प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः।


त्रिदशानामथाकारान् ब्रूमः प्रहरणानि च।

दैत्यानामथ यक्षाणां गन्धर्वोरगरक्षसाम् ॥१


विद्याधरपिशाचानां --- यथायथम्।

ब्रह्मानलार्चिःप्रतिमः कर्तव्यः सुमहाद्युतिः ॥२


स्थूलाङ्गः श्वेतषुष्पश्च श्वेतवेष्टनवेष्टितः।

कृष्णाजिनोत्तरीयश्च श्वेतवासाश्चतुर्मुखः ॥३


दण्डः कमण्डलुश्चास्य कर्तव्यो वामहस्तयोः।

अक्षसूत्रधरस्तद्वद् मौञ्ज्या मेखलया वृतः ॥४


कार्यो वर्धयमानस्तु जगद् दक्षिणपाणिना।

एवं कृते तु लोके क्षेमं भवति सर्वतः ॥५


ब्राह्मणार्थवर्धन्ते सर्वकामैर्न संशयः।

यदा विरूपादीनां वा कृरसोदरी ॥६


ब्राह्मणैर्वा भवेद्वर्णा सा नेष्टा भयदायिनी।

निहन्ति कारकं रौद्रा दीनरूपा च शिल्पिनम् ॥७


कृशा व्याधिं विनाशं च कुर्यात्कारयितुः सदा।

कृशोदरी तु दुर्भिक्षं विरूपा चानपत्यताम् ॥८


एतान् दोषान् परित्यज्य कर्तव्या सा सुशोभना।

ब्रह्मणोवार्चा विधानज्ञैः प्रथमे यौवने स्थिता ॥९


चन्द्रा ङ्कितजटः श्रीमान् नीलकण्ठः सुसंयतः।

विचित्रमुकुटः शम्भुर्निशाकरसमप्रभः ॥१०


दोर्भ्यां द्वाभ्यां चतुर्भिवा वधा युक्तो वा दोर्भिरष्टभिः।

पट्टिशव्यग्रहस्तश्च पन्नगाजिनसंयुतः ॥११


सर्वलक्षणसम्पूर्णो नेत्रत्रितयभूषणः।

एवंविधगुणैर्युक्तो यत्र लोकेश्वरो हरः ॥१२


परा तत्र भवेद् वृद्धिर्देशस्य च नृपस्य च।

यदारण्ये समाने वा विधीयेत महेश्वरः ॥१३


एवं रूपस्तदा कार्यः कारकस्य शुभावहः।

अष्टादशभुजो दोष्णां विंशत्या वा समन्वितः ॥१४


शतबाहुः कदाचिद्वा सहस्रभुज एव च।

रौद्र रूपो गणवृतः सिंहचर्मोत्तरीयकः ॥१५


तीक्ष्णदंष्ट्राग्रदशनः शिरोमालाविभूषितः।

चन्द्रा ङ्कितशिराः श्रीमान् पीनोरस्कोग्रदर्शनः ॥१६


भद्र मू कर्तव्यः श्मशानस्थो महेश्वरः।

द्विभुजो राजधान्यां तु पत्तने स्याच्चतुर्भुजः ॥१७


कर्तव्यो विंशतिभुजः श्मशानारण्यमध्यगः।

एकोऽपि भगवान् भद्र स्थानभेदविकल्पितः ॥१८


रौद्र सौम्यस्वभावश्च क्रियमाणो भवेद्बुधैः।

उद्याद्यथा भावद्भागभगवान् सौम्यदर्शनः ॥१९


स एव तीक्ष्णतामेति मध्यन्दिनगतः पुनः।

तथारण्यस्थितो नित्यं रौद्रो भवति शङ्करः ॥२०


स येद सौम्यावति स्थाने सौम्यो व्यवस्थितः।

स्थानान्येतानि सर्वाणि ज्ञात्वा किम्पुरुषादिभिः ॥२१


प्रमथैः सहितः कार्यः शङ्करो लोकशङ्करः।

एतद्यथावत्कथितं संस्थानं त्रिपुरद्रुहः ॥२२


कार्त्तिकेयस्य संस्थानमिदानीमभिधीयते।

