प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ द्रा विडप्रासादलक्षणं नाम द्विषष्टितमोऽध्यायः।


ऊर्ध्वमानमथ ब्रूमो घण्टान्तपुरपादितः।

प्रमाणं कर्णमानेन सर्वेषामेव धारयेत् ॥१


तत्रैकभूमिकः कार्यो हस्तपञ्चकविस्तृतः।

अङ्गुलद्वितयोपेतः सप्तहस्तसमुच्छ्रितः ॥२


पादो द्विहस्त उत्सेधात्सर्वालङ्कारभूषितः।

सार्धहस्तसमुत्सेधस्तावन्मानः स्तरावधि ॥३


माला तु द्विस्तरा प्रोक्ता स्तरो लशुनकं भवेत्।

भरणं स्तरमेकं स्याद्भरणार्धं स्तरद्वयम् ॥४


कलशाद्युतरं ज्ञेयो वारराद्यासमन्वितः।

द्विस्तरं कुलकं कुर्यात्पद्मपत्रसमन्वितम् ॥५


वीरगन्द्रा पुनः कुर्यात्स्तरमेकं तदूर्ध्वतः।

द्विस्तरं हीरकं प्रोक्तं पट्टश्चैव तथाविधः ॥६


पट्टिका स्तरमेकं स्याद्वसन्तं द्विस्तरं विदुः।

वसन्तपट्टिका चोर्ध्वं स्तरमेकं विधीयते ॥७


कपोतं नासिकायुक्तं विदधीत स्तरत्रयम्।

--- दन्तरं प्रकुर्वीत मेटमेकस्तवंस्तत ॥८


स्तरप्रमाणं मकरं तद्वन्मकरपट्टिकाम्।

पुनश्छेदं स्तरं कुर्याद्वेदीबन्धस्ततः स्तरम् ॥९


छेदः स्तरप्रमाणश्च कण्ठः स्यात्द्विस्तरं ततः।

पट्टिका स्तरमेकं तु तद्वच्चाम्बुजपट्टिका ॥१०


मालादिपद्मपत्रान्तं द्विहस्तोत्सेधमीरितम्।

सार्धहस्तः समुत्सेधः कूटस्य परिकीर्तितः ॥११


नासिकापद्मसंयुक्तं तदूर्ध्वं कलशो भवेत्।

एकभूमेरिदं मानं प्रासादस्य प्रकीर्तितम् ॥१२


एकभूमिकः ।।

द्विभूमिकस्य लक्ष्माथ प्रासादस्याभिधीयते।

सप्तहस्तसविस्ता --- समुच्छ्रितः ॥१३


कर्णमानाद्भवेदस्य विभागोऽथनिगद्यते।

द्विहस्तं कल्पयेद्बीजं जङ्घा सार्धद्विहस्तकम् ॥१४


कूटस्य सन्निवेशोऽयं विज्ञातव्यः सभागिकः।

जङ्घा द्वितीया तु पुनः कर्तव्या तस्य भागिका ॥१५


सन्निवेशो द्वितीयस्य स्यात्कूटस्यार्धभागिकः।

दिदिक्रव्यस्पृ कर्तव्या सह कण्ठेन भागिकः ॥१६


तस्योपरिष्टाद् घण्टा च सार्धभागसमुच्छ्रिता।

नासिकापद्मसंयुक्ता विधातव्या विपश्चिता ॥१७


पीठानां पूर्वमुक्तानां पादबन्धादिनामभिः।

पञ्चानां कल्पयेदेवं --- भूम्यादितः क्रमात् ॥१८


तेषां शोभावहं यत्स्यात्तत्कर्तव्यं विपश्चिता।

तस्योपरि भवेज्जङ्घा मालाल---संयुता ॥१९


भरणं कलशस्तद्वद्द्वारगण्डसमन्वितम्।

उच्छालं पूर्वमानेन पद्मपत्रायुतं ततः ॥२०


वीरगण्डः पुनः कार्यो हीरं पूर्वक्रमेण च।

तस्योपरिष्टात्पट्टश्च भवेत्पट्टिकया सह ॥२१


वसन्तवेदूर्ध्व ततस्तस्यैवोपरि पट्टिका।

ततः कपोतच्छेदश्च मेढकर एव च ॥२२


पट्टिका मकरोष्या च भेदकण्ठोऽथ पट्टिका।

वेदीच्छेदश्च कण्ठश्च पट्टिका पद्मपट्टिका ॥२३


कूटं तदूर्ध्वं कुर्वीत विचित्रं नासिकान्वितम्।

छेदान्तं पूर्वमानेन सर्वमेतद्विधीयते ॥२४


तस्योपरि पुनर्जङ्घा सर्वाभरणभूषिता।

ततो मालाथ लशुनं तोरणं कलशस्ततः ॥२५


वीरगण्डस्तथोच्छालं पत्रकं वीरगण्डकः।

हीरकं पट्टिका तद्वद्वसन्तपट्टिका पुनः ॥२६


कपोतच्छेदमेढाश्च मकरोऽस्य च पट्टिका।

छेदः करपट्टिका च वेदीच्छेदोऽथ कण्ठकः ॥२७


पट्टिका पद्मपूर्वा च कर्तव्या पट्टिका ---।

ततश्छेदो विधातव्यः सर्वैराभरणैर्युतः ॥२८


ततश्छित्त्वा तथा कार्यं यथा शोभा प्रजायते।

पुनः कण्ठ्यं प्रदातव्यः पट्टिका पद्मपट्टिका ॥२९


ततः कण्ठं विधातव्यं चन्द्र मालाविभूषितम्।

प्रकुर्वीत ततश्छेदमुपरिष्टाद्विचक्षणः ॥३०


कण्ठपट्टिकया युक्तं तदूर्ध्वं कण्ठपट्टिकाम्।

सप्ताङ्गुलानि कर्तव्यस्ततो घण्टाविनिर्गमः ॥३१


भागार्धं विस्तृतिस्तस्या विस्तारार्धं समुच्छ्रितिः।

एवं द्विभूमिकं प्राज्ञः प्रासादं परिकल्पयेत् ॥३२


द्विभूमिकः ।।

त्रिभूमिकस्तृतीयोऽथ प्रासादोऽस्माभिरुच्यते।

तस्यैकादश विस्तारो हस्ताः पञ्चदशोच्छ्रयः ॥३३


चतुर्दशाङ्गुलान्येषां भवेदस्याधिकानि च।

---भूमिकस्यैतत्कर्णमानमसंशयम् ॥३४


पीठं द्विहस्तं कुर्वीत तत्रादौ पूर्वसूचितम्।

जङ्घां त्रिभागिकोत्सेधां कूटोच्छ्रायं तु भागिकम् ॥३५


भवेज्जङ्घा तृतीया च सार्धभागद्वयं ततः।

भागं च कूटप्रसरश्च न्द्र शालाविभूषितः ॥३६


पुनस्तृतीया जङ्घा स्याद्भागद्वयसमुच्छ्रिता।

ततश्चाकूटप्रस्तारो भागिको भूषणान्वितः ॥३७


भागं स्याद्वेदिबन्धः --- सगुणद्वारकण्ठकः।

चतुर्दशमसौ कार्यो भूषायुक्तो यथोचितम् ॥३८


घण्टाच्छेदस्तु भागौ द्वौ द्व्यङ्गुलद्वयसंयुतौ।

एकादशस्तरा कुरुस्तस्योपरि विधीयते ॥३९


इदानीं प्रविभागोऽस्य पीठादूर्ध्वं विधीयते।

हस्तमेकं भवेज्जङ्घाद्यंयपि च तया समा ॥४०


माला तु द्विस्तरा प्रोक्ता लशुनं भागिकं ततः।

भरणं स्तरमेकं स्यात्कलशोऽपि च तत्समः ॥४१


वीरगण्डसमायुक्तमुच्छालं द्विस्तरं ततः।

ततस्तरं वीरगण्डो --- ॥४२


हीरकं द्विस्तरं विद्यात्सस्तरं वासन्तपट्टिका।

कपोतं नासिकायुक्तं त्रिस्तरं कारयेत्ततः ॥४३


छेदं प्रस्तप्रमाणं च मेढं च तत्सम्मितम्।

स्तरं कुर्वीत मकरं तदर्धेनास्य पट्टिका ॥४४


छेदं तथैव कुर्वीत कण्ठमेकस्तरं ततः।

पट्तिका वेदिका चैव स्तरमेकं विधीयते ॥४५


छेदमर्धस्तरं विद्यात्कण्ठं सार्धस्तरं ततः।

पट्टिका स्यात्स्तरं पद्मं स्तरमेकं ततो भवेत् ॥४६


शेषे च सुन्दरं कण्ठं विधातव्यं विचक्षणैः।

अनन्तरं द्वितीया च जङ्घा कार्या नवस्तरा ॥४७


मध्ये च सा प्रकर्तव्या तदूर्ध्वं तां विभाजयेत्।

ततस्तरं भवेच्छाला स्तरार्धं लशुनं ततः ॥४८


तथैव भरणं ज्ञेयं पूर्वनिर्दिष्टलक्षणम्।

वीरगण्डेन सहितः कलशोऽपि तथा भवेत् ॥४९


पद्मपत्रकया युक्तं स्तरमुच्छालकं विदुः।

वीरगण्डं स्तरं विद्यादर्धभागं च हीरकम् ॥५०


पट्टं तथैव कुर्वीत स्तरस्यार्धेन पट्टिका।

वसन्तः स्तरमेकं स्याद् स्तरं वासन्तपट्टिका ॥५१


कपोतं त्रिस्तरं कुर्यान्नासिकासहितं बुधः।

छेदमर्धस्तरं विद्यान्मेढं तत्तुल्यमेव च ॥५२


मकरं स्तरमेकं च भागार्धं पट्टिका ततः।

भागमेकं भवेच्छेदः स्तरं कण्ठस्तदूर्ध्वतः ॥५३


पट्टिका वेदिका चैव स्तरमेकं विधीयते।

छेदं भागार्धिकं कुर्यात्कण्ठकं सार्धभागिकम् ॥५४


भागेन पट्टिकां कुर्यात्तथा कमलपत्रिकाम्।

कूटं ततः परं कुर्यान्नासिका च विभूषितम् ॥५५


तृतीयजङ्घामद्वा स्याच्चतुर्भिः कल्पिता स्तरैः।

स्तरमेकं भवेन्माला स्तरं च लशुनं विदुः ॥५६


भरणं स्तरमेकं च कुम्भमेकस्तरं तथा।

