← शोधनपत्रम् सरस्वतीविलासः (व्यवहारकाण्डः)
उपोद्घातः
प्रतापरुद्रमहादेवमहाराजः
प्रथमो विलासः →

उपोद्घातः.


 विदितमेवेदं यदाङ्गलेयराजधान्यां लण्डन्नगर्यां 1881 तमे क्रिस्ताब्दे तूब्नर्ग्रन्थमालायां प्रतापरुद्रमहाराजप्रणीतसरस्वतीविलासान्तर्गतः दायभागात्मकभागः मुद्राप्य प्रख्यापितस्समभवदिति । सम्पूर्णोऽयं ग्रन्थः नाद्याप्युपलब्धो मुद्रितो दृश्यते । सरस्वतीविलासप्रणेता प्रतापरुद्राख्योऽयं महाराजः कदा कुत्र वा राज्यं चकारेत्येतदपि न निरणायि । सम्पूर्णेऽस्मिन् सरस्वतीविलासे किं केवलं व्यवहारपदान्येव जिज्ञासितान्युत वर्णाश्रमाचारप्रायश्चित्तकाण्डावपि विवृतावित्येतदपि नाद्यपि ज्ञातम् । सैषा संशीतिः प्राच्यकोशागारेऽस्मिन् संगृह्य संरक्षितान् सरस्वतीविलासकोशानुपजीव्य मुद्रापितेनानेन सम्पूर्णेन ग्रन्थेन दूरीकृता भवेत् ।

 महानदीस्रोतोवातपूतां कटकनगरीं कपिलेन्द्रो नाम सूर्यवंशजो राजा क्रिस्ताब्दानां पञ्चदशशतकस्यादिभागेऽध्यवसत् । तस्य पुत्रः पुरुषोत्तमो नाम राजा समासीत् । तस्य च पुत्रः श्रीवीररुद्रदेवः वीरप्रतापरुद्रदेव इत्यपि विख्यातो राजाऽभवत् । सोऽयं राजा ग्रन्थस्यास्य प्रणेतेति अवतरणिकायां प्रस्तूयमानो दृश्यते । तथाच काकतीयवंश्यादेकशिलानगराधिपतेः प्रतापरुद्रदेवादन्य एवायं वीररुद्रदेव इति स्पष्टमवगम्यते ।

 धावकः श्रीहर्षनाम्ना रत्नावलीं नागानन्दं चेव कश्चन वीररुद्रदेवसभास्थः पण्डितः सरस्वतीविलासं विरच्य वीररुद्रनाम्ना प्रख्यापितवानुत वीररुद्र एव ग्रन्थमेनं प्रणिनायेत्ययमपरस्सन्देहो जागर्ति । अवतरणिका गतराजप्रशस्तिपरिशीलनायां कृतायां राजा नास्य ग्रन्थस्य प्रणेतेति भाति; यतो न कश्चिदप्यत्रावतरणिकायां परिदृश्यमानया विधया स्वप्रशस्तिं कुर्यात् । अतः राजानुग्रहमाकाङ्क्षमाणः कश्चन पण्डितः राज्ञोऽतिशयोक्तिभूयिष्ठां स्तुतिमेनां कुर्वाणो ग्रन्थं व्यरचयदिति वक्तुं शक्यते । सोऽयं पण्डितः व्यवहारकाण्डमीमांसकेभ्यो निबन्धग्रन्थप्रणेतृभ्योऽन्यादृश एवासीदित्यपि ज्ञायते । यतः--

  धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया ।
  चतुष्पाद्व्यवहारोऽयमुत्तरः पूर्वबाधकः ॥

 इति कौटलीयार्थशास्त्रे हारीतस्मृतौ च परिदृश्यमानं श्लोकं व्याकुर्वाणो ग्रन्थप्रणेता व्यवहारपरीक्षणे क्वचित्साक्षिणामनृतवादवशाद्व्यवह्रियमाणविषयस्य नैजात्सत्यस्वरूपात्प्रच्यावनं, क्वचित्साक्षिभिस्सत्ये स्थिरीकृतेऽपि वादिप्रतिवाद्यन्यतमाचारवशात्सत्यत्यागः, क्वचिच्च राजाज्ञावशात्सत्यस्यापि चरित्रस्य त्यागो भवतीति वदन् स्वस्य न्यायविचारपरिश्रमं विलक्षणं द्योतयति । न्यायस्थानेषु हि व्यवह्रियमाणविषयविचारः चिरात् स्थापितं विचारक्रममनुसृत्यैव क्रियमाणः प्रायेण विचारक्रमगतदोषेण दूषितस्सत्याद्बाढं प्रच्यावितो भवतीति विदितमेव ।

 अतश्चायं सरस्वतीविलासनिबन्धः अधुनातनानामपि न्यायधर्मविशारदानामुपकाराय प्रभवतीति वक्तुं शक्यते ।

 "धर्ममात्रं वा विभजेत्" इति । अत्यन्तनिस्वानामिति शेषः ।

 अनेन ज्ञायते परिभाषां विना सङ्कल्पमात्रेणापि विभागसिद्धिः" इति दायभागप्रकरणे ग्रन्थकृता स्पष्टमुक्तः सङ्कल्पमात्रेण विभागः अल्तनेषु न्यायस्थानेषु चिरादनुष्ठितो दृश्यते ।

 किं च स्त्रीणां दायविभागमधिकृत्य त्रयः पक्षा ग्रन्थकृता दर्शिता वर्तन्ते ।  "भारुचिमते पत्नीनां बहुत्वसद्भावे तासामेव विभागः । विज्ञानयोगिमते पत्न्येनियतो विभागो नास्ति, किंतु पुत्रैस्समविभागः पत्नीनाम् । अपरार्कमते पत्नीविभागः पुत्रसमविभागश्च नास्ति" इति मतत्रयं स्पष्टमत्र परामृष्टं स्त्रीणामपि दायभागार्हतां स्थापयितुं प्रवृत्तानामधुनातनानामुपकाराय प्रभवेत् ।

 किंच अर्थिना प्रत्यर्थिना वा उभाभ्यां वा स्वस्वाभिमतः पुरुषः स्वीये निवेदनादिकर्मणि नियुज्यमानः अर्थिनः प्रत्यर्थिनो वा स्थाने स एवेति परिगृह्य प्राड्विवाकादिभिः तथातथा व्यवहारः प्रस्थापनीयः नियुज्यमानेन यथायथा वादः फलिष्यति स एव मूलपुरुषस्येति च स्वीकार्यम् । एवंच निवेदनादौ स्वयमनधिकारिणोऽनुगृहीता भवन्तीति साम्प्रतिकी व्यवहारपथस्थितिः ।

 एषैव च पद्धतिः सरस्वतीविलासे उत्तराधिकारिणः इति प्रघट्टके (पृ80) प्रदर्शिता मुनिवचनोदाहरणैः ।

  इतरोऽप्यभियुक्तेन प्रतिरोधीकृतो मतः ।
  समर्पितोऽर्थिना योऽन्यः परो धर्माधिकारिणि ।
  प्रतिवादी स विज्ञेयः प्रतिपन्नश्च यस्स्वयम् ॥

अत्र अन्यः परः प्रतिवादीति अकल्पादेरुपलक्षणम् । तथाच हारीतः-

 "अकल्पबालस्थविरविषमस्थक्रियाकुलकार्यातिपातिव्यसनिनृपकार्योत्सवाकुलमत्तोन्मत्तप्रमत्तार्तभृत्यानामाह्वानमकार्यम्" इति ।

 यद्यपि इहत्ये उत्तराधिकारिणः इति प्रकरणे अनाधिकारिणः प्रति उत्तराधिकारिणो दर्शिताः । ततश्च यस्य स्वयं निवेदनप्रत्युत्तरदानप्रभृतिष्वस्ति शक्तिः न च प्रतिबन्धः न तस्य स्वीये कर्मणि परस्य नियोजनाभ्यनुज्ञेत्यायाति । महाभियोगेषु तु अकल्पादेरप्याह्वानमस्त्येव । महाभियोगश्च-- मनुष्यमारणस्तेयपरदाराभिमर्शनापेयपानानि । असभ्यवादेष्वप्याह्वानमस्त्येव । ते च-- अभक्ष्यभक्षणकन्यादूषणपारुष्यकूटकरणनृपद्रोहादयः, तथापि न केवलानधिकारिण एव स्वव्यवहारप्रवर्तनाय परप्रेषणाधिकारिण इति निर्णेतुं युक्तम् । वादिप्रतिवादिभ्यां निवेदितानंशान् पृथगुपादाय तयोः वाक्यार्थं परिशोध्य सप्रमाणं परीक्ष्य विमृशता प्राड्विवाकेन अन्यतरस्य जयः स्थापनीयः इति सत्यामपि धर्मतो व्यवहारनिर्णयसरणौ अज्ञजडबधिरमूकमत्तपङ्ग्वन्धादीनां व्यवहारस्थानमागत्य स्वस्वाभीष्टवादप्रस्थापनसामर्थ्यविरहात् तेषां संभवन्त्योऽप्यापदः राज्ञा न परिहृतास्स्युः ॥

 किंच सत्यपि करणपाटवे सत्यामपि वादानिर्वाहशक्तौ बहुतरक्रियाकलापसंरुद्धनिखिलकालस्य पुंसो न धर्माधिकरणमुपागत्य निवेदनपूर्वकं व्यवस्थापनान्तक्षमोऽवसरः, तादृग्विधस्यापि तापसादेः सैवानुपपत्तिः ।