तरुणार्कनिभो रक्तवासाः पावकसप्रभः ॥२३


ईषद्बालाकृतिः कान्तो मङ्गल्यः प्रियदर्शनः।

प्रसन्नवदनः श्रीमानोजस्तेजोन्वितः शुभः ॥२४


विशेषान्मुटुकैश्चित्रि मुक्तामणि भूषितः।

षण्मुखो वैकवक्त्रो वा शक्तिं रोचिष्मतीं दधत् ॥२५


नगरे द्वादशभुजः खेटके षड्भुजो भवेत्।

ग्रामे भुजद्वयोपेतः कर्तव्यः शुभमिच्छता ॥२६


शक्तिः शरस्तथा खड्गो मुसृण्टी मुद्गरोऽपि च।

हस्तेषु दक्षिणेष्वेतान्यायुधान्यस्य दर्शयेत् ॥२७


एकः प्रसारितश्चान्यः षष्ठो हस्तः प्रकीर्तितः।

चतुः पताका घण्टा च खेटः कुक्कुटस्तथा ॥२८


वामहस्तेषु षष्ठस्तु तत्र शोजर्जन करः।

एवमायुधसम्पन्नः संग्रामस्थो विधीयते ॥२९


अव्यया तु विधातव्यः क्रीडालीलान्वितश्च सः।

छागकुक्कुटसंयुक्तः शिखियुक्तो मनोरमः ॥३०


नगरेषु सदा कार्यः स्कन्दः परजयैषिभिः।

खेटके तु विधातव्यः षण्मुखो ज्वलनप्रभः ॥३१


तथा तीक्ष्णायुधोपेतः स्रद्गामभिरलङ्कृतः।

ग्रामेऽपि द्विभुजः कार्यः कान्तिद्युतिसमन्वितः ॥३२


दक्षिणा च भवेद्भक्तिर्नाम हस्ते तु कुक्कुटः।

विचित्रपक्षः सुमहान् कर्तव्योऽतिमनोहरः ॥३३


एवं पुरे खेटके च ग्रामे वाभिलं शुभम्।

कार्त्तिकेयं --- कुर्यादाचार्यः शास्त्रकोविदः ॥३४


अविरुद्धेषु कार्येषु खेटे याग्रामे पुरोत्तमे।

कार्त्तिकेयस्य संस्थानमेतद् यत्नेन कारयेत् ॥३५


बालस्तु सुभुजः श्रीमान् स्थले केतु महाद्युतिः।

वनमालाकुलोरस्को निशाकरसमप्रभः ॥३६


गृहीतसीरमुसलः कार्यो दिव्यमदोत्कटः।

चतुर्भुजः सौम्यवक्रो नीलाम्बरसमावृतः ॥३७


मुकुटालङ्कृतशिरोरोहो रागविभूषितः।

रेवतीसहितः कार्यो वनदेवः प्रतापवान् ॥३८


विष्णुर्वैदूर्यसङ्काशः पीतवासाः श्रियाकृतः।

वराहो वामनश्च स्यान्नरसिंहो भयानकः ॥३९


कार्यो वा दाशरथी रामो जामदग्न्यश्च वीर्यवान्।

द्विभुजोऽष्टभुजो वापि चतुर्बाहुररिन्दमः ॥४०


शङ्खचक्रगदापाणिरोजस्वी कान्तिसंयुतः।

नानारूपस्तु कर्तव्यो ज्ञात्वा कार्यान्तरं विभुः ॥४१


इत्येष विष्णुः कथितः सुरास्वरनमस्वरनमस्त्वतः।

त्रिदशेशः सहस्राक्षो वज्रभृत्सुभुजो बली ॥४२


किरीटी सगदः श्रीमाञ्श्वेताम्बरधरस्तथा।

श्रोणिसूत्रेण महा दिव्याभरणभूषितः ॥४३


कार्यो राजश्रिया युक्तः पुरोहितसहायवान्।

वैवस्वतस्तु विज्ञेयः कालेः केसं परायणः ॥४४


तेजसा सूर्यसङ्काशो जाम्बूनदविभूषितः।

सम्पूर्णचन्द्र वदनः पीतवासास्तुः शुभेक्षणः ॥४५


विचित्रमुकुटः कार्यो वराङ्गदविभूषितः।

तेजसा सूर्यसङ्काशः कर्तव्यो बलवाञ्छुभः ॥४६


धन्वन्तरिर्भरद्वाजः प्रजानीयतयस्तथा।

दक्षार्थाः सदृशाः कार्या कार्यो रूपाणि --- रपि ॥४७


अर्चिष्मान् ज्वलनः कार्यः यत्कण्ठाश्वसमीरणः।

सौम्यः कार्यस्तथा विस्या--- रुद्र शरीरिणः ॥४८


रक्तवस्त्रधराः कृष्णा नानाभरणभूषिताः।

कर्तव्या राक्षसाः सर्वे बहुप्रहरणान्विताः ॥४९


पूर्णचन्द्र मुखा शुभ्रा बिम्बोष्ठी चारुहासिनी।

श्वेतवस्त्रधरा कान्ता दिव्यालङ्कारभूषिता ॥५०


कटिदेशनिविष्टेन वामहस्तेन शोभना।

सपद्मेन वान्तेन दक्षिणेन शुचिस्मिता ॥५१


कर्तव्या श्रीः प्रसन्नास्या प्रथमे यौवने स्थिता।

गृहीतशूलपरिघपाहिकापट्टिसध्वजा ॥५२


बिभ्राणा खेटकोपेतलघुखड्गं च पाणिना।

घण्टामेकां च सौवर्णीं दधती घोररूपिणी ॥५३


कौशिकी पीतकौशेयवसना सिंहवाहना।

सेचोष्टौ --- विधातव्याः शुक्लाम्बरधराः --- ॥५४


शोभमानाश्च मुकुटैर्नानारत्नविभूषितैः।

सदृशावश्विनौ कार्यौ लोकस्य शुभदायकौ ॥५५


शुक्लमाल्याम्बरधरौ जाम्बूनदविभूषितौ।

त्रिपञ्चदशपूतिरस्येदं भृङ्गवन्मेचकप्रभाम् ॥५६


वैदूर्यशकंसङ्काशा हरितश्मश्रवोऽपि च।

रोहिता विकृता रक्तलोचना बहुरूपिणः ॥५७


नागैः शिरोरुहालीनैर्विरागाभरणाम्बराः।

कार्याः पिशाचा भूताश्च परुषासत्यवादिनः ॥५८


बहुप्रकारमन्दहा विरूपा विकृताननाः।

घोररूपा विधातव्या ह्रस्वा नानासुधाश्च ते ॥५९


सुभीमविक्रमा भीमा सङ्घा यज्ञोपवीतिनः।

वर्मभिः शाटिकाचित्रैर्भूताः कार्याः सदा बुधैः ॥६०


येऽपि नोक्ता विधातव्यास्तेऽपि कार्यानुरूपतः।

यस्य यस्य च यल्लिङ्गमसुरस्य सुरस्य च ॥६१


यक्षराक्षसयोर्वापि नाना गन्धर्वयोरपि।

तेन लिङ्गेन कार्यः स यथा साधुविजानता ॥६२


प्रायेण वा वीर्यवन्तो हि दानवाः क्रूरकर्मिणः।

किरीटिनश्च कर्तव्या विविधायुधपाणयः ॥६३


तेभ्योऽपीषत्कनीयांसो दैत्याः कार्या गुणैरपि।

दैत्येभ्यः परिहीणास्तु यक्षाः कार्या मदोत्कटाः ॥६४


हीनास्तेभ्योऽपि गन्धर्वा गन्धर्वेभ्योऽपि पन्नगाः।

नागेभ्यो राक्षसा हीनाः क्रूरविक्रिमतसूषिणः ॥६५


विद्याधराश्च यक्षेभ्यो हीनदेहधराः स्मृताः।

चित्रमाल्याम्बरधराश्चित्रचर्मासिपाणयः ॥६६


नानावेषधरा घोरा भूतसङ्घा भयानकाः।

पिशाचेभ्योऽधिकाः स्थूलास्तेजसा परुषास्तथा ॥६७


अन्यूनाधिकरूपांश्च कुर्वीत प्रायशः शुभान्।

दिव्यैरासणाभरणैश्च युक्ताः।

कृतीथविदधीत यथोदितांस्तान् ॥६८


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे देवादिरूपप्रहरणसंयोगलक्षणाध्यायो नाम सप्तसप्ततितमः।