वीरगण्डसमोपेतमुच्छालं स्यात्तदूर्ध्वतः ॥५७


स्तरमेकं प्रकुर्वीत वीरगण्डसमुच्छ्रितम्।

ततश्च हीरकं कुर्याद्भागेनैकेन बुद्धिमान् ॥५८


सार्धभागेन पट्टिः स्यात्पट्टिकार्धं स्तरं तथा।

स्तरमेकं वसन्तं स्यात्स्तरं वासन्तपट्टिका ॥५९


कपोतो द्विस्तरश्छेदोऽर्धस्तरो मेण्ढकः स्तरः।

भागिको मकरः कार्यः पट्टिका चार्धभागिका ॥६०


भेदोऽर्धभागिको भागमेकं कण्ठः प्रकीर्तितः।

पट्टिकोवेदिकास्त्रयोऽप्यर्धस्तरं पृथक् ॥६१


कण्ठश्चार्धस्तरः कार्यः पीठिका चार्धभागिका।

अर्धभागेन कर्तव्या तदूर्ध्वं पद्मपत्रिका ॥६२


विचित्रलक्षणोपेतं ततः कूटं विधीयते।

स्तरमेकं भवेच्छेदः स्यात्कण्ठोऽप्येवमेव हि ॥६३


पट्टिका स्तरमेकं स्यात्ततो वेदी स्तरद्वयम्।

छेदः स्तरं भवेद्भूयः कण्ठः स्याद्द्विस्तरं ततः ॥६४


कर्तव्ये स्तरमेकैकं पट्टिका पद्मपत्रिका।

घण्टा ततःपरं कार्या मानतो विंशतिस्तरा ॥६५


एकादशस्तरः कुम्भः सर्वेषां सर्वतो भवेत्।

त्रिभूमिकोऽयमाख्यातश्चतुर्भूमिरथोच्यते ॥६६


त्रिभूमिकः ।।

हस्तान्पञ्चदश क्षेत्रं विस्तारात्तु प्रकल्पयेत्।

उच्छ्रायेण तु हस्तानां स्यात्पादैकविंशतिः ॥६७


द्विहस्तं कारयेत्पीठं जङ्घां हस्तत्रयोच्छ्रिताम्।

सार्धहस्तं भवेत्कूटं सर्वालङ्कारभूषितम् ॥६८


द्वितीयजङ्घा कर्तव्या पादहीनं करत्रयम्।

सपादहस्तं कुर्वीत कूटमन्यत्तदूर्ध्वतः ॥६९


तृतीयजङ्घा कर्तव्या सार्धं हस्तद्वयं ततः।

ततश्च कूटप्रस्तारो हस्तमेकं विधीयते ॥७०


जङ्घा चतुर्थी कर्तव्या सार्धहस्तद्वयं ततः।

ततश्च कूटप्रस्तारो हस्तमेकं विधीयते ॥७१


जङ्घा चतुर्थी कर्तव्या सपादद्विकरोच्छ्रिता।

हस्तं च कूटप्रस्तारो वेदीबन्धस्तथाविधः ॥७२


गर्भार्धविस्तृता घण्टा कार्या हस्तत्रयोच्छ्रिता।

चतुर्दशस्तरः कुम्भः सर्वेषामुपरि स्थितः ॥७३


सूचिकाहस्तसङ्ख्यैषा विभागः कथ्यतेऽधुना।

पीठं हस्तद्वयोत्सेधं जङ्घालङ्कृतिरुच्यते ॥७४


दशभागो भवेदेकमुच्छालं द्विस्तरं ततः।

वीरगण्डं स्तरं विद्याद्द्विस्तरं हीरकं भवेत् ॥७५


पट्टस्तथैव विज्ञेयोत्सेधकी पट्टिका ततः।

वसन्तं द्विस्तरं --- वासन्तपट्टिवा ॥७६


कपोतस्त्रिस्तरः कार्यो भागं छेदो विधीयते।

मेढं स्तरं प्रकुर्वीत स्तरं कण्ठस्य पट्टिका ॥७७


कुर्वीत भागिकीं देवा ततच्छेदे च भागिकम्।

पुनः कण्ठं प्रकुर्वीत द्विस्तरं पट्टिकां ततः ॥७८


स्यात्पद्मपत्रिकाप्येवं घण्टा पञ्चस्तरा ततः।

वोचोत्रं लक्षणोपेतं ततः कुम्भं निवेशयेत् ॥७९


जङ्घास्तम्भं द्वितीया विदध्यादष्टभागिकम्।

मालां --- द्विस्तरं कुर्याद्भागिकं लशुनं ततः ॥८०


भरणं स्तरमेकं च कलशं तत्प्रमाणतः।

वीरगण्डेन संयुक्तं तावांश्चोच्छालकं भवेत् ॥८१


द्विस्तरं तत्तु विज्ञेयं वीरगण्डः स्तरं भवेत्।

हीरकं द्विस्तरं विद्यात्पद्मं चैव तथाविधम् ॥८२


पट्टिका स्तरमेकं स्याद्वसन्तं द्विस्तरं ततः।

वसन्तपट्टिकां भागं कपोतं त्रिस्तरोच्छ्रितम् ॥८३


कुर्वीत भागिकं भेदं स्तरमेकं च मेढकम्।

मकरं स्तरमेकं च तथा मकरपट्टिकाम् ॥८४


भेदः स्तरं भवेत्कण्ठः स्तरं भागं च पट्टिका।

वेदिका स्तरमेकं च च्छेदमर्धेन कारयेत् ॥८५


कण्ठं सार्धस्तरं कुर्यात्स्तरमेकं च पट्टिकाम्।

आभाजपत्रिकां भागं कुर्याद्घण्टां चतुःस्तराम् ॥८६


प्राग्ग्रीवभूषिता सा स्यात्कुम्भं कुर्यात्तदूर्ध्वतः।

जङ्घास्तम्भस्तृतीयायां सप्तांशश्चतुर --- कः ॥८७


ततो मालाथ लशुनं भरणं कुम्भकाण्डकौ।

उच्छालं गण्डको हीरं प्रत्येकं स्युः स्तरं स्तरम् ॥८८


पद्मं सार्धस्तरं विद्याद्भागेऽर्धे पट्टिकां तथा।

भागमेकं वसन्तः स्याद्भागं वासन्तपट्टिका ॥८९


कपोतं त्रिस्तरं कुर्याच्छेदमेकस्तरं ततः।

ततश्च मेढकं मरं विदधीत स्तरं स्तरम् ॥९०


तत्पट्टिका तु भागार्धं भेदं भागार्धमेव च।

कण्ठो वेदि पट्टिका च त्रीण्येतानि स्तरं स्तरम् ॥९१


स्तरस्यार्धं भवेच्छेदः कण्ठः सार्धस्तरं ततः।

भागार्धं पट्टिका कार्या तावती पद्मपत्रिका ॥९२


चतुर्भागा भवेद्घण्टा गुणद्वारसमन्विता।

द्विस्तरं कारयेत्कुम्भं घण्टायाः स्थितमूर्ध्वतः ॥९३


एवं भूमिस्तृतीयैषा चतुर्थी कथ्यतेऽधुना।

कर्तव्या पट्टरा जङ्घा महास्तम्भसमन्विता ॥९४


मालाथ लशुनं तद्वद्भरणं कुम्भ एव च।

उच्छालं गण्डकं हीरमिति प्रा---पृथक् पृथक् ॥९५


सार्धभागं भवेत्पाडः पट्टिकार्धस्तरं ततः।

वसन्तं स्तरमेकं स्यात्तत्संज्ञः पट्टिका स्तरम् ॥९६


कपोतं द्विस्तरं विद्याच्छेदं चार्धस्तरं ततः।

मेढं तथैव कुर्वीत मकरं च स्तरं बुधः ॥९७


पट्टिकां मकराख्यां च च्छेदमेकस्तरं विदुः।

स्तरमेकं भवेत्कण्ठः स्तरस्यार्धं च पट्टिका ॥९८


तथैव वेदिकां कुर्याच्छेदमर्धस्तरं पुनः।

साधभागं प्रकुर्वीत कण्ठदेशं विचक्षणः ॥९९


पट्टिका मद्यसंज्ञा तु स्तरमेकं विधीयते।

घण्टा स्तरद्वयं कार्या गुणद्वारविभूषिता ॥१००


कुम्भं विदध्यादुपरि द्विस्तरं पङ्कजाननम्।

भागमेकं भवेच्छेदस्ततः कण्ठः स्तरद्वयम् ॥१०१


पट्टिका स्तरमेकं तु वेदिका तु स्तरावुभौ।

पुनश्छेदो भवेद्भागं --- कण्ठो विधीयते ॥१०२


पट्टिका स्तरमेकं तु तद्वदम्भोजपत्रिका।

स्तराणां विंशतिर्घण्टा भवेद्गर्भार्धविस्तृता ॥१०३


चन्द्र शालाश्च कर्तव्या दर्शनीयाश्चतुर्दिशम्।

एवं पद्मे महापद्मे स्वस्तिके वर्धमानके ॥१०४


तथैव सर्वतोभद्रे कुर्याद्घण्टामिमां वुधः।

कुम्भं तु पञ्चदशभिः स्तरैः कुर्यात्समुन्नतम् ॥१०५


स्याच्चतुर्भूमिको ह्येवं तलच्छन्दस्तु कामतः।

चतुर्भूमिकः ।।

पञ्चभौममथ ब्रूमः प्रासादं राजपूजितम् ॥१०६


विस्तारेण विधातव्यः स हस्तानेकविंशतिम्।

विभाजयेत्तथोत्सेधं पादोनत्रिशतं करान् ॥१०७


पीठं भागद्वयं सार्धं जङ्घा साराम्रा त्रिभागिकी।

कुर्वीत कूटप्रस्तारं सार्धहस्तं च बुद्धिमान् ॥१०८


जङ्घा द्वितीया कर्तव्या हस्तत्रितयमुच्छ्रिता।

भूयोऽपि कूटप्रस्तारं सार्धहस्तं प्रकल्पयेत् ॥१०९


जङ्घा तृतीया कर्तव्या पादहीनं करत्रयम्।

सार्धहस्तसमुत्सेधः कूटप्रस्तार इष्यते ॥११०


चतुर्थभूमिजङ्घा च सार्धहस्तद्वयोच्छ्रिता।

कूटप्रस्तारकं कुर्यात्पूर्वमानेन बुद्धिमान् ॥१११


पञ्चम्यां भुवि कुर्वीत जङ्घा सा हि करद्वयम्।

