प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः।


त्रिदशागारभूत्यर्थं भूषाहेतोः पुरस्य तु।

भुक्तये मुक्तये पुंसां सर्वकालं च शान्तये ॥१


निवासहेतोर्देवानां चतुर्वर्गस्य सिद्धये।

मनस्विनां च कीर्त्यायुर्यशस्सम्प्राप्तये नृणाम् ॥२


जगतीनामथ ब्रूमो लक्षणं विस्तरादिह।

प्रासादं लिङ्गमित्याहुस्त्रिगल्लयनाद्यतः ॥३


ततस्तदाधारतया जगती पीठिका मता।

आकारविस्तृतायामानुच्छ्रायं ते क्रिया ॥४


विना तमङ्गप्रत्यङ्गा कल्पना नापि --- क्रमम्।

विभक्तिं तिलकन्दानां भद्र विस्तारनिर्गमम् ॥५


जलाधारप्रदोश्च प्रवेशं निर्गमोद्गमम्।

मानसंख्यां च शालानां संस्थानोन्मानलक्षणम् ॥६


परिक्रमं तमेवासां संज्ञां च त्रिविधामपि।

षट्प्रकारत्वमे वासां सम्भवस्य च कारणम् ॥७


मूलशालापरिच्छित्तिं परिक्रमविनिर्गमम्।

सञ्चयद्वारसोपानमुण्डिकामण्डसम्भवान् ॥८


द्वित्र्यादिदेवताधिष्ण्याज्जगतीस्तोरणानि च।

युक्तानि लक्षणैः सर्वैर्यथावत्सम्प्रचक्ष्महे ॥९


चतुरश्रा समा शस्ता मनोज्ञा सर्वतःप्लवा।

अंशप्रगूढदिग्भागा प्रासादानुगता शुभा ॥१०


चतुरश्रायता यद्वा वृत्ता वृत्तायता तथा।

अष्टाश्रिर्वा विधातव्या सा संशोध्यादितः क्षितिम् ॥११


निरूप्य त्रिदशागारं संस्थानोन्मानलक्षणैः।

तदाकारवतीं पार्श्वे जगतीं तस्य योजयेत् ॥१२


कनीयसी मध्यमा च ज्येष्ठा चेति त्रिधैव सा।

कनीयः प्रभृतिष्वेताः प्रासादेषु नियोजयेत् ॥१३


जगत्यो भ्ररमणीभिः स्फारौकद्वित्रिस्त्रिभिः क्रमात्।

नानाशातिशान्तिन्यकनिष्ठाद्या मनोरमाः ॥१४


प्रासादस्यानुरूपेण साङ्गोपाङ्गादिसंख्यया।

शालास्तासां मताः कर्म प्रोच्यते सामुदायिकम् ॥१५


श्री आ द्वादशकरादूर्ध्वमोर्ध्वा विंशतिहस्ततः।

शालात्रिभागं तुर्यांशः स्याद्वा द्वात्रिंशतः पुनः ॥१६


आसनार्धात्तु पञ्चाशच्छाला प्रासादतो भवेत्।

बहुदेवकुला या तु प्रासादस्यानुसारतः ॥१७


ब्रूमः प्रकाराञ्शालानां यथायोगमिहाधुना।

कर्णोद्भवा भ्रमोच्छा च भद्र जा गर्भसम्भवा ॥१८


मध्यजा पार्श्वजा चेति भेदास्तासां भवन्ति षट्।

विस्तारायामतोस्यभिः कर्णजा पूर्वमारिणा ॥१९


भ्रमजा तत्प्रमाणेन --- पादेन वेष्टिता।

भद्र जा कर्णजातीया सार्धायामा प्रकीर्तिता ॥२०


गर्भजा मध्यजा चेति कर्णजायतसम्मिते।

पार्श्वजा भ्रमजायामा स्थानं तासामथोच्यते ॥२१


कर्णेषु कर्णजा ख्याता भ्रमजा च परिभ्रमे।

भद्रे षु भद्र जा ज्ञेया त्रयमध्ये च गर्भजा ॥२२


मध्ये व्यवस्थिता या तु पञ्चानां मध्यजा तु सा।

पार्श्वसंस्थानश्चतस्रो यास्तासां शान्ताः पार्श्वद्वये स्मृताः ॥२३


पार्श्वद्वयं स्युः कर्णानां --- स्ता अपि च पार्श्वजाः।

प्रासादविस्तृतेरर्धं विधातव्या भ्रमन्तिका ॥२४


पदवृद्धतिबाह्यस्याः कन्दा दिक्षु --- च।

सुरसद्मानुसारेण कुर्यादष्टौ विचक्षणः ॥२५


आरभ्य भद्र मालत्या युआवत्त्रिंशमत्रिकाम्।

नवाण्डकाया यावत्स्यादेकत्रिंशत्तमे क्रमात् ॥२६


शालाकन्दाः स्मृतास्तासां चतुर्वर्गविभाजिताः।

चतुष्पदा तत्र सास्या स्याद्द्वादशपदो भ्रमः ॥२७


क्रमेणानेन कर्तव्यं शालाकन्दनिवेशतः।

