प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ सप्तविंशतिमण्डपलक्षणं नाम सप्तषष्टितमोऽध्यायः।


इदानीमभिधीयन्ते मण्डपाः सप्तविंशतिः।

प्रासादाद् द्विगुणं कुर्यात्कनिष्ठं तत्र मण्डपम् ॥१


पादोनद्विगुणं मध्यं प्रासादे तु कनीयसि।

तस्मिन्नेव कनीयांसं विदध्यात्सार्धमानतः ॥२


पादोनद्विगुणः सार्धः सपादश्चेति मध्यमे।

सार्धः सपादस्तुल्यश्चेत्युत्तमाद्याः स्युरुत्तमे ॥३


सपादद्विगुणाः सार्धद्विगुणाः सान्तरोद्भवाः।

क्षुद्र प्रासादकेषु स्युर्मण्डपा बहवोऽपरे ॥४


क्षेत्रालाभे पुनरिमान्सर्वान्सर्वेषु योजयेत्।

दैर्घ्यादैर्घ्येण गृह्णीयाद्विस्तृती --- तथा ॥५


प्रमाणं मण्डपे कार्ये वलभ्यां गरुडेऽपि च।

चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥६


भागैश्चतुर्भिर्भद्रं स्याद्द्वौ भागौ प्रतिभद्र कम्।

अग्रतः पृष्ठतो वापि निर्गमो भागिको भवेत् ॥७


भद्रा णां निर्गमो भागं सार्धभागमथापि वा।

प्रासादस्य त्रिभागेन चतुर्भागेन वा भवेत् ॥८


अर्धेनाथ षडंशेन पञ्चांशेनाथ निर्गतिः।

प्रासादानां समा कार्या पादोना वा प्रमाणतः ॥९


कार्या त्रिभागहीना वा मण्डपास्तु समैः क्षणैः।

स्वविस्तारसमं भद्रं मुखे चैषा प्रकीर्तिता ॥१०


कर्णा द्विभागिका ज्ञेयास्तेषां कोणचतुष्टये।

वामदक्षिणभागाभ्यां सह भद्रं षडंशकम् ॥११


प्रतिभद्रे नचैतस्मिन्विदध्यादग्रपृष्ठयोः।

चतुःषष्टिधरोऽयं स्यात्पुष्पको नाम मण्डपः ॥१२


पुष्पकः ।।

दिक्त्रये प्रतिभद्रा णि मुखे प्राग्ग्रीव एव हि।

पुष्पभद्रो तिस्तम्भश्चतुष्कः सुप्रभो भवेत् ॥१३


इति स्तम्भद्वयत्यगाद्ब्रूमो मण्डपविंशतिम्।

यो पुष्पभद्र स्तु व्रतोऽमृतनन्दनः ॥१४


कौसल्यो युद्विसंकीर्णो गजभद्रो जयावहः।

श्रीवत्सो विजयश्चैव वस्तुकीर्णश्रुतिर्जयः ॥१५


यज्ञभद्रो विशालश्च सुश्लिष्टः शत्रुमर्दनः।

भायंवो दमश्चैव मानवो मानभद्र कः ॥१६


सुग्रीवो मण्डपः प्रोक्तो भद्रै र्युक्तश्चतुष्पदैः।

चतुर्भिस्त्रिपदैः कर्णैर्निर्गमैः प्रागुदाहृतैः ॥१७


धराणामेव विंशत्या चतुरुत्तरया युतः।

अस्मद्वासस्तम्भं षडन्ये द्विधरक्षयात् ॥१८


सुग्रीवो हर्षनामा च कर्णिकारः पदार्धिकः।

सिंहश्च सागभद्र श्च सुस्तत्र श्चेति सप्तमः ॥१९


सप्तविंशतिरित्युक्ता मण्डपानां समासतः।

एषां विचित्ररूपाणां प्रासादाकृतिधारिणाम् ॥२०


मिश्रकाश्च परिज्ञेया हस्तैर्द्वित्र्येकमानतः।

मूलप्रासादतुल्या वा त्र्यंशेनार्धेन चोर्जिताः ॥२१


द्विस्तम्भशुकनासाग्रे विज्ञेयः पादमण्डपः।

प्रासादभित्तिमानेन मण्डपे भित्तयः स्मृताः ॥२२