कुर्वीत कूटप्रस्तारं तथा प्रागागुदितो यथा ॥११२


कुर्याद्धस्तद्वयोत्सेधं कपोतमपि बुद्धिमान्।

चतुर्भागसमुत्सेधा महाघण्टा विधीयते ॥११३


उपरिष्टाद्भवेत्तत्र प्रासादे पञ्चभूमिके।

कुम्भं तदूर्ध्वं कुर्वीत स्तरानेकोनविंशतिम् ॥११४


संस्थानमेतत्कर्तव्यं सर्वतोभद्र संज्ञकौ।

विभाजयेद्विशेषेण ततः स्तरविभाजनात् ॥११५


श्री बन्धपीठं कर्तव्यं सार्धहस्तद्वयोच्छ्रितम्।

चतुर्दशस्तरं जङ्घा कर्तव्या स्तम्भसंयुता ॥११६


कर्तव्या द्विस्तरा माला लशुनं स्तरसम्मितम्।

विदधीत स्तरं पद्मुभगण्डसमन्वितम् ॥११७


उच्छालं द्विस्तरं कुर्यादिडो भागं विधीयते।

द्विस्तरं हीरकं कार्यं पट्टाश्चैव तथाविधाः ॥११८


पट्टिका स्तरमेकं च वसन्तं द्विस्तरं ततः।

वसन्तपट्टिका भागं कपोतं त्रिस्तरं ततः ॥११९


छेदमेकस्तरं कुर्यात्स्तरमात्रं च मेठकम्।

मकरं भागमेकं च भागं चरालपट्टिकाम् ॥१२०


कुर्वीत भागिकं छेदं ततः कण्ठं च भागिकम्।

कण्ठं छेदं ततः कण्ठं च --- भागिकम् ॥१२१


वाख्यापट्टिकां भागं वेदीं विचक्षणः।

कुर्वीत भागिकं छेदं ततः कण्ठं स्तरद्वयम् ॥१२२


स्तरं स्तरं प्रकुर्वीत पट्टिका पद्मपट्टिका।

कूटप्रस्तारके कुर्यान्मकराननपञ्चकम् ॥१२३


विचित्ररूपं सर्वासु दिक्षु सर्वगुणान्वितम्।

ऊर्ध्वतः पट्टिकायास्तु घण्टा पञ्चस्तरा भवेत् ॥१२४


नासिकाभिर्विचित्राभिरत्युदाराभिरन्विता।

भद्रा णि यस्य दृश्यन्ते कूटे कूटे समन्ततः ॥१२५


स सर्वतोभद्र इति प्रासादः शिल्पिनां मतः।

अवलम्बेन तदनु स्तम्भच्छेदं प्रकल्पयेत् ॥१२६


स्तम्भत --- त्रेण समानं भुवि सूत्रयेत्।

मेढस्य निर्गमे दद्यादङ्गुलद्वितयं बुधः ॥१२७


पञ्चाङ्गुलानि कर्तव्यस्ततो मकरनिर्गमः।

सूत्रयेत् समसूत्रेण ततो मेढकस्य पट्टिका ॥१२८


षडङ्गुलप्रवेशस्तु कार्यश्छेदस्य धीमता।

यथा प्रवेश --- छेदस्यापि तथा भवेत् ॥१२९


अङ्गुलद्वितयं कार्यः पट्टिकाया विनिर्गमः।

विनिर्गमो वेदिकाया विधातव्यः षडङ्गुलः ॥१३०


अङ्गुलद्वयनिष्क्रान्ता विधेया कण्ठपट्टिका।

पद्माख्यानिर्गमं कुर्यादङ्गुलत्रितयं ततः ॥१३१


अङ्गुलानि ततः पञ्च योनि --- निर्गमो भवेत्।

घण्टा त्विह विधातव्या सर्वालङ्कारभूषिता ॥१३२


भेदस्ततः स्याद्भवति भूमिका तस्य चोपरि।

द्वितीयाभूमिकाजङ्घा सद्यः स्यादष्टाभिः स्तरैः ॥१३३


मालाद्यैर्लशुनं चैकं भरणं कलशस्तथा।

यथा माला तथोच्छालं वीरगण्डं स्तरं भवेत् ॥१३४


उच्छालहीरके पट्टसमे कुर्याद्विचक्षणः।

पट्टिका भागिकोत्सेधा वासन्तं --- का तथा ॥१३५


कपोतं त्रिस्तरोत्सेधं छेदो सत्र्यंशवर्जितम्।

छेदस्यार्धे भवेन्मेढो मकरः पट्टिका तथा ॥१३६


ततश्छेदं च कण्ठं च --- पट्टिकां तथा।

मालार्धेन प्रकुर्वीत च्छेदमेव ततो बुधः ॥१३७


पुनः कण्ठं प्रकुर्वीत हीरकेण समन्वितम्।

पट्टिका पद्मपूर्वा च त्रिभागेन कपोतके ॥१३८


कुर्याच्चतुःस्तरां घण्टां द्वाभ्यां कुम्भं तथोपरि।

पुनश्छेदो भवेद्भागं जङ्घां कुर्वीत सप्तभिः ॥१३९


सीतमाठा विधातव्या मालोच्चो द्विस्तरो भवेत्।

लशुनं भरणं कुम्भो गण्डश्चेति स्तरं स्तरम् ॥१४०


गण्डद्विगुणमुच्छालं हीरपट्टस्तथैव च।

पट्टिका स्तरमेकं स्याद्वसन्तपट्टिकास्य च ॥१४१


पीठं दशगुणं कुर्याच्छेदमेण्ठौ स्तरं स्तरम्।

स्तरं कुर्वीत राकर तथा मकरपट्टिकाम् ॥१४२


स्तरं छेदं च कण्ठं च पट्टिकां वेदिकां तथा।

छेदं कुर्यात्पुनर्भागं कण्ठं तद्द्विगुणं ततः ॥१४३


पट्टिका स्तरमेकं स्याद्वसन्तपट्टिका स्तरम्।

चतुःस्तरा भवेद्घण्टा प्राग्ग्राचकभूषिता ॥१४४


तस्योपरि पुनः कुम्भं घण्टार्धेनैव कारयेत्।

छेदं भागं विजानीयाज्जङ्घा सप्तांशिका स्मृता ॥१४५


माला द्विभागिका कार्या भागिकं लशुनं भवेत्।

भरणं कुम्भकं गण्डं कुर्याल्लशुनवद्बुधः ॥१४६


उच्छालं गण्डकं चैव हीरकान्तं च भागिकम्।

सार्धं भागं भवेत्---पट्टिकार्धं स्तरं भवेत् ॥१४७


---तं भागमेकं स्याद्वसन्ताख्या च पट्टिका।

कपोतं त्रिस्तरं कुर्यान्नासायुक्तं विचक्षणः ॥१४८


छेदमंशेन कुर्वीत मण्डमंशेन कारयेत्।

मकरे पट्टिकां छेदं विदधीत स्तरं स्तरम् ॥१४९


कुर्वीत भागिकं कण्ठं पट्टिकां वेदिकामपि।

भागं कुर्यात्पुनश्छेदं ततः कण्ठं द्विभागिकम् ॥१५०


पट्टिका पद्मपूर्वा च विधातव्या स्तरं स्तरम्।

कुर्वीत घण्टामुपरि चतुर्भागां विचक्षणः ॥१५१


तदर्धमूर्ध्वतः कुम्भं छेदमर्धेन तस्य च।

जङ्घा षड्भागिका कार्या मात्ता गेन सुन कारयेन ॥१५२


लशुनं भरणं कुम्भं गण्डमुच्छालवाडके।

हीरकं चेति कुर्वीत भागिकानि पृथक्पृथक् ॥१५३


सार्धभागं भवेत्पट्टः पट्टिकार्धस्तरोच्छ्रिता।

वसन्तं भागमेकं स्याद्वसन्ताख्या च पट्टिका ॥१५४


कपोतं त्रिस्तरं कुर्याच्छेदं त्र्यंशोनशंसकाम्।

मण्डको मकरश्चैव पट्टिका छेदकण्ठकौ ॥१५५


कण्ठं पट्टी च वेदी च च्छेदश्च स्यात्स्तरं स्तरम्।

द्वितीयो द्विस्तरः कण्ठो भागिकी पट्टिका भवेत् ॥१५६


तथैव पद्मंज्ञा च स्यादुच्छ्रायेण पट्टिका।

घण्टां कुर्याच्चतुर्भागां कुम्भमर्धेन तस्य च ॥१५७


छेदमेकेन भागेन जङ्घाम --- र्धभागिकीम्।

मालामेकेन भागेन लशुनं सार्धभागिकम् ॥१५८


तथैव भरणं कुर्यात्कुम्भोच्छाले स्तरं स्तरम्।

हीरकं भागिकं कुर्यात्पट्टं सार्धस्तरं ततः ॥१५९


पट्टिकार्धस्तरं कार्या वसन्तं च स्तरं ततः।

कपोतं द्विस्तरं कुर्याद्वेदीमर्धस्तरं तथा ॥१६०


यथा छेदस्तथा मण्डो मकरश्च विधीयते।

पट्टिकार्धस्तरं कार्या छेदोऽप्यर्धस्तरं भवेत् ॥१६१


भागं कण्ठः पट्टिका च वेदी कार्या द्विभागिकी।

छेदो भागेन कर्तव्यः कण्ठश्चान्यस्त्रिभागिकः ॥१६२


पट्टिकां पद्मपत्रीं च विदधीत स्तरं स्तरम्।

तुङ्गस्य चलनं कार्यं द्विभागिकमनन्तरम् ॥१६३


घण्टा कार्या समुत्सेधात् त्रयस्त्रिंशद्विभागिकी।

सर्वतोभद्र संयुक्ता चन्द्र शालाविभूषिता ॥१६४


कुर्वीत त्रिस्तरं पद्मं चित्रपत्रसमन्वितम्।

तस्योपरि भवेत्कुम्भश्चतुर्दशविभागिकः ॥१६५


ग्रीवा द्विभागिका कार्या कर्णश्चैव तथाविधः।

बीजपूरं ततः कार्यां साभासंयुक्तमर्धतः ॥१६६


पद्मचक्रं त्रिशूलं वा विधातव्यं यथोचितम्।

प्रोत्तुङ्गग्राससंयुक्तं --- मकरमेढकैः ॥१६७


सोत्तुङ्गकूटाके कुर्यादेवं दिक्षु विदिक्षु च।

भूमौ भूमौ विधातव्या शाला साध्यलतोरणम् ॥१६८


कोणे कोणे च --- करा भद्रे करिक्यकरानपि।

--- कूटैस्त्रिभिर्युक्तं चतुर्भिश्च जलान्तरैः ॥१६९


कुर्वीत सर्वतोभद्र मेवंलक्षणलक्षितम्।

एवं पद्मो महापद्मः स्वस्तिको वर्धमानकः ॥१७०


सर्वतोभद्र इत्येते समारभ्यैकभूमिकान्।

पञ्चभूमिकपर्यन्तं कार्याः साधारणक्रियाः ॥१७१


एतैर्विंशतिभागैश्च प्रासादाः पूर्वसूचिताः।

पीठादारभ्य घण्टान्तं पञ्चैते लक्षणान्विताः ॥१७२


षड्भूमिकादिको ब्रूमो यावद्द्वादशभूमिकम्।

पञ्चभूमिकः ।।

अथ षड्भौममेकान्तं त्रिंशद्धस्तं प्रचक्ष्महे ॥१७३


चत्वारिंशत्कराः सैकास्तस्योच्छ्रायो विधीयते।

पीठं प्रकल्पयेत् तस्य सार्धहस्तद्वयोच्छ्रितम् ॥१७४


जङ्घा समुच्छ्रये कार्या सार्धहस्तचतुष्टयम्।

कूटप्रस्तारमस्याहुः सोर्धहस्तोच्छ्रितं बुधाः ॥१७५


जङ्घा द्वितीया तु भवेत्तस्य हस्तचतुष्टयम्।

द्वितीयकूटस्योत्सेधं सार्धहस्तं प्रकल्पयेत् ॥१७६


घण्टा तृतीया चतुरो हस्तास्तार्धाद्विवर्जिता।

तृतीयकूटप्रस्तारं कुर्याद्भूयोऽपि पूर्ववत् ॥१७७


जङ्घा भवेच्चतुर्थी स सार्धां त्रे करत्रयम्।

पूर्वमानेन कुर्वीत कूटप्रस्तारमूर्ध्वतः ॥१७८


हस्तत्रयं विधातव्या जङ्घोच्छ्रायेण पञ्चमी।

कूटप्रस्तारकं कुर्यात्सार्धहस्तोच्छ्रितं ततः ॥१७९


षष्ठीहस्तत्रयं जङ्घा पादहीनं विधीयते।

प्राग्वत्प्रस्तारकूटं तु कपोतं त्रिकरोच्छ्रितम् ॥१८०


तस्योपरि भवेद्घण्टा हस्तपञ्चकमुच्छ्रिता।

कर्तव्यं पद्ममुपरि सुविचित्रं षडङ्गुलम् ॥१८१


कुर्याद्भागैकविंशत्या कुम्भमाद्भरणैतम्।

षड्भूमिकोऽयमाख्यातः कथ्यते सप्तभूमिकः ॥१८२


षड्भूमिकः ।।

पञ्चत्रिंशत्करः प्रोक्तो विस्तारात्सप्तभूमिकः।

सार्धात्तेकान्नपञ्चाशत्कर्ण नित्योर्च्छ्रिता करात् ॥१८३


त्रिहस्तं पीठमुत्सेधाज्जङ्घा पञ्चकरोच्छ्रिता।

सार्धहस्तोच्छ्रितः कूटप्रस्तारोऽस्य विधीयते ॥१८४


द्विहस्तो वेदिकाबन्धो जङ्घोच्छ्रायश्चतुष्करः।

सार्धहस्तसमुत्सेधः कूटविप्रस्तार इष्यते ॥१८५


साधहस्तोच्छ्रिता वेदी जङ्घा सार्धकरत्रयम्।

सार्धहस्तोच्छ्रितः कूट प्रस्तारः परिकीर्तितः ॥१८६


सपादहस्ता वेदी स्याज्जङ्घा त्र्यंशं करत्रयम्।

सार्धहस्तस्तु कूटस्य प्रस्तारः स्यात्समुच्छ्रयात् ॥१८७


हस्तं स्याद्वेदिकाबन्धो जङ्घांशो हि करद्वयम्।

सपादहस्तः कूटस्य प्रस्तारो वेदिका करम् ॥१८८


पादोनद्विकरा जङ्घा कूटं पादयुतः करः।

हस्तमात्रोच्छ्रिता वेदी जङ्घा सार्धकरोच्छ्रिता ॥१८९


कूटप्रस्तारको हस्तं कपोतः स्यात्करत्रयम्।

सपद्मशीर्षघण्टा तु सार्धं स्याद्धस्तपञ्चकम् ॥१९०


एवमेष समुद्दिष्टः प्रासादः सप्तभूमिकः।

सप्तभूमिकः ।।

अथाष्टभूमिकं ब्रूमः प्रासादं शुभलक्षणम् ॥१९१


चत्वारिंशत्करांस्तस्य विस्तारं परिकल्पयेत्।

उच्छ्रायः सप्तपञ्चाशत्कराः स्युस्त्रिंशवर्जिताः ॥१९२


नवहस्तान् प्रकुर्वीत सार्धान्प्रथमभूमिकाम्।

द्वितीयाष्टौ सपादोर्धास्तृतीयाष्टौ करान् भवेत् ॥१९३


चतुर्थी सप्तहस्ता तु षट्करा पञ्चमी भवेत्।

पञ्चहस्ता ततः षष्ठी चतुर्हस्ता तु सप्तमी ॥१९४