तदूर्ध्वं तु भ्रमो नास्ति शालागणविभाजने ॥२८


रुद्रा द् भ्रमोऽयं न पुनः कर्णनिर्गमधारिणाम्।

रुचकस्येव कर्तव्यः कर्णदेशात्परिक्रमः ॥२९


शालानुसारतो भद्रे विस्तारैः कन्दकाद्बहिः।

कर्तव्यो निर्गमस्तत्र बुधैः पदचतुष्टयम् ॥३०


उदकान्तरविस्तारो भागेनार्धेन वा क्वचित्।

प्रजाङ्गस्य विधातव्यं क्षोभणं च पदद्वयम् ॥३१


प्रासादस्य च विस्तारं दत्त्वाग्रे सलिलान्तरम्।

गण्डौ तत्सूत्रगौ कार्यौ भ्रमाद्द्विपदनिर्गतौ ॥३२


प्रासादानां तु विस्तृत्या स्युरेकद्वित्रिनिघ्नया।

कर्णाद्विनिस्सृतौ गण्डौ ज्येष्ठमध्यकनीयसा ॥३३


भवग्रे सुण्डिकाः कार्याः कर्णशालाविनिर्गमः।

मालासोपानसंयुत्त प्रतीहारसमाकुलाः ॥३४


प्रतोली चाग्रतः कार्या सपटो --र्गला दृढा।

ब्रूमोऽथ जगतीपीठं तत्कुर्यादेकहस्तके ॥३५


प्रासादे विस्तृतेस्तुल्यसमुत्सेधे विचक्षणः।

द्विहस्तके तु पादोनं त्र्यंशहीनं त्रिहस्तकम् ॥३६


चतुर्हस्ते तु कर्तव्ये सार्धहस्तद्वयोच्छ्रितम्।

चतुरिष्टा त्रया च --- द्वादशहस्तकम् ॥३७


कनीयोमध्यमज्येष्ठानुदयान् कल्पयेत् क्रमात्।

अर्धं वा कर्णशालायाः पादोनं वाथ तत्समम् ॥३८


अनेन च प्रकारेण ज्येष्ठमध्यमयोरपि।

प्रासादयोर्जगत्युच्चा कर्णप्रासादमानतः ॥३९


पीठस्य यः समुत्सेधा --- तं विभाजयेत्।

भागेन खुरकं कुर्याद्भागेनैकेन वर्त्मना ॥४०


कुम्भस्य खुरका भागं द्विभागं कुम्भकं तथा।

कलशं भागिकोत्सेधं तथैवान्तरपत्रकम् ॥४१


वरण्डीं भागिकीं कुर्यात्तथा पट्टं च भागिकम्।

जगत्याः खुरकाद्भागं प्रचिशोकोद्भकः सुरः ॥४२


पट्टो भागेन सार्धेन प्रतिष्ठाजगतीखुरान्।

खुरकारकुम्भकाकिञ्चित्कुम्भका क्षणकस्तथा ॥४३


कणकादन्तेरपत्र कपोतालीं तथैव च।

पट्टिकानां प्रवेशांश्च नासिकावर्तनास्तथा ॥४४


निम्नोन्नतप्रवेशांश्च विदधीत मनोहरान्।

--- धिकाभिर्विचित्राभिः कूटैश्चानेकशेखरैः ॥४५


सुविभक्ता विधातव्याः शालानां कन्दकामूले।

कर्माण्यतिविचित्राणि स्थानस्थानोचितानि तु ॥४६


कुर्यात्पीठेषु शोभार्थं प्रासादानां विचक्षणः।

यथा सिंहासनं राज्ञां शोभते मणिदीप्तिभिः ॥४७


तथा प्रासादराजस्य पीठं कर्मभिरुत्तमैः।

पट्टस्योर्ध्वं विधातव्यमुत्कृष्टं राजसेनकम् ॥४८


पुष्पितैः कमलैर्युक्तं शोभितं भारपुत्रकैः।

तदर्धं वेदिका देया नानापत्रसमाकुला ॥४९


रूपं संघटकोपेता ततश्चासमघट्टकः।

स्तम्भिकाभिरनेकाभिर्धारयेत्तं समन्वितः ॥५०


तस्योपरि विधातव्यं करव्यासनसमुत्तमम्।

अन्तरं कर्णशालानां तलपादार्धपट्टयोः ॥५१


राजसेनयुतां वेदीं तत्त्रिभागेन कारयेत्।

वेदिकार्धं त्रिभागं वा तले स्याद्रा जसेनकम् ॥५२


कूटारं --- त्रिभागेन वेदेरूर्ध्वं मनोहरम्।

करमात्रसमुत्सेधं कर्तव्यं मत्तवारणम् ॥५३


सुखलीलाशनार्थं तत्सप्रवेशं सनिर्गमम्।

गन्द्रा ग्रे सुकाग्रे च प्रतोल्यग्रे तथैव च।

तोरणं त्रिविधं ज्ञेयं कनीयोमध्यमोत्तमम् ॥५४


इत्थं जगत्यायतनस्य सम्यक्।

प्रासादपीठस्य च सम्प्रदिष्टम्।

विधानमेतज्जगतीषु नार्त-

मन्यथाभिदधाः सह लक्षणानाम् ॥५५


इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः।