समराङ्गणसूत्रधार अध्याय ७९

समराङ्गणसूत्रधार अध्यायसूची

अथ ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः।


अत ऊर्ध्वं प्रवक्ष्यामि नेविस्थानविधिक्रमम्।

संपात्यारुघाणां हि जायन्ते नव वृत्तयः ॥१


पूर्वभृष्कागतं तेषां ततोऽर्ध्वं क्षरगतं भवेत्।

ततः शचीक्षतं विद्यादध्यर्धाक्षमनन्तरम् ॥२


चत्वार्यूर्ध्वागतादीनि परावृत्तानि तानि च।

ऋज्वागतपरावृत्तं ततोऽर्धर्ज्वागतादिकम् ॥३


शचीकृत् परावृत्तं ततोऽध्यर्धाक्षपूर्वकम्।

पार्श्वागतं च नवमं स्थानं भित्तिकविग्रहम् ॥४


ऋज्वर्धऋजुनोर्मध्ये चत्वारि व्यन्तराणि च।

अर्धर्जुसाचीकृतयोर्मध्ये च व्यन्तरत्रयम् ॥५


द्व्यर्धार्ज्वा साचीकृतयोर्मध्ये द्वे व्यन्तरे परे।

परोद्व्यर्धक्षपार्श्व व्यन्तरं चैकमन्तरे ॥६


ऋज्वागतपरावृत्तपार्श्वाभ्यागतयोर्दश।

अन्तरे व्यन्तराणि स्युः स्थानकान्यपराण्यपि ॥७


ऋज्वागताद्यं मध्यं च विग्रहं वेन्वा---।

ऋज्वागतां --- शेषभाव्यन्तरा व्यया ॥८


अर्धापाङ्गमर्धपुटमर्धार्धपुटमेव च।

अर्धर्ज्वंसेऽपि कथितं सिलीदव्यन्तरं व्ययः ॥९


अर्धसाचीकृतं चैव स्वस्तिकं च ततः परम्।

साचीकृतोशे द्वावुक्तावंशौ द्व्यर्धाक्षसंज्ञिते ॥१०


द्व्यर्धाक्षांशपरावृत्तं द्व्यर्धाक्षांसं च ते उभे।

द्विज्वाक्षे व्यन्तरे प्रोक्ते चित्रशास्त्रविशारदैः ॥११


ऋज्वागतादध्यर्धाक्षं यथा प्रोक्तानि संज्ञया।

व्यन्तराणि तथैव स्युः परावृत्ते यथाक्रमम् ॥१२


वैचित्र्यं भित्तिके नास्तीत्येव चित्रविचित्र्यं विविदो विदुः।

एकान्नत्रिंशदेवं च स्थानानि व्यस्तवर्त्मना ॥१३


वैतस्त्यमन्तरं स्थाप्यं पादयोः सुप्रतिष्ठितम्।

हिक्कायां पादयोश्चान्तभूमौ लम्बे प्रतिष्ठिते ॥१४


प्रोक्तमृज्वागतं पूर्वं प्रमाणेन निरूपितम्।

ततोऽर्धर्ज्वागतस्येदं प्रमाणमुपलक्षयेत् ॥१५


ब्रह्मसूत्रं तु कर्तव्यं मुखस्यैव तु मध्यगम्।

नेत्ररेखासमत्वेन तिर्यक्तालो भवेन्मुखम् ॥१६


अपाङ्गस्याक्षिकूटस्य कर्णस्य च भवेत्क्षयः।

अन्यत्र कर्णमानं स्यादर्धाङ्गुलविशेषितम् ॥१७


दृक्सूत्रे ब्रह्मलेखाया अपरे स्यात्कलाहवम्।

यच्छमात्राश्रुपातोक्षि क्षीयतान्योपवस्तथा ॥१८


त्रियवाः श्वेतभागः स्यात्तारा च प्रोक्तमानतः।

विस्तारः श्वेतभागश्च करवीरोऽपि चोक्तवत् ॥१९


परभाः करवीरं स्याद्ब्रह्मसूत्रात्तथाङ्गुलम्।

पूर्वभाकरवीरात्तु सङ्गमश्चाङ्गुलं भवेत् ॥२०


कर्णनेत्रान्तरं प्रोक्तं कलाध्यार्धाङ्गुलाधिका।

पूर्वकू सर्वदिस्याविक्षायत्कथयेत्पराम् ॥२१


पुटोऽङ्गुलं ब्रह्मसूत्रात्कपोलाद् द्व्यङ्गुलं भवेत्।

पूर्वे परत्र मात्रार्धं पुटः स्याच्छेषमुक्तवत् ॥२२


परभागान्तराष्ट स्यादङ्गुलं द्वियवाधिकम्।

अधरः परभागे तु यवषट्कं विधीयते ॥२३


अधरान्ता कला गण्डो ब्रह्मसूत्रात् पुनर्हनुः।

परभागेऽङ्गुलं सार्धं मुखलेखाङ्गुलं ततः ॥२४


आरुड वा यत्कार्यं मुखयां पर्यतलेखया।

परिवर्तसुखादेशा ज्ञात्वा कार्या प्रयत्नतः ॥२५


अपादमध्यं हि ज्ञातः सूत्रेऽन्यस्मिन् प्रवर्तिते।

खरे लुप्येत तुर्यांशः पूर्वेत्वेवाविवर्धते ॥२६


कक्षाधरः परे भागे सूत्रतः पञ्चगोलकः।

पूर्वभागे तृतं विद्यात्षड्गोलपरिमाणतः ॥२७


मध्ये सूत्रात् पार्श्वलेखा --- गावच्चतुष्कलम्।

उरसो मध्यमात् सूत्रात्कक्षा स्यान्नवमाभवा ॥२८


द्गंतलेखात्तस्मात्वं विधाकलत्रयम्।

स्तनाः पार्श्वकलां कुर्यात्स्तनं वा पतमण्डलम् ॥२९


परतो हस्तकः कार्यः कर्मयोगानुसारतः।

पार्श्वपर्यन्त सर्वा भागे षषंडलालम् ॥३०


तथैव पूर्वहस्तस्य यथायोगं प्रकल्पना।

अभ्ययस्वाग --- दीनां क्रिया स्याद्दक्षिणे करे ॥३१


मध्ये षडङ्गुला रेखा बाह्यसूत्रात्परे भवेत्।

पूर्वस्मिन् बाह्यलेखा तो मध्ये स्यादष्टमात्रका ॥३२


नाभिदेशे परे भागे बाह्यासौ सप्तमात्रका।

कलामात्रं भवेन्नाभिस्तस्याः पूर्वं नवाङ्गुला ॥३३


परे भागे कटिः सप्त मात्रा दश च पूर्वतः।

ऊरुलेखा परे भागे मुखमानस्य मध्यतः ॥३४


प्राग्भागस्य बहिर्लेखा ----परजानुतः।

परभागेन्द्र वास्तेश्च सूत्रस्यात्तद्वदङ्गुले ॥३५


परस्य नलकस्य स्याल्लेखा प्रागङ्गुलान्तरे।

परभागस्य षष्ठांशाः सूत्रा प्रागङ्गुलद्वयोः ॥३६


नलेन परपादस्य भूमिलेखा विधीयते।

ततोऽङ्गुष्ठोऽङ्गुलेनाधः पार्ष्णिरूर्ध्वं तदर्धतः ॥३७


अङ्गुष्ठाग्रं ब्रह्मसूत्रात्परस्मिन् पञ्चमात्रकम्।

तलं च परभागज्ञैस्तिर्यक् पञ्चाङ्गुलं स्मृतम् ॥३८


सत्वितस्तलघाष्प्येः स्यादङ्गुष्ठाग्रं कलात्रये।

अङ्गुल्योऽङ्गुष्ठतः सर्वा व्रजत्परयं क्रमात् ॥३९


सन्निवेशसवासाद द्विरङ्गुल्यतो नवाङ्गुलः।

यथोक्तं जानु पूर्वं स्यात्सूत्रतश्चतुरङ्गुले ॥४०


नलकस्तद्वदेवास्य नलकौ त्र्यङ्गुलान्तरौ।

सूत्रादक्षः कलास्तिस्राङ्गुष्ठस्त्वङ्गुलत्रयम् ॥४१


भूमिसूत्राद् गतोऽधस्तात्पूर्वाङ्गुष्ठो भवेत् कला।

अङ्गुष्ठोऽङ्गुलयश्चेति सर्वमन्यद्यथोदितम् ॥४२


दृश्यपार्श्वतलप्रविपारंहौ मध्यमे तलम्।

एवमुक्तप्रमाणेन ज्ञात्वा युक्त्या समादिशेत् ॥४३


अर्धर्ज्वागतमित्येतत्प्रवरं स्थानमीरितम्।

लक्ष्म साची कृतस्याथ स्थानकस्याभिधीयते ॥४४


विन्यस्येद्ब्रह्मसूत्रं प्राक्स्थानबोधस्य सिद्धये।

ललाटं परभागे स्यात्केशलेखा तथा कला ॥४५


परभागभ्रुवो लेखा --- र्धमुदाहृता।

परता --- क्षिलेखायां कालिका द्वियतो ज्ञत ॥४६


ज्योतिषः स्यात्परे भागे तारा दृश्या यवोन्मिता।

यवमात्रं ततो ज्योतिस्तस्मात्तारा यवद्वयम् ॥४७


श्वेतं च करवीरं च ततः प्रागुक्तमानतः।

कनीलिका तु नासाया मूलं विद्याद्यवान्तरम् ॥४८


नासामूलं प्रमाणेन ततो ज्ञेयं यवत्रये।

ब्रह्मसूत्रात्पूर्वभागे नगन्तोर्ध्वगोलकौ ॥४९


आपाङ्गं स्तात्रेतो विद्याद्द्विगोलकमितेऽन्तरे।

तस्माद्भागेन कर्णान्तः कर्णः स्याद्विस्तरेण तु ॥५०


द्वियवोना कला चक्षुर्व्यावृत्त्या परिवर्धितः।

पूर्वस्य करवीरेण सह श्वैत्यं यवत्रयम् ॥५१


द्वितीयश्वैत्यदृक्ताराप्रसृतिः प्रोक्तमानतः।

कपोललेखा परतो यवद्वा ता कला भवेत् ॥५२


ब्रह्मसूत्रान्नासिकाग्रं परस्मिन् सप्तभिर्यवैः।

नासापुटः पूर्वभागे स्याद्यवाधिकमङ्गुलम् ॥५३


पूर्वे भागे यवं गोजी तत्रोपान्ते विधीयते।

परभागोत्तरोष्ठः स्यात्प्रमाणेनार्धमात्रकः ॥५४


त्रियवश्चाधरोष्ठः स्याच्छेषश्चापचयस्तयोः।

पाल्या मध्ये भवेत् सूत्रं पाल्यास्तु चिबुकं परे ॥५५


हनुपर्यन्तलेखा च सूत्रादर्धाङ्गुले भवेत्।

हनोर्मध्यगतं सूत्रं परे स्यात्परिमण्डलम् ॥५६


सहैकसूत्रे परदृक्पर्यन्तेन परिस्फुटा।

मुखपर्यन्तलेखार्धे हनोरुपरि चाधरः ॥५७


कुर्याल्लेखाभिरेताभिः परभागं विचक्षणः।

सूत्राङ्गुलोर्ध्वमात्रायां तस्माद् ग्रीवा यथोदिता ॥५८


सूत्रसंयोगात्पूर्वस्मिन्नङ्गुले सयवेऽङ्गुलः।

हिक्काध्यर्धाङ्गुलं सूत्रात्पूर्वे स्यात्सुप्रतिष्ठिता ॥५९


बाह्यलेखा हि तत्सूत्रात्परस्मिन्नङ्गुलाष्टके।

तालें यवोनग्रीवातो नग्रीवज्ञेयौसूनदूर्वकौ ॥६०


हिक्कासूत्रात्समारभ्य वक्षोभागोऽग्रिकं भवेत्।

तावन्मात्रे तरेवाहु तस्मात्प्रभृति निर्दिशेत् ॥६१


हिक्कासूत्रात्परे भागे स्तनश्चाङ्गुलपञ्चके।

रेखान्तसूचकः कार्यो मण्डलं सार्धमङ्गुलम् ॥६२


तस्मादनन्तरं बाह्यभागमात्रं विनिर्दिशेत्।

हिक्कासूत्रात् समारभ्य स्तनः पूर्वषडङ्गुले ॥६३


स्तनात्षडङ्गुले तिर्यगक्षो स्मा द्वौ द्विभागिकः।

कक्षतो द्विकलेऽधस्ताद्बाह्यलेखा विधीयते ॥६४


