समराङ्गणसूत्रधार अध्याय ६४
अथ दिग्भद्रा दिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः।
प्रासादमथ वारोयं वक्ष्यामो नामलक्षणैः।
लक्षणैस्तेषु दिग्भद्रः श्रीवत्सो वर्धमानकः ॥१
नन्द्यावर्तश्चतुर्थः स्यात्पञ्चमो नन्दिवर्धनः।
विमानश्च तथा पद्मो महाभद्रा ख्य एव च ॥२
श्रीवर्धमानकाख्यश्च महापद्मतोऽपि वा।
एकादशः पञ्चशालो द्वादशः पृथिवीजयः ॥३
तत्र प्रागेव दिग्भद्रः श्रावणं प्रतिपाद्यते।
चतुरश्रीकृते क्षेत्रे नवभागविभाजिते ॥४
कोणो द्विभागविस्तारः प्रत्यङ्गौ भागिकौ स्मृतौ।
शाला भागत्रया कार्या नासिकात्रयशोभिता ॥५
परस्परं विनिष्कासमर्धभागेन कारयेत्।
कोणप्रत्यङ्गयोरन्तः शालाप्रत्यङ्गयोस्तथा ॥६
षोडशांशेन कुर्वीत---सलिलान्तरम्।
सीमास्याद् दशभिर्भागैः प्रविभज्य विधीयते ॥७
---का गर्भपादैः षड् भित्तयः स्युर्द्विभागिकाः।
वर्धमानेनमथ ब्रूमो विस्ताराद् द्विगुणं हि तत् ॥८
द्वौ भागौ वेदिकाबन्धो जङ्घा ज्ञेया चतुष्पदा।
शान्तापत्रा कपोताली सार्धभागं समुच्छ्रिता ॥९
सार्धभागसमुच्छ्राया कार्या प्रथमभूमिका।
द्वितीया भूमिका ज्ञेया सार्धभागत्रयोदया ॥१०
तृतीया च विधेया स्यात्सार्धभागद्वच्छ्रिता।
उछालकं च जङ्घा च भूमिकार्यं विधीयते ॥११
कूटं चार्धतो देयं कर्मशोभासमन्वितम्।
घण्टा भागत्रयोत्सेधा बहुभिश्चाश्रिभिर्युता ॥१२
कलशं स्थापयेदूर्ध्वं भागद्वयसमुच्छ्रितम्।
बीजपूरकसंयुक्तं वर्तुलं पल्लवावृतम् ॥१३
शिखरार्धस्य कुर्वीत सपादमुदयं तथा।
इमं दिग्भद्र संज्ञं यः प्रासादं कारयेत्पुमान् ॥१४
शतक्रतुफलं सोऽपि लभते नात्र संशयः।
लक्ष्म श्रीवत्ससंज्ञस्य प्रासादस्याभिधीयते ॥१५
चतुरश्रीकृते क्षेत्रे भक्ते पञ्चदशांशकैः।
अस्योच्छ्रायो सकास्त्र्यंशस्त्रं क्षोणस्यादंशकैस्त्रिभिः ॥१६
कर्णशालान्तरे कार्यौ द्व्यंशौ प्रतिरथावुभौ।
तयोरुभयोः सार्धं सादं तु मार्ग्रो निवेशयेत् ॥१७
भागमेकं प्रविष्टौ च शाला भागत्रयात्मिका।
निर्गमः स्यात्पदार्धेन गर्भस्तु नवभागिकः ॥१८
त्रिपदा च भवेद् भित्तिरूर्ध्वमस्याथ कथ्यते।
श्रीवत्सः कीर्तितः सम्प्रत्युच्यते वर्धमानकः ॥१९
चतुरश्रीकृते क्षेत्रे --- भागकल्पितम्।
छेदादि गिरिपत्र्यन्तं दद्यात्पूर्वक्रमेण तु ॥२०
द्विस्तरा त्रिस्तरा चापि कर्तव्या वेदिका मता।
स्तरमेकं भवेच्छेदः कण्ठस्तद्द्विगुणो भवेत् ॥२१
पट्टिकां गिरिपत्रीं च तस्यैवार्धेन कारयेत्।
दशस्तरा ततो घण्टा यदि वामलसारकम् ॥२२
द्विस्तरं स्यात्ततः पद्मं द्विगुणः कलशस्ततः।
तदूर्ध्वं भूमिका कार्या सपीठा लक्षणान्विता ॥२३
स्तरैः स्यात्पञ्चदशभिः पीठं जङ्घापि तावता।
चतुःस्तरा भवेन्माला लशुनं तु स्तरद्वयम् ॥२४
तस्यार्धेन भरणं कुम्भं कुर्वीत तत्समम्।
तस्य द्विगुणमुच्छालं गण्डमेकस्तरं भवेत् ॥२५
पट्टं द्विगुणमेतस्मात्कुर्यादर्धेन पट्टिकाम्।
पट्टिकायाः प्रमाणेन कर्तव्या गिरिपत्रिका ॥२६
वरण्डी त्रिस्तरा कार्या शूरसेनैरलङ्कृता।
एकस्तरस्ततश्छेदः कण्ठस्तु द्विगुणस्ततः ॥२७
पट्टिका गिरिपत्री च विधातव्ये स्तरं स्तरम्।
उभौ स्तरौ खिरिहिरं भवेच्छेदः स्तरं ततः ॥२८
तथैव कण्ठस्तद्वच्च पट्टिकागिरिपत्रिके।
वरण्डिका द्विस्तरा स्याच्छेषं पूर्ववदाचरेत् ॥२९
उभौ स्तरौ खिरिहिरं छेदं कुर्वीत भागिकम्।
कण्ठश्च पत्रिका चैव गिरिपत्री च पूर्ववत् ॥३०
द्विस्तरा वेदिका कार्या द्यवपादिकया युता।
छेदमेकं स्तरं कुर्यात्कण्ठं तद्द्विगुणं ततः ॥३१
पत्रिकां गिरिपत्रीं च तस्यैवार्धेन कारयेत्।
स्तराष्टकेन घण्टा स्याद्यदिवामलसारकम् ॥३२
भवेत्यमं --- कलशो द्विगुणस्ततः।
स्तरमेकं भवेद्ग्रीवा कर्णं कुर्वीत तत्समम् ॥३३
द्विगुणं बीजपूरं तु पूर्वत्राप्येवमाचरेत्।
--त्कृष्टा सप्तदशांशकैर्भागेस्त्रिभिर्भवेत् ॥३४
द्विभागिकः प्रतिरथः शाला स्यात्पञ्चभागिका।
शालाप्रत्यङ्गयोरन्तर्भागार्धेनोदकान्तरम् ॥३५
परस्परं विनिष्कासः पादहीनं पदं भवेत्।
गर्भः स्याद्दशभिर्भागैर्भित्तिः सार्धपदत्रयात् ॥३६
चतुर्भिर्वेदिकाबन्धो जङ्घा स्यादष्टभिः पदैः।
सार्धैः पञ्चभिराद्या भूः कपोतालीसमन्विता ॥३७
तृतीया भूमिका चास्य कर्तव्या पञ्चभिः पदैः।
सार्धैर्भवेत्तृतीयापि चतुर्भिर्भूमिका पदैः ॥३८
चतुर्थी भूमिका भागैश्चतुर्भिः कीर्तिता पदैः।
घण्टा च त्रिपदा कार्या कूटभक्त्यादि पूर्ववत् ॥३९
शुकनासादि कुम्भादि पूर्ववत्समुदाहृतम्।
उक्तोऽयं वर्धमानाख्यः प्रासादः शुभलक्षणः ॥४०
नन्द्यावर्तमथ ब्रूमः क्षेत्रे सप्तदशांशके।
कोणांश्चतुष्पदान् कुर्यात्पञ्जरं सार्धभागिकम् ॥४१
षड्भिर्भागैर्भवेच्छाला गर्भस्तु दशभागिकः।
साधत्रिभागिका भित्तिरूर्ध्वमानद्विभांगुणम् ॥४२
वेदी चतुष्पदोत्सेधा जङ्घा भागाष्टकोच्छ्रिता।
षट्पदा भूमिका --- पञ्चपदायता ॥४३
स्यात्सम्पदे चतुर्भागा तृतीयान्या पदोच्छ्रिता।
सांद्भिवांसेवघटा स्यात्पूर्ववत्कलशादिकाः ॥४४
नन्द्यावर्तोऽयमाख्यातः प्रासादः सर्वकामदः।
अथातः सम्प्रवक्ष्यामः प्रासादं नन्दिवर्धनम् ॥४५
चतुरश्रीकृते क्षेत्रे पदाष्टदशकाङ्किते।
कोणस्त्रिपदविस्तारः प्रत्यङ्गं स्यात्पदद्वयम् ॥४६
शाला चतुष्पदा प्रोक्ता चित्रकर्मोपशोभिता।
पादोनभागमानेन निर्गमः स्यात्परस्परम् ॥४७
कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा।
भागेन विस्तृतं कार्यं सर्वत्र सलिलान्तरम् ॥४८
गर्भः स्याद्दशभिर्भागैर्भित्तिर्भागचतुष्टयात्।
ऊर्ध्वमानमथ ब्रूमो द्विगुणं तत्प्रकीर्तितम् ॥४९
वेदीबन्धॐऽशकाः पञ्च जङ्घा स्यादष्टभागिका।
प्रथमा भूमिका कार्या कपोतालीसमन्विता ॥५०
सपादैः पञ्चभिर्भागैर्द्वितीया तद्वदेव हि।
तृतीया तु भवत्यस्य भूमिका पञ्चभागिका ॥५१
चतुर्थी भूमिका ज्ञेया सार्धभागचतुष्टया।
घण्टा तस्योर्ध्वतः कार्या पदत्रयसमुच्छ्रिता ॥५२
शुकाघ्रा शूरसेनश्च स्तम्भिकाकूटभक्तयः।
कलशस्योदयस्तस्य विधेयाश्चास्य पूर्ववत् ॥५३
अमुं यः कारयेदन्यः प्रासादं नन्दिवर्धनम्।
स नन्दिगणसामान्यो जायते नात्र संशयः ॥५४
अतः परमथ ब्रूमो विमानं शुभलक्षणम्।
चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते पदैः ॥५५
कोणाः पञ्चपदाः कार्या मध्ये च सलिलान्तरम्।
कर्णिका सार्धभागेन भागार्धमुदकान्तरम् ॥५६
सालोपद्यदविस्तीर्णा सार्धभागेन निर्गता।
कोणस्य चार्धभागेन कर्णिकानिर्गमः स्मृतः ॥५७
गर्भश्चास्य विधातव्यो द्वादशांशकविस्तृतः।
भित्तिश्चतुष्पदा कार्या दिक्षु सर्वास्ववस्थिता ॥५८
ऊर्ध्वमानमथैतस्य ब्रूमस्तद् द्विगुणं भवेत्।
वेदीबन्धॐऽशकाः पञ्च जङ्घा नवपदोच्छ्रिता ॥५९
प्रथमा भूमिका कार्या भागैः षड्भिः समुच्छ्रिता।
शतपत्रां कपोतालीं मध्ये चास्याः प्रकल्पयेत् ॥६०
द्वितीया भूमिका चास्य विधेया पञ्चभिः पदैः।
अर्धेऽस्याः स्तम्भकोच्छालं कूटं चार्धव्यवस्थितम् ॥६१
परस्परपाधेन हमास्तिस्त्रोऽन्यभूमिकाः।
स्तम्भिकाकूटभरणशूरसेनाः सघण्टकाः ॥६२
कलशस्योदयश्चात्र प्राग्वत्कार्या विपश्चिता।
य इमं कारयेद्भक्त्या विमानाख्यं नृपुङ्गवः ॥६३
इह भोगान् स लभते तथा सत्कायदंविधे।
अथ पद्माप्रियप्रीतिजननः पद्म उच्यते ॥६४
चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः।
कोणाश्चतुष्पदाः कार्याः सलिलान्तरभूषिताः ॥६५
द्विपदः पञ्जरो ज्ञेयो गर्भे कोणाश्चतुष्पदाः।
भागःस्यात् षोडशांशेन तदन्ते सलिलान्तरम् ॥६६
गर्भः स्यान्नवभिर्भागैर्भित्तिः सार्धपदत्रयम्।
ऊर्ध्वमानमथ ब्रूमस्तथास्य द्विगुणं भवेत् ॥६७
द्वितीया भूमिका ज्ञेया भागैः पञ्चभिरुच्छ्रिता।
अन्योन्यं तु पदार्धेन हीनं स्याद्भूमिकाद्वयम् ॥६८
स्तम्भिकाकूटभरणशुकाघ्राशूरसेनकाः।
घण्टा कारसविस्तारा भवन्त्येतस्य पूर्ववत् ॥६९
पद्मप्रासादमेनं यः कारयेद्भक्तिसंयुतः।
स श्रीपतिरिव श्रीशो भवत्यवनिमण्डनः ॥७०
महाभद्र मथ ब्रूमः प्रासादमतिसुन्दरम्।
चतुरश्रीकृते क्षेत्रे विंशत्या सैकयाङ्किते ॥७१
कोणाश्चतुष्पदाः सार्धद्व्यंशाः प्रत्यङ्गकाः स्मृताः।
शाला पञ्चपदा कार्या दिक्षु सर्वास्ववस्थिता ॥७२
पादोनभागविस्तारं कर्तव्यं सलिलान्तरम्।
गर्भस्त्रयोदशपदो भित्तयश्च चतुष्पदाः ॥७३
ऊर्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत्।
वेदी चतुष्पदोत्सेधा जङ्घा स्यादष्टभागिका ॥७४
सप्तभागसमुत्सेधा विधेया चादिभूमिका।
मध्ये सान्तरपत्रास्याः कपोताली पदत्रयम् ॥७५
द्वितीयभूमिका चास्य सार्धैः षड्भिः पदैः स्मृता।
भागभागविहीनास्तु तिस्रोऽन्या भूमिकास्ततः ॥७६
घण्टा भागत्रयोत्सेधा पद्मपत्रिकया सह।
स्तम्भिकाकूटभरणशुकाघ्राशूरसेनकाः ॥७७
कलशः कुम्भं नघाः प्राग्वत्तस्य भवन्त्यमी।
महाभद्र मिमं योऽत्र कारयेद्भक्तिमान् नरः ॥७८
स स्वर्गे सुरनारीभिः सेव्यते मदनाज्ञया।
अथ श्रीवर्धमानस्य लक्ष्म साम्प्रतमुच्यते ॥७९
चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते।
कोणाः षड्भागिकाः कार्याः शालाः स्युर्नवभागिकाः ॥८०
साधं पदद्वयं कार्यः शालानामत्र निर्गमः।
कुर्याज्जलान्तरं तत्र मध्यतः कोणशालयोः ॥८१
विस्तृतं साधभागेन प्रविष्टमपि भागतः।
कोणे मध्यं विधातव्यं भागेनैवोदकान्तरम् ॥८२
नवांशकॢप्तशालायाः प्रत्यङ्गौ द्वावुदाहृतौ।
भागद्वितयविस्तारौ भागेनैकेन निर्गतौ ॥८३
चतुर्दशपदो गर्भो भित्तिः पञ्चपदा स्मृता।
ऊर्ध्वमानमथ ब्रूमस्तदस्य द्विगुणं भवेत् ॥८४
वेदिका षट्पदोत्सेधा जङ्घैकादशभिः पदैः।
प्रथमा भूमिका चास्य कार्या सप्तांशकोच्छ्रिता ॥८५
पादोनैः सप्तभिर्भागैर्द्वितीया भूमिकेष्यते।
तृतीया भूमिका षड्भिः सपादैर्जायते पदैः ॥८६
पादेन षटका भागेन चतुर्थी भूमिका स्मृता।
भागं भागं विधातव्यः प्रवेशः प्रतिभूमिकम् ॥८७
सपादैः पञ्चभिर्भागैः कार्यौ घण्टासमुच्छ्रयः।
भागत्रयसमुत्सेधस्तदूर्ध्वे कलशो भवेत् ॥८८
सुकाघ्रासूरसेनश्च स्तम्भिकाकूटभक्तयः।
कार्या पूर्वोक्तमार्गेण विचित्रकर्मोपशोभिताः ॥८९
श्रीवर्द्धमानं य इमं प्रासादं कारयेन्नृपः।
यशः श्रीश्रेयसांगस्य वृद्धि स्यादुत्तरोत्तरा ॥९०
पद्मयोनिपृथः सद्मद्मथ कीर्त्त्यते।
चतुरस्रीकृते क्षेत्रे विंशत्येकोनयान्तिके ॥९१
कोणाश्चतुष्पदाः कार्या प्रत्यङ्गा अपि तत्समाः।
रिवर्त्तनकर्त्तव्या परस्परसमी शुभाः ॥९२
शाला नवांशविस्तीर्णा स्यात्पदत्रयनिर्गमा।
शालालस्ताश्च कर्त्तव्या द्विभागा बालमञ्जरी ॥९३
कर्णप्रत्यङ्गयोर्मध्ये बालप्रत्यङ्गयोस्तथा।
जलान्तराणि कार्याणि तत्प्रमाणस्य मध्यतः ॥९४
गर्भः सप्तदशांसः स्याद्भित्तयः षड्भिरंशकैः।
ऊर्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत् ॥९५
वेदी षड्भागिकोत्सेधा जङ्घाभागास्त्रयोदश।
सप्तभागसमुत्सेधा कर्त्तव्या चादिभूमिका ॥९६
षड्भिः सार्धैः द्वितीया स्याद्भागभागोज्झिते परे।
पञ्चमी स्याच्चतुर्भागा भागार्द्धेन परेत्पृथक् ॥९७
प्रवेशः कूटदर्भेण भूमीनां स्यात्परस्परम्।
भूमिकार्द्धं विधातव्यं स्तम्भिकाभरणान्वितम् ॥९८
अपरं कूटशोभातिरर्द्धमस्याविभूषयेत्।
घण्टापञ्चपदोत्सेधा विस्तृता गर्भमानसः ॥९९
सुकाघ्राय परं यत्तु पूर्ववत्तत्प्रकल्पयेत्।
महापद्माभिधयोत्र प्रासादं कारयेत्सुधीः ॥१००
इहामुत्र च निर्द्वद्वः स परं सुखमश्नुते।
लक्ष्याथ पञ्चशाला प्रासादस्याभिधीयते ॥१०१
चतुरस्रीकृते क्षेत्रे अष्टाविंशतिपदान्तिके।
तस्यार्जनफलाः काराः कोणा पञ्चपदाः स्मृताः ॥१०२
प्रत्यङ्गास्त्रिपदाः कार्या भागद्वितयनिर्गता।
शालाष्टपदविस्तारा पदत्रितयनिर्गमा ॥१०३
कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा।
भागेन विस्तृतं कार्यं प्रविष्टं च जलान्तरम् ॥१०४
गर्भः षोडशभिर्भागैः भित्तयोऽपि च षट्पदाः।
ऊर्द्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत् ॥१०५
विधेयो वेदिकाबन्धः सार्धपञ्चपदोच्छ्रयम्।
जङ्घा चास्य भवेत्कार्या तत्रैकादशभागिका ॥१०६
सार्द्धसप्तपदोत्सेधा विधातव्या च भूमिका।
कपोतपाली कार्यास्य मध्ये भागत्रयोच्छ्रिता ॥१०७
अयं भूमिप्रमाणेन स्याद्वितीयाऽपि भूमिका।
तृतीया सप्तभिर्भागैश्चतुर्थी सार्थषट्पदा ॥१०८
पञ्चऋमी षट्पदा कार्या घण्टा पञ्चपदोच्छ्रिता।
शालास्थानेषु सर्वेषु कर्त्तव्यं पञ्चघण्टाकम् ॥१०९
कुमारैः पञ्चभिर्युक्तं पञ्चशालोयमुच्यते।
शुकाघ्रासूरसेनादि यच्चान्यत् कलशादिकम् ॥११०
तदस्य पूर्ववत्कार्य पञ्चशालस्य धीमता।
पञ्चशालमिमं यस्तु प्रासादं कारयेद्भुवि ॥१११
तस्य धन्यस्य सन्तानेऽप्यतुला जायते सुखं।
अथातः संप्रवक्ष्यामः प्रासादं पृथिवीजयम् ॥११२
चतुस्त्रीकृते क्षेत्रेऽष्टाविंशतिपदाङ्किते।
--- पदाः स्मृताः।
भागद्वितयविस्ताराः कर्तव्या बालपञ्जराः ॥११३
शाला षड्भागविस्तीर्णा भागत्रितयमुच्छ्रिता।
कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा ॥११४
कक्षान्तरे विधातव्यं भागिकं सलिलान्तरम्।
गर्भः स्याद्दशभिर्भागैर्भित्तिः कार्यास्य षट्पदा ॥११५
षट्पदा स्यात्तृतीयात्र --- भागोच्छ्रिताः पराः।
कर्ण --- स्तिस्रो घण्टा चाष्टपदोच्छ्रिताः ॥११६
कूटैरलङ्कृता कार्या शुकाघ्रादि च पूर्ववत्।
स --- पि चैतेषां प्रासादार्धेन कारयेत् ॥११७
घण्टां तु संहतां श्लक्ष्णां बन्धनैरुपशोभिताम्।
यादृशी कम --- ने कूटेष्वेषां विधीयते ॥११८
भद्रे षु तादृशी कार्या कृत्स्नप्रासादसिद्धये।
य इमं कारयेद्रा जा प्रासादं पृथिवीजयम्।
भुनक्ति निखिलां पृथ्वीं स सप्ताम्भोधिमालिनीम् ॥११९
इतीरिता द्वादश स्यगर्ते।
प्रासादमुख्याः शुभलक्ष्मयुक्ताः।
वावाटसंज्ञास्तदमून् विदित्वा।
लभेत्पूज्यस्थयते नृपेभ्यः ॥१२०
इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे वटोकप्रासादो नाम चतुःषष्टितमोऽध्यायः।