 तथाच एवंविधव्यवहारेषु जनताविपत्परिहाराय यथायथमनुगुणः पुमानेव तत्र तैर्नियुज्यमानः कार्याणि साधयेदिति स्थिते आधुनिकानां प्राड्विवाकपरिषदि वादिप्रतिवादिसहकारपराणां (लायर्-अड्वोकेट्) इति च राज्याङ्गव्यपदिष्टानां प्राड्विवाकीयवादतत्वनिर्णयक्रमसहायकार्यक्रमाणां उपप्राड्विवाकव्यपदेशार्हाणां व्यवहारदर्शनपथे राजपरिकरतया परिग्रहः सनातनधर्मशास्त्रसिद्ध इति सिद्धम् । सत्यानृतविपरीतकरणपाटवधुर्यनियोज्यपुरुषसौलभ्यमात्रमवलम्ब्य तु जनाः शीर्षच्छेदाद्यपि कुर्वाणाः प्रश्नोक्तचातुरीधोरणीभिर्विमोचयन्त्यापद्भ्योऽप्यात्मानं पापिन एवंविधान् राजकीयव्यवहारमार्गानासाद्येति तु न न्यायापराधः, किंतु कलेरेवेत्यन्यदेतत् ॥

 इदन्त्विह सारतश्चिन्तनीयं-- प्रतिज्ञापादादिभिश्चतुर्भिः पादैः प्रस्थापितोऽयं व्यवहारमार्गः ऋज्वाशयप्रजाबहुळे निष्कारणवैरप्रचार विकले धर्मभीरुजनतापरिभूषिते देशे यथाश्रुतमेव जनवृन्दैरनुस्रियमाणः परिरक्षन्नास्त विवादपरिहारक्रमम् । को हि नाम स्वंस्वं नियतं कर्म निर्विचिकित्समाचरन् यथाक्रमविनियुक्तकालः वेलामुल्लङ्घ्य व्याप्रियेत । क्रमेण च स्वस्वसुखसंसाधनपाटवासादनप्रवणे लोके मनागिव शिथिलितायां पापभीतौ मिथ्यावादमपि नातीव परिजिहीर्षत्सु जनेषु सत्यधर्मयोरेव कथञ्चन रक्षणाय धर्मव्यवहारादिवती प्रावर्तत व्यवहरपद्धतिः । यदा तु प्रत्यन्तपरिवासिजनतानां सकौतूहलासकिल्बिषास्सासूयाश्चाटाट्याः प्रावर्तन्त तदा किल प्राचीनव्यवहारव्यवस्थालतिका आकस्मिकेन सुसुलभेन हृदयहारिणा केनापि दोहदेनापूरितालवाला अक्षयेण पयसा पर्यसिच्यत; येन निर्विघ्नं निरुपद्रवं च प्ररोहन्तीभिश्शाखाभिराक्रम्येव रोदसी अतिलङ्घ्येव सागरान् कृतास्कन्दनेव अङ्गुल्यग्रमिव गृह्णती सुतरामाचूषणमारभत जनताद्रविणगणस्य ।

 यद्यपि मा भविष्यत् प्रत्यन्तजनतासंमेळनसंपदुल्लास: कामं सनातनधर्मशास्त्रवेत्तार एव निर्णयं व्यवहारस्योररीकुर्युः तथाऽप्यनुक्षणविचित्रभावरचने युगसार्वभौमे विनैव परकीयसंवासं भारतीयव्यवहारव्यवस्थामार्गः एतावतीं सरणिमियता कालेन नैवलिप्स्यतेति वक्तुं कथं पारयामः । दृष्टं त्वित्थमुपह्रियते चोपसंह्रियते चं यत् सत्यं सरस्वतीविलासकृता खल्विदानीन्तन्यपि न्यायनिर्णयसरणिरनुशीलिता परिपालिता चोपकृतवती करिष्यति च महान्तमुपकारं लोकानामिति विश्वसिम इति । निबन्धस्यास्य मुद्रणे संवाचनायावलम्बिताः कोशा:--

 २१४४ सङ्ख्याकः नागराक्षरमयः एतत्कोशागारस्थः नातिशुद्धः
 २२०४  " आन्ध्राक्षरमयः  "  "
 ३१३०  "  "  "  "
B १५४४  "  "  "  "
 ८५४  "  " सरस्वतीभण्डारस्थः प्रायश्शुद्धः
बेंगळूरुनगरमध्युषितैः महाशयैः समाचार्याभिधैः पुस्तकशालामेतां स्वकीयतातचरणहस्ताक्षरमयेन कागदबद्धेन समग्रप्रायेण प्रायश्शुद्धेन सरस्वतीविलासकोशेन सभाजयद्भिः समर्पितश्चापरः, लण्डन् नगरमुद्रितः A११३२ संख्याकः दायभागमात्रात्मकः एतत्कोशागारस्थश्चापरः, इति इदं कोशषट्कमबलम्व्य मुद्रणमिदं निरवर्त्यत । तदत्र दुर्वारप्रसरेण पुरुषदोषेण सीसकाक्षरयोजकदोषेण वा संभवन्तः प्रमादाः हृदयङ्गमग्रन्थद्धादरैः क्षन्तव्या इत्यर्थयामः ॥