आभ्यन्तरा बाह्यलेखा स्तनात्पञ्चाङ्गुले तलेऽन्तरे।

ब्रह्मसूत्राच्च भागेन मध्यभागे परिविदुः ॥६५


मध्यात्त्वकलयावहः परे तिर्यग्विभज्यते।

मध्यप्रान्तः पूर्वभागे भवेत्सूत्राद्दशाङ्गुलः ॥६६


तिर्यङ्नाभिप्रदेशः स्यात्परतो ब्रह्मसूत्रतः।

यवैश्चतुर्भिरधिकमङ्गुलानां चतुष्टयम् ॥६७


पूर्वभागे विनिर्दिष्टः स एवैकादशाङ्गुलः।

मध्येनैति परस्योरोः सूत्रं नाभ्यन्तराश्रितम् ॥६८


प्रयात्यपरजाच्चैतात् पूर्वतः कलया च तत्।

जान्वधोभागतश्चार्धकलया त्रियवेन च ॥६९


जङ्घामध्येन लेखायाः प्रसक्तं नलकस्य तु।

षांते वैरवं परतश्चतुर्भिः सूत्रमिष्यते ॥७०


अनेनैवानुसारेण बहिर्लेखा विधीयते।

ब्रह्मसूत्रात्परे भागे कटिरङ्गुलपञ्चके ॥७१


तामालमात्रा तु सा पूर्थे मेडाग्रं सूत्रसङ्गतम्।

सूत्रादरभागोरू मूलाग्रये ॥७२


सूत्रादपरभागोरुमध्ये रेखा कलाद्वये।

सूत्रात्पूर्वोरुमूलं स्यात्पूर्वतः कलया तथा ॥७३


कलाद्वयेन विज्ञेया रेखा पूर्वस्य जानतुः।

सार्धाङ्गुलयवं जानु तत्पार्श्वं चार्धमङ्गुलम् ॥७४


सूत्रेण पादस्य मध्यरेखा विभज्यते।

आदिमध्यान्तलेखायां सूत्रशौचमुदाह्वता ॥७५


सूत्रात्प्राग्भागमलके प्रान्तः पञ्चभिरङ्गुलैः।

अर्धाङ्गुलं क्षयः कार्यः परभागोरुजङ्घयोः ॥७६


पराक्षिमध्यगं सूत्रं लम्बभूभिप्रतिष्ठितम्।

परपादतनान्तात्प्रागङ्गुलेन विधीयते ॥७७


--- सूत्रात्पूर्वपादस्य तलमष्टाङ्गुलं भवेत्।

अधस्तात् तलयोः सूक्ष्मा स्याल्लेखाष्टादशाङ्गुलम् ॥७८


अङ्गुष्ठकाद्र कमात् प्रदेशिन्यङ्गुलाधिका।

परपादतलावस्तून् पूर्वा ह्यङ्गुष्ठमूलगम् ॥७९


सूत्रं यथाति सा भूमिलेखेति परिकीर्तिता।

सूत्रादर्धाङ्गुलेनोर्ध्वं तस्मात्पार्ष्णि परस्य च ॥८०


अङ्गुष्ठादङ्गुलीपातः पूर्वपादेऽनुसारतः।

उपप्रदेशिनीमानात्कुर्यादत्र प्रदेशिनीम् ॥८१


अपराश्चाङ्गुलीः सर्वाः क्रमेण क्षपयेत्ततः।

इति साचीकृतं स्थानमेतदुक्तं यथार्थतः ॥८२


अध्यर्धाक्षमिदानीं च स्थानकं सू प्रचक्षते।

ब्रह्मसूत्रमुखे कृत्वा मानमात्रं विधीयते ॥८३


केशान्तलेखा सूत्रात्स्यान्मात्रैका यवसंयुता।

पृथग्वक्षः पृथक् श्रोणिः वृत्तःवाहः सुसंस्कृतिः ॥८४


भद्रा कारो भवेद् भद्रो वृत्तवक्त्रः स्वभावतः।

मालव्यस्य भवेन्मूर्धा प्रमाणेनाङ्गुलत्रयम् ॥८५


चतुर्मात्रललाटं च नाश वक्त्राशिरोधरा।

मात्रा द्वादश वक्षेस्ये नाभिमेढ्रान्तरोदरे ॥८६


अष्टादशाङ्गुलौ चोरू जङ्घे अप्येवमेव हि।

चतुरङ्गुलकौ --- जानुनी चतुरङ्गुले ॥८७


मालव्यस्यायमायामः षण्णवत्यङ्गुलो मतः।

विस्तारो वक्षसस्तस्य मात्राः षड्विंशतिः स्मृतः ॥८८


बाह्वोः षोडशमात्रश्च प्रबाह्वोरेवमेव सः।

पार्ष्ण्यौ द्वादशमात्रस्ये मालव्यस्त्वेह विस्तुतिः ॥८९


पीनांसो दीर्घबाहुश्च पृथुवक्षाः कृशोदरः।

वृत्तोरुकटिजङ्घश्च मालवः पुरुषोत्तमः ॥९०


हंसस्य वक्रं पृथुगण्डभागं।

कृशं शशस्यायतमास्यमाहुः।

विस्तारदैर्घ्याद्भवकस्य तुल्यं।

सुखं सुवृत्तं त्विहच भद्र वक्रे ॥९१


स्यान्मालावस्या लेपनं तु कान्तमयोज्यं ।

देही तु रूपैश्च भवन्ति युक्तास्ते कर्मणि सर्वगुणान्वितास्ते ॥९२


स दुर्लभं स्यात्पुरुषः प्रमेय-।

मानोऽस्ति कीर्ण इति ह षष्टः ॥९३


मांसलेन शरीरेण ग्रीवासिरा अया ---।

मांसलायातशाखा च नारी वृत्तेति सा मता ॥९४


पृथुवक्त्रा कटीह्रस्वा ह्रस्वग्रीवा पृथूदरी।

पुंवत्काण्डकतुल्या स्यात्सा नारी पौरुषी मता ॥९५


अल्पकायशिरोग्रीवा लघुशाखा भवेच्च या।

कृशाल्पब्रह्मसत्त्वा च सा नारी बालकी स्मृता ॥९६


पुंस्पर्शात्पश्यता या स्यात्कौमारे प्राप्तयौवना।

अन्या सा बालकी प्रोक्ता स्त्रीलक्षणविचक्षणैः ॥९७


भुवः सद्वियवामात्रा लेखा कृशयवाङ्गुलाः।

दक्तोयमन्तरे वर्त्म ताराय अर्धमालिखेत् ॥९८


स्वैत्यं चतुर्यवं दृश्यशेषं सा तिरस्कृतम्।

कपोतरेखा परतो यववर्जितमङ्गुलम् ॥९९


सूत्रापूर्वपटान्तः स्यादर्धाङ्गुलमितेन्तरे।

नासिकान्तोऽङ्गुलं सूत्रात्परे पूर्वेतपाङ्गुलम् ॥१००


मूले नासापुटः साद्रः सूत्रं गोज्याश्च मध्यगम्।

यवार्धमात्रा गोजी स्यादुत्तरोष्ठः परस्य यः ॥१०१


स ब्रह्मसूत्रादारभ्य विज्ञेयो द्वियवोन्मितः।

परे त्वधस्तान्नासाया रेखा चार्धाङ्गुलैर्भवेत् ॥१०२


परभागेऽधरोष्ठस्य प्रमाणं --- यवं मतम्।

हनुपर्यन्तलेखाया मध्ये सूत्रं प्रतिष्ठितम् ॥१०३


सूत्रात्प्राक्करवीरः स्याद् द्वियवोनाङ्गुलद्वयम्।

यवार्धं स च दृश्येत श्वैत्यं सार्धयवं ततः ॥१०४


--- तारा त्रियवा ज्ञेया शेषमुक्तप्रमाणतः।

कर्णावर्तादधः कर्णमध्यभागेन संमितम् ॥१०५


द्व्यङ्गुलः कर्णविस्तारः कर्णावर्ताच्चतुर्यवे।

शिरःपृष्ठस्य लेखा स्यादिति ज्ञात्वोक्तमाचरेत् ॥१०६


कर्णसूत्राद् बहिर्ग्रीवा विधातव्यैकमङ्गुलम्।

गलो ग्रीवा च हिक्का च सूत्राद् प्रागङ्गुलोत्तरे ॥१०७


हिक्कासूत्राद्भवेदूर्ध्वमंसलेखा तथाङ्गुलम्।

ब्रह्मसूत्रात्परे भागे स्यादंसोऽङ्गुलसंमिते ॥१०८


वक्षोऽङ्गुलं ब्रह्मासूत्रां --- नस्ति कालान्तरे।

भागमात्रे भवेत्कक्षासूत्रात्पूर्वः स्तनस्य च ॥१०९


कक्षातिस्त्रिकलं यावत्पार्श्वलेखा विधीयते।

दूराग्रभुजस्तस्यादग्रे कर्मानुसारतः ॥११०


प्रासादमध्यः सूत्रः स्यादेकादशभिरङ्गुलैः।

परभागस्य मध्यस्त सूत्रात्स्यादङ्गुलैस्त्रिभिः ॥१११


अङ्गुलेन परे भागे सूत्रतो नाभिरिष्यते।

नाभेरुदरलेखा तु विज्ञातव्याङ्गुलत्रये ॥११२


श्रोणी कर्णो भवेन्नाभे मुखमर्धाङ्गुलान्वितम्।

ब्रह्मसूत्रात्कटिः पूर्वे त्रिभागा त्र्यङ्गुला परे ॥११३


ब्रह्मसूत्राश्रित मेढ्रस्तले चा परतो भवेत्।

पूर्वोक्तः मध्यभेखास्यात्सूत्रात्प्रत्यङ्गुल्यन्तरे ॥११४


तस्यैव मूलरेखा च सूत्रात्प्राग् द्व्यङ्गुलेन्तरे।

मूललेखा परस्योरोः सूत्रात्स्याद्द्विकलेऽन्तरे ॥११५


पर्यन्तजानुनो भागे पर्यन्तोपरा जानुतः।

परभागिका जातर्द्वे सूत्रस्य सम्यक्प्रतिष्ठितम् ॥११६


जानुमध्ये गता लेखा बाह्यलेखाश्रिता भवेत्।

अध्यर्धमात्रं जानु स्यादधोलेखा तु तस्य या ॥११७


अर्धाङ्गुलेन सा सूत्रात्पूर्वतः प्रविधीयते।

सूत्रात्परे पराङ्गुष्ठं मूलपादोनमङ्गुलम् ॥११८


मूलादङ्गुष्ठकस्याग्रं सार्धैः स्यादङ्गुलैस्त्रिभिः।

सूत्रात्परं स्याज्जङ्घाया लेखाङ्गुलचतुष्टये ॥११९


तस्यास्तु पूर्वजङ्घाया लेखा स्यादङ्गुलद्वये।

पूर्वजानु कलामानं शेषं कुर्याद्यथोदितम् ॥१२०


परपादतले स्तम्भं यत्तिर्यक्सुप्रतिष्ठितम्।

तत्प्राक्प्रदेलस्योर्ध्व सार्धया कलया भवेत् ॥१२१


प्राग्भङ्गोऽङ्गुष्ठमूलेच्छस्तत्रास्वीया कनिष्ठिका।

कलामात्रं निजाङ्गुष्ठादंधासागं प्रपद्यते ॥१२२


यत्पराङ्गुलम्बसूत्रं प्रतिपद्यते।

यत्पराङ्गुष्ठमूलोत्थं लम्बसूत्रं प्रपद्यते।

मध्येन पूर्वभागाप्ति सबन्धाङ्गुष्ठकस्य तत् ॥१२३


पूर्वपाष्णितलादूर्ध्वं विदध्यादङ्गुलत्रये।

पाष्णेः परस्य पादस्य पूर्वपादं तिरस्कृतम् ॥१२४


अध्यर्धाक्षं यथाशास्त्रमेवं स्थानकमालिखेत्।

अथ पार्श्वागतं नामस्थानं पञ्चममुच्यते ॥१२५


व्यावर्तितमुखस्यान्ते ब्रह्मसूत्रं विधीयते।

ललाटबाह्यलेखां च सूत्रस्पृष्टां प्रदर्शयेत् ॥१२६


सूत्रात्तु नासिकावंशः संवृद्ध्य द्वाक्षमानतः।

अपाङ्गो द्विकले सूत्रात्कर्णो यंशात् कलाद्वये ॥१२७


कर्णो द्व्यङ्गुलविस्तारः शिरःपृष्ठं कला ततः।

अस्य मध्यगतं सूत्रमास्यार्धं स्थापयेत् ततः ॥१२८


अङ्गुले चिबुकं सूत्राद्धनुमध्यं चतुर्यवे।

सार्धाङ्गुले ततः कण्ठवर्तिग्रीवाङ्गले नतः ॥१२९


अङ्गुलेन ततो हिक्का चतुर्भिर्ब्रह्मसूत्रतः।

मूर्ध्ना श्रवणपाल्यन्तेनैति सूत्रं तदुच्यते ॥१३०


ग्रीवायाङ्गुल्यमध्येन मध्यसूत्रं तदुच्यते।

भागे हिक्कामध्यसूत्रादण्डमूलं कलाद्वये ॥१३१


मात्राष्टके च पृष्ठं तो हृल्लेखाप्येवमेव हि।

स्तनस्य मण्डलं तस्मादङ्गुलेन विधीयते ॥१३२


कक्षा च पूर्वभागे स्यात्सूत्रात् पश्चभिरङ्गुलैः।

मात्रात्रयेणापरस्मिन् भागे कक्षा विधीयते ॥१३३


उभयोरन्तयोः प्राहुर्मध्यमष्टाङ्गुलं बुधाः।

अङ्गुलैर्दशभिर्मध्यं पर्यन्तो मध्यसूत्रतः ॥१३४


मध्यपृष्ठं चतुर्भिः स्यान्नाभिपृष्ठं च पञ्चभिः।

नाभ्यन्तरेखा नवभिः कटिपृष्ठं कलात्रये ॥१३५


उदरप्रान्तलेखा च ज्ञेया दशभिरङ्गुलैः।

मां मा भ्रात्रयेणाभिरष्टाभि सूत्रात् स्फिजो मध्यं प्रचक्षते ॥१३६


वस्तिशीर्षे च नवभिः स्फिगन्तोऽष्टभिरङ्गुलैः।

अष्टभिर्मेढ्रमूलं स्यादूरुमध्यं च सप्तभिः ॥१३७


अङ्गुलैः पञ्चभिर्मूलमूरोः पार्श्वात्यमुच्यते।

चतुर्भिरङ्गुलैः सार्धैः करमध्यं च पृष्ठतः ॥१३८


अग्रतः पञ्चभिः सार्धैस्तदेव प्राहुरङ्गुलैः।

करमध्याङ्गुलैर्मध्यं सूत्रमध्ये विधीयते ॥१३९


जान्वर्धे मध्यसूत्रं स्याद्भागो लेखा च जानुतः।

भवेदुभयतः सूत्रं जङ्घा मध्ये च कीर्तता ॥१४०


जङ्घ षडङ्गुला सूत्रं मध्ये स्यान्नलकस्य च।

उभयोः पार्श्वयोः कार्यो नलकश्चाङ्गुलद्वयम् ॥१४१


चतुर्भिरङ्गुलैः पार्ष्णिर्मध्यसूत्राद्विधीयते।

यथोक्तमानेनाङ्गुल्यस्तथा पादतलं भवेत् ॥१४२


पार्श्वागतमिदं प्रोक्तं स्थानं भित्तिकसंज्ञकम्।

पार्श्वागतस्थानम् ।।

अतः परं परावृत्तस्थानकान्यभिदध्महे ॥१४३


ऋज्वा गतपरावृत्तं तत्रादावभिधीयते।

तत्राङ्गुलद्वयं कर्णौ विधातव्यौ पृथक्पृथक् ॥१४४


पार्ष्णिपर्यन्तयोर्मध्यं तथा सप्ताङ्गुलं भवेत्।

अङ्गुलत्रितयं सार्धं पार्ष्णी कार्यौ पृथक्पृथक् ॥१४५


कनिष्ठानामिकामध्या दर्शयेच्चतुरङ्गुली।

अङ्गुष्ठानामिकामध्याकनिष्ठावलिखेन्तरे ॥१४६


परावृत्तमिदं शेषमृज्वागतवदादिशेत्।

अध्यर्धाक्षादिकाद्रू यानि स्थानानि तेषु यत् ॥१४७


भवेद्यस्य परावृत्तं तद्वशात्तस्य तद्भवेत्।

--- यस्य हि यद्दृश्यं स्थानकस्याङ्गमीरितम् ॥१४८


तददृश्यं परावृत्ते तस्यादृश्यं च दृश्यते।

स्थानानी भवितानि --- जीवेषु द्विपदेषु च ॥१४९


निर्जीवेष्वपि जानीयाद्यानासनगृहादिषु।

