतोऽलिन्दो भिह्त्त्यन्धार्यः पदं पदम् ॥७२


द्विपदोऽस्य भवेद्गर्भस्तलच्छत्ति समशिखमिष्यते।

अण्डकं भागिकं कार्यं क्रमाच्च क्रमसंवृता ॥७३


ऊर्ध्वं द्वितीयशृङ्गस्य कर्तव्या मूलमञ्जरी।

सप्तभागोदया प्राग्वद्भागषट्कं तथायता ॥७४


प्रासादमीदृशं कुर्याच्चित्रकूटं प्रमाणतः।

चित्रकूटः ।।

भद्रा गवविनिष्क्रा तस्यैव यदा भवेत् ॥७५


प्रासादो विमलो नाम तदानीमुपजायते।

विमलः ।।

अलिन्दस्तु यदास्यैव भद्र हीनो विधीयते ॥७६


तदानीं हर्षणो नाम प्रासादः स विजायते।

हर्षणः ।।

क्रियते तु यदास्यैव कूर्परं भागनिर्गमम् ॥७७


तदानीं भद्र संकीर्णः प्रासादो जायते शुभः।

भद्र संकीर्णः ।।

अस्यैव तु यदा भद्रं भागेनैकेन निर्गतम् ॥७८


भवेत्तदानीं प्रासादो नाम्ना भद्र विशालकः।

भद्र विशालकः ।।

--- भद्रै श्च विना यदा त्वेष विधीयते ॥७९


तदानीं भद्र विष्कम्भः प्रासादः स्यात्सुस्वप्रदः।

भद्र विष्कम्भः ।।

चित्रकूटादिषट्कम् ।।

चतुरश्रे समे क्षेत्रे विभक्तेऽष्टभिरष्टकैः ॥८०


प्रासादं चयेद्वा उज्जयन्तं सुशोभनम्।

पदमेकं भवेत्कर्णस्तिलकन्तावदेव च ॥८१


सभित्तिगर्भमानेन भद्रं कुर्याद्विचक्षणः।

बाह्यभित्तिर्भवेद्भागं भागमेकं प्रदक्षिणा ॥८२


भागिका गर्भभित्तिश्च गर्भमध्ये चतुष्पदम्।

पञ्चभागोन्मिता जङ्घा भागं तत्रैव मेखला ॥८३


कर्तव्यं भागिकं शृङ्गण्डकं चार्धभागिकम्।

द्वितीयं साण्डकं शृङ्गं तत्समं पदमध्यगम् ॥८४


मल्लच्छाद्यं विधाटव्यमुत्सेधेनार्धभागिकम्।

पदोत्सेधं च शिखरं गर्भभित्तिसमं भवेत् ॥८५


भागिकः कलशः कार्यो ध्वजशं ---स्य तत्समः।

एतस्य मूलशिखरं कुर्यात् षड्भागविस्तृतम् ॥८६


भागाधिकसमुत्सेधं कार्यं कल्याणमिच्छता।

ऊर्ध्वं र्तिलकशृङ्गस्य शिखरं स्यात्पदोच्छ्रितम् ॥८७


पञ्चाशद्विस्तृतं शेषं श्रीवत्सस्येव कारयेत्।

इत्येष कथितः सम्यगुज्जयन्तोऽभिधानतः ॥८८


कार्योऽयं सर्वदेवस्य प्रासादः शुभलक्षणः।

उज्जयन्तः ।।

चित्रकूटा यथोत्पन्नाः प्रासादा विमलादयः ॥८९


उज्जयन्तात्तथा पञ्च मेरुप्रभृतयो मताः।

मेरुश्च मन्दरश्चैव कैलासः कुम्भ एव च ॥९०


गृहराज इति प्रोक्ताः प्रासादास्ते सुलक्षणाः।

अष्टोत्तरमिहोद्दिष्टं प्रासादानां शतं बुधैः ॥९१


ज्येष्ठमध्यकनिष्ठानां साधाराणां तथैव च।

तेष्वलिन्दैर्युताः केचिद् भद्रैः केचिच्च वेष्टिताः ॥९२


केचिद्वर्णसमाः कार्याः प्रासादाः सर्वशोभनाः।

सर्वेऽप्येते विधातव्या भागप्रतिष्ठिताः ॥९३


कोणा न विषमाः कार्या वर्गभेदश्च नेष्यते।

एकहस्ता द्विहस्ता --- ये प्रकीर्तिताः ॥९४


यक्षनारागृहादीनां रक्षसां च भवन्ति ते।

भागेन धूमः स्रतु त्रेधा विनिर्दिशेत् ॥९५


ज्येष्ठं मध्यं कनीयश्च ज्ञेयं तच्चांशमानतः।

ज्येष्ठं साधत्रिहस्तं स्यात्त्रिहस्तं मध्यमं विदुः ॥९६


सार्धहस्तद्वयमितं कनीयस्तद्विधीयते।

त्रिहस्तं ज्येष्ठमपरं मध्यं हस्तसमन्वितम् ॥९७


अर्धहस्तं कनीयश्च मानं भागस्य कीर्तितम्।

ज्येष्ठो भागो द्विहस्तः स्यात्पादोनंमध्यमः करम् ॥९८


कनीयान् मध्यमार्धेन भागमानमिदं करैः।

षडन्वितास्त्रिंशदमी विचित्राः।

श्रीकूटकाद्यातिथिता ग्रवात् ।।

प्रासादमुख्या इह षट्कप्रभेदा।

भिन्ना --- सह मण्डपैश्च ॥९९


इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः।