प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ भूमिपरीक्षा नामाष्टमोऽध्यायः।

देशाश्च देशभूम्यश्च समासात्तव सम्प्रति।

तत्सङ्ख्या तद्विभागाश्च प्रोच्यन्तेऽवहितः शृणु ॥१


देशः स्याज्जाङ्गलानूपसाधारणतया त्रिधा।

त्रिविधस्याप्यथैतस्य यथावल्लक्ष्म कथ्यते ॥२


दूराम्बुरिरिणप्रायो ह्रस्वकण्टकिपादपः।

रूक्षोष्णचण्डपवनः कृष्णमृत्तेषु जाङ्गलः ॥३


निम्नो भूरिजलः स्निग्धो बहुमत्स्यामिषो हिमः।

स्यादनूपः सरित्प्रायः स्निग्धोच्छ्रितबहुद्रुमः ॥४


यः पुनर्नातिशीतोष्णः स्याद्देशद्वयलक्षणः।

स साधारण इत्युक्तो देशो देशविशारदैः ॥५


जाङ्गलादिषु देशेषु त्रिपुण्येषु स्वलक्षणैः।

युक्ताः षोडश विज्ञेया भूमयः प्रविभागतः ॥६


बालिशस्वामिनी भोग्या सीता गोचररक्षिणी।

अपाश्रयवती कान्ता खनिमत्यात्मधारिणी ॥७


वणिक्प्रसाधिता द्र व्यसम्पन्नामित्रघातिनी।

आश्रेणीपुरुषा शक्यसामन्ता देवमातृका ॥८


धान्या हस्तिवनोपेता सुरक्षा चेति षोडश।

भुवः संज्ञाभिरुद्दिष्टा लक्ष्मासामथ कथ्यते ॥९


भूभुजा बालिशेनापि शक्यते या प्रशासितुम्।

या च भद्र जना सा स्याद्बालिशस्वामिनी क्षितिः ॥१०


वितरन्त्यधिकं यस्यां भागभोगादिकान् करान्।

नरा भूरिश्रियः सात्र भोग्येति क्षितिरुच्यते ॥११


यस्यां नदाश्च नद्यश्च गिरिर्मध्येऽथवा बहिः।

विभक्तक्षेत्रसीमा सा सीता गोचररक्षिणी ॥१२


सरिदद्रि वनाद्येषु त्रासाद्यस्यां विशेज्जनः।

जनापाश्रययोग्यत्वादपाश्रयवतीति सा ॥१३


वनोपवनवत्यद्रि सरित्कुञ्जमनोहरा।

देहिनो रमयत्युर्वी या सा कान्तेति कीर्तिता ॥१४


यस्यां सदैव जायन्ते कलधौतादिधातवः।

लवणानि च भूयांसि प्राहुः खनिमतीति ताम् ॥१५


यात्यन्तं नानुगृह्येत दण्डकोशासनादिभिः।

स्फीतलोकाश्रया या च सा स्याद्भूरात्मधारिणी ॥१६


प्रसिध्यन्त्यसकृद्यत्र पण्योपक्रयविक्रयाः।

वणिक्प्रसाधितेत्युक्ता सा भूर्वणिगलङ्क्रता ॥१७


शाकाश्वकर्णखदिरश्रीपर्णीस्यन्दनासनैः।

वेणुवेत्रशराद्यैश्च युक्ता द्र व्यवतीति भूः ॥१८


यस्यां जनपदाः साधु विभक्तास्त्यक्तविक्रमाः।

योगं यान्ति च मित्राणि स्याद्भूः सामित्रघातिनी ॥१९


न क्षुद्रा वन्दिनो यस्यां दुर्गप्रत्यन्तसंश्रयाः।

भूः साश्रेणीमनुष्येति विनीतैराश्रिता जनैः ॥२०


मन्त्रोत्साहादिवैमुख्यं यस्यां सामन्तभूभुजः।

भजन्ते सा स्मृता शक्यसामन्ता भूः समन्ततः ॥२१


जीवन्ति क्षेत्रिणो यस्यां नदी नद्यादिवारिभिः।

तां देवमातृकेत्याहुरनपेक्षितवारिदाम् ॥२२


निष्पद्यन्तेऽधिकं यस्यां बीजान्युप्तान्ययत्नतः।

कृष्टानुपहृतक्षेत्रा धान्या सा धान्यशालिनी ॥२३


पर्यन्तेष्वद्र यो यस्यां या च हस्तिवनाश्रिता।

सा हस्तिवनवत्युर्वी भूभृतः सैन्यवर्धिनी ॥२४


दुष्प्रधृष्यैव या नित्यं विषमत्वादरातिभिः।

विषमाद्रि सरिद्गुप्ता सा सुरक्षेति भूः स्मृता ॥२५


षोडशेत्युदिता भूम्यः प्रविभागाद्यथातथम्।

अन्या जनपदादीनां ब्रूमः सम्मिश्रलक्षणाः ॥२६


धातुस्यन्दोल्लसत्कुञ्जगुल्मद्रुमलतावृतैः।

उत्सङ्गिताः पृथुशिलैः समन्तादवनीधरैः ॥२७


तीर्थावतारकान्ताभिः स्वादुतोयाभिरावृताः।

नदीभिः पुलिनप्रान्तैर्विचित्रद्रुमशालिभिः ॥२८


कोकिलालापसुभगैर्मधुमत्तालिशालिभिः।

विचित्रफलपुष्पाढ्यैः काननैरुपशोभिताः ॥२९


दलत्कुवलयश्रेणीक्वणन्मधुपहारिभिः।

सरसीदेवखाताद्यैर्भूषिताः प्राज्यवारिभिः ॥३०


समैः सुगन्धिभिः स्वादुशीतैः कान्तैरभङ्गुरैः।

क्षेत्रैरक्षतसीमान्तैः सस्यनिष्पादिभिर्वृताः ॥३१


निष्कण्टकाश्मवल्मीकैः प्रभूतयवसेन्धनैः।

विभक्तक्षेत्रसीमान्तैर्गोचरैरुपशोभिताः ॥३२


स्थले तृणसमुद्रा णामन्तरेषु वसुन्धराः।

प्रशस्यन्ते समासन्नस्वादुशीतलवारयः ॥३३


दुरात्मनामधृष्या यास्तथानेकाश्रयान्विताः।

संरम्भत्रासनिर्मृक्तं मनश्च रमयन्ति याः ॥३४


तास्वेवंगुणयुक्तासु महीषु विनिवेशयेत्।

यथास्थानं जनपदान् खेटग्रामपुरादि च ॥३५


युता महीध्रमूला स्वप्राकारैस्तु पृथक्पृथक्।

चतस्रः कीर्तिता धन्या भूमयो दुर्गहेतवः ॥३६


दुरारोहतया दुर्गे टङ्कच्छिन्न इवान्ततः।

समपृष्ठेऽम्बुयुक्ताद्रौ गिरिदुर्गावनिर्भवेत् ॥३७


कण्टकिद्रुमनीरन्ध्रनद्धे साम्भसि कानने।

गूढप्रवेशमार्गे भूर्मूलदुर्गेति कीर्तिता ॥३८


द्वीपेषु स्वादुतोयेषु बह्वागाधजला बहिः।

रम्यावकाशदेशा स्याज्जलदुर्गा च मेदिनी ॥३९


स्निग्धाः सारभृतः शुद्धाः प्रदक्षिणजलाशयाः।

बहूदकास्तरुच्छन्ना निबिडाः प्रागुदक्प्लवाः ॥४०


दूर्वासस्त्वौषधीमुञ्जकुरुन्दकुशवल्कलैः।

परितः परिणद्धाश्च स्वादुस्वच्छस्थिरोदकाः ॥४१


वास्तुयज्ञामरस्थानाद्यारामोद्यानसंभृताः।

तटाकवापीस्थानैश्च याः समन्तादलङ्कृताः ॥४२


या वाहनानां सुखदा मिथुनानां रतिप्रदाः।

पुरार्थं ताः प्रशस्यन्ते भूमयो जनितश्रियः ॥४३


कुङ्कुमागुरुकर्पूरस्पृक्कैलाचन्दनादिभिः।

सुगन्धा मिश्रितैरेभिः पृथक्स्थैर्वा वसुन्धरा ॥४४


कल्हारपाटलाम्भोजमालतीचम्पकोत्पलैः।

स्थलाम्बुप्रभवैश्चान्यैः सुगन्धा कुसुमैस्तथा ॥४५


गोमूत्रगोमयक्षीरदधिमध्वाज्यगन्धभाक्।

समानगन्धा मदिरामाध्वीकेभमदासवैः ॥४६


शालिपिष्टकगन्धैश्च धान्यगन्धैश्च या तथा।

प्रशस्ताखिलवर्णानामीदृग्गन्धा वसुन्धरा ॥४७


सिता रक्ता च पीता च कृष्णा चैव क्रमान्मही।

विप्रादीनां हि वर्णानां सरवेषामथवा हिता ॥४८


स्वादुः कषाया तिक्ता च कटुका चेत्यनुक्रमात्।

वर्णानां स्वादतः शस्ता सर्वेषां मधुराथवा ॥४९


घर्मागमे हिमस्पर्शा या स्यादुष्णा हिमागमे।

प्रावृष्युष्णहिमस्पर्शा सा प्रशस्ता वसुन्धरा ॥५०


मृदङ्गवल्लकीवेणुदुन्दुभीनां समा ध्वनौ।

द्विपाश्वाब्धिसमस्वाना चेति स्युर्भूमयः शुभाः ॥५१


इदानीमप्रशस्तानां भुवां लक्ष्माभिदध्महे।

पुरादिसन्निवेशार्थं परित्याज्या भवन्ति याः ॥५२


भस्माङ्गारकपालास्थितुषकेशविषाश्मभिः।

मूषकोत्करवल्मीकशर्कराभिश्च निर्भरा ॥५३


रूक्षा प्ररोहिणी निम्ना भङ्गुरा सुषिरोषरा।

वामावर्तजलास्राविण्यसारा विषमोन्नता ॥५४


कटुकण्टकिनिःसारशुष्कनिष्फलपादपा।

क्रव्यात्पक्षिसमाकीर्णा कृमिकीटवती च या ॥५५


सुकृतान्यपि भोज्यान्नभक्ष्यपानानि तत्क्षणात्।

यस्यां विनाशमायान्ति सह तूर्यादिनिस्वनैः ॥५६


सरित् पूर्ववहा यस्यां पुरार्थं तामपि त्यजेत्।

बहुनापि यतस्तत्र कालेनायाति सा पुनः ॥५७


वसासृङ्मज्जविण्मूत्रमलकोथपतत्रिणाम्।

समगन्धां त्यजेदुर्वीं तैलस्य च शवस्य च ॥५८


सदैव धूम्रवर्णा या मिश्रवर्णाथवा मही।

विवर्णा रूक्षवर्णा वा सा न स्यादिष्टदायिनी ॥५९


तिक्ताम्ललवणा चापि भूमिर्या स्वादतो भवेत्।

तां लोकविद्वेषकरीं त्यजेत् पुरनिवेशने ॥६०


या रूक्षखरसंस्पर्शा सदैवोष्णा हिमाथवा।

अनिष्टसुखसंस्पर्शा या स्यात्तामपि सन्त्यजेत् ॥६१


क्रोष्टूष्ट्रश्वखरस्वाना या च निर्झरनिस्वना।

भिन्नभाण्डसमक्रूरध्वनितापि च नेष्यते ॥६२


इति गन्धादिभिर्भूमिः कथितेयं शुभाशुभा।

हलेन कृष्यमाणायां भूमौ काष्ठे समुद्धृते ॥६३


विद्याद्भयं वह्निभवमिष्टकायां धनागमम्।

पाषाणेषु तु कल्याणं कुलप्रध्वंसमस्थिषु ॥६४


सरीसृपेषु सर्वेषु स्तेनेभ्यो भयमादिशेत्।

अनूषरा बहुतृणा शस्ता स्निग्धोत्तरप्लवा ॥६५


प्रागीशानप्लवा सर्वप्लवा वा दर्पणोदरा।

शुभेऽह्न्युपोषितः स्नातः शुचिः शुक्लस्रगम्बरः ॥६६


स्वस्ति विप्रान् वाचयित्वा वास्तुदेवान् समर्च्य च।

करप्रमाणं कुर्वीत खातं तद्भूमिमध्यगम् ॥६७


ततस्तन्मृदमाकृष्य तत् तयैवानुपूरयेत्।

खाताधिकमृदुक्ता भूः श्रेष्ठा मध्या च तत्समा ॥६८


प्रहीणखातमृत् क्षोणी हीना शस्ता न सा नृणाम्।

खन्यमाने यदा खाते तन्मृदोऽन्तर्विलोक्यते ॥६९


मणिशङ्खप्रवालादि तदातिश्रेयसी क्षितिः।

सापि प्रशस्यते भूमिर्यस्यां स्युः खातपांसवः ॥७०


तुषकेशोपलाङ्गारभस्मास्थिलववर्जिताः।

भृत्वाद्भिः खातमापूर्णे तस्मिन् पदशतं व्रजेत् ॥७१


तावच्चेदागमेऽम्भः स्यात्तदा भूः सार्वकामिकी।

मध्यमात्रप्रहीणे स्यात् ततो हीनतरेऽधमा ॥७२


खाते सितादिमाल्यानि यस्यां निश्युषितानि च।

यद्वर्णानि न शुष्यन्ति सा तद्वर्णेष्टदा मही ॥७३


खातस्योदक्प्रभृतिषु दिक्षु प्रज्वालयीत वा।

दीपान् यस्यां चिरं तिष्ठेत् तद्वर्णेष्टप्रदा हि सा ॥७४


इत्येवं कीर्त्तिताः कार्त्स्न्याल्लक्ष्मभिः पुरभूमयः।

खर्वटग्रामखेटानामेता एव स्मृता हिताः ॥७५


वर्णिनां वर्णधाम्नां च शिबिराणां च सर्वदा।

प्रासादयज्ञवाटानामेता एवेष्टदा भुवः ॥७६


इत्येवमादिभिरिमाः शुभलक्ष्मयुक्ता।

भूम्यः शुभा निगदिता नगरादिहेतोः।

आभ्यः परेण बहुधा परिकल्प्यमानं।

ब्रूमस्त्रिधा स्थितवतोऽपि करस्य मानम् ॥७७


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे भूमिपरीक्षा नामाष्टमोऽध्यायः।