समराङ्गणसूत्रधार अध्याय ६९

समराङ्गणसूत्रधार अध्यायसूची

अथ जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः।


वसुधा वसुधारा च वहन्ती च तथापरे।

श्रीधरा भद्रि का चैव एकभद्रा द्विभद्रि का ॥१


त्रिभद्रि का भद्र माला वैमानी भ्रमरावली।

स्वस्तिका हरमाला च कुलशीला महीधरी ॥२


मन्दारमालिकानङ्गलेखाथोत्सवमालिका।

नागारामा मारभव्या तथा च मकरध्वजा ॥३


नन्द्यावर्ता च भूपाला पारिजातकमञ्जरी।

चूडामणिप्रभा चैव तथा श्रवणमञ्जरी ॥४


विश्वरूपादिकमला तथा त्रैलोक्यसुन्दरी।

गन्धर्वबालिका चान्या विद्याधरकुमारिका ॥५


सुभद्रा च समाख्याता तथान्या सिंहपञ्जरा।

वज्जपकुरवाद्याः गन्धर्वनगरी तथा ॥६


तथामरावती ज्ञेया रत्नधूमा च नामतः।

त्रिदशेन्द्र सभा चैव तथान्या देवयन्त्रिका ॥७


चत्वारिंशद्द्वितीयं स्यादेकोना नामसंख्यया।

यमलाम्बरधरा नेत्रा दद्युडाः खण्डिला सिता ॥८


अथातः कथ्यते तासां प्रविभागो यथा यथा।

जगतीनां क्रमेणैव शालानां च यथोदितः ॥९


चतुरश्रीकृते क्षेत्रे षडेते स विभाजिते।

समं वा चार्धयुक्ते वा गुणोऽथ मुखायताम् ॥१०


मण्डपेनोज्झिते कुर्याज्जगतीमनुसारतः।

द्वौ भागौ मध्यदेशे स्यात्प्रासादो भागिको भ्रमः ॥११


कर्णादृशां समुज्य पार्श्वयोरुभयोः पुरः।

श्रीखण्डिका विधातव्याः प्रासादमं --- मिमाम् ॥१२


मत्तवारणसंयुक्ता प्रतोल्यादिविभूषिता।

प्रथमे च समाख्याता जगती वसुधाभिधा ॥१३


वसुधा वसुधारा स्यात्समायुक्ताग्रशालया।

निर्गमः पुरतः कार्यः प्रासादस्य प्रमाणतः ॥१४


--- विस्तारस्तथा कार्यस्तं चतुर्धा विभाजयेत्।

भागिका श्रमणी कार्या शेषशाला द्विभागिका ॥१५


सुण्डिका चापि पूर्वोक्तमानेनैवायता भवेत्।

वसुधा च पुनः कर्णशालाभ्यां राजसिंहिका ॥१६


प्रासादार्धेन ते कार्यं कर्णयोरुभयोरपि।

स्वमानार्धेन च तयोर्भ्रमणीं परिकल्पयेत् ॥१७


मूलप्रासादविस्तारा कर्तव्या सुण्डिका पुरा।

शाला स्याद्वसुधा राजहंसाः पुरो यदा ॥१८


श्रीधरी सा तदा तस्याः सुरोयद्यन्द्र पूर्ववत् ।

यदा तु हंसिकास्थाने शाले स्तोऽपरकर्णयोः ॥१९


तद्रू पे तत्प्रमाणे च तदा सा भद्रि का भवेत्।

चतुरश्रीकृते क्षेत्रे षोडशांशविभाजिते ॥२०


पूर्वोक्तक्रमसम्पन्ने यथाकामं मुखायते।

मण्डपायामसंयोगाद्यथाभागं विभाजिते ॥२१


मध्ये देवालयः कार्यश्चतुर्वर्गपदान्वितः।

बहिर्द्विपदविस्तारो भ्रमस्तस्य समन्ततः ॥२२


कर्णे कर्णे च कर्तव्या द्विपदायामविस्तृता।

चतुर्दिशं कर्णशाला या पदिभ्रमणान्विता ॥२३


पदद्वितयविस्तारा त्रिपदायामसंयुता।

पदिका च भ्रमणा कार्या भद्र शालाश्च सुन्दराः ॥२४


वार्यन्तराणि परितः कुर्यान्मध्येषु शालयोः।

पदमेकं प्रविष्टानि तदर्धं विस्तृतानि च ॥२५


शालायाः पृष्ठभद्रे स्यादेकभद्र द्विभद्रि का।

कपोकृताभ्यां त्रिभद्रा णि पृष्ठकुक्षिषु ॥२६


शालाभिः स्याश्चाथ तिसृभिर्जगती भद्र मालिनी।

एकभद्रा दिचतुष्टयम् ।।

चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ॥२७


षड्वर्गलक्षणोपेतो मध्ये कार्यः सुरालयः।

