प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

सरस्वतीकण्ठाभरणम्/परिच्छेदः १

< सरस्वतीकण्ठाभरणम्
सरस्वतीकण्ठाभरणम्
परिच्छेदः १
भोजराजः
परिच्छेदः २ →

श्रीमन्महाराजाधिराजश्रीभोजदेवविरचितं
सरस्वतीकण्ठाभरणम् ।

ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम् ।
यस्याः सूक्ष्मादिभेदेन वाग्देवीं तामुपास्महे ।। १.१ ।।

निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसान्वितं कविः कुर्वन्कीर्तिं प्रीतिं च विन्दति ।। १.२ ।।

दोषाः पदानां वाक्यानां वाक्यार्थानां च षोडश ।
हेयाः काव्ये कवीन्द्रैर्ये तानेवादौ प्रचक्ष्महे ।। १.३ ।।

असाधु चाप्रयुक्तं च कष्टं चानर्थकं च यत् ।
अन्यार्थकमपुष्टार्थमसमर्थं तथैव च ।। १.४ ।।

अप्रतीतमथ क्लिष्टं गूढं नेयार्थमेव च ।
सन्दिग्धं च विरुद्धं च प्रोक्तं यच्चाप्रयोजकम् ।। १.५ ।।

देश्यं ग्राम्यमिति स्पष्टा दोषाः स्युः पदसंश्रयाः ।
अथैषां लक्षणं सम्यक्सोदाहरणमुच्यते ।। १.६ ।।

शब्दशास्त्रविरुद्धं यत्तदसाधु प्रचक्षते ।
कविभिर्न प्रयुक्तं यदप्रयुक्तं तदुच्यते ।। १.७ ।।

पदं श्रुतेरसुखदं कष्टमित्यभिशब्दितम् ।
पादपूरणमात्रार्थनर्थकमुदाहृतम् ।। १.८ ।।

रूढिच्युतं पदं यत्तु तदन्यार्थमिति श्रुतम् ।
यत्तु तुच्छाभिधेयं स्यादपुष्टार्थं तदुच्यते ।। १.९ ।।

असङ्गतं पदं यत्तदसमर्थमिति स्मृतम् ।
अप्रतीतं तदुद्दिष्टं प्रसिद्धं शास्त्र एव यत् ।। १.१० ।।

दूरे यस्यार्थसंवित्तिः क्लिष्टं नेष्टं हि तत्सताम् ।
गूढार्थमप्रसिद्धार्थं प्रयोगं ब्रुवते बुधाः ।। १.११ ।।

स्वसङ्केतप्रक्लृप्तार्थं नेयार्थमिति कथ्यते ।
न यत्पदं निश्चयकृत्सन्दिग्धमिति तद्विदुः ।। १.१२ ।।

विपरीतं विरुद्धार्थप्रकल्पनमिहोच्यते ।
अप्रयोजकमित्याहुरविशेषविधायकम् ।। १.१३ ।।

तद्देश्यमिति निर्दिष्टं यदव्युत्पत्तिमत्पदम् ।
अश्लीलामङ्गलघृणावदर्थं ग्राम्यमुच्यते ।। १.१४ ।।

अत्राश्लीलमसभ्यार्थमसभ्यार्थान्तरं च यत् ।
असभ्यस्मृतिहेतुश्च त्रिविधं परिपठ्यते ।। १.१५ ।।

लोकेषु यदशस्तार्थमशस्तार्थान्तरं च यत् ।
अशस्तस्मृतिहेतुश्चामङ्गलार्थं त्रिधैव तत् ।। १.१६ ।।

पदमर्थं घृणावन्तं यदाहार्थान्तरं च यत् ।
घृणावत्स्मृतिहेतुर्यत्तद्धृणावदिह त्रिधा ।। १.१७ ।।

शब्दहीनं क्रमभ्रष्टं विसन्धि पुनरुक्तिमत् ।
व्याकीर्णं वाक्यसङ्कीर्णमपदं वाक्यगर्भितम् ।। १.१८ ।।

द्वे भिन्नलिङ्गवचने द्वे च न्यूनाधिकोपमे ।
भग्नच्छन्दोयती च द्वे अशरीरमरीतिमत् ।। १.१९ ।।

वाक्यस्यैते महादोषाः षोडशैव प्रकीर्तिताः ।
अथैषां लक्ष्म सङ्क्षेपात्सनिदर्शनमुच्यते ।। १.२० ।।

उच्यते शब्दहीनं तद्वाक्यं यदपशब्दवत् ।
क्रमभ्रष्टं भवेदार्थः शाब्दो वा यत्र तत्क्रमः ।। १.२१ ।।

विसंहितो विरूपो वा यस्य सन्धिर्विसन्धि तत् ।
पदं पदार्थश्चाभिन्नौ यत्र तत्पुनरुक्तिमत् ।। १.२२ ।।

व्याकीर्णं तन्मिथो यस्मिन्विभक्तीनामसङ्गतिः ।
वाक्यन्तरपदैर्मिश्रं सङ्कीर्णमिति तद्विदुः ।। १.२३ ।।

विभिन्नप्रकृतिस्थादि पदयुक्त्यपदं विदुः ।
वाक्यान्तरसगर्भं यत्तदाहुर्वाक्यगर्भितम् ।। १.२४ ।।

यत्रोपमा भिन्नलिङ्गा भिन्नलिङ्गं तदुच्यते ।
भवेत्तद्भिन्नवचनं यद्भिन्नवचनोपमम् ।। १.२५ ।।

न्यूनोपममिह न्यूनमुपमानविशेषणैः ।
अधिकं यत्पुनस्तैः स्यात्तमाहुरधिकोपमम् ।। १.२६ ।।

भग्नच्छन्द इति प्राहुर्यच्छन्दोभङ्गवद्वचः ।
अस्थाने विरतिर्यस्य तत्तु भग्नयतीष्यते ।। १.२७ ।।

क्रियापदविहीनं यदशरीरं तदुच्यते ।
गुणानां दृश्यते यत्र श्लेषादीनां विपर्ययः ।। १.२८ ।।

अरीतिमदिति प्राहुस्तत्?ित्रधैव प्रचक्षते ।
शब्दार्थोभययोगस्य प्राधान्यात्प्रथमं त्रिधा ।। १.२९ ।।

भूत्वा श्लेषादियोगेन पुनस्त्रेधोपजायते ।
अत्र यः श्लेषसमता सौकुमार्यविपर्ययः ।। १.३० ।।

शब्दप्रधानमाहुस्तमरीतिमतिदूषणम् ।
विपर्ययेण श्लेषस्य सन्दर्भः शिथिलो भवेत् ।। १.३१ ।।

भवेत्स एव विषमः समताया विपर्ययात् ।
सौकुमार्यविपर्यासात्कठोर उपजायते ।। १.३२ ।।

या तु कान्तिप्रसादार्थव्यक्तीनामन्यथा गतिः ।
अर्थप्रधानः प्रोक्तः स वाक्ये गुणविपर्ययः ।। १.३३ ।।

अप्रसन्नं भवेद्वाक्यं प्रसादस्य विपर्ययात् ।
वाक्यं भवति नेयार्थमर्थव्यक्तेर्विपर्ययात् ।। १.३४ ।।

कान्तेर्विपर्ययाद्वाक्यं ग्राम्यमित्यपदिश्यते ।
ओजोमाधुर्यमौदार्यं न प्रकर्षाय जायते ।। १.३५ ।।

यस्मिंस्तमाहुरुभयप्रधानं तद्विपर्ययात् ।
वाक्ये यः खण्डयन्रीतिं भवत्योजोविपर्ययः ।
असमस्तमिति प्राहुर्दोषं तमिह तद्विदः ।। १.३६ ।।

इत्यादिबन्धपारुष्यं शैथिल्यं च नियच्छति ।
अतो नैनमनुप्रासं दाक्षिणात्याः प्रयुञ्जते ।। १.३७ ।।

माधुर्यव्यत्ययो यस्तु जायते रीतिखण्डनात् ।
तदनिर्व्यूढमित्युक्तं काव्यसर्वस्ववेदिभिः ।। १.३८ ।।

मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः ।
येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ।। १.३९ ।।

यया कयाचिच्छ्रुत्या यत्समानमनुभूयते ।
तद्रूपा हि पदासत्तिः सानुप्रासा रसावहा ।। १.४० ।।

यस्तु रीतेरनिर्वाहादौदार्यस्य विपर्ययः ।
वाक्यं तदनलङ्कारमलङ्कारविदो विदुः ।। १.४१ ।।

श्लाघ्यैर्विशेषणैर्युक्तमुदारं वाक्यमिष्यते ।
यथा लीलाम्बुजक्रीडासरोहेमाङ्गदादयः ।। १.४२ ।।

उत्कर्षवान्गुणः कश्चिदुक्तेर्यस्मिन्प्रतीयते ।
तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः ।। १.४३ ।।

अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।
खिन्नं चैवातिमात्रं च पुरुषं विरसं तथा ।। १.४४ ।।

हीनोपमं भवेच्चान्यदधिकोपममेव च ।
असदृक्षोपमं चान्यदप्रसिद्धोपमं तथा ।। १.४५ ।।

निरलङ्कारमश्लीलं विरुद्धमिति षोडश ।
उक्ता वाक्यार्थजा दोषास्तेषां वक्ष्यामि लक्षणम् ।। १.४६ ।।

समुदायार्थशून्यं यत्तदपार्थं वचः स्मृतम् ।
व्यर्थमाहुर्गतार्थं यद्यच्च स्यान्निष्प्रयोजकम् ।। १.४७ ।।

उक्त्यभिन्नार्थमेकार्थं
सन्‍दिग्धार्थं ससंशयम् ।
वाक्यं यत्तु क्रमभ्रष्टं तदपक्रममुच्यते ।। १.४८ ।।

जात्याद्युक्तावनिर्व्यूढं खिन्नमाहुर्महाधियः ।
यत्सर्वलोकातीतार्थमतिमात्रं तदुच्यते ।। १.४९ ।।

यत्तु क्रूरार्थमत्यर्थं परुषं तु तदुच्यते ।
अप्रस्तुतरसं यत्स्याद्विरसं तन्निगद्यते ।। १.५० ।।

हीनं यत्रोपमानं स्यात्तत्तु हीनोपमं स्मृतम् ।
तदेव यस्मिन्नधिकं तद्भवेदधिकोपमम् ।। १.५१ ।।

यत्त्वत्तुल्योपमानं तद्वदन्त्यसदृशोपमम् ।
अप्रसिद्धोपमानं यदप्रसिद्धोपमं हि तत् ।। १.५२ ।।

यदलङ्कारहीनं तन्निरलङ्कारमुच्यते ।
अश्लीलमिति निर्दिष्टमश्लीलार्थप्रतीतिकृत् ।। १.५३ ।।

विरुद्धं नाम तद्यत्र विरोधस्त्रिविधो भवेत् ।
प्रत्यक्षेणानुमानेन तद्वदागमवर्त्मना ।। १.५४ ।।

यो देशकाललोकादिप्रतीपः कोऽपि दृश्यते ।
तमामनन्ति प्रत्यक्षविरोधं शुद्धबुद्धयः ।। १.५५ ।।

युक्त्यौचित्यप्रतिज्ञादिकृतो यस्त्विह कश्चन ।
अनुमानविरोधः स कविमुख्यैर्निगद्यते ।। १.५६ ।।

धर्मार्थकामशास्त्रादिविरोधः कोऽपि यो भवेत् ।
तमागमविरोधाख्यं दोषमाचक्षते बुधाः ।। १.५७ ।।

एवं पदानां वाक्यानां वाक्यार्थानां च यः कविः ।
दोषान्हेयतया वेत्ति स काव्यं कर्तुमर्हति ।। १.५८ ।।

अलङ्कृतमपि श्रव्यं न काव्यं गुणवर्जितम् ।
गुणयोगस्तयोर्मुख्यो गुणालङ्कारयोगयोः ।। १.५९ ।।

त्रिविधाश्च गुणाः काव्ये भवन्ति कविसम्मताः ।
बाह्याश्चाभ्यन्तराश्चैव ये च वैशेषिका इति ।। १.६० ।।

बाह्याः शब्दगुणास्तेषु चान्तरास्त्वर्थसंश्रयाः ।
वैशेषिकास्तु ते नूनं दोषत्वेऽपि हि ये गुणाः ।। १.६१ ।।

चतुर्विंशतिराख्यातास्तेषु ये शब्दसंश्रयाः ।
ते तावदभिधीयन्ते नामलक्षणयोगतः ।। १.६२ ।।

श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिस्तथा कान्तिरुदारत्वमुदात्तता ।। १.६३ ।।

ओजस्तथान्यदौर्जित्यं प्रेयानथ सुशब्दता ।
तद्वत्समाधिः सौक्ष्म्यं च गाम्भीर्यमथ विस्तरः ।। १.६४ ।।

सङ्क्षेपः सम्मितत्वं च भाविकत्वं गतिस्तथा ।
रीतिरुक्तिस्तथा प्रौढिरथैषां लक्ष्यलक्षणे ।। १.६५ ।।

गुणः सुश्लिष्टपदता श्लेष इत्यभिधीयते ।
प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते ।। १.६६ ।।

यन्मृदुप्रस्फुटोन्मिश्रवर्णबन्धविधिं प्रति ।
अवैषम्येण भणनं समता साभिधीयते ।। १.६७ ।।

या पृथक्पदता वाक्ये तन्माधुर्यमिति स्मृतम् ।
अनिष्ठुराक्षरप्रायं सुकुमारमिति स्मृतम् ।। १.६८ ।।

यत्र सम्पूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम् ।
यदुज्ज्वलत्वं बन्धस्य काव्ये सा कान्तिरुच्यते ।। १.६९ ।।

विकटाक्षरबन्धत्वमार्यैरौदार्यमुच्यते ।
श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता ।। १.७० ।।

ओजः समासभूयस्त्वम्
और्जित्यं गाढबन्धता ।
प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते ।। १.७१ ।।

व्युत्पत्तिः सुप्तिङां या तु प्रोच्यते सा सुशब्दता ।
समाधिः सोऽन्यधर्माणां यदन्यत्राधिरोपणम् ।। १.७२ ।।

अन्तः सज्जल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते ।
ध्वनिमत्ता तु गाम्भीर्यम्
व्यासेनोक्तिस्तु विस्तरः ।। १.७३ ।।

समासेनाभिधानं यत्स सङ्क्षेप उदाहृतः ।
यावदर्थपदत्वं च सम्मितत्वमुदाहृतम् ।। १.७४ ।।

भावतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम् ।
गतिर्नाम क्रमो यः स्यादिहारोहावरोहयोः ।। १.७५ ।।

उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते ।
विशिष्टा भणितिर्या स्यादुक्तिं तां कवयो विदुः ।। १.७६ ।।

उक्तेः प्रौढः परीपाकः प्रोच्यते प्रौढसंज्ञया ।
उक्ताः शब्दगुणा वाक्ये चतुर्विंशतिरित्यमी ।। १.७७ ।।

अथैतानेव वाक्यार्थगुणत्वेन प्रचक्ष्महे ।
तेषां श्लेष इति प्रोक्तः संविधाने सुसूत्रता ।। १.७८ ।।

यत्तु प्राकट्यमर्थस्य प्रसादः सोऽभिधीयते ।
अवैषम्यं क्रमवतां समत्वमिति कीर्तितम् ।। १.७९ ।।

माधुर्यमुक्तमाचार्यैः क्रोधादावप्यतीव्रता ।
अनिष्ठुरत्वं यत्प्राहुः सौकुमार्यं तदुच्यते ।। १.८० ।।

अर्थव्यक्तिः स्वरूपस्य साक्षात्कथनमुच्यते ।
कान्तिर्दीप्तरसत्वं स्यात्
भूत्युत्कर्ष उदारता ।। १.८१ ।।

आशयस्य य उत्कर्षस्तदुदात्तत्वमिष्यते ।
ओजः स्वाध्यवसायस्य विशेषोऽर्थेषु यो भवेत् ।। १.८२ ।।