स्थानानि मूलभूतानि नवैवैतानि वस्तुतः ॥१४०


यानि निविशतभक्तानि तद्भेदानि च तान् विदुः।

मूर्धस्थिता यदा दृष्टा ऋज्वादीनि विलोकयेत् ॥१५१


स्थानानि तेषां यन्मानं तदस्मात् तदिहोच्यते।

विस्तृत्याष्टादश न्यस्येदायत्या द्विगुणानि च ॥१५२


अङ्गुल्यन्यादारासूत्रं यथाभागं यथोचितम्।

आयामस्यार्धदेशे च विस्तारोऽस्याग्रतोऽष्टभिः ॥१५३


--- पृष्ठप्रदेशार्द्र --मङ्कयेत्।

तन्मध्यगामिनी सूत्रे न्यस्येदायतविस्तृते ॥१५४


अङ्गानां स्यात्तदवधिर्निर्गमो वष्टमाणकः।

सूनत्योगतो गर्भसूत्रादित्यादि ॥१५५


स्तनगर्भो गर्भसूत्राद्विस्तृतौ स्यात्षडङ्गुलः।

षडङ्गुलः स्यात्स्तनयोस्तिर्यग्गर्भविनिर्गमः ॥१५६


तिर्यग्गर्भात्पृष्ठपक्षौ स्फिजावपि दशाङ्गुले।

नवाङ्गुले पृष्ठवंशः स्फिजो सप्ताङ्गुलेऽन्तरे ॥१५७


कक्षाया मूलमायामाद्गर्भतश्च दशाङ्गुलम्।

निर्गमोऽग्रेऽङ्गुलं तस्य सूत्रात्सप्त च पृष्ठतः ॥१५८


गर्भसूत्रात्ततस्तिर्यक्पादांशोऽष्टादशाङ्गुलः।

गर्भाद्यवप्रदेशश्च भवेत्पञ्चभिरङ्गुलैः ॥१५९


अष्टाभिर्जठरं गर्भात्पार्श्वयोः पुरतोऽपि च।

उदरस्य --- मं पृष्ठं पश्चात्सप्तभिरङ्गुलैः ॥१६०


सार्धैर्द्वादशभिर्मूलमूर्वोरथो मतोऽङ्गुलैः।

पञ्चाङ्गुलं निर्गमस्तत् --- स्यात्सप्त च पृष्ठतः ॥१६१


ऊरुमूलस्य पृष्ठात्तु स्फिजौ त्र्यङ्गुलनिर्गतौ।

मेढ्रमग्रे ततो ज्ञेयं गर्भसूत्रात्षडङ्गुले ॥१६२


तिर्यक्सूत्राज्जानुपार्श्वं सार्धैर्नवभिरङ्गुलै।

आयामसूत्राज्जान्वन्तपृष्ठेऽग्रे चतुरङ्गुलः ॥१६३


नलकश्च भवेद्गर्भात्तिर्यगस्य षडङ्गुलः।

गर्भसूत्रात्तु नलकः पृष्ठतश्चतुरङ्गुलः ॥१६४


सूत्रान्ताङ्गुल्यपर्यन्तः स्यात्सार्धैः षड्भिरङ्गुलैः।

अक्षः सार्धाङ्गुले सूत्राद्भवेद्विस्तृतिदर्शनात् ॥१६५


चतुर्दशाङ्गुलाः पादो दैर्घ्येणात्र प्रकीर्तितः।

गर्भादष्टाङ्गुलाग्रोऽसौ पश्चादपि षडङ्गुलः ॥१६६


जानुनोरक्षश्च स्यादन्तरमङ्गुलं मिथः।

ऊर्वोरङ्गुलमुद्दिष्टं न भलयोश्चतुरङ्गुलम् ॥१६७


ऋज्वागतमिति प्रोक्तमद्वजौ मध्यसूत्रतः।

परिवर्ततगुलगं सावावप्यङ्गुलद्वयम् ॥१६८


तस्मात्सावेस्त सार्धांक्ष्ये त्वङ्गुले परिवर्तनी।

--- भित्तिकं प्रोक्तं परावृत्तेऽप्ययं विधिः ॥१६९


ऋज्वागतार्धर्जुकसाचिसंज्ञाध्यर्धाक्षपार्श्वागतसंज्ञकानि।

तेषां परावृत्तचतुष्ट्यं च प्रोक्तान्यथो विंशतिरन्तराणि ॥१७०


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः।