समराङ्गणसूत्रधार अध्याय ७४

समराङ्गणसूत्रधार अध्यायसूची

अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः।


अथात्र प्रक्रमायाता कथ्यतेऽण्डकवर्तना।

कायप्रमाणामपि च जातिभावादिसंश्रयम् ॥१


अथ मधोतिरालिख्य तोरका सन्निवेशयेत्।

तारका त्रयमालेख्य तत्राननसमायति ॥२


तावत्प्रमाणमायामं गोलकस्योत्तमं विदुः।

तेन गोलकत्वेन मानोन्माने तु कारयेत् ॥३


मुखाण्डकस्य विस्तारो लेपषट्केन सम्मितः।

द्विदैर्घ्यं तु गोलकाः सप्त वापीसंस्थानमेव च ॥४


मुखाण्डकमिदं श्रेष्ठं कर्तव्यं चित्रकर्मणि।

त्रिकोटि वृत्तिमालेख्यं वृत्ताण्डकमिति क्रमात् ॥५


भावाण्डकान्यथ ब्रूमः सोहस्याभिप्रस्तवेडकम्।

गोलार्धाभ्यधिकं कार्यं पूर्वेस्तोत्तद्विचक्षणैः ॥६


अर्धगोलकमायामादलसाण्डकमुच्यते।

नवगोलकदैर्घ्यं तदद्वहासमुखं भवेत् ॥७


पुंसां षडादात्तं मानं विस्तारात्पञ्चगोलकम्।

वनिताण्डकमालेख्यं नालिकेरफलोपमम् ॥८


चतुर्गोलकविस्तीर्णमायतं पञ्चगोलकान्।

शिशूनामण्डकं तावत्कर्तव्यं चित्रकर्मणि ॥९


हास्योभिः प्रस्रवेत् तस्य गोलकार्धान् विशेषयेत्।

आलस्याण्डकमप्येवं रोदनं तद्वदेव तु ॥१०


षड्गोलकप्रविस्तारमायतं सप्तगोलकम्।

राक्षसस्याण्डकं कुर्याच्चन्द्र मण्डलसन्निभम् ॥११


हास्योभिप्रस्तवे तस्य गोलकार्धान् विशेषयेत्।

देवाण्डकं प्रमाणेन तदालस्येऽत्र कीर्तितः ॥१२


षड्गोलकप्रविस्तारं गोलकाष्टकमायतम्।

वृत्तां या समालेख्यं दिव्याण्डकमिति स्मृतम् ॥१३


अथाभिधीयते दिव्यमानुषाण्डक लक्षणम्।

गोलकार्धाधिकं भे तच्च कार्यं मानुषमानतः ॥१४


पश्चगोलकविस्तीर्णं षड्गोलसेकमायुतम्।

मुखाण्डं मानुषं कृत्वा केत्तरस्य विधीयते ॥१५


शिशुकाण्डकमानेन प्रमथानां मुखाण्डकम्।

राक्षसाण्डकमानेन यातुधानाण्डकं भवेत् ॥१६


दानवस्याण्डकं कुर्याद्देवानां वदनोपमम्।

गन्धर्वनागयक्षाणां तद्वदेवाण्डकं भवेत् ॥१७


विद्याधराणां विज्ञेयं दिव्यमानुषमण्डकम्।

बुध्यन्ते केऽपि शास्त्रार्थं केचित्कर्माणि कुर्वते ॥१८


करामलकवत्यास्यं पर द्वयमप्यदः।

न वेत्ति शास्त्रवित्कर्म न शास्त्रमपि कर्मवित्।

यो वेत्ति द्वयमप्येतत्स हि चित्रकरो वरः ॥१९


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे अण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः।