प्रमुखा विकल्पसूचिः उद्घाट्यताम्
सरस्वतीविलासः (व्यवहारकाण्डः)
प्रथमो विलासः
प्रतापरुद्रमहादेवमहाराजः
द्वितीयो विलासः →

श्रीसरस्वतीविलासः.


व्यवहारकाण्डः.

[१]वन्दामहे महीयांसमंसलम्बिजटाधरम् ।
यत्कङ्कण[२]क्वणत्काररूपं शब्दानुशासनम् ॥ १ ॥

आचन्द्रार्कमसौ तनोतु कुशलं वश्शङ्करस्यात्मजो
यस्यानर्गळदानवारिसुरभेः कण्ठोपकण्ठं मुदा ।
खेलन्तः परितो द्विरेफकलभाः श्रेणीभवन्तो मुहुः
शुम्भज्जम्भभिदश्शरासलहरीशृङ्गारमातन्वते ॥

. . . . . . . . . . .
. . . . . ब्रह्मविदो वदन्ति ।
वाणि ! त्वदायत्तमिदं स्वयं चेत्
का वा स्तुतिस्स्यादयमञ्जलिस्ते ॥ ३ ॥

हनूमन्तं शान्तं स्वयमुपदिशन्तं रघुवरा-
दुपाध्यायादाद्याद्यदिह समुदायाय यमिनाम् ।
नमस्यामो हेमोपममनुपमामोदियशसं
प्रतापाङ्के[३] लङ्केश्वरविजयिनं केसरिसुतम् ॥ ४ ॥

निर्भिन्ननीलमणिगर्भनिकायकायं
नीलाद्रिशेखरमणिं नितरां स्मरामि ।
ज्योतिर्मये वपुषि यस्य सितेतरत्वं
कंजेक्षणस्य गगनात्मतयैव नूनम् ॥ ५ ॥

शिशुं कपटयादवं श्रितजनस्य मायादवं
निषिद्धवृषभासुरं निगमदर्पणं भासुरम् ।
रमाकलितमानसं रयविभग्नभीमानसं
स्मरामि नळिनेक्षणं सरससंविधाने क्षणम् ॥ ६ ॥

पदानतशचीपतिं पशुपतिं दिशा धीवरं
सुरालयशरासनं सुकृति[४]हृद्विहारासनम् ।
विमुक्तविविधामयं विमलचित्तमेधामयं
पुरां समधिकद्विषं पुनरुपैमि शाकद्विषम् ॥ ७ ॥

श्रीवीररुद्रनृपतेः श्रियमातनोतु
नीलाद्रिनाथनिजपादसरोजयुग्मम् ।
यद्योगिभि[५]र्हृदयपङ्कजमध्यभाग
संरोधनादिव समुद्गतरक्तभावम् ॥ ८ ॥

प्रतापश्रीरुद्रं नृपमवतु दुर्गापदयुगं
सरक्तं रक्तौघेः महिषदनुजोरस्स्थलभवैः ।
शुभान्यस्मै दिश्याच्छ्रुतियुवतिसीमन्तसरणि
प्रतोळीसिन्दूरैः परिचयवशेनाऽ[६]रुणचणम् ॥ ९ ॥

अथ कृतिप्रणेतृवंशावतारोऽवतार्यते.


 न ह्यत्र तत्रभवतो वंशावतारनिबन्धनमनुपपन्नमिति मम मनीषायाः समुन्मेषः, यतः खलु, अनुगुणगुणरचितरुचिरतरतारहारावळेरपि नायकमणिनिगुम्भनवशेनैव विजृम्भणम् । यथा वा लोकोत्तरचमत्कारभुवोऽपि नायिकायाः स्वानुगुणनायकसंबन्धेनैव चरितार्थता-- यथावा नयनानन्दकरस्यापि तारागणस्य निशाकर[७]परिचयादेव सौभाग्यातिशयः-- यथावा कूलङ्कषाणां कूलङ्कषजलानामपि नदीनां पाथः परिसरप्रसरेणैव शोभातिशयित्वं-- यथावा तमोनिवारणनिपुणानामपि किरणानां किरणमालिना सङ्कलनयैव सकलजगदानन्दहेतुता-- यथावा भगवतो वासुदेवस्य गुणगणा अपि लीलापरिगृहीतविग्रहावतारसम्बन्धादेव गरिमाणमावहन्तो मनो हरन्तितराम् । तथैव महानायकवंशावतारनिबन्धेनैव कृतयः सुकृतिसमाकल्पमाकल्पयन्ति । किमु वक्तव्यं प्रबन्धप्रबन्धृवंशावतारवर्णनम, सुवर्णकुसुमस्य सौरभाविर्भावः अथवा चन्दनतरोः प्रसवसमुद्गमः, अथवा अशोकतरोः फलाभिसम्बन्धः ।

 अपि च--

  मङ्गलाचारयुक्तानां विनिपातो न विद्यते ।

इति स्मृति[८]गतमपि विनिपातनिवृत्तिफलकमवश्यं मङ्गलाचरणमाचरणीयम् । तदेव मङ्गलाचरणं यत्पुण्यपुरुषपौरुषानुव र्णनम् । पुण्यपुरुषः परमपुरुषादन्यो नास्तीति खलु स एव- वर्णनीयो लीलारसपरिगृहीतविग्रहः, तस्यानन्ता एवावताराः । अतीता वर्तमाना वर्तिष्यमाणा इति तेषामानन्त्यं । अतीतानामवताराणामतीतत्वं न शक्नोति मन्थनः प्रवेष्टुं, एवमेव वर्तिष्यमाणत्वमपि, वर्तमानेषु पुराणपुरुषावतारविशेषेषु भूकान्तासन्तत [९]समार्जितनिखिलसुकृतपरिपाकविशेषे भूपविशेषे विद्विषत्कूररुद्रे प्रतापगजपतिवीररुद्रे गाम्भीर्य समुद्रे सति मम मनो न रोचयते तमतिक्रान्तुम् । अनस्तमेव मृगयते वाचश्चरितार्थयितुम् । अतो लक्ष्मीमहीमहिळाकतया वीररुद्रस्साक्षात्पुराणपुरुषावतारविशेष एवेति तदनुवर्णनमस्माकमनुवर्णनीयमेव तद्वंशाग्रणिनमोमणिरगणनीयभासा विकासतेतराम्--

अस्तीश्वरस्याष्टममूर्तिरेष स्वस्तिप्रदस्सम्प्रति दीप्तयोषः ।
अस्तोदयाद्रीश्वरमस्तकाग्रविस्तारितैकाश्चरणत्खुराग्रः ॥ १. ॥

प्रतापिनां द्वारमसौ प्रतापी प्रतापवस्तु प्रतिमानभूमिः ।
प्रतापरुद्रस्य कुलाग्रगण्यः प्रतापभानुः प्रथमो ग्रहाणाम् ॥ २ ॥

कुलेऽभवन्नंशुमतो नृपालास्तले भुवो दिक्पतितुल्यलीलाः ।
बिलेशयाधीशभुजान्तराळा बलेनलब्धक्षितिचक्रवाळाः ॥ ३ ॥

तदन्वये रामकविप्रसादाल्लब्धप्रभावो रघुनायकोऽभूत् ।
तदात्मजो बाहुजमौळिरत्नमणिस्त्रिलोकीविनुतप्रतापः ॥ ४ ॥

तस्मादसूत सुतमिन्दुमतीन्दुकल्पं
कल्पद्रुमप्रसवकल्पितकल्पभाजम् ।

जम्भारियुद्धमखमिद्धयशोनिधानं
सम्भावितं सदसि पङ्क्तिरथाभिधानम् ॥ ५ ॥

परः पुमान् पङ्क्तिरथादथासीत् आसीमवासीकृतकीर्तिपूरः ।
रामाभिधः सोमसमानधामा धीमानसौ धीरवराग्रगण्यः ॥ ६ ॥

श्रियः पतिस्स्वावतरप्रयोजनं प्रतापलङ्केश्वरसूदनात्मकम् ।
गुरूक्तिचर्याभिषतोऽनुषङ्गतः चकारनूनं कृतिनामियं विधा ॥ ७ ॥

ततः कुशोऽभूदरिमस्तकाङ्कुशः कुशावतीशः सकुशेशयासनः ।
ततोऽतिथिर्नाम समिद्धविक्रमः सपर्ययाऽऽवर्जितनिर्जितातिथिः

वंशे रघूणामुदपादि राजा भूजानिरादित्यसमिद्धतेजाः ।
रामाकृति[१०]श्श्रीकपिलेन्द्रनामा सीमातिशायीश्वरतुल्यधामा ॥ ९

अनस्तमितभानुमाननृतशून्य[११]धर्मात्मजो
विशोकरघुनायको विगतलाञ्छनश्चन्द्रमाः ।
[१२].अशोषणमहार्णवस्सततदानराधासुतः
प्रतापकपिलेश्वरो गजपतिः कथं वर्ण्यते ॥ १० ॥

सौजन्यस्य खनी वनीपकवनीदैन्यस्य विच्छेदिनी
सौभाग्यस्य धुनी धुनी च यशसां धर्मेण तत्साधिनी ।
सौन्दर्यस्य झरी सरीसृपदरी विद्वेषिणां चातुरी
माहात्म्यैकमहामहेश्वरमही जागर्ति जागेश्वरी ॥ ११ ॥

जम्भद्विट्कुम्भिकुम्भद्वयसचिवशचीचारुवक्षोजकुम्भ
व्यक्तव्यक्तानुषक्तप्रसृमरमसृणक्षोदकर्पूरगौरः ।
यत्कीर्तेः कार्तिकीन्दुप्रहसनरसिकप्रौढकर्णाटकान्ता
कान्ता कान्ताननेन्दुस्फुरितरतिकलाहासभासां विलासः ॥ १२

चोळ[१३]द्राविडनेपाळपाण्ड्य[१४]मालवकेरळाः ।
कपिलेन्द्रनृपे क्रुद्धे युद्धे कर्णाट[१५]कीर्तयः ॥ १३ ॥

सा पार्वती नाम यथार्यनाम्नी
याऽवाप सापत्न्यमिळारमाभ्याम् ।
करं गृहीत्वा कपिलेश्वरस्य
सा गामसापत्न्यवतीमतानीत् ॥ १४ ॥

सा पार्वती सकलगण्यगुणातिरेकं
भूपालमौळिमणिरञ्जितपादपीठम् ।
तस्मादसूत पुरुषोत्तमनामधेयं
विस्मारितारिधरणीश्वरभागधेयम् ॥ १५ ॥

वीरश्रीपुरुषोत्तमो गजपतिः विद्वत्सभाभ्यन्तरे
[१६]शेषो विक्रमिणां कथासु नितरां शेषाहिभूषो विभुः ।
शत्रूणां गणनेऽहिकङ्कणसखः सौन्दर्यसीमा स्वयं
तत्पुत्रोयमिति प्रगल्भवचसामुत्प्रेक्षणीयोऽन्वहम् ॥ १६ ॥

रूपाम्बिका रूपितरम्यशीला भूपालमौळेः पुरुषोत्तमस्य ।
कळत्रमासीत् कमलायताक्षी समोमया सा रमया च वाचा ॥ १७

जपैस्तपोभिस्स्वयमार्जितैरसा
वसूत सावित्रकुलाधिपाग्रणीम् ।
सुरूपया सामजयानयाऽनया
नयाधिकश्श्रीवरवीरभूपतिः ॥ १८ ॥

वीरश्रीरुद्रदेवो गजपतिरभवत्तत्प्रतापाग्निरुच्चै-
रुच्चैर्मत्तेभकर्णव्यजनपवनसंवीजनेन प्रवृद्धः ।
हैमं ब्रह्माण्डभाण्डं विलयमरिवधूहेमताटङ्कहारी
नेष्यत्येवं विचिन्त्य व्यधित जलमयीं प्रावृषं तत्र वेधाः ॥ १९

श्रीवीररुद्रगजराजयशस्समुद्रो
लोकांश्चतुर्दश समश्नुत एव नूनम् ।
नोचेत्तरण्युडुपसञ्चरणं कथं वा
नक्तं दिवं नविरतं नभसः प्रदेशे ॥ २० ॥

उद्गच्छत्युडुनायके जलनिधेः वाराशिसम्पूर्णतां
प्रत्येमि प्रकटं प्रतापगजराड्विद्वेषि वामभ्रुवाम् ।
नेत्राम्बुस्रवणप्रवाहतटिनीसङ्गेन नूनं न चेत्
मेघैरावृतपाथसोऽस्य लवणाम्भोधेः कथं पूर्णता ॥ २१ ॥

[१७]

कर्णोऽयं यदि वासरार्धमभवत् तत्त्यागलीला न चेत्
सूर्योऽयं यदि वासरं समभवत्तथ्यं प्रतापाकृतेः ।
चन्द्रोऽयं यदि रात्रिमात्रमभवत् तत्कीर्तिकेळीनुतेः
किं कुर्मः पुरुषायुषैः कविनुतश्श्रीवीररुद्रो नृपः ॥ २३ ॥

श्रीवीररुद्रनृपतेर्जयति प्रताप
वह्निः परीत्य जलधीन् बडवाग्निदम्भान् ।
तद्द्वैरिणो जलनिधीनभिचक्रवाळं
गन्तॄन्निरोद्धु. . . . . . . . ॥ २४ ॥

[१८]कल्पान्तानल्पकल्पज्वलदनलपरीहाससब्रह्मचारी
वैरीशप्रौढनारीविलपनलपनस्थेमसीमासमानः ।
गर्वाखर्वोर्वराधीश्वरगळगिळनप्रस्फुरद्बाहुदण्डैः
रथ्याडिल्लीकलम्बाकलुषगजपतिष्वश्वपत्युक्तिरेका ॥ २५ ॥

प्रतापरुद्रप्रथितप्रतापभानुस्त्रिलोकेऽपि तुलाविहीनः ।
चित्रार्धकस्वाति विशाखगत्या तुलां समारोहति तिग्मभानोः ॥
कान्तानां कामदेवः कुलगिरिरवनेः कामधेनुः कवीनां ॥ २६ ॥

पद्मानां पारिजातः प्रपदकमलयोः पङ्कजाक्षः प्रजानाम् ।
दीनान्धानां निधानं दिनकरकिरणोद्वेषितामिस्रराशेः ।
सोयं श्री वीररुद्रो गजपतिरतिरोभूतभूतेशमूर्तिः ॥ २८ ॥

 अपि च-- श्रीवीररुद्रो गजपतिरैरावण इव वृषारूढः, पुण्डरीक इव कपिलाऽऽयत्तदर्शनासक्तः; वामन इव पिङ्गळानुसरणच्छन्दस्स्फुरणः, कुमुद इव अनुपमैश्वर्यविश्रान्तिः, अञ्जन इव ताम्रपर्णीप्रभूतविलासविहारनिपुणः, पुष्पदन्त इव सुदती करपरिचयानुरक्तः,

 अपि च-- सार्वभौम इव सार्वभौमः, सुप्रतीक इव सुप्रतीकः, कुमार इव कुमारः, मार इव मारः, चतुरानन इव चतुराननः, विष्वक्सेन इव विष्वक्सेनः, रुद्र इव रुद्रः, कमलाकर इव कमलाकरो, नृसिंह इव नृसिंहः, राम इव रामः,

 अपि च-- नृसिंह इव करजाऽऽहित वीरलक्ष्मीकः, दाशरथिरिव जगदवननिपुणकरपल्लवः, परशुराम इव एकवीराऽऽकृतिधरो, हिमाचल इव कुलाचलो, वाराकर इव सत्वसमाविष्टो, हिमांशुरिव कुमुदोल्लासी, दिवाकर इव समुल्लसिततनुविभावो, निखिलहरिदन्तरजेगीयमानयशश्चन्द्रिकाप्रसरण हरशिरश्चन्द्रकरार्द्रीकरणो लोकाऽऽलोकोपभोगालोकायमाननिजप्रतापो दिक्करिसदृशो धिक्कृतवाक्पतिविभवः ।

 अपि च-- पुरुहूत इव वृद्धश्रवाश्श्राव्यघनकीर्तिरपि सहस्रनेत्रादृतोऽपि विष्णुरपि न दुश्च्यवनः किन्त्वति सुस्थितः, वीतिहोत्र इव जातवेदस्स्फरणोऽपि जगत्प्राणसखः, शुचिरपि नाऽऽश्रयाशः किन्तु आश्रितसंरक्षकः, धर्मराज इव समवर्त्यपि दण्डधरोऽपि वैवस्वतोऽपि न पितृपतिः अपि तु पितृसेवारतः निखिलभूमण्डलाधीश्वरः, वरुण इव प्रचेता अपि भुवनाधी श्वरोऽपि नव्यपाशोपि नोदकाऽऽसक्तः किन्तु निष्कल्मष जनानुरक्तः, श्वसन इव अनिलाकृतिरपि पुराणनेतृविभवोऽपि सदागतिरपि न भुजङ्गसहितः किन्तु दुष्टजनविनेता, किन्नरेश्वर इव राजाधिराजोऽपि धनदोऽपि[१९]पदासक्तवरकच्छिलोऽपि न कुबेरः किन्तु सिंहसंहननः, शम्भुरिव महागजाधीश्वरोऽपि सर्वज्ञोऽपि न खण्डपरशुः किन्तु अप्रतिहतशस्त्रकलापः ।

 यस्य खलु रिपुराजकुञ्जरा विन्ध्याटवीमध्यमध्यासीनाः सिंहशरभशार्दूलगण्डकादिसमालोकनेऽपि न बिभ्यति किन्तु पताकिनीपताकाङ्कायितशरभशार्दूलगण्डभेरुण्डादिस्मरणजनितरणजनिततद्भ्रान्तिमन्तो भयविह्वलतया गह्वरान्तरेषु निलीयन्ते, स हि विचित्रम् वीररुद्रोऽपि पद्माश्लिष्टतनुः, समाश्रितजनहरिचन्दनोऽपि परिजनीकृतहरिचन्दनः, सुरभितरगुणगणैश्श्रीचन्दनोऽपि दासीकृतश्रीचन्दनः, स्वयं विद्याधरसदृशोऽपि किङ्करीकृतविद्याधरः, स्वयं पुरुषोत्तमोऽपि पुरुषोत्तमतनयः, स्वयं पुरुषोत्तमतनयोऽपि पुरुषोत्तमजनकः, स्वयं पुरुषोत्तमजनकोऽपि पुरुषोत्तमप्रियसेवकः,

 अपि च-- त्रिनेत्रकुमारसदृशोऽपि अत्रिनेत्रकुमारसदृशः, नलप्रतिमोऽप्यनलप्रतिमः, लङ्कारातिसुभगोऽप्यलङ्कारातिसुभगः, धरासक्तानुरागोऽप्यधरासक्तानुरागः, बलायत्तचित्तोऽप्यबलायत्तचित्तः, वनीपकरक्षणोऽप्यवनपिकरक्षणः ।

 अपि च-- वक्ता वक्तॄणां, श्रोता श्रोतॄणां, प्रबन्धा प्रबन्धॄणां, नेता सन्मार्गस्य, विनेताऽप्यसन्मार्गवर्तिनां, प्रणेताऽऽ ख्यायिकानां, अभिनेता नाटिकानां, अपनेता दुष्कृतानां, निर्णेता धर्मसन्देहस्य, परिणेता पद्मापद्मालयेळामहिळामहिळानां, अधिनेता सकलोर्वीचक्रवाळस्य,

 अपि च प्रतिरूपकं विवस्वतः, वीप्सा मनुवैन्ययोः, अध्याहार इक्ष्वाकोः, समस्याः दिलीपस्य, संवादो रघोः, पणबन्धो रघुकुमारस्य, प्रतिनिधिः पङ्क्तिरथस्य, विग्रहान्तरं रामभद्रस्य, सकलजनतानन्दनजनार्दनो गौडेन्द्रमानमर्दनो विजयसुरभिसुरभितरसमधिकोदारो वीरकेदारः सञ्चरणकुलशैलभ्रमजनकमदवारणधिक्कृतदिक्कुञ्जरः, शरणागतहुशनशाहिसुरत्राणवज्रपञ्जरो, राजाधिराजपरमेश्वरः प्रतापरुद्रो गजपतिर्नाम.

 अत्र वर्णयितृवर्ण्ययोरभेदैकनियतयोरपि अवस्थाभेदेन भेदकथनं एकस्यैव कवेः कविसहृदयत्ववत् न विरुध्यते । स चायं वीररुद्रो गजपतिरयोध्यामिवायोध्यां, मधुरामिव मधुरां, द्वारावतीमिव द्वारावतीं अवन्तीमिवावन्तीं, मायामिव मायां, वारणासिकामिव वारणासिकां, अपि च काशीमिव विश्वेश्वराधिष्ठिताम् अयोध्यामिव इक्ष्वाकुसन्मार्गो, काञ्चीमिव कामकोटिपुण्यकोटिसमेतां, मधुरामिवोग्रसेनापरिपालितां, द्वारवतीमिवानकदुन्दुभिघोषसमेतां, महानदीजलमध्यमध्यासीनां, अमरनदीप्रतिबिम्बमिव भूकान्ताकटिकङ्कटकनगरीं, पद्मापद्मालयेळामहिळाभिस्समं सम्मानयन् प्रतिदिवसनियतराजकनियतव्यवहाररूपधर्माचरणमाचरन् यथाविहितसभामण्डपान्तरे सभ्यप्राड्विवाकामासपुरोहितज्योतिर्विदादिभिः सहितः विज्ञानयोगिभारुच्यपरार्कमेधातिथ्यसहायचन्द्रिकादि बहुग्रन्थैः कवाक्यतापर्यालोचनवशायाततत्क्लेशो माभूदिति सकलस्मृति समुच्चयमतिगम्भीरं नातिविस्तृतं प्रबन्धं प्रस्तौति--

अत्रेत्थं गमनिका--

अमा ननु मुनीश्वरा मनुवसिष्ठयोगीश्वरा
निवन्धनकृतोऽपि भारुचिकुलार्कयोगीश्वराः ।

गता विगतमत्सरा भवतु वी भवानीपतिः ।
स तुष्यतुतरां मम स्मृतिनिबन्धवाग्व्वैखरीम् ॥

हीने गर्वमहो नैव नैव गर्वमहोऽधिके ।
समे तु गर्वं शङ्केत न समस्ति समस्तु नः ॥


इति वीरश्री गजपतिगौडेश्वर नवकोटिकर्णाटकलुवरिगेश्वर
शरणागतयमुनापुराधीश्वर हुशनसाहिसुरत्राणशरणरक्षण
श्रीदुर्गावरपुत्र पवित्र चरित्रराजाधिराजराजपर-
मेश्वर श्री प्रतापरुद्रदेव महाराजविरचिते
स्मृतिसङ्ग्रहे सरस्वतीविलासे
प्रबन्धृवंशावतरणं नाम
प्रथमो विलासः


  1. वन्देमही-A; वन्देमहा
  2. झणत्काररवः-- B. क्वणत्काररवः-- A
  3. प्रतापाङ्कम्’ इति तु स्यात्.
  4. हृद्विहारालयम्.
  5. निजहृदम्बुजमध्य
  6. रुणमिदम्.
  7. निशाकरकरपरिच.
  8. स्मृतिगतमविनिपातफलक.
  9. समूर्जित--A.
  10. श्रीकलितेन्द्र-- A.
  11. वाग्धर्मजः-- B
  12. अशोषमकराकरो अमितदान-- B.
  13. द्रविळ-- B.
  14. मागध-- A.
  15. कर्णादि-- B.
  16. शेषश्शेषविभूषणस्स्वयमयं वीराग्रणीस्संससदि।
    मित्रं शेषधरस्य दातृपरिषद्यस्यैव सूनोस्समा
    सौन्दर्यातिशयांशकीर्तिसमितौ सत्ये तु नैवापरः-- B.
  17. जीवग्राहमतिप्रगृह्य समरे कर्णाटभूमाधव ।
    दीनोक्तेः प्रवणं नृसिंहमनुजाधीशं पुनस्त्वक्तवान्
    यो हम्मीरमहारिपुं समतनोत्पादाब्जपीठानतं ।
    सोऽयं श्रीपुरुषोत्तमो गजपतिर्बद्वाग्विलासास्पदम् ॥ २२ ॥

    --B. कोश एव.
     
  18. लोकाभूपालमात्रं नरपतिमनिशं संस्तुवन्ति प्रकामं
    आलोकालोकमेकं गजपतिबिरुदं स्तुत्यमाबालगोपम् ।
    किं चित्रं वीररुद्रो गजपतिरतुलस्तुल्यकीर्तिः कवीनाम्॥
    B-- कोशे न सदृश्यते.
  19. सदा