रूढाहङ्कारतौर्जित्यम्
प्रेयस्त्वर्थेष्वभीष्टता ।
अदारुणार्थपर्यायो दारुणेषु सुशब्दता ।। १.८३ ।।

व्याजावलम्बनं यत्तु स समाधिरिति स्मृतः ।
सौक्ष्म्यमित्युच्यते तत्तु यत्सूक्ष्मार्थाभिदर्शनम् ।। १.८४ ।।

शास्त्रार्थसव्यपेक्षत्वं गाम्भीर्यमभिधीयते ।
विस्तरोऽर्थविकासः स्यात्
सङ्क्षेपस्तस्य संवृतिः ।। १.८५ ।।

शब्दार्थौ यत्र तुल्यौ स्तः सम्मितत्वं तदुच्यते ।
साभिप्रायोक्तिविन्यासो भाविकत्वं निगद्यते ।। १.८६ ।।

गतिः सा स्यादवगमो योऽर्थादर्थान्तरस्य तु ।
रीतिः सा यस्त्विहार्थानामुत्पत्त्यादिक्रियाक्रमः ।। १.८७ ।।

उक्तिर्नाम यदि स्वार्थो भङ्ग्या भव्योऽभिधीयते ।
विवक्षितार्थनिर्वाहः काव्ये प्रौढिरिति स्मृता ।। १.८८ ।।

पदाद्याश्रितदोषाणां ये चानुकरणादिषु ।
गुणत्वापत्तये नित्यं तेऽत्र दोषगुणाः स्मृताः ।। १.८९ ।।

त्रिविधा अपि ते भूयश्चतुर्विंशतिधा बुधैः ।
प्रोक्ता यथा गुणत्वेन प्रविभज्य तथोच्यते ।। १.९० ।।

या म्लिष्टम्लेच्छितादीनां पददोषेष्वसाधुता ।
निरूपितानुकरणे गुणत्वं सा प्रपद्यते ।। १.९१ ।।

गुणत्वमप्रयुक्तस्य तथानुकरणे भवेत् ।
यच्छ्रुतेर्विरसं कष्टं तस्य दुर्वचकादिषु ।
गुणत्वमनुमन्यन्ते सानुप्रासस्य सूरयः ।। १.९२ ।।

यत्पादपूरणाद्यर्थमनर्थकमुदाहृतम् ।
गुणत्वमनुमन्यन्ते तस्यापि यमकादिषु ।। १.९३ ।।

यत्तु रूढिच्युतत्वेन प्रोक्तमन्यार्थसंज्ञितम् ।
प्रहेलिकादिषु प्रायो गुणत्वं तस्य युज्यते ।। १.९४ ।।

तुच्छवाच्यमपुष्टार्थमिति यत्प्राक्प्रकाशितम् ।
तस्य च्छन्दोऽनुरोधादौ गुणत्वमवधार्यते ।। १.९५ ।।

प्रतिपादितमादौ यदसमर्थमवाचकम् ।
तस्यापि खलु मन्यन्ते गुणत्वं सीत्कृतादिषु ।। १.९६ ।।

शास्त्रमात्रप्रतीतत्वादप्रतीतं यदुच्यते ।
गुणत्वं तस्य तद्विद्यसम्भाषादौ विदुर्बुधाः ।। १.९७ ।।

अर्थप्रतीतिकृद्दूरे क्लिष्टं नाम यदुच्यते ।
झटित्यर्थप्रतीतौ तद्गुणत्वमनुगच्छति ।। १.९८ ।।

अप्रसिद्धार्थसम्बन्धं यद्गूढार्थमिति स्मृतम् ।
तद्व्याख्यानादिषु प्रायो गुणत्वेन तदिष्यते ।। १.९९ ।।

नेयार्थं यत्स्वसङ्केतक्लृप्तवाच्यं निरूपितम् ।
प्रहेलिकादिषु प्राज्ञैस्तद्गुणत्वेन गण्यते ।। १.१०० ।।

यदनिश्चयकृत्प्रोक्तं सन्दिग्धं तद्गुणी भवेत् ।
भवेद्विशेषावगमो यदि प्रकरणादिभिः ।। १.१०१ ।।

यत्तद्विरुद्धमित्युक्तं विपरीतप्रकल्पनम् ।
तथाभूताभिधानेन गुणत्वं प्रतिपद्यते ।। १.१०२ ।।

अप्रयोजकमित्युक्तमविशेषविधायकम् ।
स्वरूपमात्रे वक्तव्ये तस्यापि गुणतेष्यते ।। १.१०३ ।।

यदव्युत्पत्तिमद्देश्यमिति पूर्वं निरूपितम् ।
महाकविनिबद्धं सत्तदप्यत्र गुणी भवेत् ।। १.१०४ ।।

ग्राम्यं घृणावदश्लीलामङ्गलार्थं यदीरितम् ।
तत्संवीतेषु गुप्तेषु लक्षितेषु न दुष्यति ।। १.१०५ ।।

किंचिदाश्रयसंबन्धाद्धत्ते शोभामसाध्वपि ।
कान्ताविलोचनन्यस्तं मलीमसमिवाञ्जनम् ।। १.१०६ ।।

सन्निवेशवशात्किञ्चिद्विरुद्धमपि शोभते ।
नीलं पलाशमाबद्धमन्तराले स्त्रजामिव ।। १.१०७ ।।

अश्लीलादेरमी भेदा भिद्यन्ते यत्?ित्रधा त्रिधा ।
भवन्ति नव तेनैते पूर्वोक्ता दश पञ्च च ।। १.१०८ ।।

चतुर्विंशतिरित्येषा प्रोक्ता पदसमाश्रया ।
समासात्पूर्वनिर्दिष्टदोषाणां गुणक्लृप्तये ।। १.१०९ ।।

इत्येतत्पददोषाणामदोषत्वमुदीरितम् ।
इदानीं वाक्यदोषाणां गुणत्वमभिधीयते ।। १.११० ।।

तत्र शब्दविहीनस्य विवक्षावशतः क्वचित् ।
निसर्गसुन्दरत्वेन गुणत्वं परिकल्प्यते ।। १.१११ ।।

यत्नः संबन्धनिर्ज्ञानहेतुः कोऽपि कृतो यदि ।
क्रमलङ्घनमप्याहुर्न दोषं सूरयो यथा ।। १.११२ ।।

विरूपसन्धि यत्पूर्वं विसन्धि च निरूपितम् ।
न च दुर्वचके प्रायः प्रगृह्यादौ च दुष्यति ।। १.११३ ।।

न संहितां विवक्षामीत्यसन्धानं पदेषु यत् ।
तद्विसन्धीति निर्दिष्टं न प्रगृह्यादिहेतुकम् ।। १.११४ ।।

अनुकम्पाद्यतिशयो यदि कश्चिद्विवक्ष्यते ।
न दोषः पुनरुक्तेऽपि प्रत्युतेयमलङ्क्रिया ।। १.११५ ।।

पदानां व्युत्क्रमो यत्र क्रमेण व्युत्क्रमेण वा ।
तद्व्याकीर्णं विदुस्तस्य न दोषः क्वापि तद्यथा ।। १.११६ ।।

पर्यायेण द्वयोर्यत्र वाक्यं प्रश्नोत्तरादिषु ।
सङ्कीर्णं तन्न दोषाय वाकोवाक्यविदो विदुः ।। १.११७ ।।

प्रकृतिस्थादिभेदेन ग्राम्यादिभिरथापि या ।
अपदं तस्य चानुज्ञा भाषाचित्रे विधीयते ।। १.११८ ।।

वाक्यान्तरसगर्भं यद्वाक्यं तद्वाक्यगर्भितम् ।
रसान्तरतिरस्कारे तदिष्टं नेष्टमन्यथा ।। १.११९ ।।

यद्भिन्नलिङ्गमित्युक्तं विभिन्नवचनं च यत् ।
उपमादूषणं तन्न यत्रोद्वेगो न धीमताम् ।। १.१२० ।।

यत्रोपमानधर्माः स्युर्नोपमेयेन सम्मिताः ।
तद्धीनोपममित्याहुस्तत्प्रसिद्धौ न दुष्यति ।। १.१२१ ।।

क्रमेणानेन कृतिभिरेष्टव्यमधिकोपमम् ।
विशेषस्तूपमेयाङ्गमनुमानात्प्रतीयते ।। १.१२२ ।।

यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् ।
न च्छन्दोभङ्ग इत्याहुस्तदा दोषाय सूरयः ।। १.१२३ ।।

वाक्यमस्थानविरति प्राग्भग्नयतिसंज्ञया ।
समुद्दिष्टं यदधुना गुणत्वं तस्य कल्प्यते ।। १.१२४ ।।

अशरीरं क्रियाहीनं क्रियापेक्षा न यत्र तु ।
यत्रास्त्यादेरपेक्षा वा न दोषस्तत्र तद्यथा ।। १.१२५ ।।

श्लिष्टमस्पृष्टशैथिल्यं शिथिलं तद्विपर्ययः ।
गौडीयैरिष्यते तत्तु बन्धप्राशस्त्यगौरवात् ।। १.१२६ ।।

न दोषः क्वापि वैषम्येऽप्यर्थालङ्कारकारणात् ।
पौरस्त्यैरादृतत्वाच्च शब्दाडम्बरतोऽपि वा ।। १.१२७ ।।

कठोरमपि बध्नन्ति दीप्तमित्यपरे पुनः ।
तेषां मतेन तस्यापि दूषणं नैव विद्यते ।। १.१२८ ।।

अविद्वदङ्गनाबालप्रसिद्धार्थं प्रसादवत् ।
विपर्ययोऽस्याप्रसन्नं चित्रादौ तन्न दुष्यति ।। १.१२९ ।।

अध्याहारादिगम्यार्थं नेयार्थं प्रागुदाहृतम् ।
स गम्यते प्रसिद्धश्चेन्न तद्दोषवदिष्यते ।। १.१३० ।।

असभ्यार्थं मतं ग्राम्यं तद्ग्राम्योक्त्यैव दुष्यति ।
विदग्धोक्तौ तु तस्याहुर्गुणवत्त्वं मनीषिणः ।। १.१३१ ।।

ओजः समासभूयस्त्वं तद्दीप्तार्थेषु वध्यते ।
विपर्ययोऽस्याः समस्तं तद्दीप्तं चेन्न दोषभाक् ।। १.१३२ ।।

समस्तमसमस्तं वा न निर्वहति यद्वचः ।
तदनिर्व्यूढमस्यापि न दोषः क्वापि तद्यथा ।। १.१३३ ।।

अनलङ्कारमित्याहुरलङ्कारोज्झितं वचः ।
पूर्वोत्तरानुसन्धाने तस्य साधुत्वमिष्यते ।। १.१३४ ।।

वाक्याश्रयाणां दोषाणां गुणीभावोऽयमीरितः ।
अथ वाक्यार्थदोषाणामदोषः कथ्यतेऽधुना ।। १.१३५ ।।

समुदायार्थशून्यं यत्तदपार्थं प्रचक्षते ।
तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दुष्यति ।। १.१३६ ।।

यदप्रयोजनं यच्च गतार्थं व्यर्थमेव यत् ।
तस्यापि क्वापि निर्दोषः प्रयोगो दृश्यते यथा ।। १.१३७ ।।

अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीर्त्यते ।
तदेकार्थं रसाक्षिप्तचेतसां तन्न दूष्यति ।। १.१३८ ।।

संशयायैव संदिग्धं यदि जातु प्रयुज्यते ।
स्यादलङ्कार एवासौ न दोषस्तत्र तद्यथा ।। १.१३९ ।।

वाक्ये प्रबन्धे चार्थानां पौर्वापर्यविपर्ययः ।
दोषः सोपक्रमो नाम चित्रहेतौ च दुष्यति ।। १.१४० ।।

यस्मिन्रीतेरनिर्वाहः खिन्नं तदभिधीयते ।
न दोषस्तस्य तु क्वापि यत्र च्छाया न हीयते ।। १.१४१ ।।

लोकातीत इवार्थे यः सोऽतिमात्र इहेष्यते ।
वार्तादौ तेन तुष्यन्ति विदग्धा नेतरे जनाः ।। १.१४२ ।।

तच्च वार्ताभिधानेषु वर्णनास्वपि विद्यते ।
कान्तं जगति तत्कान्तं लौकिकार्थानुयायि यत् ।। १.१४३ ।।

लौकिकार्थमतिक्रम्य प्रस्थानं यत्प्रवर्तते ।
तदत्युक्तिरिति प्रोक्तं गौडानां मनसो मुदे ।। १.१४४ ।।

परुषं निष्ठुरार्थं तु यदतीव विगर्हितम् ।
विरुद्धलक्षणाद्यासु तदुक्तिषु न दुष्यति ।। १.१४५ ।।

अप्रस्तुतरसं प्राहुर्विरसं वस्तु सूरयः ।
अप्राधान्ये तदेष्टव्यं शिष्टैः स्याद्रसवस्तुनोः ।। १.१४६ ।।

हीनं यत्रोपमानं स्यादुपमेयं गुणाधिकम् ।
हीनोपमं तदस्याहुः कवयः क्वाप्यदुष्टताम् ।। १.१४७ ।।

यत्रोपमानमुत्कृष्टमुपमेयं निकृष्यते ।
ज्ञेयं तदधिकौपम्यमस्यापि क्वाप्यदोषता ।। १.१४८ ।।

उपमानस्य वैषम्याद्भवेदसदृशोपमम् ।
तस्याभ्यनुज्ञामिच्छन्ति व्यतिरेकोपमादिषु ।। १.१४९ ।।

यस्योपमानं लोकेषु न प्रसिद्धं तदिष्यते ।
अप्रसिद्धोपमं नाम तत्क्वचिन्नैव दुष्यति ।। १.१५० ।।

निरलंकारमित्याहुरलंकारोज्झितं वचः ।
अर्थौर्जित्येषु तस्यापि क्वचिन्निर्दोषता मता ।। १.१५१ ।।

असभ्यार्थं यदश्लीलं तदर्थान्तरवाचि वा ।
तस्येह दृश्यते भूम्ना प्रयोगो नापि दुष्यति ।। १.१५२ ।।

देशोऽद्रिवनराष्ट्रादिः कालो रात्रिंदिवर्तवः ।
नृत्यगीतप्रभृतयः कलाः कामार्थसंश्रयाः ।। १.१५३ ।।

चराचराणां भूतानां प्रवृत्तिर्लोकसंज्ञिता ।
हेतुविद्यात्मको न्यायः संस्मृतिः श्रुतिरागमः ।। १.१५४ ।।

तेषु तेष्वयथारूढं यदि किञ्चित्प्रवर्तते ।
कवेः प्रमादाद्देशादिविरिधीत्येतदुच्यते ।। १.१५५ ।।

विरोधः सकलेष्वेव कदाचित्कविकौशलात् ।
उत्क्रम्य दोषगणनां गुणवीथीं विगाहते ।। १.१५६ ।।

इत्थं गुणाश्च दोषाश्च काव्ये दोषगुणाश्च ये ।
आख्यातास्ते स्फुटं सम्प्रत्यलङ्कारान्प्रचक्ष्महे ।। १.१५७ ।।

युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणं तदप्यतीव ।
विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः ।। १.१५८ ।।

यदि भवति वचश्च्युतं गुणेभ्यो
वपुरिव यौवनबन्धमङ्गनायाः ।
अपि जनदयितानि दुर्भगत्वं
नियतमलङ्करणानि संश्रयन्ते ।। १.१५९ ।।

दीर्घापाङ्गं नयनयुगलं भूषयत्यञ्जनश्री-
स्तुङ्गाभोगौ प्रभवति कुचावर्चितुं हारयष्टिः ।
मध्ये क्षामे वपुषि लभते स्थानकूर्पासलक्ष्मीः
श्रोणीबिम्बे गुरुणि रशनादाम शोभां बिभर्ति ।। १.१६० ।।

इति श्रीमहाराजाधिराजभोजदेवेन विरचिते सरस्वतीकण्ठाभरणनाम्नि अलंकारशास्त्रे गुणविवेचनं नाम प्रथमः परिच्छेदः ।