प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समराङ्गणसूत्रधार अध्यायसूची

अथ पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः।


चतुःषष्टिरिहेदानीं हस्तानामभिधीयते।

लक्षणं विनियोगश्च योगायोगविभागतः ॥१


पताकस्त्रिपताकश्च तृतीयः कर्तरीमुखः।

अर्धचन्द्र स्तथारालः शुकतुण्डस्तथापरः ॥२


मुष्टिश्च शिखरश्चैव कपित्थः खटकामुखः।

सुच्यास्यः पद्मकोशाशिरसौ मृगशीर्षकः ॥३


काङ्गलपद्मकोलश्च चतुरो भ्रमरस्तथा।

हंसास्यो हंसपक्षश्च सन्दंशमुकुलावदि ॥४


ऊर्णनाभस्ताम्रचूढ इत्येषा चतुरन्विता।

हस्तानां विंशतिस्तेषां लक्षणं कर्म चोच्यते ॥५


प्रसारिताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि।

कुञ्चितश्च तथाङ्गुष्ठ स पताक इति स्मृतः ॥६


उत्क्षिप्तन शिरो या --- त्पाणिनां मेरसा पुनः।

नतेन वामतः किञ्चिद् भ्रुकुटीकुटिलभ्रु च ॥७


स्तोकविष्फारिताक्षेण प्रहारमभिनिर्दिशेत्।

प्रतापनं तथोद्भूतो नरेसोग्रतेन च ॥८


तथैवाविकृतास्येन भालस्थः किञ्चिद् विचलितः करः।

पताकस्फोरिताक्षेण भ्रुकुटीकुञ्चितभ्रुवा ॥९


कार्योऽहमिति गर्वः स्याच्चित्रशास्त्रविशारदैः।

अर्थेषु वक्ष्यमाणेषु संयुतं चैनमाचरेत् ॥१०


द्वितीयहस्तयुक्तो यः स हस्तः संयुतः स्मृतः।

तत्राग्निसूपणाचामः पुरतो क्षिणतः पुनः ॥११


ऊर्ध्वं प्रसर्प्य कर्तव्यः प्रचलद्विरङ्गुलिः।

विदध्यादित्थमेवोक्तं वर्षधारानिरूपणम् ॥१२


कित्वधामियंतं तौ तावमच्छन्तौ च दर्शयेत्।

पुष्पवृष्टिप्रपतने प्रचलद्विरलाङ्गुलिः ॥१३


कार्यं हस्तद्वयं वक्रं त्रयोऽप्यत्राधिकाघिः।

कै तैव --- चोत्तानं विधाय स्वस्तिकं बुधः ॥१४


कुर्वाणो विच्युतिं तस्य पल्वलं सम्प्रदर्शयेत्।

पुष्पोपहारं सष्पाणि ये चार्था भूतलस्थिता ॥१५


तानुन्नमितवामभ्रूः किञ्चिदुद्वाहयञ्छिरः।

तादृशं हस्तयुग्मं तु कुर्यादविकृताननः ॥१६


अधोमुखं च तेनैव कर्तव्याप्रघटना मिथः।

संवृतं वा थविश्लिष्टं तारः --- ॥१७


दर्शनीयं च वदनमस्मिन्नविकृतं सदा।

पाल्यं छतन्न च कर्तव्यं शल्कशे परस्परा ॥१८


किञ्चिद्विनतमूर्धा च विधायाधोमुखौ तलौ।

निबिडं निबिडेनैव निर्विकारमुखाम्बुजः ॥१९


उरसोऽग्रे तथोर्ध्वेन परावृत्ते च हस्तयोः।

युगलेन मनसाशक्तिं प्रयत्नेन प्रदर्शयेत् ॥२०


गोप्यं वामेन गुप्तेन किञ्चिद्विनतमस्तकः।

किञ्चिदाकुञ्चितां वामां भ्रुवं कृत्वा प्रदर्शयेत् ॥२१


पार्श्वस्थेन पताकेन पाण्यङ्गद्वितयेन तु।

अधिकस्थेन पताकेन पाण्यब्जद्वितयेन तु ॥२२


अधिकारिमुखे वायोः कुर्यादभिनन्दयं ततः।

नतोत्त --- शिरास्तेन द्विहित भ्रुकुटिमानके ॥२३


वेलामुर्वीं च मतिमान् पाणियुग्मेन दर्शयेत्।

पुरःस्थितेन वामेन दक्षिणेन तु पाणिना ॥२४


तसृष्टे सर्पता स्तोकमुद्वाहितशिरा नरः।

वेगं प्रदर्शयेन्नित्यमविकारि दधन्मुखम् ॥२५


इत्युश्वेनुश्च चलता हस्तयोर्द्वितयेन तु।

मूर्ध्ना तदनुगेनैव तथैव विकृताननः ॥२६


क्षोभस्यानयं कुर्याद्धस्ताभिनयकोविदः।

उधस्तृधो मुखेनावः यतन्परार्थतापि च ॥२७


पताकेनाभिनेतव्यो विधाय भ्रुकुटिं मनाक्।

पार्श्वव्यवस्थितेनोर्ध्वं चलदङ्गुलिना मुहुः ॥२८


उत्साहनं विधातव्यमुत्तप्य च शिरोधराम्।

तिर्यग्विष्फार्यमाणेन प्रभूतमभिनिर्दिशेत् ॥२९


महतोऽभिनयः कार्यः पार्श्वयोरूर्ध्वसर्पिणा।

भ्रान्तेनोत्तानिते चानिकृतास्येन सिंहाजनम् ॥३०


रूपयेदुच्चमुच्चेन पताकेनैव पाणिना।

इतस्ततः प्रचलता दर्शयेत् पुष्कराहतिम् ॥३१


सत्ताक्षपेण वक्त्रेण चलयै --- मुखेन च।

स्थितेन पार्श्वयोस्तिर्यग्रिच्यमानेन दर्शयेत् ॥३२


पक्षोत्क्षेपक्रियां नित्यं वक्त्रेण विकृतेन च।

उत्तानितेन वामेन विधृतेनेतरेण तु ॥३३


पुरःप्रसर्पिणाधौतं हस्तानुगतदृष्टिना।

निघृष्टतलहस्तेन भ्रुकुट्या मृदितं पुनः ॥३४


प्रघृष्टमेकरूपेण द्वितीयेन प्रसर्पता।

तेन स्योपरि हस्तेन निविष्टेन विधीयते ॥३५


अन्योन्य घर्षणात्येत् पिष्टं भ्रुकुट्या च प्रदर्शयेत्।

पार्श्वस्थितेन शैलेन्द्रं दूरविष्फारितेन च ॥३६


प्रदर्शयेत् समुत्क्षिप्यमोमा भ्रूलतिकां शनैः।

शैलधारणमन्योन्यशक्तेनाभिमुखेन च ॥३७


पार्श्वयोः सम्प्रवेश्याधः कृकतभ्रुकुटिना ततः।

कार्यमुत्क्षिप्यमानेन शैलप्रोत्पाटनं तथा ॥३८


शिरःप्रदेशसंस्थेन दूरमुत्तानितेन च।

समुन्नतभ्रुवा कार्या पर्वतोद्धरणक्रिया ॥३९


इति पताकहस्तः ।।

पताके तु यदा वक्रानामिका त्वङ्गुलिर्भवेत्।

त्रिपताकः स विज्ञेयः कर्म चास्याभिधीयते ॥४०


अयं --- अवि चलन्मध्याकनिष्ठिकः।

अत्रोहेन विधातव्यो नतु मूर्ध्ना तथा मनाक् ॥४१


उन्नामेन समुत्क्षिप्तपुरोभागेन चामुना।

नमता शिरसा कुर्यात्तथा वतरणक्रियाम् ॥४२


पार्श्वतः सर्पता कार्यममुनैव विसर्जनम्।

पराङ्मुखानारयोग्र भ्रुकुटिं विरचय्य वा ॥४३


बारणं पार्श्वसंस्थेन प्रवेशोऽधो नतेन च।

प्रवेशं कुर्वताकारो वेकुब्जमविकारिताः ॥४४


उत्क्षिप्ताङ्गुलियुग्मेन तथोत्तानेन चामुना।

उन्नामनं विधातव्यमविकारिमुखेन च ॥४५


पार्श्वतो नमता कार्या प्राणेना नतमस्तकैः।

निदर्शनं तथोद्वृत्तेनोर्ध्वाङ्गुलिशिखेन च ॥४६


प्रसर्पितमुखस्याग्रे विधिसम्बन्धनं पुनः।

उत्तानेनासुमाङ्गुल्या श्वहीत्वा नामिकाख्यया ॥४७


मङ्गल्यानां समालम्भः पदार्थानां विधीयते।

पराङ्मुखेन शिरसः प्रदेशे सर्पता तथा ॥४८


प्रदर्शयेच्छिरः सन्निवेशमेतेन पाणिना।

एतानि दर्शनीयानि सर्वाण्यविकृताननैः ॥४९


हस्तद्वयेनोभयतः केशानासन्नवर्तिना।

उष्णीषमुकुटादीनि प्राप्नोतीति निरूपयेत् ॥५०


कर्तव्यः सोत्रनाशास्यं विधानेन समीपरा।

पाणिः कृतभ्रुकुटिना तत्रोद्वस्तोङ्गुलिद्वयः ॥५१


अधोमुखं प्रस्थिताभ्यामङ्गुलीभ्यां प्रदर्शयेत्।

चलाभ्यां मुकुलाभ्यां च हस्तस्यास्यैव पद्यदान् ॥५२


दर्शयेत्पाणियुग्मेन कदाचित् पक्षिणो लघून्।

पवनप्रभृतींश्चैव पदार्थानपरानपि ॥५३


चलिताङ्गुलिना हस्तद्वयेनाद्योनति---स्या।

अधोमुखेन वा स्रोतो दर्शयेत् सर्पता पुरः ॥५४


ऊर्ध्वावस्थितिना गङ्गास्रोतः सूत्रनिभेन च।

अधो विनमता पाणिद्वितयेन प्रदर्शनायेत् ॥५५


पुरः प्रसर्पतैकेन चलता विकृताननः।

हस्तेन सर्पाभिनयं विदधीत विचक्षणः ॥५६


अङ्गुलिद्वितयेनाधोमुखेनाश्रुप्रमार्जनम्।

कुर्यात्कनीनिकाडेशसर्पिणा विनताननः ॥५७


अधश्चार्धं च सर्पन्त्या भालदेशे त्वनामया।

तिलकं रचयेदेका सुन्द्र स्य भ्रलतां शये ॥५८


चैवानामिकया कार्या स्याद्रो चनाक्रिया।

आलभ्य रोचनां मूर्ध्नि तथैव च विचिक्षिपेत् ॥५९


तथैव च विधातव्यमलकनो प्रदर्शनम्।

उत्तानितेन हासश्च त्रिपताकेन पाणिना ॥६०


चदनेस्याग्रह स्तिर्यगङ्गुलिद्वयचालनात्।

त्रिपताकाङ्गुलीभ्यां तु चलिताभ्यामुरोग्रतः ॥६१


शिखण्डिशारिकाकारकोकिलादीन् प्रदर्शयेत्।

हस्तस्यानुगतां दृष्टिं त्रैलोक्य --- कारयेत् ॥६२


इति त्रिपताकः ।।

त्रिपताके यदा हस्ते भवेद् पृष्ठावलोकिनी।

तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः ॥६३


नमता संयुतेनेतस्ततः सञ्चरणं पदैः।

तेतस्य स्तंद्वंलनंत्वं हि युगस्य तदमातया ॥६४


अधोमुखेन कर्तव्यमतेचैव रङ्गणम्।

ललाटवर्तिना शृङ्गं संयुतेनोन्नतभ्रुवा ॥६५


प्रदर्शयेदुल्लिखता लेख्यमभ्युन्नतभ्रुवा।

अधोमुखेन चैकेन तथाधो नमता मनाक् ॥६६


दर्शयेत् पतनं वाधो गच्छता मरणं तथा।

नमतेतस्ततः शक्रविक्षेपेण विवर्जितम् ॥६७


पाणिना व्रजता भेस्ता कुञ्चितभ्रूर्नमच्छिराः।

न्यस्तं प्रदर्शयेत् कार्यादृकसंयम्यमाचस्तं कुर्यान्निर्घाटनं तथा ॥६८


पीनं वालद्रुमीः कञ्चुकरानुगा।

इति कर्तरीमुखः ।।

यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् ॥६९


सोऽर्धचन्द्र इति प्रोक्तः करः कर्मा च कथ्यते।

तेनोन्नतभ्रूरेकेन शशिलेखां प्रदर्शयेत् ॥७०


मध्यस्यौ यस्य मायस्तं कुर्यान्निर्घाटनं तथा।

पीनं बालद्रुमाः कम्वु कलशा वलयानि च ॥७१


प्रदर्शनीयान्येतेन संयुतेनेति चापरे।

रशनाकुण्डलादीनां तलपत्रस्य चामुना ॥७२


कटीजघनयोश्चाभिनयस्तद्देशवर्तिना।

अस्याप्यनुगता दृष्टिः कार्या सर्वत्र नर्तकैः ॥७३


इत्यर्धचन्द्रः ।।

आद्या धनुर्नता कार्या कुञ्चितोऽङ्गुष्ठकस्तथा।

शेषा भिन्नोर्ध्ववलिता अरालेऽङ्गुलयः स्मृताः ॥७४


असृतेनारतोतेन किञ्चिदभ्युत्थितेन च।

सत्त्वशौण्डीर्यगाम्भीर्यधृतिकान्तीः प्रदर्शयेत् ॥७५


दिव्याः पापार्ध ये चान्ये तानप्यविकृताननः।

दर्शयेदुन्नतभ्रूश्च पाणिनानेन नर्तकः ॥७६


आशीर्वादं तथा कानां स्त्रीकेशग्रहणं च यत्।

निर्वर्णनं च सर्वाङ्गमात्मनो यद्विधीयते ॥७७


उत्कर्षणं च तत्सर्वं कार्यमभ्युन्नतभ्रुवा।

दर्शयेद्धस्तयुग्मेन प्रदक्षिणगतेन च ॥७८


विवाहं संप्रयोगं च कौतुकानि बहूनि च।

अङ्गुल्यग्रसमायोगरचितस्वस्तिकेन च ॥७९


परिमण्डलयातेन प्रादक्षिण्यं प्रदर्शयेत्।

परिमण्डलसंस्थानं तथानेन महाजलम् ॥८०


द्र व्यं महीतले यच्च रचितं तत्प्रदर्शयेत्।

दानं वारणमाह्वानमनेकवचनं तथा ॥८१


दर्शयेच्चलता तेन हस्तेनासंयुतेन च।

स्वेदापनयनं कार्यं गन्धाघ्राणं तथामुना ॥८२


तत्प्रदेशे प्रवृत्तेन पाणिना नृत्तकोविदैः।

योषितां विषये चैष पाणिना प्रायेण युज्यते ॥८३


कर्माण्येतानि सर्वाणि त्रिपताकः सदाचरेत्।

नाहमित्यभिनेतव्यमस्याडशस्थितेन च ॥८४


अस्यानुयायिनीं दृष्टिं विदधीत भ्रुवौ तथा।

इत्यरालः।

अरालस्य यदा वक्रानामिका त्वङ्गुलिर्भवेत् ॥८५


शुकतुण्डः स विज्ञेयः कर्म चास्याभिधीयते।

न त्वमित्यमुना तिर्यक्प्रसृतेन प्रदर्शयेत् ॥८६


व्यावृत्तेन तु हस्तेन न् कृत्यमिति निर्दिशेत्।

प्रसारितेन पुरतो नमताभिमुखं मुहुः ॥८७


कुर्यादावाहनं तिर्य --- मातु विसर्जनम्।

व्यावृत्तेन तु हस्तेन न कृत्यमिति वारताम् ॥८८


अवेक्षे निपोनिषेक --- परावृत्तेन शस्यते।

दष्टिभ्रुवौ चानुगते हस्तस्यास्य समाचरेत् ॥८९


इति शुकतुण्डः ।।

अङ्गुल्यो यस्य हस्तस्य तलमध्येऽग्रसंस्थिताः।

तासामुपरि चाङ्गुष्ठः स मुष्टिरभिधीयते ॥९०


एष प्रहारे व्यायामे कार्यः सभ्रुकुटीमुखैः।

पार्श्वस्थहस्तयुग्मेन निर्गमे तु विधीयते ॥९१


इति मुष्टिः।

यष्यतिग्रहणमात्रमर्धने स्तनपीडने।

असंयुतो विधातव्यो सुदृष्टिभ्रवो तथा ॥९२


अस्यैव तु यदा मुष्ठेरूर्ध्वोऽङ्गुष्ठः प्रयुज्यते।

हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥९३


अयं वामो विधातव्यः कुशरश्मिचतुर्हि---।

हस्तद्वयं व्याप्रियतो सृणिग्रहणकर्मणि ॥९४


शक्तितोमरमोक्षे तु सव्यहस्तः प्रयुज्यते।

पादौष्ठञ्जने चैव चलिताङ्गुष्ठको भवेत् ॥९५


अलकस्य समुत्क्षेपे तत्प्रदेशस्थितो भवेत्।

कुर्यादनुगतामस्य दृष्टिभ्रयुगलं तथा ॥९६


इति शिखरः ।।

अस्यैव शिखराख्यस्य द्व्यङ्गुष्ठकनिपीडिता।

यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः ॥९७


चापतोमरचक्रासिशक्ति चक्रांगदाविना।

एतेनान्यानि शस्त्राणि सर्वाण्यभिनयेद्बुधः ॥९८


सत्यप्यभिनये जन्म --- विक्षिपेन्मुहुः।

अत्रापि हस्तानुगतं दृष्टिभ्रूकर्म शस्यते ॥९९


इति कपित्थः।

उत्क्षिप्तवक्रा तु यदा तां कार्या स कनीयसी।

अस्यैव तु कपित्थस्य पदांशौषटकमुखः ॥१००


अनेन होत्रं हव्यं च नमतान्नं विधीयते।

द्वाभ्यामाकर्षणच्छत्रारं प्रग्रहप्रदर्शनम् ॥१०१


एतेन न चास्यरादर्श वा जग्र पुनः।

अवक्षेपसमुत्क्षेपौ व्यावृत्तेन तु खण्डनम् ॥१०२


भ्रमता तु विधातव्यममुना परिपेषणम्।

दीर्घदण्डग्रहे चैव षवस्त्रीतालम्बने तथा ॥१०३


कुशकेशकलापादिग्रहे स्रग्दामसंग्रहे।

दृष्टिभ्रू सहितो हस्तः प्रयोक्तव्यो विचक्षणैः ॥१०४


इति खटकामुखः।

खटकाख्ये यदा हस्ते तर्जनी संप्रसारिता।

हस्तः सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥१०५


एतदीयप्रदेशिन्या व्यापारः प्रायशो भवेत्।

नतोऽर्वाक कम्पितो बालव्यालोद्वाहिकभ्रमाः ॥१०६


ते स तत्र नत्र कर्मणि युज्यते।

भ्रुमाया भिनयेच्चक्रं तं जृम्भितं चलयानया ॥१०७


विलोलया पताकादीन् --- या।

धूपदीपप्लुतावल्लीपल्लवान् वालपत्रमात् ॥१०८


--- भ्रुद्वया पुष्पमञ्जरीम्।

चलया वक्रगमनं चूलिकामुद्ध --- या ॥१०९


सा बुधा चादाहु विधातर्धकम्पितपा।

धूपदीपलतावल्लीपल्लवान् बालपन्नगान् ॥११०


शिखण्डकान् मण्डलं च नयनं चोर्ध्वलोलया।

तारकानासिकादण्डयष्टी पूर्वसुस्थयानया ॥१११


दक्षिणो दर्शयेत्रासन्नताधो नताक्रया।

तिर्यङ्मण्डलया सर्वं तया लोकं प्रदर्शयेत् ॥११२


आद्यदीर्घे च विधास्ते विदध्यादुन्नतामिमाम्।

विनमन्तीं पुनः कुर्यादपराह्णप्रदर्शने ॥११३


कर्तव्या वदनाभ्याशे सा कुञ्चितविजृम्भिता।

अङ्गुलिः नृत्ततत्त्वज्ञैर्वाक्यार्थस्य निरूपणे ॥११४


सोऽयं तदिति निर्देशे प्रसृतोत्तानकम्पिता।

रोषे प्रकम्पिताग्रा च हस्तेनाभ्युन्नतेन च ॥११५


प्रसृताग्रेण न मता च कर्तव्या स्वेदरूपणे।

कुन्तलाङ्गदगण्डानां कुण्डलानां च रूपणे ॥११६


सर्द्विश वर्तना कार्या प्राचलती च सा मूहः।

ललाटसंवृतोद्वृत्ता कार्या हस्तिनिरूपणा ॥११७


प्रसारितोन्नामिता वा रिपूद्देशेस विधीयते।

कार्या संकपानी साग्रे सो प्रकोपदर्शने ॥११८


कोऽसावित्यापि निर्देशे कार्या तिर्यग्विनिर्गमा।

कर्णकूटनयेन शब्दश्रवणेस्तातसंश्रया ॥११९


कार्ये हस्तद्वयाङ्गुल्यौ संयुते संमुखे युते।

वियोगे विघटन्त्यौ तु कलहे स्वस्तिकाकृती ॥१२०


चतुधनिता कार्ये परस्परनिपीडने।

ऊर्ध्वाग्रचलिता यावत्कर्तव्यै के --- वर्णने ॥१२१


कुर्याद् दृशं भ्रुवौ चास्य हस्तस्यानुगते बुधः।

इति सूचीमुखः ।।

यस्याङ्गुल्यस्तु विरलामाभोरुहाङ्गुष्ठेन कुञ्चिताः ॥१२२


ऊर्ध्वाश्च सङ्गताग्राश्च स भवेत् पद्मकोशकः।

श्रीफलकस्य कपित्थस्य ग्रहणं तेन रूपयेत् ॥१२३


बीजपूरकमुख्यानामन्येषामपि दर्शनम्।

कार्यं फलानां तत्तुल्यरूपेणोर्ध्वस्थितेन च ॥१२४


कुर्यात् प्रसारितास्येन योषित्कुचनिरूपणम्।

कुर्याद् दृष्टिभ्रुवौ चास्य हस्तस्यानुगते बुधः ॥१२५


पद्मकोणकः।

अङ्गुल्यः संहताः सर्वाः सहाङ्गुष्ठेन यस्य तु।

तथानितघाश्चैव स तु सर्पशिराः करः ॥१२६


उत्तानितं तु कुर्वीत सेचनोदकदानयोः।

अधोमुखं विचलितं भुजगस्य गतौ पुनः ॥१२७


विधात द्विगुणां वामबाहुतस्थिशरादधः।

विदध्यात्सर्पशिरसा हस्तेनास्फोटनक्रियाम् ॥१२८


रचितभ्रुकुटिः कुर्यादेवं तिर्यक्छिरो दधत्।

पुरतोऽधोमुखे न भास्या लनमाचरेत् ॥१२९


दृष्टिर्भ्रूसहिता कार्या हस्तस्यास्यानुयायिनी।

इति सर्पशिराः ।।

अधोमुखीनानिसृणे मङ्गुलीनां समागतिः ॥१३०


कनिष्ठाङ्गुष्ठकावूर्ध्वे तदासौ मृगशीर्षकः।

इह साम्प्रतमस्तथेत्यत्ना प्रयोजयेत् ॥१३१


स्थाच्छत्र्यलाभेने तिर्यगुक्ति पूश्वाक्षे पातने।

स्वेदापमार्जने कार्योऽधोमुखस्तत्प्रदेर्युशगः ॥१३२