सपादसत्रिभागा वा वी स्यु ---।

क्वचिद्भित्तिविहीनांश्च कुर्यादाकाशमण्डपान् ॥२३


लतिष्वेष विधिः प्रोक्तः सान्धारेषु स्वमानतः।

प्रासादो यादृशस्तादृङ् मण्डपोऽपि तदग्रतः ॥२४


यानि प्रासादनामानि तानि स्युर्मण्डपेष्वपि।

वास्तुभेदेन भेदोऽयं मण्डपानां विधीयते ॥२५


शतार्धमण्डपस्थानं नीलाधं भोजनाय च।

यज्ञार्थो यतिमुख्यार्था विहारार्था नृपालदो ॥२६


कार्यो दशभ्य विस्तारो --- नु शतावधेः।

हस्तानां संख्यया मानं हस्तेन स्याद्गृहेशितुः ॥२७


उपयोगानुसारेण स्वधिया परिकल्पितः।

आयतश्चतुरश्रो वा कर्तव्यो नाद्यमण्डपः ॥२८


शतमष्टोत्तरं ज्येष्ठश्चतुःषष्टिकरोऽवरः।

कनिष्ठो मण्डपः कार्यो द्वात्रिंशत्करसंमितः ॥२९


अद्विविस्तारोऽस्य स्यान्नेपथ्यगृहकादि तु।

परिच्छेदानुसारेण स्वधिया परिकल्पयेत् ॥३०


द्वारद्वयं च कर्तव्यं तत्प्रमाणानुसारतः।

नेपथ्यगृहके चान्यत्तृतीयं रङ्गसम्मुखम् ॥३१


समैः क्षणैः समैः स्तम्भैरलिन्दैश्च समैर्युताः।

समकर्णाः समा द्र व्यविधेया मण्डपाः शुभाः ॥३२


भित्तिमां चतुस्रस्यात्कार्यः कामं सनिर्गमः।

स्तम्भकोणाश्रितं मानं भित्तिः स्यान्मानबाह्यतः ॥३३


वेदिर्मण्डपभूषाद्यैः स्यान्मध्ये बाह्यतोऽपि वा।

क्षेत्रलोभे तु कर्तव्या भित्तिमानस्य मध्यतः ॥३४


चतुःषष्टिपदं ज्येष्ठे भद्रं कुर्याच्चतुष्पदम्।

एकाशीतिपदं मध्ये भद्रं स्यात्पञ्चभागिकम् ॥३५


सततागा विभक्ते तु खण्डशः स्यात्कनीयसि।

कर्णा द्विभागिकाः कार्या भित्तियुक्तश्च मण्डपः ॥३६


भद्र प्रासादसदृशौ कर्णभद्रं च भाजयेत्।

क्षोभणं बाह्यतो रक्षेत् पाडनं स्याद् विपर्यये ॥३७


क्षरकं कुम्भकलाशा कपोतं जङ्घया सह।

प्रासादस्यानुरूपेण --- ॥३८


रुचकश्चतुरश्रः स्यादष्टाश्रिर्वज्र उच्यते।

द्विवज्रः षोडशाश्रिश्च प्रतीतो द्विगुणस्ततः ॥३९


मध्यप्रदेशेऽयं स्तम्भो वृत्तो वृत्तः प्रकीर्तितः।

अथान्येन प्रकारेण षोढ कुर्वीत मण्डपान् ॥४०


त्रिपञ्चसप्तनवभिश्चतेक्षणैः उभयसमः।

साद्र मध्यक्षणोऽन्येभ्यः सत्र्यंशः सार्ध एव वा ॥४१


एवमेव प्रकर्तव्यः षड्प्रकारेऽपि मण्डपे।

प्रासादगर्भस्यान्तेन स्युस्तद्भित्तिरथापि वा ॥४२


स्तम्भसूत्रस्य मार्गेण क्षणे मण्डपमध्यगे।

मूलप्रासादगर्भेण कार्या वा भद्र विस्तृतिः ॥४३


शेषाः क्षणा विधातव्या समसंख्याक्षतैर्धरैः।

प्रासादच्छादनासाद्भिः सत्र्यंशावापि मण्डपे ॥४४


सदृशां स समञ्चशद् द्वा--- समतले भवेत्।

उच्छ्रायं मण्डपे ब्रूमः प्रकारेणापरेण च ॥४५


तलार्धं पदमध्येया --- यस्य विहितः शुभः।

प्रासादे दशधा भक्ते चतुःपञ्चकरे समा ॥४६


नव्यंश मण्डपंस्यादुत्तरपट्टयोर्द्वयोः।

षड्युट्सूहस्तेत्वष्टांशं सप्तभागे न वास्तके ॥४७


दशैकादशके षट्स्युः सार्धभागासु संख्यया।

त्रयोदशक --- हस्तयोः सार्धपञ्चकम् ॥४८


सपादाः पञ्चभागाः स्युश्चतुर्दश करे पुनः।

तदूर्ध्वं विंशतिं यावदुच्छ्रितिः पञ्चभागिकी ॥४९


संसृता व्यतिरिक्तव्या त यथा वापि प्रकल्पयेत्।

शुकनासस्य यः स्तम्भः स्तम्भो यो मण्डपस्य च ॥५०


मिथः श्लिष्टावपि व्यक्तौ यत्र तौ संश्रितौ हसः।

प्रासादकोणस्तम्भो य ग्रस्तास्ते ग्रस्तमण्डपा ॥५१


निर्गता व्यतिरिक्ताः स्युश्चतुर्भद्र विभूषिताः।

तलपट्टाञ्छौकनासाव्यातले भूमिरङ्गिका ॥५२


तलपट्टमधस्तस्या मण्डपानां नियोजयेत्।

एवं परं परं कुर्यान्निम्नान्निम्नतरं बुधः ॥५३


सममेवाथवा कुर्यात् प्रासादतलमानतः।

ध्रुवादिनाम्नां श्रीकूटः प्रवृत्तानां तथैव च ॥५४


रुचकप्रभृतीनां च या संज्ञा या विभक्तयः।

मण्डपेष्वपि ता ज्ञेया तत्सम्बन्धेषु नान्यथा ॥५५


देवालयोत्सवार्थाय विमानानि पृथक्पृथक्।

मण्डपादि समाख्यातादूर्ध्वं स्युः सप्तविंशतेः ॥५६


देवयात्रानिमित्तानि तथैव परिकल्पयेत्।

चतुःषष्टेरप्यधिकाः स्तम्भाः स्युः पदसंख्यया ॥५७


प्रासादाङ्गानि --- स्युस्तत्क्षणान्मण्डपेन च।

संवास्तुपदं संबुद्ध्या कर्तव्यो विषमैः क्षणैः ॥५८


न दोषो जायते तत्र शिल्पीच्छतेऽत्र कारणम्।

अथ दारुकलां ब्रूमः --- मण्डपसंश्रयाम् ॥५९


यादृक् समतलं तत्र विभागस्तादृगुच्यते।

प्रासादस्य विभागेन राजसेनं तु भागिकम् ॥६०


वेदी भागद्वयं ज्ञेया द्वौ भागौ मत्तवारणम्।

चन्द्रा वलोकनं तद्वद्विधातव्यं द्विभागिकाम् ॥६१


पट्टो भवति भागार्धमर्धभागिकमासनम्।

कूटस्तम्भं तु भागेन सपादेन प्रकल्पयेत् ॥६२


शीर्षकं भरणं चैव सपाद भागमिष्यते।

एतत्समतले कार्यं विषमोऽपि क्वचिद्भवेत् ॥६३


पट्टिर्भागिकी विधातव्या प्रकारेणापरेण च।

अधस्तादूर्ध्वपट्टस्य तलपट्टस्य चोर्ध्वतः ॥६४


पदे त्रिभागमध्ये वा कार्या चन्द्रा वलोकने।

तदधस्ताद्विधातव्यो विभागः पञ्चभिः पदैः ॥६५


भागिकं राजसेनं स्याद्वेदिकापि द्विभागिकी।

मत्तवारणकं कार्यं भागद्वितयसंमितम् ॥६६


दशभक्तेऽथवा कार्या चतुर्भिश्चन्द्र लोकना।

भागद्वयेन वेदी च तत्समं मत्तवारणम् ॥६७


भागेन रूपहारस्तु भागेनैकेन कण्ठिका।

मत्तवारणपातश्च त्र्यंशहीनैकभागिकः ॥६८


भागार्धेनाथवा पातस्तयोर्मध्ये च मध्यमः।

कूटागारेष्विदं मानमिदं चासनपट्टके ॥६९


भागद्वितयविस्तारमासनं परिकल्पयेत्।

पिण्डो भागद्विकं तस्य त्र्यंशोना मत्तवारणा ॥७०


वेद्यां पिण्डः सपट्टः स्यात्कूटागारे तथैव च।

राजसेनस्य पिण्डस्तु कूटागारसमो भवेत् ॥७१


कुम्भिकापि च तत्पिण्डा चोदरूर्ध्वतयासनम्।

विद्यात्सशिरःस्तम्भः कूटकं --- ॥७२


राजसेनसमा कुम्भी जङ्घा वेदिसमा भवेत्।

एवमेतत्त्रिधा प्रोक्तं सूर्पच्छाद्यमथोच्यते ॥७३


अधःपट्टोर्ध्वपट्टान्तं पञ्चधा प्रविभाजयेत्।

उभाभ्यां वा त्रिभिर्वापि भजे निगतिस्तु सायते ॥७४


--- पट्टसमोऽथ त्रयोदशविभाजिते।

शूर्पभागं त्यजेदूर्ध्वं घटना द्वादशांशिका ॥७५


कुर्यान्निपातं शूर्पस्य पञ्चभागमथापि वा।

दण्डकैर्भूषयेच्छूर्पं मध्ये दण्डं विवर्जयेत् ॥७६


मध्ये च स्तम्भिका वेद्या मत्तवारणकस्य च।

भागेन पट्टपिण्डस्तु सपादेनाथवा भवेत् ॥७७


पृथुत्वं स्यात्स षड्भागपिण्डतुल्यं तु पट्टके।


स्तम्भः पट्टसमः कार्यः शीर्षकं त्रिगुणं ततः ॥७८


स्तम्भादप्यधिका कूटी हीरकादपि पट्टकः।

बाहापट्टवदुच्छ्रायः शुकनासस्य पट्टके ॥७९


पट्टपिण्डोच्छ्रिता वेदी यद्वा पट्टाधिका भवेत्।

मण्डपे स्यात्तुलोच्छ्रायो विभागैः प्रमितोऽष्टभिः ॥८०


स्थलप्रासादतुल्यो वा पातस्य च सतोऽपि वा।

निम्नोन्नतं छादयेच्च छेदिकायोगतो बुधः ॥८१


कण्ठकश्चे --- कार्थेन विधातव्यो विचक्षणैः।

छेदिकायोगतो मध्ये स्तम्भाः स्युर्बाह्यतोऽधिकाः ॥८२


पञ्चाशेनाष्टषष्ठेन केशान्तात्सालभञ्जिकाः।

रथिकाशालभञ्जीभिः स्थिताभिः पट्टिकोर्ध्वतः ॥८३


मध्ये कराटकं कार्यं मनोज्ञं वा सरोरुहम्।

छादयेद्वास---मलं विमानैर्बहुभेदवत् ॥८४


क्षणान्तरेषु रचयेद्दीप्तिकातोरणानि च।

अन्यथा वा भवेद्वृत्तं चतुरश्रो यथा क्वचित् ॥८५


गजतालुयुतः पट्टस्योर्ध्वमष्टाश्रिरेव वा।

कुर्वीत मध्ये चाष्टाश्रिबाह्यतः पङ्क्तयस्तथा ॥८६


विशेषं छादये ब्रूमः स्तम्भिकासूत्रद्भासयेत्।

षोडश द्वादशाष्टौ बा---चतुरोच्छ्रायाः ॥८७


पादान्यदूषर्यत् शिल्पीभवेक्षणवशात् सदा।

त्रयोविंशतिधा भाज्यमन्तरं पट्टघण्टयोः ॥८८


घण्टादूर्ध्वं पद्मपत्री सार्धभागसमुच्छ्रिता।

उच्छ्रिता सार्धभागेन तदूर्ध्वं दृट्टरी भवेत् ॥८९


कपोता ग्राससंयुक्ताः सार्धभागसमुच्छ्रिताः।

कण्ठकस्तु द्विभागः स्यादमरस्तु द्विभागिका ॥९०


भागद्वयं विनिष्क्रान्तं त्रिभागे गजतालुके।

दत्ताभागानुच्छितकोसलं भागं च धालिका भवेत् ॥९१


भागद्वयं द्वितीयं च तृतीयं च द्विभागिकम्।

तस्योपरिष्टात्कर्तव्या वलिन्यार्धभागिका ॥९२


निर्गमः सूत्रमार्गेण एकैकस्य स्वमानतः।

--- गर्भकोणः स्यात्पक्ष्मपत्र्याश्च मस्तमे ॥९३


विमृश्य सूत्रधारो वा निर्गमं कल्पयेत् स्वयम्।

समैर्भागैश्च पत्रैश्च विकटैः पद्मपत्रकैः ॥९४


हस्तितुण्डैर्वरालैश्च शालभञ्जीभिरण्डकैः।

भल्लिकातोरणैश्चैव भूषणीया चतुष्किका ॥९५


खेचरैर्माल्यबन्धैश्च नानाकर्मवितानिभिः।

मन्दारकैः शुक्तिभिर्वा पद्मैर्वा नागपाशकैः ॥९६


मण्डपं छादयेत्प्राज्ञो बाह्यतस्त्वभिधीयते।

द्विगुणा मौलिकद्वारात्पादोनद्विगुणं क्वचित् ॥९७


सार्धभागमितं यद्वा त्र्यंशोनं द्विगुणं क्वचित्।

क्वापि त्र्यंशाधिकं कार्यं चतुर्द्वारं मण्डपे ॥९८


द्वारे कार्यौ प्रतीहारौ भल्लिका तोरणास्तथा।

स्तम्भयोश्च वरालौ द्वौ शालभञ्जिकया सह ॥९९


प्राग्ग्रीवं भद्र भद्रं च रथिका वेदिका बहिः।

मण्डपे वरकस्योर्ध्वमधस्ताच्छिखरस्य च ॥१००


भागार्धआं छेदपट्टः स्याच्छेषं कुर्वीत संवृति।

शिखरा त्र्यंशयुग्मेन पादोन वा कारयेत् ॥१०१


प्रासादे शुकनासं तु सन्तु सम्भ्रमेऽथवा।

मण्डपस्योदयः स्वस्मादधस्तादथवा भवेत् ॥१०२


वामनाद्या अनन्तान्ताः प्राक्प्रोक्ता ये दशोपयेः।

कर्तव्यो मध्यतस्तेषामुदयः कोपि मण्डपे ॥१०३


प्रविभज्योदयं त्रेधा घण्टां भागेन कारयेत्।

तत्त्रिभागेन तिलकस्तिलकार्धेन फंसना ॥१०४


क्रमैस्त्रिभिः पञ्चभिर्वा शूर्पैर्निर्माणमिष्यते।

स्कन्धछाद्यवासने वामेषा सवणोदिता ॥१०५


शोभां भद्रे षु कर्णेषु यथायोगं प्रकल्पयेत्।

वीथीभिश्चन्द्र शालाभिः सिंहकर्णैश्च शोभनैः ॥१०६


रथिकाभिर्वरालैश्च तिलकैश्चारुदर्शनैः।

शुकनासैर्गजैः सिंहैरन्यैरित्येवमादिभिः ॥१०७


कर्मप्रकारैः कर्तव्या मण्डपे भूषणक्रिया।

त्रिविधैरथवा कूटैः सङ्घटैः कक्षकूटकैः ॥१०८


तिलकैर्वा तमङ्गैर्वा खुरच्छाद्यैः सघट्टकैः।

शृङ्गादिइः! प्रभेदैश्च कार्या मण्डपसंवृतिः ॥१०९


शुकनासोच्छ्रितेरूर्ध्वं न कार्या मण्डपोच्छ्रितिः।

अधस्ताद्यत्र या प्रोक्ता कर्तव्या सा त्वशङ्कितैः ॥११०


वलभ्यां शुकनासान्ता कर्तव्या मण्डपोच्छ्रितिः।

मण्डपः शुकनासान्तं योग्रासकुलम् ॥१११


न च तत्पुरमध्ये तु यत्र सा मण्डपोच्छ्रितिः।

स पुत्रयस्तबन्धवतस्य तयः कर्तकारकै ॥११२


हीनाधिकप्रमाणेषु दूविष्ठेषु वास्तुषु।

द्र व्यैर्वाधिकप्रमाणेषु स्युरनर्थाः पदे पदे।

ऋद्धिः पुरस्य न भवेत्स्यात्पुराधिपतेर्भयम् ॥११३


कॢप्तैरेवं मण्डपैः सुप्रमाणैर्लक्ष्मोपेतैः सद्विधानेन कर्तुः।

ऋद्धिः सिद्धिः कारकस्यापि लोके क्षेमं च स्याद्भूमिभर्तुर्जयश्च ॥११४


इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे सप्तविंशतिमण्डपाध्यायो नाम सप्तषष्टितमः।