ततोऽष्टमी त्रिहस्ता स्याद्वेदीबन्धः करद्वयम्।

घण्टां चतुष्करां कुर्यादेवं स्यादष्टाभूमिकः ॥१९५


अष्टभूमिकः ।।

अथोच्यते हस्तमानात्प्रासादो नवभूमिकः।

विस्तारादेकपञ्चाशदुच्छ्रित्या स्याद्द्विसप्ततिः ॥१९६


कर्णप्रमाणं तस्योक्ता विस्तारोऽस्य चनुच्छ्रितिः।

पञ्चहस्ता भवेद्घण्टा वेदिबन्धस्तदर्धतः ॥१९७


कुर्याद्धस्तत्रयं सार्धं नवमीमस्य भूमिकाम्।

अष्टमीं चतुरः सार्धान् सपादान् पञ्च सप्तमीम् ॥१९८


षष्ठीं षट् पादहीनांश्च सपादोनाम पञ्चमीम्।

अष्टौ चतुर्थी पादोनान् हस्तात्राच तृतीयकाम् ॥१९९


विलोमेनैककथितः प्रासादो नवभूमिकः।

नवभूमिकः ।।

इदानीमभिधास्यामः प्रासादं दशभूमिकम् ॥२००


एकोनाशीतिरुत्सेधः सपादा विस्तृतिः पुनः।

षट्पश्चाशत्कराः कर्णमानाद्ब्रूमोऽथ भागशः ॥२०१


एकादशकरोत्सेधा काया प्रथमभूमिका।

सार्धान् दश द्वितीया स्यात्तृतीया तु करान् दश ॥२०२


सार्धानष्टौ चतुर्थी तु सप्तसार्धस्व पञ्चमी।

षष्ठी सप्तकरा प्रोक्ता सप्तमी षट्करा भवेत् ॥२०३


पञ्चहस्ताष्टामी ज्ञेया नवमी तु चतुष्करा।

त्रिहस्ता दशमी कार्या वेदी सांशं करद्वयम् ॥२०४


--- प्रमाणेन सार्धं करचतुष्टयम्।

एवमेष समुद्दिष्टो विन्यासो दशभूमिके ॥२०५


दशभूमिकः प्रासादः ।।

ब्रूमः समासादभीथैकादशभूमिकम्।

पञ्चषष्टिकरः कार्यो द्विनवत्युच्छ्रितश्च सः ॥२०६


कर्णमानेन विज्ञेयः प्रासादः शास्त्रवेदिभिः।

प्रथमा भूमिका तस्य चतुर्दशकरा भवेत् ॥२०७


द्वितीया द्वादशार्धं च तृतीयैकाडशोच्छ्रिता।

नव सार्धांश्चतुर्थी स्यात्सपादानष्ट पञ्चमी ॥२०८


सप्तहस्ता भवेत्षष्ठी षड्ढस्ता सप्तमी ततः।

पञ्चहस्ताष्टमी सार्धांश्चतुरो नवमी करान् ॥२०९


चतुर्हस्ता तु दशमी सार्धमेकादशी त्रयम्।

सपादद्विकरा वेदी घण्टा सार्धचतुष्करा ॥२१०


प्रासादः कथितः सम्यगित्येकादशभूमिकः।

एकादशभूमिकः ।।

ब्रूमो द्वादशभौमं स सप्तषष्टिकरायतः ॥२११


उच्छ्रायात्पञ्चनवतिहस्तः स्यात्कर्णमानतः।

आद्या चतुर्दशकरा भूमिकास्य विधीयते ॥२१२



द्वितीयैकादशकरान् तृतीयार्धयुतान् दश।

दश हस्तांश्चतुर्थी स्यादष्टौ सार्धांस्तु पञ्चमी ॥२१३


सार्धसप्तकरा षष्ठी सप्तहस्ता च सप्तमी।

अष्टमी षट्करा पञ्चहस्ता तु नवमी भवेत् ॥२१४


दशमी स्याच्चतुर्हस्ता त्रिहस्तैकादशी क्षितिः।

द्वादशी द्वौ करौ सार्धौ वेदीबन्धः करद्वयम् ॥२१५


चतुर्हस्ता भवेद्घण्टा सर्वालङ्कारभूषिता।

स्तम्भकर्णस्य मानेन कुम्भं कुर्याद्विचक्षणः ॥२१६


उच्छालं द्विगुणं स्तम्भात् हीरसार्धसङ्गुणाम्।

इत्येते द्रा विडाः सम्यक्प्रासादा द्वादशोदिताः ॥२१७


एषां पद्ममहापद्मस्वस्तिका वर्धमानकः।

सर्वतोभद्र लतास्तलबन्धान्निवेशयेत् ॥२१८


आरभ्यन्तामरेकस्या च द्वादशभूमिकात्।

ऊर्ध्वमानं च कर्तव्यं सामान्यं तेषु पञ्चसु ॥२१९


द्वादशभूमिकः ।।

पीठमूलच्छन्दकभूमिकाभि-

र्विनिर्मिता द्रा विडनामधेयाः ।।

प्रासादमुख्याः कथिता यथा यथा-

वेत्यं स्वल्पिविभिरुच्यतेऽसौ ॥२२०


इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे द्रा विडप्रासादाध्यायो नाम द्विषष्टितमः।