कुट्टमिते संचलितः कर्तव्योऽधोमुखश्च सः।

अस्यानुयायिनी दृष्टिः पाणी कुर्याद्भवापि ॥१३३


इति मृगशीर्षकः ।।

त्रेताग्निसंस्थिता मध्यातर्जन्यङ्गुष्ठका मता।

काङ्गूलेऽनामिका वक्रा तथाचोर्ध्वा कनीयसी ॥१३४


त्रेतोत्तनेन कर्कन्धूप्रभृतीनि प्रदर्शयेत्।

तरुणानि फलान्यन्यद्वस्तु किञ्चिच्च यल्लघु ॥१३५


वाक्यान्यङ्गुलिविक्षेपैः स्त्रीणां रोषकृतानि च।

मुक्तामरकतादीनां रत्नानां च प्रदर्शनम् ॥१३६


हस्तेनानेन कर्तव्यं भ्रुवौ चास्पृष्टष्टगे।

इति काङ्गूलः ।।

आवर्तिन्यः करतले यस्याङ्गुल्यो भवन्ति हि ॥१३७


पार्श्वागता विकीर्णाश्च सोऽलपद्मः प्रकीर्तितः।

तिर्यक्पुरःस्थितः कार्यो हस्तोऽयं प्रतिषेधने ॥१३८


कस्य त्वमिति नास्तीति वाक्ये शून्ये च धीमता।

आत्मोपन्यसने स्त्रीणां न सन्देशच्छेतो भवेत् ॥१३९


अस्य चानुगता दृष्टिर्विधातव्या भ्रुवौ तथा।

इत्यलपद्मः ।।

अङ्गुल्यः प्रसृतास्तिस्रस्तथाचोर्ध्वा कनीयसी ॥१४०


तासां मध्ये स्थितोऽङ्गुष्ठः स करश्चतुरः स्मृतः।

अधोमुखः प्रचलितो मतस्येन ततत्कथा ॥१४१


विनये च नये चायं कार्योऽभिनयवेदिना।

वैपुणा तून्नतशिवा साः कृस्वा भ्रेतां भ्रुवा ॥१४२


विदध्याच्चतुरं हस्तमुत्तानं नियमे पुनः।

किन्तु भ्रवं --- कुटिलां विनयं प्रति नाचरेत् ॥१४३


अधोमुखेन हस्तेन तेन बालं प्रदर्शयेत्।

बालप्रदर्शने कुर्याद् कुटीविनतानिरः ॥१४४


तेनोत्तानवलता येदातुरनन्तरम्।

तिर्यक्प्रसर्प्य तूत्तानो बहिश्चाविकृताननैः ॥१४५


सत्ये चानुमतौ चैव हस्त एष विधीयते।

एवमेव प्रयोक्तव्यो युक्ते पय्येशमध्यमः ॥१४६


द्वाभ्यामेकेन वा स्तुस्तौ क मण्डलावस्थितेन च।

विचारितं प्रयोक्तव्यं विह्रतं लज्जितं तथा ॥१४७


वदनं तत्र कर्तव्यमविकार्यं नतभ्रुवा।

वितर्कितमुरोभ्यर्णे मण्डलावस्थितेन तु ॥१४८


अधोमुखेन पुरतः कार्यं विश्लिष्यता तथा।

मुखं चानिकृतं तत्र कार्यमभ्युन्नते भ्रुवौ ॥१४९


शिरस्तु वामतो तत्र नतं च पुनः।

उभाभ्यां नयनाभ्यां तु मृगकर्णप्रदर्शनम् ॥१५०


कार्यं तद्देशवर्तिभ्यां सभ्रूक्षेपं विचक्षणैः।

उत्तानेन युतेनाथ पत्राकारं प्रदर्शयेत् ॥१५१


हस्तेन चतुरा खे विनमय्य भ्रुवं मनाक्।

लीलां रतिं स्मृतिं बुद्धिं संज्ञामायाविचारणा ॥१५२


सङ्गतं प्रणयं शौचमावर्त्य भावमक्षमम्।

पुष्टिं सविच शीलं च चातुर्यं मार्दवं सुखम् ॥१५३


प्रश्नं वार्तां च वेषं च युक्तिं दाक्षिण्ययौवने।

विभवाविभवौ स्तोकं सुरतं सद्वरं मृदु ॥१५४


गुणागुणौ गृहा दारा वर्णा नानाविधाश्रयाः।

चतुरेणाभिनेतव्यास्ते सर्वेऽपि यथोचितम् ॥१५५


क्वचित्प्रभावता क्वापि भ्रमता मृदुता क्वचित्।

प्रतीतिर्जायतेऽर्थस्य यस्य यस्य यथा यथा ॥१५६


प्राज्ञैस्तथा तथा शीर्षेऽभिनेयान्युक्तपाणिना।

भ्रूदृष्टिचकुरगोश्च कार्यास्तदनुसारतः ॥१५७


मण्डलस्थेन हस्तेन पीतं रक्तं च दर्शयेत्।

किञ्चिन्नतभ्रूः शिरसा परिमण्डलितेन च ॥१५८


तेन द्भूप्रदर्शयेत् कृष्णं नीलं च परिमृद्गता।

चतुरेण कपोतादीन् वर्णान् स्वाभाविकेन च ॥१५९


इति चतुरः ।।

मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी।

ऊर्ध्वमन्ये प्रकीर्णो --- अङ्गुल्यो भ्रमरे करे ॥१६०


कुमुदोत्पलपद्मानां ग्रहणं तेन पाणिना।

तथैव दीर्घवृन्तानामन्येषामपि रूपयेत् ॥१६१


कर्णपूरो विधातव्यः कर्णदेशे स्थितेन च।

दृष्टिभ्रुवौ चाभिन्ना तेषां कार्ये करानुगे ॥१६२


इति भ्रमरः ।।

तर्जनीमध्यमाङ्गष्ठाभूताग्निस्था निरन्तरा।

भवेयुर्हंसवक्त्रस्य शेष सम्प्रसारिता ॥१६३


किञ्चित् प्रस्पन्दिताङ्गुष्ठेनामुनोत्क्षिप्य च भ्रुवौ।

निस्सारमल्पं सूक्ष्मं च दर्शयेन्मृदुलं लघु ॥१६४


कर्तव्येऽभिनये चैषां दृग्भ्रुवौ च करानुगे।

इति हंसवक्त्रः ।।

अङ्गुल्यः प्रसृतास्तिस्रस्तथा चोर्ध्वा कनीयसी ॥१६५


अङ्गुष्ठः कुञ्चितश्चैव संसपक्ष इति स्मृतः।

उत्तानेन बहिस्तिर्यग्ग्रीवायजलभूषणम् ॥१६६


कर्तव्यं तेन गण्डस्य रूपस्य गण्डवर्तनम्।

कुर्वीत चैनमुत्तानं भोजने च प्रतिग्रहे ॥१६७


तथाचमनकार्ये च कर्तव्योऽयं द्विजन्मनाम्।

अधस्तादन्तयोरेनं कुर्यात् स्वस्तिकयोगिनम् ॥१६८


किञ्चिन्नतेन शिरसा य परि यथारसम्।

उभाभ्यां पार्श्वयोस्तिर्यग्वैताभ्यां स्तम्भदर्शनम् ॥१६९


कुर्वीतैकेन रोमाञ्च वामबाहुप्रसर्पिणा।

संवाहनेऽनुलेपे च स्पर्शे तद्देशवर्तिनम् ॥१७०


विषादे विभ्रमे स्त्रीणां स्तन्यं तत्स्थं यथा रसः।

अधस्तलं प्रयुञ्जीत तथैनं हनुधारणे ॥१७१


अस्यानुयायिनीं दृष्टिं पाणेः कुर्याद् भ्रुवौ तथा।

इति हंसपक्षः ।।

तर्जन्यङ्गुष्ठसन्दंशस्व रोदनस्य यदा भवेत् ॥१७२


आभुग्नतलमध्यश्च सन्दंश इति स स्मृतः।

स चाग्रमुखपार्श्वानां भेदेन त्रिविधो भवेत् ॥१७३


तं पुष्पावचये पुष्पर्माग्रथने च प्रयोजयेत्।

तृणपर्णग्रहे केशसूत्रादिस्तथापरे ॥१७४


शिल्पैकादेशग्रहणे त्वग्रसंदंशकं स्थिरम्।

आकर्षणे तथा कृष्णे वृन्तात्पुष्पस्य चोद्धृतौ ॥१७५


विदध्यादेवमेवैनं शलाकारनिरूपणे।

रोषे धिगिति वाक्ये च बहिर्भागप्रसर्पिणम् ॥१७६


यज्ञोपचितं तत्प्रदेशे स्थितेन च।

उत्तानेनोरसोऽग्रे तु संयुतेन च तिर्द्वतम् ॥१७७


वचनं वलहा किञ्चित्समध्येनाधोमुखेन च।

ग्रहणं गुणसूत्रस्य बाणलक्षनिरूपणम् ॥१७८


ध्यानं योगं च हृद्देशवर्तिना संप्रदर्शयेत्।

स्तोकतिभिन्ना ये कर्तव्यः संयुतस्तूरसः पुरः ॥१७९


कुत्सास्तयाकोमलेषु सदोषवचनेषु च।

विवर्तिताग्रः कर्तव्यो वामो विघटितो मनाक् ॥१८०


प्रवालरचने वर्तिग्रहणे नेत्ररञ्जने।

आलेख्ये चैष कर्तव्यस्तथालक्तकपीडने ॥१८१


अस्य भ्रुवौ च दृष्टिं च कुर्यादनुगतां ततः।

इति सन्दंशः ।।

समागताग्रसहिता यस्याङ्गुल्यो भवन्ति हि ॥१८२


ऊर्ध्वं हंसमुखस्येव स भवेन्मुकुलः करः।

कर्तव्यः संहतोऽत्रातो मुकुलाम्भोरुहादिषु ॥१८३


पुरः प्रसर्प्योच्चलितः कर्तव्यो विटचुम्बकः।

इति मुकुलः ।।

पद्मकोशस्य हस्तस्य त्वङ्गुल्यः कुञ्चिता यदा ॥१८४


ऊर्णनाभः स विज्ञेयश्चौर्यकेशग्रहादिषु।

चौर्यकेशग्रहे चैष कर्तव्योऽधोमुखः करः ॥१८५


शिरःकण्डूयने मूर्ध्नः प्रदेशे प्रचलन्मुहुः।

तर्यकवर्ती विधातव्यः कुष्ठव्याधेर्निरूपणे ॥१८६


अधोमुखः स्थितेनाधः सिंहव्याघ्रादिरूपणे।

कार्यो भ्रुकुटिवक्त्रेण संयतोऽस्य ग्रहस्तथा ॥१८७


अत्रापि दृष्टिभ्रूकर्म प्राग्वदेव विधीयते।

इत्यूर्णनाभः ।।

मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी ॥१८८


मृगव्यालादिविश्वासं बालसन्धारणे तथा।

अयं हस्तो विधातव्यो भर्त्सने भ्रुकुटीयुतः ॥१८९


सिंहव्याघ्रादियोगे च विच्युतः शब्दवान् भवेत्।

दृष्टिभ्रुवौ च कर्तव्यौ न्यत्यमस्यानुगे बुधैः ॥१९०


अपरैः छिदितासंज्ञो हस्तोऽयं परिकीर्तितः।

इति ताम्रचूडः ।।

असंयुतानां हस्तानां चतुर्विंशतिरीरिता ॥१९१


त्रयोदशाथ कथ्यन्ते संयुता नामलक्षणैः।

अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥१९२


खटकावर्धमानश्चाप्युत्सङ्गनिषधावपि।

डोलः पुष्पपुटस्तद्वन्मकरो गजदन्तकः ॥१९३


वरित्थादश कथ्यन्ते संयता नामलक्षणैः।

अञ्जलिश्च कपोतस्य कर्कटः स्वस्तिकस्तथा ॥१९४


त्रयोदशैते कथिता हस्ताः संयुक्तसंज्ञिताः।

पताकाभ्यां तु हस्ताभ्यां संश्लेषात्सोऽञ्जलिः स्मृतः ॥१९५


शिरश्च विनतं किञ्चित्तत्र कार्यं विपश्चिता।

कार्यो गुरुनमस्कारो मुखस्यासन्नवर्तिना ॥१९६


पेक्षते न मित्राणां न स्थाननियमः कृधे।

इत्यञ्जलिः ।।

उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्वसङ्ग्रहात् ॥१९७


स हस्तः कपोतनामा स्यात्कर्म चास्याभिधीयते।

कुर्यात्प्रणमनं वक्षःस्थितेन तु न मच्छिराः ॥१९८


गुरुसंभाषणं कुर्यात्तेन शीतं भयं तथा।

विनयस्याभ्युपगमे चायमित्यभिधीयते ॥१९९


तेनैवाङ्गुलिसंघृष्यमाणमुक्तेन पाणिना।

एतान् वदति नेदानीं कृत्यंधो चेति प्रदर्शयेत् ॥२००


एवंरूपो पमे च रूपेण।

इति कपोतः ।।

अङ्गुल्यो यस्य हस्तस्यान्योन्याभ्यन्तरनिःसृताः।

स कर्कट इति ज्ञेयः करः कर्मास्य कथ्यते ॥२०१


समुन्नतशिराः किञ्चिदुत्क्षिप्तभ्रूश्च जृम्भणम्।

अनेनैवाङ्गमर्दं च कामार्तानां निरूपयेत् ॥२०२


इति कर्कटः ।।

उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः।

समन्ततस्तदूर्ध्वं च विस्तीर्णं वनानि च ॥२०३


ऋतवो गगनं मेघा --- तेनार्थंवर्तिना।

इति स्वस्तिकः ।।

खटकः खटके न्यस्तः खटकावर्धमानकः ॥२०४


शृङ्गारार्थे प्रयोक्तव्यः परावृत्तस्तथापरः।

कार्यो विटगतौ नम्रमूर्धा --- तत्प्रमाणतः ॥२०५


इति खटकः ।।

अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ।

उत्सङ्ग इति ज्ञेयः --- स्पर्शग्रहणे करः ॥२०६


उत्सङ्गसंज्ञकौ स्यातां हस्तौ तत्कर्म चोच्यते।

विनियोगस्तयोः कार्यः बालकः प्रहरेण तु ॥२०७


विधातव्याविमौ हस्तौ स्त्रीणामीर्ष्यायिते तथा।

दक्षिणं वापि वामं वा न्यस्येत् कूर्परमध्यगम् ॥२०८


इत्युत्सङ्गः ।।

अस्यो प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ।

यदा भवेतां करणे स दोल इति संस्मृतः ॥२०९


इति दोलः ।।

यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः।

द्वितीय पार्श्वसंश्लिष्टः स तुपुष्पपुटः पराणि च ॥२१०


ग्रास्यान्यथो यानि यानि द्र व्याण्येतेन दर्शयेत्।

जलादानापयने कुर्यात् --- ॥२११


इति पुष्पपुटः ।।

पताकौ तु यदा हस्तावूर्ध्वाङ्गुष्ठावधोमुखौ।

उपर्युपरि विन्यस्तौ तदासौ मकरध्वजः ॥२१२


इति मकरः।

कर्परौ सन्धितौ हस्तौ यदा स्तां सर्पशीर्षकौ।

गजदन्तः स विज्ञेयः करः कर्मास्य तस्य च ॥२१३


इति गजदन्तः ।।

शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ।

शनैरधोमुखाविद्धौ सौबहिस्थल इति स्मृतः ॥२१४


उक्तकण्ठाप्रभृतीनि च कुर्यादेतेन हस्तेन।

इत्यवहित्थः ।।

वर्धमानः स विज्ञेयः कर्म चास्य निगद्यते ॥२१५


एतेन सत्यवचनं परिग्रह सग्रहस्तथा।

संखेयकल्पश्चानेन निपीडितेन कर्तव्यः ॥२१६


अनयापि नीदृगेषां --- क्रौञ्चौ च कार्यौ।

नलिनीपद्मकोशश्च तथा गरुडपक्षकः ॥२१७


एतेषां नृत्तहस्तत्वेऽप्यभिनीत्युपयोगिताम्।

समा---जितां तत्र स्वयमभ्युह्य कल्पयेत् ॥२१८


चेष्टयाङ्गेन हस्तेन प्रयोगः सत्त्वकैरपि।

गण्डोष्ठनासापार्श्वोरुपादचाराम्भदिभिस्तथा ॥२१९


यथा यथा प्रतीतिः स्यात्प्रयतेत तथा तथा।

कृतानुकरणं --- ॥२२०


लक्षणं नृत्तहस्तानामिदानीमभिधीयते।

चतुरश्रौ तथोद्वृत्तौ स्वस्तिकौ विप्रकीर्णकौ ॥२२१


पद्मकोशाभिधानौ चाप्यरालखटकामुखौ।

आविद्धवक्त्रकौ सूचीमुद्गरेविवसंज्ञकौ ॥२२२


अर्धरेचितसंज्ञौ तु तथैवोत्तानवञ्चितौ।

पल्लवाख्यौ निरावोऽथ केशबन्धौ लताकरौ ॥२२३


करिहस्तौ तथा पक्षवञ्चिताख्यौ ततः परम्।

पक्षे प्रद्योतकरेव्याच तथा गरुडपक्षकौ ॥२२४


ततश्च दण्डपक्षाख्यावूर्ध्वमण्डलिनौ ततः।

पार्श्वमण्डलिनौ तद्वदुरोमण्डलिनावपि ॥२२५


अनन्तरं करौ ज्ञेयावुरः पार्श्वार्धमण्डलौ।

मुष्टिकस्वस्तिकाख्यौ च नलिनीपद्मकोशकौ ॥२२६


ततश्च कथितौ हस्तावलपल्लवकोल्बणौ।

ललितौ वलिताख्यावित्येकान्नत्रिंशदीरिता ॥२२७


पुरस्ताद्वक्षसा हस्तौ प्रदेशेऽष्टाङ्गुले स्थितौ।

समान कर्पूरशौ तु संमुखौ खटकामुखौ ॥२२८


चतुरश्राविति प्रोक्तौ नृत्तहस्तविशारदैः ।

इति चतुरश्रौ ।।

तावेव हंसपक्षाख्यौ व्यावृत्तिपरिवर्तनात् ॥२२९


नीतौ स्वस्तिकतां पश्चात्पच्च्या वितौ मणिबन्धनात्।

विप्रकीर्णाविति प्रोक्तौ नृत्ताभिनयकोविदैः ॥२३०


इति विप्रकीर्णः ।।

तावेव हंसपक्षाख्यौ कृत्वा व्यावर्तनक्रियाम्।

अलपल्लवतां नीतौ ततश्च परिवर्तितौ ॥२३१


विधायोर्ध्वमुखौ हस्तौ कर्तव्यौ पद्मकोशकौ।

इति पद्मकोशकौ ।।

पुनर्विवर्तितं कृत्वा परिवर्तनकं ततः ॥२३२


अरालं दक्षिणं कुर्याद्वामं च खटकः सुखम्।

खटकाख्यास्त्रयो हस्ताः स्वक्षेत्रेऽसौ विधीयते ॥२३३


इत्यरालखटकामुखौ ।।

भुजांसकूर्परैः सार्धं कुटिलावर्तितौ यदा।

हस्तावधोमुखतलावाविद्धावुद्धतावुभौ ॥२३४


विनतौ नामतो विद्याद्दीनाना विद्धवक्रकौ।

आविद्धविक्रकौ चैव गदावेष्टनयोगतः ॥२३५


इतविद्धवक्रकौ ।।

रचितौ सलावर्तितौ।

यदा तु सर्पशिरसौ तलस्थाङ्गुष्ठकौ करौ।

तेयकास्थौ प्रसृताग्रौ च शूलन्यासो भरस्तदा ॥२३६


इति सूचीमुखौ ।।

हस्तौ सूचीमुखा ते मणिबन्धनविच्युतौ।

व्यावृत्तिपरिवृत्तिभ्यां वर्तितौ तदनन्तरम् ॥२३७


हंसपक्षत्वमानीय कुर्यात्कमलवर्तिताम्।

तथा द्रुतभ्रमौ कृत्वा रेचितौ पार्श्वयोः शनैः ॥२३८


रेचिताविति विज्ञेयौ हस्तौ हस्तविशारदैः।

इति रेचितौ।

व्यावृत्तिपरिवृत्तिभ्यां वर्तितौ चतुरश्रवत् ॥२३९


कूर्परांसाञ्चितौ हस्तौ नीतौ च त्रिपताकताम्।

शकिञ्चि आश्रस्थितावेतौ ज्ञेयावुत्तानितौ ॥२४०


इत्युत्तानवञ्चितौ ।।

बाहुवर्तनया कृत्वा पूर्वव्यावर्तितक्रियाम्।

चतुरश्रक परिवृत्तिभ्यां चतुरश्रः कृतो यदा ॥२४१


वामहस्तस्तदितरः कृत्वादेष्वितरेचितः करः।

अर्धरेचितसंज्ञौ तौ विज्ञातव्यौ तदा वुधैः ॥२४२


इत्यर्धरेचितौ।

बाहुवर्तनया बाहुशीर्षाद्व्यावर्तनेन वा।

करणेन विनिष्क्रान्तौ मितं वाभ्यर्णमागतौ ॥२४३


पतकावेव निर्दिष्टौ पल्लवौ नामतः करौ।

इति पल्लवौ ।।

उद्वेष्टितवर्तनया गत्या वस्रंत्रास्रया स्थितौ मूर्ध्नः।

पार्श्वद्वितये पल्लवसंस्थनौ केशबन्धाख्यौ ॥२४४


इति केशबन्धौ ।।

अभिमुखमुभौ निविष्टौ भुविष्टिर्तवर्तनक्रमादसौ।

पल्लवहस्तौ पार्श्वद्वितये स्यातां लतासंज्ञौ ॥२४५


इति लताहस्तौ ।।

व्यावर्तितकरणाभ्यां दक्षिणो लताहस्तः।

उन्नतविलोलितः स्यात्त्रिपताको वामहस्तस्तु ॥२४६


इति करिहस्तः ।।

उद्वेष्टितपरिवर्तनया त्रिपताकावभिमुखौ यदा घटितौ।

करिहस्तसन्निविष्टौ करौ तदा पक्षवञ्चितकौ ॥२४७


इति पक्षवञ्चितकौ ।।

तावेव त्रिपताकौ हस्तौ कटिशीर्षासन्निविष्टाग्रौ।

विपरावृत्तिविधानात् पक्षप्रच्योतकौ नाम्ना ॥२४८


इति पक्षप्रच्योतकौ ।।

त्रिप शाखौ हस्तावधोमुखा हि तद् विज्ञेयौ गरुडपक्षाख्यौ।

इति गरुडपक्षकौ ।।

आवर्तितपरिवर्तितकरणकृतौ हंसपक्षकौ गम् ॥२४९


पक्षतिरूपत्वमानान्तौ प्रसृतौ च यदा भवेत् उपक्षौ।

व्यावर्तितपरिवर्तितयोगौ यदि मण्डलाकृती स्याताम् ॥२५०


ऊर्ध्ववर्तितादघवदा स्मृतावूर्ध्वमण्डलिनौ।

तथोर्ध्वमण्डलिसंज्ञौ वावर्तितं विधाया परिवर्तितकरणतारौ ॥२५१


इति पार्श्वमण्डलिनौ ।।

उद्वेष्टितौ यदैक एव भ्रमित उरसः स्थाने तौ द्वावपि स्याताम्।

नियतमुरोमण्डलिनौ विज्ञातव्यौ तदा तज्ज्ञैः ॥२५२


इत्युरोमण्डलिनौ ।।

--- पल्लवो हस्तस्तथारालाह्वा वापरा।

व्यावर्तनाकृतश्चैकस्तयोरन्योपवेष्टनात् ॥२५३


उरोर्धयोगात्पार्श्वार्धयोगाच्च क्रमशः स्थितौ।

एतौ विद्वान् विजानीयादुरःपार्श्वार्धमण्डलौ ॥२५४


इत्युरःपार्श्वार्धमण्डलौ ॥

शुभं भूयात् ॥