समराङ्गणसूत्रधार अध्याय ६३

समराङ्गणसूत्रधार अध्यायसूची

अथ मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः।


अधुना नागरान्ब्रूमो प्रासादान्नामलक्षणैः।

मेरुमन्दरकैलासाः कुम्भोऽथ मृगराड्गजः ॥१


विमानच्छन्दसंज्ञश्च चतुरश्रस्तथापरः।

अष्टाश्रिः षोडशाश्रिश्च वर्तुलः सर्वतोदकः ॥२


सिंहास्यो नन्दनो नन्दिवर्धनो हंसको वृषः।

गरुडः पद्मकाख्यश्च समुद्र इति विंशतिः ॥३


नागराणामिति प्रोक्ता प्रासादानां समासतः।

शतमुद्र श्चतुर्द्वारः षोडशक्षितिरूर्ध्वतः ॥४


विचित्रशिखराकीर्णो मेरुः प्रासाद उच्यते।

मन्दरो द्वादशतलः कैलासो नवभूमिकः ॥५


अनेकशिखरश्चित्रश्चतुर्द्वारो महोच्छ्रितिः।

विमानच्छन्दकस्त्वष्टभूमिकः परिकीर्तितः ॥६


विंशत्यण्डकसंयुक्तः सप्तभूर्नन्दिवर्धनः।

षड्भूमिर्नन्दनः कार्यः प्रासादः षोडशाण्डकः ॥७


पञ्चभूः सर्वतोभद्रो भद्र शालाविभूषितः।

अनेकशिखराकीर्णः कर्तव्यः प्रचुराण्डकः ॥८


वलभिच्छन्दकः कार्यो देवतानां वृषः सदा।

वृषस्तु स्वोच्छ्रितेस्तुल्यः सर्वतः स्वस्ति वर्तितः ॥९


मण्डलं स तु विज्ञेय एकाण्डकविभूषितः।

सिंहः सिंहाकृतिर्ज्ञेयो गजो गजसमाकृतिः ॥१०


कुम्भः कुम्भाकृतिस्तद्वद्भूमिकानवकोच्छ्रितः।

अञ्जलीपुटसंस्थानः पञ्चाण्डकविभूषितः ॥११


षोडशाश्रिः समन्ताच्च विज्ञेयः स समुद्र कः।

पार्श्वयोश्चन्द्र शाला च उच्छ्रायात्स द्विभूमिकः ॥१२


तथाष्टाश्रिः पद्मनिभो भूमिकात्रयमुच्छ्रितः।

षोडशाश्रिः स विज्ञेयो विचित्रशिखरः शुभः ॥१३


मृगराजस्तु विख्यातश्चन्द्र शालाविभूषितः।

प्राग्ग्रीवेण विशालेन भूमिकास यदुच्छ्रितः ॥१४


अनेकचन्द्र शालस्तु गजः प्रासाद उच्यते।

पर्यस्तो मृगराजस्तु गरुडो नाम नामतः ॥१५


सप्तभूम्युच्छ्रितस्तद्वच्चन्द्र शालात्रयान्वितः।

अश्रिभिर्विहरं तस्य षड्भिर्युक्तः समन्ततः ॥१६


स्यादन्यो गरुडस्तद्वदुच्छ्राये दशभूमिकः।

पद्मकः षोडशाश्रिः स्याद्भूमिकाद्वितयाधिकः ॥१७


पद्मतुल्यप्राणन वावृक्षश्चतुरश्रकः।

पञ्चाण्डमे एकभूमिस्तु गर्भं हस्तचतुष्टयम् ॥१८


वृषो भवति नात्रायं प्रासादः सर्वकामिकः।

सप्तकापञ्चकाभूमिप्रासादो य इहोदिताः ॥१९


हिंस्यते समा ज्ञेया ये चान्ये तत्प्रमाणकाः।

विचित्रशिखराः कार्याश्चन्द्र शालाविभूषिताः ॥२०


सर्वे प्राग्ग्रीवसंयुक्ताः कर्तव्यास्तोरणान्विताः।

ऐष्टिका दारवा यद्वा शैलजा वाजनाकुलाः ॥२१


स्यात्पञ्चाशत्करान्मेरुसूत्रलिङ्गं नवोदयान्।

गर्भास्तु द्विगुणा लिङ्गाद्भित्तयः स्युश्चतुष्कराः ॥२२


अन्धारिका हस्तषट्कं विधातव्या समन्ततः।

अन्धारिकां च कुर्वीत बाहाभित्तिं विचक्षणः ॥२३


अयं साधारकः प्रोक्तो मेरुः सर्वगुणान्वितः।

प्रासादानां तथान्येषां गर्भो लिङ्गदिशंगुणः ॥२४


प्रासादगर्भमुत्सृष्टं यच्छेषं तेन कल्पयेत्।

सहान्धारिकया सर्वां समभागेन पूर्ववत् ॥२५


मेर्वाद्या ये विमानान्ताः सं--- पूर्वं प्रकीर्तिताः।

शस्तास्ते मृज्य लिङ्गानामन्येषां तु भयावहम् ॥२६


वावृक्षमुख्या ये तूक्ता नन्दिवर्धनपश्चिमाः।

तेऽष्टौ शुभा मध्यमानामन्येषां दुःखदाः स्मृताः ॥२७


हंसादयः समुद्रा न्ताः पञ्च ये समुदाहृताः।

प्रशस्तास्ते समुद्दिष्टा लिङ्गानां विधीयसा ॥२८


मन्दरस्तु करात्कायश्चत्वारिंशत्तु ---।

--- लासो विमानोषरोष्टिताः ॥२९


हस्तद्वात्रिंशता कार्यः प्रासादो नन्दिवर्धनः।

हस्तांस्तु नन्दनस्त्रिंशत्सर्वतोभद्र एव च ॥३०


अष्टाविंशतिमष्टाभिः श्रिः षोडशा श्रि स्त्रिभिर्विना।

वर्तुलः पद्मकः श्वेतो विमानच्छन्द एव च ॥३१


एते द्वादशहस्ताः --- कार्या विंशतिहस्तकौ।

गजः सिंहश्च कुम्भश्च वलभीछन्दकस्तथा ॥३२


चत्वार एते तुल्याः स्युर्हस्तोन्मेडसमानतः।

वावृक्षो मृगराजश्च विमानच्छन्द एव च ॥३३


एते द्वादशहस्ताः स्युः प्रमाणेन पृथक्पृथक्।

दशहस्तो भवेद्वा स गरुडोऽष्टकरः स्मृतः ॥३४


एतैः प्रमाणैः प्रासादान् कुर्यादित्यपरे स्थिताः।

एकहस्ता द्विहस्ताश्च त्रिहस्ता ये च कीर्तिताः ॥३५


यक्षनागग्रहादीनां विधेया रक्षसां च ते।

विधिरेष समुद्दिष्टः प्रासादानां समासतः ॥३६


विशेषेण पुनर्ब्रूमो विमानं शुद्धपुष्पकम्।

चतुरश्रीकृते क्षेत्रे पञ्चात्रिंशद्विभाजिते ॥३७


रथिका पञ्चभागा स्याद्द्विभागं सलिलान्तरम्।

कूट त्रिभागं पञ्जरं कुर्यात्प्राग्ग्रीवकविभूषितम् ॥३८


जलान्तरं द्वितीयं तु तदपि स्याद्द्विभागिकम्।

शालैकादशभागा तु पूर्ववत्सलिलान्तरम् ॥३९


त्रिभागं पञ्जरं कुर्याद् द्विभागं सलिलान्तरम्।

कूटं पञ्चकरं प्रान्ते दिक्षु सर्वास्वयं विधिः ॥४०


नागरोऽयं तलच्छन्दः प्रासादे शुद्धपुष्पके।

जङ्घा सपीठा क्षेत्रार्धविस्तारसदृशोदया ॥४१


सार्धैर्द्वितीया दशभिस्तृतीया नवभिः करैः।

अष्टहस्ता चतुर्थी स्यात्सप्तहस्ता तु पञ्चमी ॥४२


षष्ठी तु भूमिका कार्या प्रमाणेनास्य षट्करा।

सप्तमी पञ्चहस्ता तु चतुर्हस्ता ततोऽष्टमी ॥४३


त्रिहस्तं वेदिकाबन्धं विचित्रं कारयेद्बुधः।

विस्ताराद् द्विगुणोच्छ्रायः स्कन्धोऽयं वेदिकाबन्ध ॥४४


स्कन्धादूर्ध्वं भवेद्घण्टा यदि वामलसारकम्।

तद् वर्तुलं शुभं कार्यं घण्टा स्कन्धार्धमुच्छ्रिता ॥४५


घण्टाविस्तारतः कुम्भं चतुर्थांशेन कारयेत्।

प्रमाणं समुदायेन भूमिकानामुदाहृता ॥४६


एकैकस्या विशेषेण प्रविविच्याधुनोच्यते।

प्रमाणेन विधातव्या खकारा भूमिरङ्गिका ॥४७


यं हस्तं तु खुरकं द्विभागा पद्मपत्रिका।

भागिका कणकयायस्त्र्यंशं कुमुदं छेद एव च ॥४८


त्र्यंशस्तद्द्विगुणः कण्ठः किङ्किणीपल्लवान्वितः।

तस्यार्धं पट्टिका कार्या तत्समा गिरिपत्रिका ॥४९


भात्र्यंशावरण्डीतमध्ये पच्छीतलार्धभागिकी।

पूर्वप्रोक्तेन कण्ठेन समसूत्रा च सा भवेत् ॥५०


छेदं तदूर्ध्वं कुर्वीत स्तरमेकं विचक्षणः।

पुनः कण्ठःह् प्रदातव्यो भागद्वितयसम्मितः ॥५१


पट्तिका स्तरमेकं तु तत्समा गिरिपत्रिका।

चतुर्गुणाथ त्रिगुणा कार्याविलकनासिका ॥५२


स्तम्भद्वितयमध्ये तु पञ्चयं कर्म कारयेत्।

शोभनं तत्तु कर्तव्यं युक्तं तिलकनामया ॥५३


पुनश्छेदः प्रदातव्यः पूर्वमानेन धीमता।

जङ्घा सप्तस्तरा मेठा वरण्डी त्रिस्तरोर्ध्वतः ॥५४


भवेदधस्ताज्जङ्घायास्त्रिस्तरलकुम्भकः।

घण्टापमण्टपसंयुक्ता माला स्यात् षद्यरात्ततः ॥५५


अर्धेन तस्या लशुनं स्तरेण भरणं भवेत्।

कुर्वीत द्विस्तरं कुम्भं गण्डमेकस्तरं ततः ॥५६


उच्छालं द्विस्तरं कुर्याद्वीरगण्डं ततः स्तरम्।

द्विस्तरः स्यात्ततः पट्टस्यार्धेन पट्टिका ॥५७


तत्समा गिरिपत्री च वरण्डी त्रिस्तरा ततः।

स्तम्भस्योर्ध्वं विधातव्या मनोज्ञा त्र्यर्धपादिका ॥५८


स्तरमेकं ततश्छेदस्ततः कण्ठः स्तरत्रयम्।

पट्टिका स्तरमेकं स्यात्तत्समा गिरिपत्रिका ॥५९


वरण्डीं त्रिस्तरां कुर्यादर्धप्रस्तरसंयुतम्।

पुनश्छेदः स्तरं कार्यः कण्ठस्तेन समस्ततः ॥६०


तत्समा गिरिपत्री च त्र्यंशमामलसारकम्।

ततश्छेदं च कण्ठं च गिरिपत्रीं वरण्डिकाम् ॥६१


पूर्वमानेन कुर्वीत च्छेदकम्पे तथा पुनः।

गिरिपत्रीं स्तरं कुर्यात् त्र्यंशक्तखरंकततः ॥६२


छेदं कण्ठं पत्रिकां च प्रास्तरमेकं ततश्छेदकं कुर्यात्पुनर्बुधः।

वरण्डीं त्रिस्तरां कुर्यादर्धप्रस्तरसंयुतम् ॥६३


छेदं कण्ठं च पीठं च प्राग्ववामलसारकण्ठं कुर्यात्तथापरम्।

पूर्ववद्गिरिपत्रीं च द्विस्तरां वेदिकां ततः ॥६४


छेदं कुर्यात्तदर्धं च ततः कण्ठं स्तरद्वयम्।

गिरिपत्रीं ततः कुर्यात्स्तरमेकं सुशोभनाम् ॥६५


चतुरश्रप्रमाणं च कुर्यादामलसारकम्।

पद्मपत्रं तु तस्यार्धमुपरिष्टात्प्रकल्पयेत् ॥६६


चतुःस्तरो भवेत्कुम्भः स्तरं कण्ठस्ततो भवेत्।

स्तरमेकं ततः कर्णो द्विस्तरं बीजपूरकम् ॥६७


चतुर्भिः कूटविस्तारं ततो भागे विराजयेत्।

द्विभागं मञ्जरी कार्या स्तरसेनैरलङ्कृता ॥६८


वरण्डिकाख्यो बन्धश्च भागं भागं भवेत्ततः।

विस्तारं मूलमञ्जर्याः शुकनासां प्रकल्पयेत् ॥६९


अथ निर्णीयते द्व्यर्धपादाख्यं तत्र विस्तृतिः।

उच्छ्रायाद्द्विगुणा कार्या पञ्चभागक्रमोऽथवा ॥७०


शूरसेनोऽथवा कार्यः शुकनासास्त्रिवेत्यसौ ।

कृत्वा त्रिभागमुच्छ्रायं मकरं चोर्ध्वभागिकम् ॥७१


स्तम्भयुक्तं गुणद्वारं स्योतस्योधिः संप्रताम्।

अर्धप्रस्तरसंयुक्तं कुर्यात्पार्श्वयोर्द्वयोः ॥७२


कर्तव्यं गर्भकूटं वा शुभं तत्र विपश्चिता।

द्वितीयभूमिकायां तु पीठं सास्तदशस्तरम् ॥७३


मेलान्ततोवती जङ्घा माला कार्या चतुःस्तरा।

लशुनं द्विस्तरं प्रोक्तं स्तरं भरणमिष्यते ॥७४


कुम्भं तद्वत्प्रकर्तव्यमुच्छालं द्विगुणान्वितः।

गण्डकः स्तरमेकं स्यात्ततः पट्टः स्तरद्वयम् ॥७५


अर्धेन पट्टिका कार्या तथैव गिरिपत्रिका।

सूरत्रयं वरण्डी स्याच्छूरसेनैरलङ्कृता ॥७६


स्तरमेकं भवेच्छेदस्ततः कण्ठः स्तरद्वयम्।

पट्टिका भागमेकं च तत्समं गिरिपत्रिका ॥७७


त्रिभागं शिखरं कुर्याच्छेदं मे तु भागिकम्।

एकं कण्ठं प्रकुर्वीत पथिकां विस्तरं विदुः ॥७८


स्तरमेकं भवेत् कण्ठः पट्टिकापि च तत्समा।

गिरिपत्रीं च कुर्वीत भागार्धेन विचक्षणः ॥७९


द्वार्धपादिकया युक्ता त्रिस्तरा स्याद्वरण्डिका।

छेदं कण्ठं च कुर्वीत पूर्वमानेन बुद्धिमान् ॥८०


पट्टिका गिरिपत्री च भागं भागं विधीयते।

द्विस्तरं शिखरं कुर्यात्तथा छेदं तु भागिकाम् ॥८१


एवं कण्ठं प्रकुर्वीत --- पट्टिकाम्।

वरण्डिका द्विभास्योदृकारेण समन्विता ॥८२


छेदं कण्ठं च पत्री च गिरिवर्ती त्रिभागिका।

प्राग्वद्विरिहिर कुर्याद् यथाशोभं प्र --- ॥८३


चतुर्थी भूमिका चोर्ध्वं कर्तव्या लक्षणान्विता।

त्रयोदशस्तरं पीठं मध्यजङ्घा च तत्समा ॥८४


चतुःस्तरा भवेन्माला तदर्धं लशुनं ततः।

कुम्भं तेन समं कार्यमुच्छालं द्विस्तरं भवेत् ॥८५


तस्यार्धे गण्डकं कुर्यात् पट्टं तद्द्विगुणं ततः।

पट्टिका गिरिपत्री च विधातव्ये स्तरं स्तरम् ॥८६


वरण्डी त्रिस्तरा कार्या छेदमेकस्तरं विदुः।

कुर्वीत द्विस्तरं कण्ठं तदर्धेन तु पट्टिकाम् ॥८७


तत्समां गिरिपत्रीं द्वौ स्तरौ खिरिहिरं ततः।

छेदः कण्ठः पट्टिका च गिरिपत्रीति भागिकाः ॥८८


वरण्डी द्विस्तरा कार्या ततश्छेदः स्तरं भवेत्।

कण्ठश्च पत्रिका चेति गिरिपत्रीति भागिकाः ॥८९


प्राग्वकाशिखिरिहिरं कुर्याच्छेदं पूर्वक्रमेण च।

द्विस्तरा तिलनासा तु विधातव्या विपश्चिता ॥९०


कुर्वीत भागिकं छेदं ततः कण्ठा द्विभागिकी।

पट्टिकां भागमेकं च तत्समां गिइ!त्रिकाम् ॥९१


घण्टा सप्तस्तरा प्रोक्ता पद्मं द्विस्तरमुच्यते।

द्विगुणः कलशस्तस्यां छेदं पूर्ववदाचरेत् ॥९२


ऊर्ध्वं स्यात्पञ्चमी भूमिः पीठमेकादशस्तरम्।

तद्वन्मट्टा भवेज्जङ्घा माला च त्रिस्तरा ततः ॥९३


साधस्तरं स्याल्लशुनं स्तरेण भरणं भवेत्।

कुम्भं गण्डकसंयुक्तं कुर्यात् सार्धस्तरं बुधः ॥९४


उच्छालं द्विस्तरं प्रोक्तं स्तरं गण्डो विधीयते।

द्विस्तरः स्यात्तरः पट्टः पट्टस्यार्धेन पट्टिका ॥९५


तत्समा गिरिपत्री च त्रिस्तरा तु वरण्डिका।

स्तरमेकं भवेच्छेदः कण्ठस्तद्द्विगुणस्ततः ॥९६


तदर्धं पट्टिका कार्या तथैव गिरिपत्रिका।

स्तरकं द्वयं विरिहिरं तदर्धं छेदमाचरेत् ॥९७


एवं कण्ठः पट्टिका च स्यात्तथा गिरिपत्रिका।

द्वौ स्तरौ तिलनासा स्याच्छेदः सार्धकरायतः ॥९८


कण्ठं तद्द्विगुणं कुर्याद्भागेनैकेन पट्टिकाम्।

तत्समा गिरिपत्री स्याद्घण्टा पञ्चस्तरा भवेत् ॥९९


कुर्वीत द्विस्तरं पद्मं शेषं पूर्वक्रमात्ततः।

ततो भूमिर्भवेत्षष्ठी पीठं तत्राभिधीयते ॥१००


द्विस्तरा भूमिरङ्गा स्यातुलः खुरकस्ततः।

छेदो भवेत्तदर्धेन ततः कण्ठः स्तरद्वयम् ॥१०१


पट्टिका भागमेकं स्याद्भागं च गिरिपत्रिका।

वरण्डीं द्विस्तरां कुर्यात्तदर्धं छेदमादिशेत् ॥१०२


द्वादशांशमिदं पीठं जङ्घा माट्टा तदर्धतः।

माला तु द्विस्तरा प्रोक्ता लशुनं तत्समं भवेत् ॥१०३


भरणं स्तरमेकं तु द्विभागः कलशो भवेत्।

उच्छालकं च तत्तुल्यं गण्डो भागं विधीयते ॥१०४


कुर्वीत द्विस्तरं पट्टं भागेनैकेन पट्टिकाम्।

पूर्ववद्गिरिपत्रीं --- स्तरां तु वरण्डिकाम् ॥१०५


स्तरमेकं भवेच्छेदः कण्ठस्तद्द्विगुणस्ततः।

पूर्ववत्पत्रिके द्वे तु द्व्यंशं खिरिहिरं भवेत् ॥१०६


छेदः कण्ठः पट्टिका च गिरिपत्रीति भागिकाः।

द्विस्तरा तिलनासा स्याच्छेदः कार्यस्तु भागिकः ॥१०७


द्विस्तरः स्यात्ततः कण्ठो भागिका कण्ठपट्टिका।

भागिकी गिरिपत्री च विधातव्या ततः परम् ॥१०८


पञ्चस्तरान् त्रिभागोनान् कुर्यादामलसारकम्।

त्रिस्तरं स्यात्ततः --- शेषं पूर्वक्रमाद्भवेत् ॥१०९


पञ्चम्यां भूमिकायां तु पीठं स्याद्द्वादशस्तरम्।

जङ्घा पञ्चस्तरा मेठा माला च स्याद्द्विभागिकी ॥११०


अर्धस्तरेण लशुनं स्तरेण भरणं भवेत्।

कुम्भं गण्डेन सहितं स्तरं कुर्याद् विचक्षणः ॥१११


उच्छालं द्विस्तरं कुर्याद्गण्डो भागं विधीयते।

पट्टः सार्धस्तरः कार्यः पट्टिका तु स्तरं भवेत् ॥११२


तत्समा गिरिपत्री च त्रिस्तरा तु वरण्डिका।

छेदो भागत्रिभोगं कण्ठस्यार्धे गुणस्ततः ॥११३


पत्रिके द्वे तु भागिक्यौ --- स्तरा तिलनासिका।

अर्धप्रस्तारयुक्तासौ कार्याथ प्रस्तरान्विता ॥११४


छेदं भागेन कुर्वीत कण्ठं तद्द्विगुणं ततः।

अर्धप्रस्तरं पूर्ववत्पत्रिके द्वे तु घण्टा स्तरचतुष्टायम् ॥११५


कुर्वीत द्विस्तरं पद्मं शेषं पूर्वक्रमेण तु।

अष्टमी भूमिका या तु सा कार्या शुभलक्षणा ॥११६


मेर्वादयो विंशतिरेवमुक्ताः।

प्रासादमुख्याः ---

भूम्यष्टकान्तास्तदिमान् विदध्यात्।

स्याच्छिल्पिनां संसदि पूजनीयः ॥११७


इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे मेर्वादिविंशिकानागरप्रासादभूमिजा नामाध्यायस्त्रिषष्टितमः।