देवालयपरितस्त्रिपदः स्यात्परिभ्रमः ॥२८


ततः शालाविभक्तिश्च कर्तव्या प्रोक्तलक्षणा।

पञ्चभागायता मध्ये भूचतुविस्तृता पदैः ॥२९


भद्र शालाश्च कर्तव्यास्तन्मध्ये भागिकभ्रमः।

भद्र स्य पार्श्वद्वितये द्विपदायामविस्तृतम् ॥३०


शालाद्वयं विधातव्यं द्वादशी शत --- भ्रमम्।

भागमेकं प्रवेशस्तु तयोः कर्णद्वयोर्भवेत् ॥३१


तिस्रस्तिस्रो भवत्येवं शालादिक्षु तिसृष्वपि।

षडेवोदकमार्गाश्च कार्या भागार्धनिस्सृताः ॥३२


भागमेकं प्रविष्टाश्च भवेयुर्दिक्त्रयेऽपि ते।

कर्णौ च पुरतः कार्यौ भागद्वितयसम्मितौ ॥३३


ससुण्डिका विमानोऽयं सुरासुरनरार्चिता।

सुण्डिकाग्रे यदेतस्यां शालाप्रासादसंमुखम् ॥३४


संस्तुता किन्नरैः सिद्धैस्तदा स्याद्भ्रमरावलिः।

वक्त्रशालाविहीना तु पार्श्वशालाद्वयान्विता ॥३५


तद्रू पा तत्प्रमाणा या स्वस्तिकी सा प्रकीर्तिता।

प्रासादाभिमुखी शाला स्वस्तिक्यामेव चेद्भवेत् ॥३६


तदानीं हंसमालति विख्याता जगती भुवि।

मुख्यस्य पार्श्वद्वितये भागं वार्यन्तरं यदा ॥३७


कृत्वा प्रासादयद्रुग्रे भद्र मानेन निर्गमम्।

प्रासादसंमितं सूत्रं शालास्तु गलभूषिताः ॥३८


शुण्डिका तदवस्थे च मुखे स्याच्छालया विना।

कुलशैला तदा ज्ञेया हंसमालागमाश्रया ॥३९


सदा महेश्वरस्येष्टा स्कन्दस्य तु विशेषतः।

अस्या एव यदा शाला पुरोभद्रे विधीयते ॥४०


तदा महीधरी प्रोक्ता महीधरमनःप्रिया।

चतुरश्रीकृते क्षेत्रे साष्टाविंशतिभाजिते ॥४१


चतुःषष्टिपदं मध्ये कुर्याद्देवालयं बुधः।

चतुष्पदो भ्रमः कार्यो देवागारस्य सर्वतः ॥४२


भ्रमसूत्रस्य कर्णस्था द्विपदायतविस्तृताः।

शालाश्चतुस्तस्रः कर्तव्या भागिकभ्रमवेष्टिताः ॥४३


तासां पार्श्वेषु सन्त्यज्य भ्रमाद्भागचतुष्टयम्।

शालां कं --- प्रकुर्वीत --- भागायतविस्तृतम् ॥४४


एकभागिकविस्तारः कर्णः स्यात्पार्श्वशालयोः।

मध्ये भागे जलाध्वा स्याद्विहाय त्रिदशं वहिः ॥४५


द्विभागविस्तृतां तां च कुर्याद्भागत्रयायताम्।

अन्तरेण जलाध्वा स्याद्भद्र पार्श्वजलालयोः ॥४६


स च भागार्धमायामात् प्रविष्टस्तावदेव च।

कृत्वा तिसृषु दिक्ष्वेवं सुण्डिकाकन्दमध्यतः ॥४७


प्रासादार्धसमायामौ सम्यक्तुण्डौ निवेशयेत्।

तयोरपि च शाले द्वे भ्रमक्रमविभूषिते ॥४८


कार्ये मन्दारशाला स्यादेवं हरमनःप्रिया।

सुण्डिकायां यदा तस्याः शाला सम्पद्यते तदा ॥४९


अनङ्गलेखा भवति जगती पार्वतीप्रिया।

यत्रास्मिन्नेव विन्यासे मुखशाले विना कृते ॥५०


शुण्डिकागण्ड---न्यौ शाला सोपानमालिकाः।

मुखशालान्विता सैव यदा नागाङ्गना तदा ॥५१


चतुरश्रीकृते क्षेत्रे द्वात्रिंशद्भागविभाजिते।

चतुःषष्टिपदं मध्ये कर्तव्यं सुरमन्दिरम् ॥५२


कार्यस्तस्य भ्रमः सम्यक्समन्ताच्च चतुष्पदः।

भ्रमन्ती द्विपदायामे शाले तु भ्रमसंयुतौ ॥५३


स्वप्रमाणाद्विधातव्ये मध्यगे भद्र कर्णयोः।

स्युः षोडशपद्रः कन्दास्तेषु शालाश्चतुष्पदाः ॥५४


चतुर्ष्वपि च कर्णेषु प्रविष्टा भ्रमजाः पदम्।

कर्तव्यं द्विपदायामं भद्र शालायुगं तथा ॥५५


विस्तारात् प्र --- पादोनमन्योन्याभिमिखं भवेत्।

आयताद् द्व्यंशविस्तारा पदेनैकेन वेष्टिता ॥५६


भद्र शाला विधातव्या सार्धत्रिपदनिर्गमा।

सौम्यानिलीवारुणीषु नैरृतीयाम्ययोरपि ॥५७


शालास्तिस्रः प्रतिदिशमशालाग्नेय्यायदिना मुरविद्विषः।

अस्या एव मुखे शाला यदि तन्मकरध्वजा ॥५८


अमराणां कृतानन्दा कृत्वैनां मोक्षमाप्नुयात्।

मुखशालां परित्यज्य यदैकैकाग्रकर्णयोः ॥५९


शाला प्रदीयते सा स्यान्नन्द्यावर्तयत्यहर्पतेः।

विकर्णकन्दधोराग्रे यदास्याः पृष्ठवंशगा ॥६०


द्विभागायामविस्तारा शाला भवति शोभना।

चतुर्ष्संस्थिता शाला शालायाः संमुखी भवेत् ॥६१


ताम्रमूला तदा ज्ञेयाः ब्रह्मविष्णुहरिप्रिया।

यदास्याः पृष्ठवंशस्था हस्तायाम्योत्तरात्तथा ॥६२


शाले क्रियेते तदा ज्ञेया पारिजातकमञ्जरी।

वारणीचतुष्टःस्थिता शालायाः सम्मुखी भवेत् ॥६३


ताम्रयाम्यासौम्यासु शालाः स्युर्यदि वंशगाः।

प्रिया स्यात्सर्वदेवानां तदा चूडामणिः प्रभोः ॥६४


चतुरश्रीकृते क्षेत्रे चतुरश्रः समन्ततः।

दशांशः स्यादुभायान्ता मध्ये प्रासादनायकः ॥६५


---पुरतश्चैवं पार्श्वयोरुभयोरपि।

भ्रमास्तस्या विधातव्याः --- पञ्चभिः पदैः ॥६६


कर्णकन्दाश्च कर्तव्या भ्रमसूत्राद्बहिः स्थिताः।

द्विभागायामविस्ताराश्चतुःशालोपशोभिताः ॥६७


अमुनैव क्रमेण स्युर्भद्र कन्दाः पदाधिकाः।

मूलप्रासादमालायां मालात्रितयधारिणाम् ॥६८


कर्णे कर्णे तु याः शालास्ता द्व्यंशायामविस्तृताः।

द्विभागिकजलाधारास्तथा भागपरिभ्रमाः ॥६९


पदप्रविष्टाम्बुपदा भ्रमपद्धतिसंयुताः।

तुल्याश्चतुर्षु कर्णेषु तुल्या भद्र त्रयेऽपि च ॥७०


भागद्वितयविस्तीर्णा भागत्रितयमायताः।

सृग भ्रमाश्च कर्तव्या भ्रमशालादिशान्तयोः ॥७१


शेषं च पूर्ववत्कार्यं शुण्डिकागण्डमण्डनम्।

स्यात्कर्णमञ्जरीत्येषा त्रिलोक्यानन्ददायिनी ॥७२


कर्णमञ्जरिकाभद्रे विभक्ते दशभिः पदैः।

द्विभागायामविस्तारां तुर्यां शालां निवेशयेत् ॥७३


उदक क्षणपूर्वाणि मुखान्यासां प्रकल्पयेत्।

परिक्रमस्त्रिस्तु सर्वासां भागैकः सर्वतो भवेत् ॥७४


द्वौ भागौ भद्र कर्णाभ्यां संक्षेपोभ्याभयपार्श्वयो।

भागिकोभयविस्तारा भद्रे ऽन्या कर्णिका भवेत् ॥७५


पदैः षोडशभिर्युक्ता विचित्रभ्रमविभ्रमं।

भद्रा स्या च चतुष्की स्यात्पुरतः संवृतान्तरः ॥७६


श्रीमण्डपं प्रकुर्वीत प्रभूतस्तम्भमण्डितम्।

दितामेतानेन परिक्षिप्तं छाद्यकाले हसंयुत ॥७७


एश्वास्याद्विश्वरूपे च कस्यायास्तु पुरस्करा।

चतुष्किकाभिस्तिसृभिर्भवेत्त्रैलोक्यसुन्दरी ॥७८


चतुरश्रीकृते क्षेत्रे भक्ते द्वादशभिः पदैः।

त्रिभागायामविस्तारा मध्ये शाला चतुर्मुखी ॥७९


सर्वतः सार्धभागाश्च कर्तव्या पदपद्धतिः।

तस्याः प्रागुदक --- शालाचतुष्टयम् ॥८०


द्विभागायामविस्तारं विधातव्यं सुशोभनम्।

भागिकालिन्दकेनैतत्स्यात्प्राक्से --- न वेष्टितम् ॥८१


कक्ष्यास्थाभिर्द्विभागाभिः कर्णिकाभिरलङ्कृतम्।

एवैतत् कर्णमञ्जर्याः कर्णे --- विधीयते ॥८२


जगती स्याच्छिवस्येष्टा तदा गन्धर्वमालिका।

इयवे वापरे भागे चतुर्थ्या शालयान्वितं ॥८३


विज्ञेया जगती नाम्ना विद्याधरकुमारिका।

अपरस्यां चतुर्थीं तु हित्वा शालां विनीयते ॥८४


ते द्वे --- कुद्यो कुर्वीत सुभद्रां त्रिदशप्रियाम्।

चतसृषु भद्रे षु प्रत्येकं म्पञ्च कर्णिगा ॥८५


शालाः स्युर्यदिश्चन्द्रा ष्टा तदा स्यात्सिंहपञ्जरा।

चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥८६


त्रिभागायामविस्तीर्णं मध्ये देवकुलं भवेत्।

भागेनैकेन कर्तव्यो भ्रमो दिक्षु तिसृष्वथ ॥८७


प्रासादायामविस्तीर्णे तस्याग्रे मुखमण्डपः।

भद्र स्य पार्श्वद्वितये बाह्यतो भद्र विस्तृतम् ॥८८


शालायुग्मं विधातव्यं त्रिपदायामविस्तृति।

भागिकभद्र माणोपेतं यदिकाच्च पयास्वित ॥८९


द्विभागायामविस्तारे भागिकभ्रमणान्विते।

शाले द्वे पुरतः कार्ये साम्मुख्याच्च परस्परम् ॥९०


पञ्चस्वलं भवेदेवं पृष्ठभद्रं यदा शुभम्।

याम्योत्तरे चतुःशाले भद्र द्वयपञ्चकञ्जरा ॥९१


पृष्ठभद्रं यदैतस्या--- न्मध्यशालया।

कक्षाभद्रे तथा स्यायुते गन्धर्वनगरी तदा ॥९२


पञ्च त्रीण्येव भद्रा णि पञ्चशालान्वितानि च।

शिशुतत्षट्त्रिंशत्तमा ज्ञेया सा जगत्यमरावती ॥९३


शुण्डिकाग्रे यदैतस्याः शाला सम्पद्यते क्वचित्।

तदा स्याद्दन्तचूडेति जगती जगतः प्रिया ॥९४


इयनि शुण्डिकाशाला गण्डशालाद्वयान्विताः।

त्रिदशेन्द्र सभा ज्ञेया ससुण्डी देवयन्त्रिका ॥९५


इति चतुरस्त्राणां कीर्त्यतेषायताः कासानकामा।

सप्तभागायते क्षेत्रे भागपञ्चकविस्तृते ॥९६


द्विभागायतविस्तारे स्तः शाले वामदक्षिणे।

चतुष्किकैकभागेन तयोरेवाग्रतो भवेत् ॥९७


भ्रमश्च भागिको मध्ये समन्ताच्च विधीयते।

प्रतोल्या भूषिता खण्डशुण्डिकाभिरलङ्कृता ॥९८


मत्तवारणशोभाढ्या यमालेखा प्रकीर्तिता।

यदा स्यात्पृष्ठतः कन्दो भागत्रितयविस्तृतः ॥९९


भागत्रितयनिष्क्रामश्चतुर्धा भाजितः पुनः।

द्विभागायामविस्तारा शाला भागद्वयं भ्रमः ॥१००


तदा पयोधरा नेत्रा शालाभ्यामग्रपृष्ठयोः।

नेत्राद्याश्चेत्यरशालास्यातां तु काया ॥१०१


पौरस्त्ययोरुभयोः साम्नमूत्कन्दो भागनिर्गतः।

भागमन्तः प्रविष्टश्च विभाज्यः सोऽपि पूर्ववत् ॥१०२


शालयोः स्यांतमोमानभ्रमयोरपि पूर्ववत्।

पार्श्वयोर्भ्रामण्यं चागौ द्वे च चेन्मूलशालायाः ॥१०३


शेषं तु पूर्ववत्सर्वदोर्दण्डा प्रासादाः प्रकीर्तिताः।

दोर्दण्डयोस्तु पार्श्वेऽपि शालासुश्लिष्टकर्णयोः ॥१०४


राक्षसानिलयोः शाले कुर्यादाखण्डला भवेत्।

अखण्डालायास्तु यदा पश्चाच्छाला विधीयते ॥१०५


पयो यं सरयोनि इव वच्छिदेति जगती भवेत्।

शिवायं वारुणी यद्वा शालात्रयविभूषिता ॥१०६


शुण्डिकारालय मचेन्माहेन्द्री वंपका तदा।

कोकैणेषु यमेलायासाद्यदा शालाचतुष्टय ॥१०७


भद्र त्रयोऽपि तिस्रस्ताः पूर्वभद्र ममालकम्।

ये कर्ण व---कन्दाः स्युः सार्धद्व्यंशविनिर्गतः ॥१०८


चतुर्भिस्तेषु भक्तेषु शाला भागद्वयं भवेत्।

भागं भागं भ्रमण्यः स्युः कर्णशाला इमा बहिः ॥१०९


त्रिनिष्क्रान्ता सृविस्तीर्णा भद्र कन्दास्थिते बहिः।

चतुर्भित्त्येषुतैः शाला स्युरार्धो भ्रमस्तथा ॥११०


पदार्धसंमितः कुष्टौ जलमार्गो विधीयते।

पृष्ठसाधोसिकास्तस्या द्वै कुलामोदिकाष्टमा ॥१११


भागार्धयलमाला--द्वितयशालिना।

पृष्ठभद्रे ण जगतीतिलकाले केचिस्तुता ॥११२


एतस्यां शुण्डिकायां स्याच्छाला चेन्मुखभूषणम्।

असौ --- पल्लवा नाम जगती जायते तदा ॥११३


तिलका गण्डकण्डेषु शाले द्वे भवतो यदा।

तेदा सिद्धार्थसंमुखां तदा विद्याधरी भवेत् ॥११४


त्रिविस्तृतं द्विनिष्क्रान्तं पृष्ठशालातलं यदि।

विद्याधर्याः पृष्ठभद्रे तदा यक्षं विनिर्दिशेत् ॥११५


षड्भागविस्तृते क्षेत्रे दशभागकृतायते।

द्विभागायामविस्तारं कुर्याच्छालात्रयं बुधः ॥११६


तदग्रे तत्समं कुर्यान्मण्डपा अधिवाधिकात्।

यथाकामं प्रकुर्वीत कर्मशोभाविभूतये ॥११७


---भागं भ्रमं कुर्यात्तासां पार्श्वचतुष्टये।

विशेषकरणायंच शालानां मध्यमैरपि ॥११८


मत्तवारणसंयुक्ताः सुण्डिकागण्डमण्डिताः।

इयं त्रिकूटा जगती ख्याता तृपुषपूर्या ॥११९


त्रिकूटा पूर्ववंशस्था त्रिभागायामविस्तृता।

विदध्यात्सवमां शालां प्राग्वत्स्याच्चित्रकूटिका ॥१२०


यथा पृष्ठे तथाग्रेऽपि यदि शाला विधीयते।

तदा सरनिकूटीति विज्ञेया जगती बुधैः ॥१२१


युक्ता प्राणास्य लाभ्यामग्रशालाविवर्जिता।

उपमेवाजोत्तमा सा जगती विश्रुता भुवि ॥१२२


नैरृतानलवाय्वीशकर्णप्रासादकैर्युता।

त्रिकूटैर्भवेन्नन्दै विभक्तषडला यथा ॥१२३


चित्रकूटा क्रमानर्यां द्विभजनं पूर्विविकूटवद् विचक्षणः।

त्रिकूटायामतो रूपे सिद्धिद्व्यायामविस्तृतम् ॥१२४


कर्णे कर्णे कृतं कन्दं चतुर्धा प्रविभाजयेत्।

भागद्वयेन शाला स्याद्भागेन भ्रमणं तथा ॥१२५


मूलतार्धविस्तारं भवतच्चेह मानतः।

याम्योत्तरे चतुर्भागविस्तार भागं निर्गताम् ॥१२६


--- भद्रं भागिकद्वयान्वितम्।

शेषं तु भ्रमणं तत्र मध्यपार्श्वेषु कारयेत् ॥१२७


एवमग्रेऽपि शाले द्वे द्वारस्योभयपार्श्वयोः।

कर्तव्ये भागनिष्क्रान्ते भागिकायामविस्तृती ॥१२८


पृष्ठभद्रं च कर्तव्यं सार्धांशद्वयविस्तृतम्।

द्विभागनिर्गमं युक्तं शालया सार्धभागया ॥१२९


याम्योत्तरेण चास्यैव कार्यं शालाद्वयं ततः।

प्रमाणे पसन्नकार्ये भागे प्रवेशनम् ॥१३०


शेषो भ्रमः स्याच्छालानां सप्तानां मध्यगस्ततः।

स्याच्छैवी श्रयणी त्वेषा सर्वामरगणप्रिया ॥१३१


अस्या एव मुखे शाला यदा सञ्जायते तदा।

त्रिविक्रमेति विख्याता जगती जायते शुभा ॥१३२


यदा सार्धविनिष्क्रान्ते सार्धांशद्वयविस्तृते।

पार्श्वभद्र द्वये शाले भवेतां भागविस्तृते ॥१३३


--- साधभागिकं भ्रमणान्विते।

लिप्यते चापि मा शाला क्रमायाता तदा भवेत् ॥१३४


शालायाः शुण्डिकाग्रे तु त्रिपथा सैव जायते।

चतुर्यातो प्रोक्ता कथ्यन्ते वृत्तजातयः ॥१३५


चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते।

मध्ये देवगृहं वृत्तं सार्धांशायामविस्तृति ॥१३६


भ्रमयेज्जगतीवृत्तं समगां भागिकं ततः।

पूर्वोक्तविधिना कार्यं पार्श्वतो मत्तवारणम् ॥१३७


गोपुरद्वारशोभाढ्या जगती वलया भवेत्।

वलयापृष्ठतः कन्दं मूलशालासमायतम् ॥१३८


पूर्वोक्तविधिना भक्तां शालां कुर्यात्तदर्धतः।

कलशेयं समाख्याता जगती कलशाकृतिः ॥१३९


कर्णस्थं द्विपदायामं कर्णशालाचतुष्टयम्।

चतुरश्रं भवेद्यत्र शातार्म्ये--- भिधीयते ॥१४०


सप्तभागायते क्षेत्रे चतुरश्रे समन्ततः।

भागांस्त्रीन्वर्जयेदग्रे चतुरः पृव्यन्तरश्चतान् ॥१४१


सार्धांस्त्रीन्पार्श्वयोर्भागांस्त्यक्त्वा गर्भततोकयेत्।

द्विभागायामविस्तारं वृत्तं स्याद्देवमन्दिरम् ॥१४२


भागमेकं भ्रमस्तस्य विधातव्यः समन्ततः।

भ्रमण्याः पृष्ठतः कन्दो भागायामविभूषितः ॥१४३


तस्यार्धेन भवेच्छाला तदर्धेन परिक्रमः।

गर्भाद्भागद्वयस्यान्त ईशानानलयोर्दिशोः ॥१४४


द्विभागौ भवतः कन्दावर्धभागप्रवेशितौ।

पृष्ठशालोर्ध्वगे तिर्यक्सूत्रेण दत्ते भ्रमान्तिके ॥१४५


कर्णिकाद्वितयं कार्यं राक्षसानिलयोर्दिशोः।

व्ययशालां च कुर्वीत पृष्ठशालासमां ततः ॥१४६


प्राक्पश्चात् कन्दगर्भस्था सूत्रद्वितययोगतः।

कुर्वीत कर्णिकां तीक्ष्णां पार्श्वयोरुभयोरपि ॥१४७


शेषा भ पूर्ववत् सर्वा शुण्डिकादिक्रिया भवेत्।

यदागभी करवीरेयमीशादित्रिदशप्रिया ॥१४८


एतस्या एव पृष्ठस्था यदा सन्त्यष्ट कर्णिकाः।

वामशाले विधीयेते नलिनीति तदा भवेत् ॥१४९


दत्तंशस्य सालिख्यात्तद्यौ दृशभिः पदैः।

सूत्राणि पातयेत्तस्य ततो दिक्षु विदिक्षु च ॥१५०


प्रासादभ्रमणस्यान्ते द्विपदायामविस्तृतीन्।

कुर्वीताष्टसु सम्पातेष्वष्टौ कन्दान् समन्ततः ॥१५१


विधाय तां चतुर्भक्तां कुर्याद् ज्रामांस्तथा।

अन्तरेण च कन्दानां कर्तव्यं कर्णिकाष्टाकम् ॥१५२


देशात्सार्धं यदा सूत्रे यथा सम्पत्स्यते मिथः।

पार्श्वद्वयात् कर्णिकानां संस्थानं स्यात्तथाविधम् ॥१५३


भक्त्वैवं सर्वभद्रा णि त्रिपदोऽन्तः सुरालयः।

पार्श्वभ्रमो व्यर्धपादो दशधा भाजिते भवेत् ॥१५४


कन्दाश्च द्विपदाः कार्या बहिर्दिक्षु विदिक्षु च।

अन्योन्याभिमुखास्तेषु शालाः कार्या यथोदिताः ॥१५५


शक्तियस्ता समीक्षते विष्णोरप्रतिमौजसः।

कार्येयं तस्य तान्येस्युः पुण्डरीकविनामतः ॥१५६


एतस्याः कर्णिकास्थाने यदा वृत्तं प्रकल्प्यते।

तदानीमातपत्रं स्यात्कर्तव्या ब्रह्मणश्च सा ॥१५७


कृत्वा वृत्तायतं क्षेत्रं विभजेद्दशभिः पदैः।

तस्य मध्ये विधातव्यं देवागारं पदैस्त्रिभिः ॥१५८


तस्य पार्श्वेषु कर्तव्यो भ्रमः सार्धद्विभागिकः।

द्विभागं बाह्यवृत्तं स्यात्तत्र कुर्यादिमां क्रियाम् ॥१५९


भागैर्द्वादशभिस्तच्च तुल्यमानैर्विभाजयेत्।

एकैकं च पुनर्भागं चतुर्धा तेषु भाजयेत् ॥१६०


द्विभागायामविस्तारा शाला मध्ये विधीयते।

भागिकश्चतुरश्रश्च दिछा लानृत्रितये भ्रमः ॥१६१


वामदक्षिणतः शाले तां ये भवतः शुभे।

ते वृत्ते संविधातव्ये संमुखे च परस्परम् ॥१६२


शाला तु खुमागंस्याच्छालार्धभागार्धविस्तृतः।

कल्प्यस्तेनैव मानेन सच्चावा भ्रमणं भवेत् ॥१६३


जगत्येषां समाख्याता चक्रवालेति नामतः।

दिवाकराय कर्तव्या सग्रहायाथवेन्दवे ॥१६४


समक्षवायभद्रा यामात्रिषुक्तायं वा पुन।

चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥१६५


गर्भाट्कोणगसूत्रेण सर्वतो वृत्तमालिखेत्।

बहिस्त्रिपदविस्तारं कन्दं कुर्याच्चतुष्पदम् ॥१६६


शालायां च द्विपदायामां विस्तारात्सार्धभागिकाम् ।

शेषं तु भद्र शालायाः समन्ताद् भ्रमणं भवेत् ॥१६७


भद्र स्योभयतो वृत्ते द्विभागायतविस्तृते।

शाले च वृत्तयोरन्तर्भागिकायामविस्तृती ॥१६८


याम्यसौम्यापरास्वेवं दिक्षु भद्र त्रयं भवेत्।

साधमायामविस्तारास्तदर्धभ्रमणान्विताः ॥१६९


शाला विदिक्षु कर्तव्याः शोभनाश्चतसृष्वपि।

भद्र मध्ये स्थितां शालां हित्वा प्राच्या तु सा भवेत् ॥१७०


सार्धमायामविस्तारास्तत्तदर्धभ्रमणान्विता।

सनक्षत्राय सोमाय कर्तव्या पुष्टिहेतवे ॥१७१


चतुरश्रीकृते क्षेत्रे दशभागविभाजिते।

पञ्चभागायतां मध्ये शालां वृत्तां प्रकल्पयेत् ॥१७२


साधभागद्वयस्तमिता देवागारस्य बाह्यतः।

अमण संविद्यातव्य कर्णशालाश्च कर्णगाः ॥१७३


कर्णमानं बहिर्वृत्तं भ्रमयित्वासारन्दतः।

भद्रो पभद्र कर्णेषु वृत्ताः शालाः प्रकल्पयेत् ॥१७४


पदद्वयसमायामा पदत्रितयविस्तृता।

भागिकाभ्रमणोपेता शालाः कुर्वीत भद्र जाः ॥१७५


द्वे भद्रा त्पार्श्वयोः शाले द्वे च प्रतिरथाश्रये।

भागिकायामविस्तारा कुर्यादर्धपरिभ्रमे ॥१७६


वौ हल्यायामतः साधभागा शालार्धकर्णगा।

तासां तदर्धमानेन विधातव्यः परिक्रमः ॥१७७


प्रविष्टौ तु पदाधेन भद्रा न् प्रतिरथावुभौ।

इत्येषा जगती प्रोक्ता मानतश्चन्द्र मण्डला ॥१७८


अथ वृत्ता --- ब्रूमो जगतीः षड्यथाक्रमम्।

पञ्चभागायताः क्षेत्रा विस्तरेण चतुष्पदाः ॥१७९


विद्ध्यादायतं वृत्तं चमस्यां भवभागिकः।

मध्ये स्यात् त्रिपदास्तामा सद्विपदविस्तृताः ॥१८०


मत्तवारणसंयुक्ता प्रतोल्यालङ्कृता शुभा।

सोपानशुण्डिकाप्रान्तं --- गण्डितमण्डिता ॥१८१


उक्तेयं मातुलिङ्गीति जगत्यमरवल्लभा।

अस्या एव यदा पृष्ठे द्विभागायामविस्तृतिः ॥१८२


शाला पूर्वक्रमेण स्यात्तदा ज्ञेया घटीति सा।

तद्रू पे तद्यतालालं द्वे शाले वामदक्षिणे ॥१८३


यदि पश्चिमशाला च तत्रेस्यायमती जगती तदा।

घटीकर्णेषु सर्वेषु द्विभागायामविस्तृती ॥१८४


यदि स्युर्भ्रमसंयुक्ता शाला प्राग्वद विभाजिता।

कुरुयेर्धायंतरिक्षे द्वे च पृष्टे वार्तन्तदूर्य ॥१८५


कालिङ्गीयं भवेदेवं पार्श्वयो अंयुर्लमदात्रेषु।

एतस्यां तु यदा शाला शुण्डिकाननसंस्थिता।

वृत्तायतविनिर्माणा जगती स्यात् ---।

एता वृत्तायताः ।।

ब्रूमोऽथाष्टाश्रिसंस्थाना जगतीः शुभलक्षणाः ॥१८७


चतुरश्रीकृतं क्षेत्रं सपादैर्दशभिर्भजेत्।

परित्यजेत्ततः सूत्रं कर्णे कर्णे पदत्रयम् ॥१८८


सपादांश्चतुरो भागान् मध्यभागेऽवशेषयेत्।

संसिध्यते च साष्टाश्रि तस्यार्धे स्यात्सुरालयः ॥१८९


अष्टाश्रिमध्यभागस्थः --- शेषं भ्रमणं भवेत्।

प्रासादश्च चतुर्द्वारश्च चतुर्भिर्मण्डपैर्युतः ॥१९०


प्रासादसाकसूत्र मुखलिङ्गं निवेशयेत्।

मूलकन्दार्धतः कन्दा क्रमादिक्षु च ॥१९१


तुल्यप्रमाणकानष्टौ चतुर्भागविभाजिता।

भ्रमशालाश्च पूर्वोक्तक्रमेण परिकल्पयेत् ॥१९२


सोपानशुण्डिकागण्डस्ता गोपुराद्यैरलङ्कृताः।

करव्यासामेरुपेता ववा सर्वायमुदाहृता ॥१९३


कृत्वा पूर्ववदष्टाश्रि क्षेत्रं भद्रं द्विधा भजेत्।

कुर्याद्भागार्धकं भद्रे पक्षयोश्च विनिर्गतम् ॥१९४


तद्विस्तारं भजेत् षड्भिर्निर्गमस्तैस्त्रिभिः पदैः।

परिक्रमो भवेत् -- पार्श्वयोः पृष्ठतोऽग्रतः ॥१९५


शेषं शाला युगं कार्यं भागद्वितयमायतम्।

साधभागिकविस्तारं संघचेस्यरस्यं च ॥१९६


अनेनैव प्रकारेण भद्रे भद्रे भवेद्गतिः।

कर्णभद्रं विधातव्यं त्रिपदायामविस्तृति ॥१९७


चतुर्धा भाजिते तस्मिन् भागेन भ्रमणं भवेत्।

शेषं तु शाला विज्ञेया द्विपदायामविस्तृता ॥१९८


विदिगन्तेषु सर्वेषु न्यासोऽयमतिसुन्दरः।

मूलशाला तु कन्दार्धे भ्रमश्चाधीभ्रमं ततः ॥१९९


मातृकेयं समाख्याता जगतुपसरचन्दितकिन्नरोशप्रदिति।

भद्रं --- पदेभ्यः स्याद्भागत्रितयनिर्गतम् ॥२००


चतुर्भागिकविस्तारं त्रिपदायामकन्दकम्।

तदा स्याच्छेखरा नाम भद्र त्रितयभूषिता ॥२०१


नित्यप्रमुदितानेकदेववृत्तदकृतास्पदा।

प्रागष्ट्य श्रीकृते क्षेत्रे चतुर्भागविभाजिते ॥२०२


द्विभागायामविस्तारे प्रासादे दशमे भ्रमे।

अश्रिभिः समविस्तारादासष्टौ--- प्रकल्पयेत् ॥२०३


सदा भागप्रविस्तारान् तांश्च कुर्यात्पृथक्पृथक्।

निर्गमेण चतुर्भागान् भागिक भ्रमणान्वितान् ॥२०४


द्विभागायामविस्तारं मध्ये शालाद्वयं भवेत्।

पद्मगर्भेयमित्युक्ता प्रजापतिमनःप्रिया ॥२०५


भवेदार्यादिदेवीनां सदा चित्तप्रसादिनी।

विधाय क्षेत्रमष्टासृतवदर्धायामविस्तृतौ ॥२०६


मध्ये देवगृहं कार्यं तदर्धेन भ्रमो बहिः।

भद्रं भवेद् द्वादशभिस्तैश्चतुर्भिर्विनिर्गमः ॥२०७


तस्य भद्रा णां निर्गमोऽपि चतुष्पदः।

विस्तारः षट्पदस्तेषां चतुर्भिस्तं विभाजयेत् ॥२०८


भागार्धेन शाला स्याद्भागत्रितयसमायता।

भ्रमश्च स्यात्तु कर्तव्यो भागं तत्पार्श्वयोः रुद्रा या ॥२०९


द्विभागायामविस्तारे शाले स्यातां पदभ्रमे।

इयमंशुमती प्रोक्ता जगती शुभलक्षणा ॥२१०


विधाय क्षेत्रमष्टाश्रि तदर्धायामविस्तृति।

मध्ये देवगृहं कार्यं तदर्धेन भ्रमो बहिः ॥२११


प्रासादसमविस्तारं भद्रं कृत्वा ततो भजेत्।

चतुर्दशभिरस्य स्यान्नितिर्यमो दशभिश्च तैः ॥२१२


मौलिकभ्रमणस्यान्ते त्रिपदायतविस्तृता।

शालातिशोभना कार्या साधभागभ्रमान्विता ॥२१३


द्विपदायामविस्तारे भागिकभ्रमणान्विते।

कर्तव्ये पार्श्वयोस्तस्याः शाले द्वे चारुदर्शने ॥२१४


प्रतिभद्रं विधातव्यं भागपञ्चकविस्तृतम्।

भागत्रयं प्रविष्टं च तत्र शाला त्रिभागिकी ॥२१५


भागद्वितयविस्तारा भागिकभ्रमणान्विता।

पार्श्वयोः प्रतिभद्र स्य कर्णिके भागनिर्गमे ॥२१६


सार्धभागायते स्यातां कर्णाः शालायुगान्विताः।

पूर्ववच्छुण्डिकाद्यं च कमलेयमुदाहृता ॥२१७


चतुर्दशविभक्तासु सप्तस्वस्तिषु कल्पयेत्।

निर्गमायामतुल्यासु शालाः पञ्च पृथक्पृथक् ॥२१८


अग्रभद्रे तु कर्तव्यं शालात्रितयमुत्तमम्।

इति विज्ञेय समाख्याता शाला वज्रधरप्रिया ॥२१९


इत्थं जगत्यश्चतुरश्रसंस्थाः।

स्पदायतां वर्तुलसन्निवेशाः।

वृत्तायता थस्तियुताश्चयः सम्यग्।

जङ्घाः सदा शिल्पिभिरप्रमत्तैः ॥२२०


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे जगतीलक्षणाध्यायो नामैकोनसप्ततितमः।