प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← तृतीयोल्लासः सरस्वतीविलासः (व्यवहारकाण्डः)
तुरीयोल्लासः
प्रतापरुद्रमहादेवमहाराजः
पञ्चमोल्लासः →

अथ तुरीयोल्लासः.


निर्णेतुःकृत्यम्.

 एवमासेधकरणानन्तरं आक्रोशं कुर्वति वादिनि.

ततो निर्णेतुः कृत्यमाह नारदः--

"ततस्तद्वचनं सर्वं फलकादौ विलेखयेत्" ॥

गोभिलोऽपि-

"रागादीनां यदेकेन कोपितः करणे वदेत् ।
तदोमिति लिखेत्सर्वमर्थिनः फलकादिषु" ॥

रागद्वेषलोभमोहादीनां मध्ये एकेन रागादिना यद्वदेदित्यन्वयः । करणे-- राजसमक्षं । तदनन्तरं तद्वाक्यं ब्राह्मणैः सभ्यैः सह विमृश्य न्याय्यं चेत्साध्यपालेन राजपुरुषेण प्रतिवादिनमाकारयेत्, एतदुक्तं भवति-- फलकादौ यल्लिखितं तत्तु जन्मान्तरे मया अस्मै धनं दत्तम्, तदसौ न प्रयच्छतीतिवत् विचारायोग्यम् यदि न स्यात् तदा तत्प्रत्यर्थ्याह्वानार्थं साध्यपालं प्रेषयेदिति । साध्यपालो नाम अर्थिप्रत्यर्थ्याह्वानार्थं राज्ञा नियुक्तस्सभ्यानुमतो राजपुराषः । साध्यपालग्रहणं राजमुद्रोपलक्षणार्थं यथाह बृहस्पतिः--

"यस्याभियोगे कुरुते तथ्येनाऽऽशङ्कयाऽपि वा ।
तमेवाकारयेद्राजा मुद्रया पुरुषेण वा" ॥

इति । आकारणमाह्वानं । उत्तरदाने तस्यैवाधिकारादित्यभिप्रायः । अत उक्तं कात्यायनेन-

"अधिकारोऽभियुक्तस्य नेतरस्यास्त्यसङ्गतेः" ॥

इति । अस्यार्थः-- इतरस्यानभियुक्तस्य अस्मिन् विवादे संबन्धाभावान्नास्त्युत्तरदानेऽधिकार इति । इतरस्योत्तरवादित्वं त्रेधेत्याह--

उत्तराधिकारिणः.

"इतरोऽप्यभियुक्तेन प्रतिरोधीकृतो मतः ।
समर्पितोऽर्थिना योऽन्यः परो धर्माधिकारिणि"
प्रतिवादी स विज्ञेयः प्रतिपन्नश्च यस्स्वयम् ।

इति । अयमर्थः--

 इतरोऽपि-- विवादासंबद्धोऽप्यभियुक्तेन प्रतिरोधीकृतः-- प्रतिवादीकृतः मतः-- मन्वादीनामिति शेषः । अन्यो-- द्वितीयः प्रतिवादी । परो विवादासंबद्धः धर्माधिकारिणि-- प्राड्विवाके अभियुक्तेन समर्पितः, अर्थिना वा स्वयमेव यः प्रतिपन्नः--प्रतिवादित्वेनाङ्गीकृत इति । एतच्चानधिकारिणः प्रतिवादित्वमकल्याद्यधिकारिविषयं वेदितव्यम् । अत्राधिकारिणः साक्षात्कर्तृत्वस्य सुदुष्करत्वात् । अकल्यो-- रोगी । आदिशब्देन अप्रगल्भजडोन्मत्तवृद्धस्त्रीबाला विवक्षिताः ।

अकल्यादीनां प्रतिनिधिदानं नियुक्तत्वेन ।

अत एव हारीतेन-

 "अकल्यबालस्थविरविषमस्थक्रियाकुलकार्यातिपातिव्यसनिनृपकार्योत्सवाकुलमत्तोन्मत्तप्रमत्तार्तभृत्यानामाह्वानमकार्यमित्युक्तम्" । अकल्यो व्याख्यातः । विषमस्थः-- उत्पन्नसङ्कटः । क्रियाकुलो-- नित्यनैमित्तिककर्मव्यग्रः । यस्य त्वागच्छतो गुरुतरकार्यहानिः स कार्यातिपाती । व्यसनं-- विनष्टवियोगादिजं दुःखं तद्वान् व्यसनी । मत्तो-- मध्वादिमदनीयद्रव्यनाशितबुद्धिः । उन्मत्तोग्रहपित्तादिभिः । प्रमत्तस्सर्वावधानहीनः । आर्तो-- विषयादिना दुःखितः । भृत्यग्रहणमस्वतन्त्रस्त्रीणामुपलक्षणार्थम् । अतश्चाकल्यादिविषय एव प्रतिनिधिविधानं व्यवतिष्ठते ।

महाभियोगे सर्वेऽप्याह्वानयोग्याः.

 यदा त्वकल्यादिप्रहितप्रतिनिधिना न कार्यनिष्पत्तिः । तदा श्रकल्यादीनामप्याह्वानं कार्यम् । महाभियोगेषु अभियुक्तस्यैवाऽऽह्वानस्याऽऽवश्यकत्वात् । महाभियोगास्तु मनुष्यमारणस्तेयपरदाराभिमर्शनापेयपानानि । असभ्यवादेष्वप्यकल्यादय आह्वातव्या एव । असभ्यवादास्तु अभक्ष्यभक्षणकन्यादूषणपारुष्यकूटकरणनृपद्रोहादीनि । एतेषु प्रतिनिधिर्न कार्यः ।

अत्र व्यासः-

"उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
याचमानाय दौश्शील्यादाकृष्योऽसौ नृपाज्ञया ॥" इति ।

आहूतस्यानागमने अभियोगानुरूपदण्डः.

यस्तु नृपाज्ञया नाऽऽगच्छति तस्य दण्डमाह बृहस्पतिः--

"आहूतो यस्तु नागच्छेत् दर्पाद्बन्धुबलान्वितः ।
अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥" इति ॥
"हीनकर्मणि पञ्चाशत् मध्ममे तु शतावरः ।
गुरुकार्येषु दण्डस्स्यात् नित्यं पञ्चशतावरः ॥"

कार्षापणानां सङ्ख्येयम् ।

"कल्पितो यस्य यो दण्डः अपराधस्य शक्तितः ।
पणानां ग्रहणं तु स्यात् तन्मूल्यं वाऽथ राजनि ॥"

इति कत्यायनोक्तेः । शक्तित इत्युक्त्या आपद्विषये न दण्डप्रकल्पनं । किंतु निवृत्तौ पुनराह्वानं कार्यं । तच्च परमार्थं चेत्, अथापरमार्थं; तदा दण्डयित्वा पश्चान्न्याय्यं प्रवर्तयेत् ।

"प्रतिष्ठाप्यस्तु यत्नेन सोऽन्यथा दण्डभाग्भवेत् ।
दण्डयित्वा पुनः पश्चात् राजा न्याय्ये प्रवर्तयेत् ॥'

एवं येनकेनाप्युपायेनानीतमभियुक्तमभियोक्ता[१] सभायाः पुरतोऽन्यत्र वा स्थाने स्थापयेत् । यत्र स्थिते दृष्टलक्षणप्रच्छादनमशक्यं तत्र स्थापयेत् । ततो राज्ञा पृष्टोऽभियोगी स्वाभियोगवृत्तान्तमावेदयेत् । अभियोक्तृकृतावेदनमात्रतो भूतान्वेषणानुपपत्तेः, द्वयोश्छलवादित्वे निश्चिते पश्चाच्छलानुसारेण दर्शनविधिः । अतोऽभियुक्तस्यापि वृत्तान्तावेदनमस्तीत्यवगन्तव्यम् ।

वादिप्रतिवादिनोरुभयोः प्रतिभूग्रहणं.

"उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ॥"

इति याज्ञवल्क्यस्मरणाद्वादिनोश्छलत्वनिश्चयानन्तरं साधितधनदण्डयोरनायासेन प्राप्तिरूपकार्यनिर्णयसमर्थः प्रतिभूरर्थि प्रत्यर्थिनोर्द्वयोरपि ग्राह्यो व्यवहारद्रष्ट्रेत्यर्थः ।

अत्र वर्जनीयाः.

 अत्र प्रतिभूकर्मणि केचिन्निषिद्धाः-- शत्रुस्वामितदधिकृतनिरुद्धदण्डितसंशयस्थरिक्तमित्रात्यन्तवासिराजकार्यनियुक्त प्रव्रजितधनदानाशक्ताविज्ञाताः संशयस्थाः अभिशस्ताः । अत्यन्तवासिनः-- नैष्ठिकब्रह्मचारिणः । प्रव्रजितास्सन्यासिनः ॥ प्रतिभूदानासमर्थं प्रत्याह कात्यायनः--

"अथ चेत्प्रतिभूर्नास्ति सार्थयोर्यस्य वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद्दूताय वेतनम् ॥

इति । दूतस्साध्यपालः । वेतनं-- भृतिः । सार्थद्वयं-- कोटिद्वयम् । एवं गृहीत्वा वादी न्याय्ये प्रवर्त्यः ।

अभियोक्त्रादीनां स्वस्वार्थनिवेदनक्रमः.

अभियोक्त्रादीनामुक्तिप्रकारं कात्यायन आह--

"अभियोक्ता वदेत्पूर्वमभियुक्तस्त्वनन्तरम् ।
तयोरुक्ते सदस्यास्तु प्राड्विवाकस्ततः परम्" ॥

इति । पूर्वं वदेदिति-- प्रतिज्ञां कुर्यादित्यर्थः । पूर्ववादोऽभियोक्तुरिति नियमस्य क्वचित् व्यभिचारमाह--

"यस्य वाऽप्यधिका पीडा अकार्यं वाऽधिकं भवेत् ।
तस्यार्थिवादो दातव्यो न यः पूर्वं निवेदयेत्" ॥

पूर्वनिवेदनमप्रयोजकमित्यर्थः । अर्थिवादः-- पूर्वपक्षः । यत्रोभयोरपि परस्परमर्थित्वं साध्यभेदाद्युगपद्भवति तत्र बार्हस्पत्यमुपतिष्ठते ।

"अहंपूर्विकया[२] तावदर्थिप्रत्यर्थिनौ यदा ।
वादो वर्णानुपूर्व्येण ग्राह्यः पीडामवेक्ष्य वा" ॥

ग्राह्यपीडाऽवेऽक्षणं समानवर्णयोरिति ध्येयम् ॥ अनेकवादियुग्मानां युगपदुपस्थाने तु मनुः--

"अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ ।
वर्णाश्रमौ च सर्वाणि पश्येत्कार्याणि कार्यिणाम्" ॥

प्रतिज्ञार्थस्थिरीकरणम्.

 आवेदितं साध्यमेव लेख्यम् । न साध्यान्तरम् । न पुनर्यावदावेदितं तावदेव लेख्यमिति न्यायमाह याज्ञवल्क्यः--

"प्रत्यर्थिनोऽग्रतो लेख्यं यथाऽऽवेदितमर्थिना" ॥

इति । अत एवाऽऽह याज्ञवल्क्यः--

"समामासतदर्धाहर्नामजात्यादिचिह्नितम्" ।

इति । यदावेदितमिति कृत्वा चन्द्रिकाकारेण यत्साध्यमिति व्याख्यातम् । विज्ञानयोगिना तु यथाऽऽवेदितमिति पठित्वा यथा-- येन प्रकारेण पूर्ववेदनाकाल एवाऽऽवेदितं तथा न पुनरन्यथा, अन्यथावादित्वे तु भङ्गप्रसङ्गात् ।

"अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतव्यपवायी च हीनः पञ्चविधस्स्मृतः" ॥

इति । आवेदनाकाले अर्थिवचनस्य लिखितत्वात्पुनर्लेखनमनर्थकमित्यत आह-- समामासेत्यादि । यथेति थाल्प्रत्ययान्तं प्रकारवचनं कृत्वा व्याचक्षाणस्य विज्ञानेश्वरस्य आवेदनसमये यावल्लिखितं तावल्लेखनीयं, किन्तु साध्यमेव लेखनीयमित्याशयः । अन्यवादिवचनोदाहरणात् । अन्यवादित्वं नाम स्वसाध्यं विहाय साध्यान्तरस्वीकारः इति । अतो विज्ञानयोगीन्द्रचन्द्रिकाकारयोर्व्याख्यानप्रकारभेद एव नार्थभेदः । यथा रुचि स्वीकार्यम् । आदिशब्देन द्रव्यतत्सङ्ख्यास्थानवेलाक्षमालिङ्गादीनि गृह्यन्ते ।

आवेदनपत्रलेखनक्रमः.

"अर्थवद्धर्मसंयुक्तं परिपूर्णमनाकुलम् ।
साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥
प्रसिद्धमविरुद्धं च निश्चितं साधनक्रमम् ।
संक्षिप्तमन्वितार्थं च देशकालाविरोधि च ॥
वर्षर्तुमासपक्षाहर्वेलादेशप्रवेशवत् ।
स्थनावसथसाध्याख्याजात्याकारवयोयुतम् ॥
साध्यप्रमाणसङ्ख्यावदात्मप्रत्यर्थिनामवत् ।
परात्मपूर्वजानेकराजनामभिरङ्कितम् ॥
क्षमालिङ्गात्मपीडापत्कथिताहर्तृदायकम् ।
यदावेदयते राज्ञे तद्भाषेत्यभिधीयते ॥

इति । भाषा-प्रतिज्ञा-पक्ष इत्यनर्थान्तरम् । यद्यपि सर्वेषु व्यवहारेषु संवत्सरादिविशेषणं नोपयुज्यते । तथाऽप्याधिप्रतिग्रहक्रयेषु निर्णयार्थमुपयुज्यत इत्यदोषः । अर्थवत्-- प्रयोजनवत्, धर्मसंयुक्तं--अल्पाक्षरप्रगीतत्वादिगुणान्वितम् । परिपूर्णं-- अध्याहारानपेक्षम् । अनाकुलं-- असन्दिग्धाक्षरकं, साध्यवत्-- सिषाधयिषितार्थाहीनम्, वाचकपदं-- गौणलक्षणादिरहितम्, प्रकृतार्थानुबन्धि--प्रागविदितार्थाविरोधि, प्रसिद्धं-- लोकप्रसिद्धवस्तुविषयं । अविरुद्धम्-- पुरराष्ट्रप्राड्विवावाकनृपाद्यविरुद्धं, तथा पूर्वापराविरुद्धं प्रत्यक्षादिप्रमाणाविरुद्धं व्यावहारिकधर्माविरुद्धं चाविरुद्धपदेनोच्यते । निश्चितम्-- अर्थान्तरशङ्कारहितं, साधनक्षमं-- साधनार्हं, संक्षिप्तम्-- अनतिविस्तृतम्, निखिलार्थम् अनवशेषितवक्तव्यम्, देशकालाविरोधि । मध्यदेशीयं क्रमुकक्षेत्रादि । शरत्कालीनमाम्रफलसाहस्रमपहृतमित्येवमादिविरोधरहितम् । शिष्टं व्यक्तार्थम् ।

स्थावरविषयावेदनपत्रिकालेखने विशेषः.

"जातिस्संज्ञा विवासश्च प्रमाणं क्षेत्रनाम च ।
पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ॥
स्थावरेषु विवादेषु दशैतानि निवेदयेत्" ।

इति स्मरणात् । देशस्थानादयः स्थावरेष्वेवोपयुज्यन्ते । अधिवासः--समीपदेशवासी जनः । प्रमाणं-- गोचर्मादिपरिमाणम् । क्षेत्रनाम--शाल्यादिक्षेत्रविशेषं व्यक्तार्थम् । एतदुक्तं भवति-- समामासादीनां यस्मिन् व्यवहारे यावद्रूपं युज्यते तत्र तावल्लेखनीयमिति याज्ञवल्क्यवचनस्य तात्पर्यार्थः ।

हारीतोऽपि ।

"आसनं शयनं यानं कांस्यताम्रमयोमयम् ।
धान्यमश्ममयं वस्त्रं द्विपदं च चतुष्पदम् ॥
मणिमुक्ताफलादीनि हीरकं रौप्यकाञ्चनम् ।
यदि द्रव्यसमूहस्स्यात् सङ्ख्या कार्या तथैव च ॥
यस्मिन् देशे च यत्संख्या मानमानेन मीयते ।
तेन तस्मिन् तथा संख्या कर्तव्या व्यवहारिभिः" ॥

इति । तेन मानेन मीत्वा संख्या कार्येत्यर्थः ।

अनादेयव्यवहाराः.

कात्यायनस्तु विशेषमाह--

"देशकालविहीनश्च द्रव्यसंख्याविवर्जितः ।
क्रियाप्रमाणहीनश्च पक्षोऽनादेय इष्यते" ॥

 अयमर्थः- यत्रयत्र यदुपयुज्यते तत्रतत्र तल्लेखनीयम् । तदभावे साध्यसिद्धिकरणाशक्तेरुपयोगविहीनः पक्षोऽनादेय एवेति । क्रियाप्रमाणं-- साध्यपरिमाणं, प्रयोजनरहितत्वादिति लक्षणहीनोऽपि पक्षो हेय एव । "अप्रसिद्धनिराबाधनिरर्थकनिष्प्रयोजनासाध्यविरुद्धाः पक्षाभासाः" इति स्मरणात् । एतच्चन्द्रिकाकारो व्याचष्टे, यदाह चन्द्रिकाकारः-- तत्राप्रसिद्धो बृहस्पतिना निरूपितः--

"न केनचित्स्मृतो यस्तु सोऽप्रसिद्ध इति स्मृतः" ॥

तत्रोदाहरणं-- पलसहस्रकृतस्तालो गृतीत इति । निराबाधो नाम निरुपद्रवः । यथा- अयमस्मद्भवनप्रदीपप्रभया स्वभवने (स्वगृहे) व्यवहरतीति । निरर्थकनिष्प्रयोजनौ तु बृहस्पतिना दर्शितौ--

स्वल्पापराधस्स्वल्पार्थो निरर्थक इति स्मृतः ।
कार्यबाधाविहीनस्तु विज्ञेयो निष्प्रयोजनः ॥

ऋणादानाद्यष्टादशपदानन्तर्भूतो निरर्थकः ।

वाक्पारुष्यादिभिः साध्यसिद्ध्यनुपयुक्तैः सहितः पक्षो निष्प्रयोजन इत्यर्थः । असाध्यविरुद्धावपि तेनैव दर्शितौ ।

"ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः ।
असंभाव्यमसाध्यं तु पक्षमाहुर्मनीषिणः ॥"
"यस्मिन्नावेदिते पक्षे प्राड्विवाकेऽथ राजनि ।
पुरराष्ट्रविरुद्धं स्याद्विरुद्धस्सोऽभिधीयते ॥

इति । विज्ञानयोगिना तु अन्यथा व्याख्यातम्-- पक्षवदवभासमानाः पक्षलक्षणरहिताः पक्षाभासाः" इति पक्षाभासलक्षणमुक्त्वा--

"अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाऽऽभासं विवर्जयेत् ॥"

इति विशेषलक्षणान्युक्त्वा तानि व्याख्यातानि । व्याख्या प्रकारस्तु; यदाह विज्ञानयोगी-- अप्रसिद्धं-- मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं अस्मद्गृहप्रदीपप्रकाशेन अयं स्वगृहे व्यवहरतीत्यादि । इदमुदाहरणमुभयोस्समानम् । निरर्थकम्--अभिधेयरहितं कचटतपं गजडदबमित्यादि । निष्प्रयोजनं यथा-- अयं देवदत्तोऽस्मद्गृहसन्निधौ सस्वरमधीत इत्यादि । एतदुभयोस्समानं । असाध्यं यथा-- अहं देवदत्तेन सभ्रूभङ्गं हसित इत्यादि । विरुद्धं यथा- अहमनेन शप इत्यादि । पुरादिविरुद्धं वा । असाध्यस्योदाहरणं चन्द्रिकाकारेण निरर्थकोदाहरणं कृतम् । स्वल्पार्थो निरर्थकस्मृतेर्न दोषः । अत्राप्रसिद्धोदाहरणमसाध्यस्योदाहरणं कृतम् ।

"ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः" ।

इति वचनान्न दोषः । एवं विज्ञानयोगिना लोकप्रसिद्धिमपेक्ष्य हेत्वाभासा विवृताः । चन्द्रिकाकारेण तु वचनानुरोधेन व्याख्यातमितीयान् भेदः । एतेषामसाध्यादीनां देवदत्तेन सभ्रूभङ्गं हसितमित्यादीनां साधनत्वासंभवादसाध्यत्वम् । अल्पकालत्वान्न साक्षिसंभवः । लिखितं दूरत एव अल्पत्वान्न दिव्यमिति ।

 नारदादिभिस्त्वन्ये भाषादोषा दर्शिताः । तेऽपि सर्वे पक्षाभासलक्षणलक्षितत्वाद्ग्राह्याः । ग्रन्थविस्तरभयान्न प्रपञ्चिताः । अत एव योगीश्वरेण पक्षलक्षणरहितानां पक्षवदवभासमानानां पक्षाभासत्वं सिद्धमेवेति न पृथक् पक्षाभासा उक्ताः । तथाऽपि दिङ्मात्रमुक्तमित्यवगन्तव्यम् ।

 यत्तु पितामहेनोक्तम्--

"अनेकपदसंकीर्णः पूर्वपक्षो न सिध्यति"

इति । यद्यत्र पदशब्दो वस्तुवाचकस्स्यात् तदा न दोषः, मदीयमनेन हिरण्यं वासो रूपकादि चापहृतमित्येवंविधस्यादृष्टत्वात् । यदि च अत्र पदशब्दः स्थानवाची ऋणादानादिपदसङ्करे पक्षाभाव इति चेत्, तदपि न, मदीयं रूपकमनेन वृद्ध्या गृहीतं सुवर्णं चास्य हस्ते निक्षिप्तम् मदीयं क्षेत्रमयमपहरति चेत्यादीनां पक्षत्वमिष्यत एव । किंतु-- क्रियाभेदात् क्रमेण व्यवहारभेदो न युगपदित्येतावत्.

"बहुप्रतिज्ञं यत्कार्यं व्यवहारेषु निश्चितम् ।
कामं तदपि गृह्णीयात् राजा तत्वबुभुत्सया"

इति कात्यायनस्मरणात्, अनेकपदसंकीर्णः पूर्वपक्षः युगपन्न सिध्यतीति वचनार्थः । भूमिशब्दः फलकादीनामुपलक्षकः ।

"प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
लिखितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥"

लोकसिद्धं-- व्यावहारिकधर्माविरुद्धं, लोकप्रसिद्धमित्येवंविधार्थस्य प्रतिज्ञादोषनिर्मुक्तमित्यनेनैव गतार्थत्वात् ।

अभियोगचातुर्विध्यम्.

 अयं पक्षः शङ्काऽभियोगतथ्यलब्धाभ्यर्थनपुनर्न्यायात्मकत्वेन चतुर्विधः ।

"शोधयेत्पूर्ववादं तु यावन्नोत्तरदर्शनम् ।
मोहाद्वा यदि शाठ्याद्वा यन्नोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं वाऽपि तद्ग्राह्यमुभयोरपि ॥"

उत्तरान्तर्गतं नाम उत्तरे दीयमाने वादिना प्रोच्यमानमित्यर्थः । बृहस्पतिस्तु विशेषमाह--

"अभियोक्ताऽप्रगल्भत्वात् वक्तुं नोत्सहते यदा ।
तस्य कालः प्रदातव्यः कार्यशक्त्यनुरूपतः ॥

इति ।

अथोत्तरवादः.

एवं निश्चिते पूर्वपक्षे उत्तरं दातव्यमित्याह बृहस्पतिः--

"विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते ।
प्रतिज्ञाते स्थिरीभूते लेखयेदुत्तरं ततः ॥"

उत्तरलक्षणम्.

"पक्षस्य व्यापकं सारमसंदिग्धमनाकुलम् ।
अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥"

इति । अव्याख्यागम्यामेत्वत्यत्र प्रसिद्धप्रयोगेण दुश्श्लिष्टविभक्तिसमासाध्याहाराभिधानेन वा अदेशभाषाभिधानेन वा । शेषं सुगमम् ।

संग्रहकारेणापि--

"अनन्यार्थमभिन्नार्थं न्यायागमसमन्वितम् ।
अन्यूनानधिकं भ्रष्टमनन्याक्षरसंभवम् ।
भाषायामिति पत्रेषु लिखितायामनन्तरम् ।
प्रत्यर्थिनश्श्रुतार्थस्य कालोऽयं दातुमुत्तरम् ॥"

अनन्यार्थादिलक्षणान्विनं यथा भवति तथा लिखितायां भाषायामित्यर्थः । अयं च कालनियमो गवादिविवादेष्वेव ।

"गोभूहिरण्यस्त्रीस्तेयपाष्यात्ययिकेषु च ।
साहसेष्वभिशापे च सद्य एव विवादयेत् ॥"

अभिशापो-- वधानुशंसनम् । तस्य पारुष्यभेदत्वेऽप्यादरात्पुनर्वचनम् । याज्ञवल्क्योऽप्याह--

"साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥

अन्यत्र ऋणाऽऽदानादावित्यर्थः--

ऋणोपनिधिनिक्षेपदानसंभूयकर्मणां ।
समये दायभागे च कालः कार्यः प्रयत्नतः ॥"

समयः-- समयानपाकर्म । अयमर्थः-- सद्यः कृतेषु सद्य एव विवादयेत् । कालातीतेषु कालं दद्यादिति । अत एव पितामहः-

"सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् ।
कालातीतेषु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥"

इति ।

प्रत्यर्थिपदमर्थिनोऽप्युपलक्षकम् । यथाऽऽह नारदः--

"मतिर्नोत्सहते यस्य विवादे वक्तुमिच्छतः ।
तस्य कालः प्रदातव्यो ह्यर्थिप्रत्यर्थिनोरपि ॥"

कालपरिमाणमाह स एव--

"सद्यो वैकाहपञ्चाहौ त्र्यहं वा गुरुलाघवात् ।
भवेन्मासं त्रिपक्षं वा सप्ताहं वा ऋणादिषु ॥"

इति । कात्यायनस्तु विशेषमाह--

"यावान्यस्मिन् समाचारः पारम्पर्यक्रमागतः ।
तं प्रतीक्ष्य यथान्यायमुत्तरं दापयेन्नृपः ॥"

उत्तरभेदाः तल्लक्षणानि च.

इदमुत्तरं मिथ्यासंप्रतिपत्तिप्रत्यवस्कन्दनप्राङ्न्यायरूपेण चतुर्विधम् । मिथ्यालक्षणमाह कात्यायनः--

"अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् ।
मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥"

इति । तत्तु मिथ्योत्तरं चतुर्विधम्--

"मिथ्यैतन्नाभिजानामि तदा तत्र न सन्निधिः ।
अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधा ॥"

संप्रतिप्रत्त्युत्तरस्य लक्षणमाह स एव--

"साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता ॥"

इति । उभयोरुदाहरणं-- रूपकशतं मह्यं धारयतीत्युक्ते सत्यं धारयामीति संप्रतिपत्तिः । नाहं धारयमीति मिथ्या । प्रत्यवस्कन्दनं नाम गृहीतं प्रतिदत्तं प्रतिग्रहेण वा लब्धम् । यथाऽऽह नारदः--

"अर्थिना लिखितो योऽर्थः प्रत्यर्थिगदितं तथा ।
प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं स्मृतम् ॥"

इति । प्राङ्न्यायोत्तरं तु यत्राभियुक्त एव ब्रूयात्-- अस्मिन्नर्थेऽहमनेनाभियुक्तः तत्र चायं व्यवहारमार्गेण पराजित इति ।

यथोक्तं हारीतेन--

"अस्मिन्नर्थे ममानेन वादः पूर्वमभूत्तदा ।
जितोऽयमिति चेद्ब्रूयात् प्राङ्न्यायस्स्यात्तदुत्तरम् ॥"

उत्तराभासाः

 एवमुत्तरलक्षणे स्थिते उत्तरलक्षणरहितानां उत्तरवदवभासमानानां उत्तराभासत्वमर्थसिद्धम् । अतो योगीश्वरादिभिः स्पष्टसिद्धत्वान्नोक्तम् । तथापीतरस्मृतिषु स्पष्टमुदाहरणात् दिङ्मात्रमुदाह्रियते-- अप्रसिद्धविरुद्धात्यल्पातिभूरिसन्दिग्धासंभाव्याव्यक्तान्यार्थातिदोषवदव्यापकव्यत्यस्तपद[३] निगूढार्थाकुलव्याख्यागम्यासारानुत्तरलक्षणा उत्तराभासाः । लाञ्छानावयवसंस्थानसङ्ख्यासमयानभिज्ञोक्तमदेशभाषयोक्तं चाप्रसिद्धं ।

"प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि"

इति । एवमाकारेण पूर्वापरविरुद्धाभिधानं विरुद्धोत्तरमित्यर्थः । अत्यल्पं पुनरयं पुरा मया याचित इति वक्तव्ये पुरा मयायमित्येतावत्युक्ते तदिति । अतिभूरि-- गृहीतमित्येतावन्मात्रेण सत्योत्तरे वक्तव्ये कार्यं तेन कृतं मया तु पुरा गृहीतमित्येतदधिकं भूरि ।

देयं मयेति वक्तव्ये मया देयमितीदृशम् ।
सन्दिग्धमुत्तरं ज्ञेयं व्यवहारे बुधैस्तथा ॥

इति । मयादेयमित्यत्राऽऽकारप्रश्लेषसंभेदाददेयमित्यवगमात् सन्दिग्धमेवं विधमिति । अस्माभिर्देयं न द्रव्यं अस्मत्प्रपौत्रपौत्रेण दत्तमित्येवंविधमुत्तरमसंभाव्यम् । अव्यक्तं तु सुखेनाभिधातुमशक्यम् । अर्थिनो यदसद्वृत्तकथनं एव पर्यवसितं तदन्यार्थम् । अत्युक्त्या रोषवदतिरोषवत् । शतं देयमित्युक्ते द्विशतकमित्यादिकम् ।

अस्मै दत्तं मया सार्धं सहस्रमिति भाषिते ।
प्रतिदत्तं तदर्धं यत्तदिहाव्यापकं स्मृतम् ॥
पूर्ववादी क्रियां यावत्सम्यङ्नैव निवेदयेत् ।
मया गृहीतं पूर्वं नौ तद्व्यस्तपदमुच्यते ॥

पूर्वपक्षनिश्चयादर्वाक् दीयमानं मिथ्येत्याद्युत्तरं व्यस्तपदमित्यर्थः ।

"तत्किं तामरसं कश्चिदगृहीतं न दास्यति ।
निगूढार्थं तु तज्ज्ञेयमुत्तरं व्यवहारतः ॥"

इति । तामरसशब्दस्य सार्वभौमप्रयोगासिद्धत्वात् । वक्रोक्त्यादिमच्च निगूढार्थमित्यर्थः । अनन्वितानेकपदार्थवदाकुलार्थमिति । यथा--

किं तेनैव सदा देयं मया देयं भवेदिति ।

इत्यादि । व्याख्यागम्यं-- स्वरूपतो दुरवबोधम् । काकदन्तसद्भावोत्तरवन्निष्प्रयोजनमसारवदित्यर्थः । एकस्यां भाषायां वदत्यसत्यं मिथ्येत्याद्यनेकोत्तरमनुत्तरमिति । यथाऽऽह नारदः--

"पक्षैकदेशे यत्सत्यमेकदेशे च कारणम् ।
मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरम् ॥"

उत्तराणां साङ्कर्ये अनुत्तरं नान्यथेति ज्ञापनार्थं सङ्करादिति हेतुप्रयोगः ।

"न चैकस्मिन् विवादे तु क्रिया स्याद्वादिनोर्द्वयोः ।
न चात्र सिद्धिरुभयोः न चैकत्र क्रियाद्वयम् ॥"

इति कात्यायनोक्तेः । मिथ्याकारणयोस्सङ्करे अर्थिप्रत्यर्थिनोर्द्वयोरपि क्रिया प्राप्नोति ।

"मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि "

इति स्मरणात् । तदुभयमेकस्मिन् व्यवहारे विरुद्धम् । यथा-- रूपपकशतं सुवर्णं चानेन गृहीतमित्यभियोगे रूपकशतं न गृहीतं सुवर्णं च गृहीतं प्रतिदत्तं चेति । कारणप्राङ्न्यायसङ्करे तु-- प्रत्यर्थिन एव क्रियाद्वयम् ।

"प्राङ्न्यायप्रत्यवस्कन्दे प्रत्यर्थी निर्दिशेत् क्रियाम्"

इति । यथा-- सुवर्णं प्रतिदत्तं रूपकशते व्यवहारमार्गेण पराजित इति । अत्र प्राङ्न्याये जयपत्रेण वा प्राङ्न्यायदर्शिभिर्भावयितव्यम् । कारणोत्तरे तु साक्षिलेखकादिभिर्भावयितव्यमित्यविरोधः । एवमुत्तरत्रितयसङ्करेऽपि द्रष्टव्यम् । यथाऽनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्णं गृहीतं प्रतिदास्यामि रूपकशतं तु न गृहीतं वस्तुविषये पूर्वन्यायेन पराजित इति । एवं चतुष्कसङ्करेऽपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्यतस्याङ्गस्य तेनतेन विना असिद्धेः क्रमेणोत्तरत्वमेव । एतदुक्तं भवति-- यत्र पुनस्सर्वथा एकमसङ्कीर्णमुत्तरं न लभ्यते तत्रागत्वा एकैकांशमुत्तरं कृत्वा क्रमेणेकैकप्रतिज्ञाया एकैकमुत्तरं ग्राह्यम् । अन्यथा तत्र निर्णयाभावात् । अत एवोक्तं "सङ्करात्तदनुत्तरम्" इति । उक्तविधया सङ्करे निराकृते स्यादेवोत्तरमित्यभिप्रायः । यत्र सङ्करे यस्य प्रभूतार्थविषयत्वं तत्क्रियोपादानेन पूर्वं व्यवहारः प्रवर्तयितव्यः पश्चादल्पविषयोत्तरोपादानेन । यत्र संप्रतिपत्तेरुत्तरान्तरस्य च सङ्करः तत्र उत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः । संप्रतिपत्तौ क्रियाया प्रभावात् । हारीतस्तु--

"मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे ।
सत्यं चापि सहान्येन तत्र ग्राह्यं किमुत्तरम्" ॥

इत्युक्त्वा--

यत्प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् ।
उत्तरं तत्र विज्ञेयमसङ्कीर्णमतोऽन्यथा ॥"

इत्युक्तम्--

अतोऽन्यथा सङ्कीर्णं भवतीति शेषः ।

अत एव पक्षव्यापकानेकोत्तरविषये नारदः--

"मिथ्याकारणयोर्वाऽपि ग्राह्यं कारणमुत्तरम् ॥"

इति कारणस्यानन्यथासिद्धत्वात् । मिथ्यातो गुरुत्वादित्यभिप्रायः । अतश्चोत्तरान्तरसन्निपातेऽपि गुरुतरं ग्राह्यम् । अस्मिन् वचने मिथ्याकारणयोः उदाहरणमात्रत्वात् । यत्र पुनः वादिप्रतिवादिनां त्रैवर्णिकत्वं तत्र वर्णानुक्रमेण गौरवापेक्षया व्यवहारो निर्णेतव्यः । तथाच हारीतः--

"वर्णिनां सङ्करो यत्र ब्राह्मणादिक्रमेण तु ।
व्यवहारस्तु निर्णेयो गौरवापेक्षया भवेत् ॥"

इति । गौरवापेक्षया ब्राह्मणादिक्रमेण, ब्राह्मणक्षत्रिययोर्विवादे ब्राह्मणस्याल्पतरं साध्यम्, क्षत्रियस्य बहुतरम्, तथाऽपि र्वणगौरवापेक्षया अल्पीयस्साध्यमेव ग्राह्यमिति वचनार्थः । यत्र पुनस्सङ्करोत्तरे तुल्यबलतया न पूर्वोक्तक्रमहेतुरस्ति तत्राप्यैच्छिकक्रमेणोत्तरं ग्राह्यम्, निर्णयस्यावश्यकत्वात् । तथाहि-- प्राङ्न्यायसङ्करे तदुभयनिर्णयकजयपत्रादिलिखितसाक्ष्यादिसंभवे व्यवहारनिर्णये प्रत्यर्थिनाऽन्यतरपक्षमवलम्ब्य स्थातव्यम्, नोभयमिति यथारुचि शब्दस्यार्थः । एवं चन्द्रिकायामपि प्रत्यवस्कन्दप्राङ्न्यायसङ्कुरे प्रत्यर्थिना यथारुचि स्थीयतामित्यत्र यथारुचि शब्दार्थोऽनुसन्धेयः । नन्वेवं संप्रतिपत्त्युत्तरस्य पक्षोपमर्दकत्वाभावादनुत्तरत्वमिति चेत्, मैवम्, संप्रतिपत्तेरपि साध्यत्वेन उपदिष्टस्य पक्षस्य सिद्धत्वेन उपन्याससाध्यत्वनिराकरणादेवोत्तरत्वमिति । ननु कारणमिथ्योत्तरे तु पूर्वोक्तन्यायप्रसरः । "इयं गौर्मदीया अमुकस्मिन् काले नष्टा अस्य गृहे दृष्टा इति" शृङ्गग्राहिकया वदति । अन्यस्तु "मिथ्यैतत् एतत्प्रदर्शितकालात्पूर्वमेव स्थिता मद्गृहे जाता च" इति वदति । इदं तावत्पक्षनिराकरणसमर्थत्वान्नानुत्तरम् । नापि मिथ्यैव, कारणोपन्यासात् । नापि कारणम्, एकदेशस्यास्युपगमा भावात् । तस्मादेतत्सकारणमिथ्योत्तरम् । अत्र प्रतिवादिनः क्रिया "कारणे प्रतिवादिनि" इति वचनात् । ननु, "मिथ्याक्रिया पूर्ववाद" इति पूर्ववादिनः कस्मात् क्रिया न भवति । तस्य च शुद्धस्याविषयत्वात् । नन्वेवं "कारणे प्रतिवादिनि" इति वचनं शुद्धकारणविषयं कस्मान्न भवतीति चेत्, मैवम् सर्वस्यापि कारणोत्तरस्य मिथ्यासहचरितरूपत्वात् । शुद्ध कारणस्योत्तरस्याभावात् । प्रसिद्धकारणोत्तरे प्रतिज्ञातार्थे एकदेशस्याभ्युपगमेन एकदेशस्य मिथ्यात्वम् । यथा "सत्यं रूपकशतं गृहीतं न धारयामि दत्तस्वात्" इत्येकदेशस्याभ्युपगमोऽस्ति, प्रकृतोदाहरणे तु प्रतिज्ञतार्थस्यैकदेशस्याभ्युपगमो नास्तीति शेषः । एवं निरूपितमुत्तरं प्रतिवादिना स्वत एव देयम् ।

तत्राभियोगानुगतमृत्तरं प्रतिवादिना ।
निष्कृष्यार्थं प्रदेयं स्यात् दोषसंज्ञाविवर्जितम् ॥

इति स्मृतेः । यदा पुनः स्वयमेव ददाति उत्तरप्रदानकालश्चातिक्रान्तः, तदा--

"पूर्वपक्षे यथार्थं तु न दद्यादुत्तरं यदा ।
प्रत्यर्थी दापनीयस्स्यात् सामादिभिरुपक्रमैः" ॥

इति । दापनीयो नृपेणेति शेषः ।

यथार्थमुत्तरं दद्यात् अथ तद्दापयेन्नृपः ।

इति स्मृतेः । सामादिसप्तोपायाः प्रकरणादावेवोक्ताः । एतैरप्युपायैरसाध्यं प्रत्याह हारितः-

उपायैश्चोद्यमानैस्तु न दद्यादुत्तरं तु यः ।
अतिक्रान्ते सप्तरात्रे जितोऽसौ दातुमर्हति ॥

इति उत्तरस्वरूपनिरूपणम्.

 अथ प्रतिज्ञोत्तरनिरूपणानन्तरं प्रमाणनिरूपणप्रकारो निरूप्यते--

 एवमुत्तरपत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्वात् साधननिर्देशं कः कुर्यादित्यपेक्षायां याज्ञवल्क्यः--

"ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्" ॥

ततः-- उत्तरानन्तरमर्थी साध्यवान्, सद्यः अनन्तरमेव लेखयेत् । प्रतिज्ञातार्थः-- साध्यः साध्यते अनेनेति साधनम्-- प्रमाणम् । प्रतिज्ञातार्थसाधनमर्थी लेखयेदित्यनेन प्राङ्न्यायस्यैव साध्यत्वात् कारणवाद्येव अर्थीति स एव लेखयेत् । मिथ्योत्तरे पूर्ववाद्येवार्थी स एव साधनं निर्दिशेदित्युक्तमित्यभिप्रायः । अर्थिग्रहणेन संप्रतिपत्युत्तरे तु साध्याभावेन भाषोत्तरवादिनोः द्वयोरप्यर्थित्वाभावात् साधननिर्देश एव नास्तीति तावतैव व्यवहारः परिसमाप्त इति गम्यते । अत एव हारीतः--

"प्राङ्न्याय कारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत्" ॥

इति । इति प्रतिपत्तिः । अत्र विशेषमाह कात्यायनः ।

"उभयोर्लिखिते वाक्ये प्रारब्धे कार्यनिर्णये ।
अयुक्तं तत्र यो ब्रूयात् तस्मादर्थात्सहायतः" ॥

इति । अनेनैव हि वचनेन मन्युकृतविवादेषु प्रमादाभिधाने प्रकृतादप्यर्थाद्धीयत इति गम्यते । यथाऽहमनेन शिरसि पादेन ताडित इत्यावेदनसमये अभिधाय भाषाकाले हस्तेन वा पादेन वा ताडित इति वदन् न केवलं दण्ड्यः, अपितु पराजित एव । अस्मिन्नर्थेऽर्थिनः प्रत्यर्थिनश्च प्रमादपरिहारार्थ एवोपदेशो याज्ञवल्क्येन कृतः--

"अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत्" ॥

इति । अभियुज्यत इत्यभियोगोऽपराधः । तमभियोगमनिस्तीर्य-- अपरिहृत्य एनमभियोक्तारं न प्रत्यभियोजयेत्-- अपराधेन न संयोजयेत् । यद्यपीदं प्रत्यवस्कन्दनरूपं प्रत्यभियोगः, तथापि स्वाभियोगोपमर्दनरूपत्वान्न निषेधविषयः । इदं प्रत्यर्थिनमध कृत्योक्तं, अर्थिनं प्रत्याह स एव--

"अभियुक्तं च नान्येन नोक्तं विप्रकृतं नयेत्" ॥

इति । अन्येन अभियुक्तम्-- अनिस्तीर्णाभियोगमन्योऽर्थी नाभियोजयेत् । किञ्च आवेदनसमये यदुक्तं तद्विप्रकृतं विरुद्धस्वभावं न नयेत् । एतदुक्तं भवति-- यद्वस्तु येन रूपेण वेदनसमये निवेदितं तद्वस्तु भाषाकाले तथैव लेखनीयम् । नान्यथेति ॥

 ननु,

"प्रत्यर्थिनोऽग्रतो लेख्यं यदावेदितमर्थिना "

इत्यत्रेदमुक्तं, किमर्थं पुनरुच्यते 'नोक्तं विप्रकृतं नयेत्’ इति, उच्यते, 'यथाऽऽवेदित मर्थिना' इत्यनेन आवेदनसमये यद्वस्तु निवेदितं तदेव भाषासमयेऽपि लेखनीयम् । एतस्मिन् पदे वस्त्वन्तरं नेत्युक्तं । यथा अनेन रूपकशतं वृद्ध्या गृहीतमित्यावेदनसमये प्रतिपाद्य प्रत्यर्थिसन्निधौ भाषासमये वस्तुशतं वृद्ध्या गृहीतमिति न वक्तव्यम् । तथा सति पदान्तरागमनेऽपि वस्त्वन्तरगमनाद्धीनवादी दण्ड्यस्स्यादिति । यत्र तु रूपकशतं वृद्ध्या गृहीत्वा अयं न प्रयच्छतीत्यावेदनकालेऽभिधाय भाषाकाले रूपकशतं बलादपहृतवानिति वदति, तदा साहसादिपदान्तरगमकं "नोक्तं विप्रकृतं नयेत्" इत्यनेनोक्तमिति न पौनरुक्त्यम् । एतदेव स्पष्टीकृतं नारदेन--

"पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः ।
पदसङ्क्रमणात् ज्ञेयो हीनवादी स वै नरः" ॥

इति । अत्रापवादमाह स एव ।

"कुर्यात्प्रत्यभियोगं तु कलहे साहसेषु च" ॥

इति । प्रत्यपराधसंभव इति शेषः । कलहे पारुष्यद्वय इत्यर्थः ।

पञ्चविधा हीनवादिनः.

नारदस्तु हीनवादित्वं पञ्चधेत्याह--

"अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतव्यपवायी च हीनः पञ्चविधः स्मृतः" ॥

इति । अन्यवादी-- अन्यथावादी, तथा हीनस्य लक्षणमाह--

"पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः ।
पदसङ्क्रमणाङ्ज्ञेयो हीनवादी स वै नरः" ॥

इति । पदसङ्क्रमणं-- ऋणादानादिपदान्यतमं पदं विहाय अन्यतमपदस्वीकारपूर्वमावेदनं । तथाच कात्यायनः--

"श्रावयित्वा तदा कार्यं त्यजेदन्यद्वदेदसौ ।
अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते ॥
समयाभिहितं कार्यमभियुज्य परं वदेत् ।
विब्रुवंश्च भवेदेवं हीनं तमपि निर्दिशेत् ॥
लेखयित्वा तु यो वाक्यं न्यूनं वाऽप्यधिकं पुनः ।
वदेद्वादी स हीयेत नाभियोगं तु सोऽर्हति" ॥

अभियोगः-- पूर्वपक्षः तं कर्तुं नार्हतीत्यर्थः ।

क्रियाद्वेषितया हीनस्य लक्षणमाह--

"सभ्याश्च साक्षिणश्चैव क्रिया ज्ञेया मनीषिभिः ।
तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते" ॥

इति । अनुपस्थातृलक्षणमाह--

"आह्वानादनुपस्थानात् सद्य एव प्रहीयते" ।

इति । आह्वानानन्तरमनागमने तदानीमेव हीनो भवतीत्यर्थः ॥

निरुत्तरतया हीनं निरूपयति--

"ब्रूहीत्युक्तो हि न ब्रूयात्सद्यो बन्धनमर्हति ।
द्वितीयेऽहनि दुर्बुद्धेर्विद्यात्तस्य पराजयम् ॥"

पराजयो-- हीनता । आहूतव्यपवायी तु अभियोगपरिहारार्थमाह्वानं बुध्वा प्रच्छन्नचारी । अत्रैषां तु उत्तरोत्तरस्य हीनतागुरुत्वज्ञापनार्थं हीनः पञ्चविधः स्मृत इत्युक्तम् । न पुनः पञ्चविध एव हीन इत्यवधारणार्थम्, विधान्तराणामपि स्मरणात् ॥

हीनवादिनां पञ्चानां क्रमेण दण्डः.

 हीननायास्तु गुरुत्वज्ञापनं दण्डभूयस्त्वज्ञापनार्थम् । उक्तं च कात्यायनेन ।

"अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान् दश ।
नोपस्थाता दश द्वौ च षोडशैव निरुत्तरः ॥
आहूतव्ययवायी तु पणान् ग्राह्यस्तु विंशतिम्" ।

प्रकारान्तरेण हीनस्तेनैव दर्शितः--

"श्रावितव्यवहाराणामेकं यत्र प्रभेदयेत् ।
वादिनं लोभयेच्चैव हीनं तमपि निर्दिशेत् ।
भयं करोति भेदं वा भीषणं वा निरोधनम् ॥
एतानि वादिनोऽर्थस्य व्यवहारे स हीयते" ।

अर्थव्यवहारे भयादीनि समस्तान्यसमस्तानि वा येन वादिना कृतानि सहीयत इत्यर्थः, भीषणं-- मुखान्तरेण भयोत्पादनं इति न पौनरुक्त्यम्--

त्रिपक्षानन्तरं हीनवादिनः पराजयः.

अत्र नारदो विशेषमाह--

"प्रपलायन् त्रिपक्षेण मौनकृत्सप्तभिर्दिनैः ।
साक्षिभिन्नस्तत्क्षणेन प्रतिपन्नश्च हीयते" ॥

इति । साक्षिभेदे विशेषमाह स एव--

"साक्षिणस्तु समुद्दिश्य यस्तु तान् न विवादयेत् ।
त्रिंशद्रात्रात्त्रिपक्षाद्द्वा तस्य हानिः प्रजायते" ॥

कामत इति शेषः । अकायतस्तु--

"आचारकरणे दिव्ये कृत्वोपस्थाननिर्णयम् ।
नोपस्थितो यदा कश्चित् छलं तत्र न कारयेत् ॥"

आचारकरणं-- व्यवहारनिर्णयः । तत्रापि विशेषो दर्शितः ।

"हीनोऽन्यवाक्येन बुधः तस्योद्धारं विदुर्बुधाः ।
स्ववाक्यभिन्नो यस्तु स्यात् तस्योद्धारो न विद्यते ॥

मनुरपि-

"आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तेर्गतं मनः"॥

दुष्टमिति शेषः ।

सन्धिप्रकारः.

बृहस्पतिस्तु सन्धिप्रकारमाह--

"पूर्वोत्तरे तु लिखिते प्रकृते कार्यनिर्णये ।
द्वयोस्सन्तप्तयोस्सन्धिस्स्यादयःपिण्डयोरिव ॥
साक्षिसभ्यविकल्पस्तु भवेत्तत्रोभयोरपि ।
डोलायमानयोः सन्धिं प्रकुर्यातां विचक्षणौ ॥
प्रमाणसंमतो यत्र भेदश्शास्त्रचरित्रयोः ।
तत्र राजाज्ञया सन्धिरुभयोरपि शस्यते" ॥

इति । एकस्य वादिन एकान्ते पराजयादर्वाक् सन्धिं प्रकुर्यातां तौ विचक्षणावित्यर्थः ।

उभयोः सन्ध्यनङ्गीकारे सभ्यकृत्यम्.

 उभयोस्सन्ध्यनङ्गीकारे सभ्यकृत्यमाह बृहस्पतिः-

"शोधिते लिखिते सम्यगिति निर्दोष उत्तरे ।
प्रत्यर्थिनोऽर्थिनो वाऽपि क्रिया कारणमिष्यते" ॥

प्रत्यर्थिनोऽर्थिनो वाऽपि साध्यसिद्धये प्रमाणलेखनं कुर्यादित्यर्थः । एतदेव चन्द्रिकाकारादयः प्रत्याकलनमित्याहुः ॥ किं तत्प्रमाणमित्यपेक्षिते याज्ञवल्क्य आह--

"प्रमाणं लिखितं भुक्तिस्साक्षिणश्चेति कीर्तितम् ॥
एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥"

इति । नारदोऽपि--

लौकिकदिव्यप्रमाणानि.

"क्रिया तु द्विविधा प्रोक्ता मानुषी दैविकी तथा ।
मानुषी लेख्यसाक्षिभ्यां घटादिर्दैविकी स्मृता ॥"

लेख्यसाक्षिग्रहणं भुक्तेरप्युपलक्षकम् । तस्या अपि मानुषसंबन्धित्वाविशेषात् । घटादयो बृहस्पतिना दर्शिताः--

"घटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः ।
षष्ठं च तण्डुलाः प्रोक्तं सप्तमं तप्तमापकम् ।
अष्टमं फालमित्युक्तं नवमं धर्मजं भवेत् ।

 दिव्यान्येतानि सर्वाणि निर्दिष्टानि स्वयम्भुवा ॥"

शपथास्तु तेनैव दर्शिताः--

"सत्यं वाहनशस्त्राणि गोबीजकनकानि च ॥
देवता पितृपादाश्च दत्तानि सुकृतानि च ॥"

चशब्दादन्येषामपि पुत्रशिरस्स्पर्शनादीनां सङ्ग्रहः ॥

शपथभेदाः.

"सप्तर्षयस्तथेन्द्राद्याः पुष्करार्थे तपोधनाः ॥
शेपुश्शपथमव्यग्राः परस्परविशुद्धये ॥"

इति । यद्यपि अशपथानामपि दिव्यशब्दवाच्यत्वमस्ति--

"यस्माद्देवैः प्रयुक्तानि पुष्करार्थे मनीषिभिः ।
परस्परविशुद्ध्यर्थं तस्माद्दिव्यानि नामतः ॥"

इति । तथाऽपि गुरुषु दिव्यशब्दः लघुषु शपथ इति केचित्, तन्न,

"दिवाकृते कार्यविधौ ग्रामेषु नगरेषु च ।
संभवे साक्षिणां चैव दैवी न भवति क्रिया"
"अशेषमानुषाभावे दिव्येनैव विनिर्णयः ॥
संभवे साक्षिणां प्राज्ञो दैविकीं तु विवर्जयेत् ॥"

इति वचनेषु दिव्यशपथयोरेकवाक्यतयोपादानत् तथैव लोकप्रसिद्धेश्च, किन्तु --

"अर्थानुरूपारूपाश्शपथाः स्मृतास्सत्यघटादयः ॥"
"साक्षी यत्र न विद्येत विवादे वदतां नृणाम् ।
तदा दिव्यैः परीक्षेत शपथैश्च पृथग्विधैः ॥"

इति दिव्यशपथयोर्भेदग्रहणं तयोर्न भेदकथनाय, अपि तु शपथो लघुषु प्रायिक इति दर्शयितुमित्यवगन्तव्यम् ।

कात्यायनादयस्तु--

"यद्येकदेशं व्याप्ताऽपि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णाऽपि दैविकी वदतां नृणाम् ॥

एकदेशे मानुषसंभवे एकदेशविभावितन्यायेन विशेषणांशसिद्धिः । यद्वा अल्पशपथेनापि कार्येत्यभिप्रायः ।

"यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् ।
मानुषीं तत्र गृह्णीयात् न तु दैवीं क्रियां नृपः ॥
स्वल्पाऽपि मानुषी यत्र दैवीं तत्र न कल्पयेत् ॥"

इति । अतस्सर्वथा मानुषासंभवे दिव्यमित्युत्सर्गः । क्वचिदस्यापवादमाह स एव--

"प्रक्रान्ते साहसे वादे पारुष्ये दण्डवचिके ।
बलोद्भवेषु कार्येषु साक्षिणो दिव्यमेव वा ॥"

ऋणादानादिषु विशेषमाह स एव--

"ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा ।
दैविकी च क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥
प्रमाणैर्हेतुना वाऽपि दिव्येनैव तु निश्चयः ।
सर्वेष्वर्थविवादेषु सदा कुर्यान्नराधिपः ॥
लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
अनुमानं विदुर्हेतुं तर्कं चैव मनीषिणः" ॥

इति । एवं दृष्टप्रमाणेनासिद्धौ अदृष्टप्रमाणमाश्रयणीयम्, नान्यथेति तात्पर्यार्थः । क्वचिदपवादमाह बृहस्पतिः--

"प्रथमे वा तृतीये वा प्रमाणं दैवमानुषम् ।
उत्तरे स्याच्चतुर्थे तु स साक्षिजयपत्रकम् ॥

 मिथ्यासंप्रतिपत्तिप्रत्यवस्कन्दप्राङ्न्यायरूपचतुर्विधोत्तरेषु प्रथमे मिथ्योत्तरे तृतीये कारणोत्तरे दैविकी मानुषी च क्रिया कार्या, चतुर्थे प्राङ्न्यायोत्तरे साक्षिजयपत्रयोरन्यतरावलम्बनेनैव निर्णयः, तत्र दिव्यावतार इत्यक्षरार्थः । संप्रतिपत्तौ भाषायामुत्तरे च साध्यार्थाभावात् द्द्विपाद्व्यवहारोऽयम् ।

द्विपाद्व्यवहारनिर्णयः.

तथा च कात्यायनः--

"मिथ्योक्तौ स चतुष्पात्तु प्रत्यवस्कन्दने तथा ।
प्राङ्न्याये च स विज्ञेयो द्विपात्संप्रति पत्तिषु" ॥

 येन संप्रतिपत्तौ क्रियानिर्देशाद्यभावात् उत्तरान्त एव व्यवहारस्समाप्यते । एवं च मिथ्याकारणयोर्मानुषी दैविकी वा, प्राङ्न्याये तु मानुष्येव, सत्ये तु न कदाचिदिति तात्पर्यार्थः ।

क्वचित् साक्षिषु सत्स्वपि अवश्यं दिव्यनियमः.

क्वचिद्दिव्यनियममाह--

महाशापाभिशप्तेषु निक्षेपहरणे तथा ।
दिव्यैः कार्यं परीक्षेत राजा सत्स्वपि साक्षिषु ॥

कात्यायनोऽपि-

"प्राणान्तिकविवादे च विद्यमानेषु साक्षिषु ।
दिव्यमालम्बते वादी न पृच्छेत्तत्र साक्षिणः" ॥

बृहस्पतिरपि--

"लिखिते साक्षिवादे च सन्देहो जायते यदा ।
अनुमाने च संभ्रान्ते तत्र दैवं विशोधनम्" ॥

एतच्च वाक्पारुष्यादिव्यतिरिक्तविषयम्--

"वाक्पारुष्ये महीवादे निषिद्धा दैविकी क्रिया "

इति । तत्र तान् न कल्पयेदित्यभिप्रायः ।

"वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत्"

 इति स्मरणात्, इदं तु वाक्पारुष्येऽल्पे, महति वाक्पारुष्ये दिव्यविधानात् । भूमाविति स्थावरोपलक्षणम् ।

अत एव पितामहः--

स्थावरविवादे दिव्याभावः

"स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।
साक्षिभिर्लिखितेनाथ भुक्त्या चैनं प्रसाधयेत्" ॥

 एतद्वचनं विज्ञानयोगिना पराजयविषये अवष्टम्भविषयमित्युक्तम् । अन्यथा व्यवहारोच्छेदप्रसङ्गादिति । चन्द्रिकाकारादिभिस्तु मानुषासंभवे हेतुना निर्णयः, तदसंभवे राजाज्ञयेति मन्तव्यमिति । एतच्च धर्मस्थानविहीनेषु विवादेषु राजाज्ञारूपप्रमाणनिरूपणासंभवाद्धेयम् । न च राजाज्ञाप्रमाणस्य निरवकाशत्वमिति वाच्यम् । "उत्तरः पूर्वबाधकः" इति तद्व्याख्यानावसरे पूर्वमेव प्रपञ्चितत्वात् । अत एव विज्ञानेश्वरमतमेव सम्यक् ।

व्यासोऽपि--

"न मयैतत्कृतं लेख्यं कूटमन्येन कारितम् ।
अधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णयः ॥
पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः" ॥

इति । दिव्यनिषेधो लेख्यस्य गुरुत्वकथनार्थः ।

"द्वारमार्गक्रियाभोगजलवाहादिके तथा ।
भुक्तिरेव तु गुर्वी स्यात् न लेख्यं न च साक्षिणः ।
दत्तादत्ते च भृत्यानां स्वामिनां निर्णये सति ।
विक्रयाऽऽदानसंबन्धे क्रीत्वा धनमयच्छति ।

द्यूतसमाह्वये लेख्यदिव्ययोरनवकाशः.

द्यूते समाह्वये चैव विवादे समुपस्थिते ॥
साक्षिणस्साधकं प्रोक्तं न दिव्यं न च लेख्यकम् ॥"

 अत्रापि साक्षिण एव गरीयांस इत्यभिप्रायः । एवमुक्तप्रमाणव्यवस्था परीक्षकैः कल्पनीया । यत आह नारदः--

"प्रमाणानि प्रमाणज्ञैः परिपाल्यानि यत्नतः ।
सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः" ॥

 अयमर्थः-- अव्यवस्थितैः प्रमाणैः प्रमाणकर्तारो यतो विनश्यन्ति अतः कस्यात्र किं प्रमाणमिति प्रत्याकलने कुशलैः प्रत्याकलयितव्यमिति । ततः किं कार्यमित्यपेक्षिते नारदः--

"पूर्ववादेऽविलिखिते यथाक्षरमशेषतः ।
अर्थी तृतीयपादे तु क्रियायाः प्रतिपादयेत्" ॥

 पूर्ववादो-- भाषा, अभिलिखितं-- पूर्वपक्षाभिभावकतया लिखितं-- उत्तरमिति यावत् । क्रियाप्रमाणं तृतीयपादः । प्रत्याकलिताख्यः भाषोत्तरप्रत्याकलिताख्यपादत्रये सति स्वकार्यमर्थी प्रमाणेन साधयेदित्यर्थः ।

क्रियास्वरूपभेदौ.

क्रियायाः भेदमाह व्यासः--

"कार्यं तु साध्यमित्युक्तं साधनं तु क्रियोच्यते ।
द्विविधा सा पुनर्ज्ञेया मानुषी दैविकी तथा" ॥

बृहस्पतिस्तु--

"द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा ।
एकैकाऽनेकधा भिन्ना मुनिभिस्तत्ववेदिभिः" ॥

कात्यायनोऽपि--

"पञ्चप्रकारं दैवं स्यात् मानुषं त्रिविधं स्मृतम्" ॥

इति । अत्र पञ्चप्रकारमिति न नियम्यते । तण्डुलतप्तमाषादिविधानान्तरस्यापि स्मृत्यन्तरे दर्शनात्, त्रिविधमिति तु नियमार्थं, स्मृत्यन्तरविरोधात् ।

"लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् " ॥

इति । नारदोक्तेः--

"लिखितं साक्षिणश्चात्र द्वौ विधी परिकीर्तितौ"

इत्युक्तम्; लिखितसाक्षिणोः भुक्तितो गरीयस्त्वाभिप्रायं वेदितव्यम् ।

लेख्यनिरूपणम्.

लिखितस्य द्वैविध्यमाह सङ्ग्रहकारः--

"राजकीयं जानपदं लिखितं द्विविधं स्मृतम्" ।

राजकीयं पञ्चविधम्.

 "राजकीयं शासनजयपत्राज्ञापत्रप्रसादलेख्यभेदात्पञ्चविधम् । शासनं नाम यत्र भूम्यादिकं निबन्धं वा दत्वा ताम्रपट्टे पटे वा स्थानवंशादिसंयुक्तं धरणीवराहप्रतिपादक वचनाशीर्वादपूर्वकमात्मपितृपितामहप्रपितामहादीनां शौर्यादिवर्णनद्वारा आत्मानमभिलेख्य प्रतिग्रहपरिमाणादिकं लिखित्वा समामासपक्षाहस्संप्रदानग्रामादि लिखित्वा आगामिनृपबोधनार्थं "दातुः पालयितुः स्वर्गं हन्तुर्नरकमेव वा" ।

षष्टिर्वर्षसहस्राणि दानच्छेदफलं लिखेत् ।

"सामान्योऽयं धर्मसेतुर्नराणाम्"

इत्यादि लेखनीयम् । ततो राजा स्वहस्तसङ्केतं लिखेत्, तद्राजशासनमिति । तच्च प्रतिग्रहीत्रेऽर्पणीयम् । तस्योपयोगित्वात् । तदपि शासनदानं न दानसिद्ध्यर्थं, तस्य प्रतिग्रहेणैव सिद्धेः । किन्तु दत्तस्य स्थैर्यकरणार्थम् । स्थिरत्वे अक्षयफलश्रुतेः ।

 जयपत्रिका नाम--

"यद्वृत्तं व्यवहारे तु पूर्वपक्षोत्तरादिकम् ।
क्रियाऽवधारणोपेतं जयपत्रेऽखिलं लिखेत्" ॥

 आदिशब्देन साक्षिवचनसभ्यप्राढ्विवाककुलानां शास्त्रस्य मतं स्वहस्तेनान्यहस्तेन वा लिखेदिति तज्जयपत्रम् । अन्यदपि जयपत्रं बृहस्पतिराह--

"अन्यविद्यादिहीनेभ्यः उत्तरेषां प्रदीयते ।
व्यक्तानुवादसंसिद्धं तच्च स्याज्जयपत्रिकम्" ॥

उत्तरेषामहीनवाद्यादीनां, यथाऽऽह वृद्धवसिष्ठः--

"प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया ।
सिद्धेऽर्थे वादिने दद्यात् जयिने जयपत्रिकाम्" ॥ इति

आज्ञापत्रिका.

आज्ञापत्रं तु--

"सामन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु वा ।
कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते" ॥

प्रज्ञापत्रं तु--

"ऋत्विक्पुरोहिताचार्यमान्येष्वभ्यर्हितेषु तु ।
कार्यं निवेद्यते येन पत्रं प्रज्ञापनात्मकम्" ॥

प्रसादपत्रं

प्रसाद लेख्यं तु--

"देशादिकं यस्य राजा लिखितेन प्रयच्छति ।
सेनाशौर्यादिना तुष्टः प्रसादलिखितं हि तत्" ॥

इति । जानपदस्य लक्षणमाह व्यासः--

"लिखेज्जानपदं लेख्यं प्रसिद्धं स्थानलेखकः ।
राजवंशक्रमयुतं वर्षमासार्धवासरैः ॥
पितृपूर्वं नामजातिधनकर्णिकयोर्लिखेत् ।
द्रव्यभेदं प्रमाणं च पृथ्वीं चोभयसंमताम्" ॥

चशब्देन साक्षिदेशाचारादि गृह्यते, अत एव नारदः--

"लेख्यं तु साक्षिमत्कार्यमविलुप्तक्रमाक्षरम् ।
देशाचारक्रमयुतं समग्रं सर्ववस्तुषु" ॥

इति । याज्ञवल्क्यस्तु विशेषमाह--

"समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम्" ॥

व्यासोऽपि--

"साक्षिणस्तु स्वहस्तेन पितृनामपूर्वकं लिखेयुः"

इति । ते च गुणैश्च सङ्ख्यया समा एव, न विषमाः । संख्यासाम्यमदृष्टार्थं प्राबल्यार्थं वा । गुणसाम्यं दृष्टार्थम् । साक्षिण इति बहुवचनं गूरुकार्यलेख्यविषयम् ।

"उत्तमर्णाधमर्णौ च साक्षिणौ लेखकस्तथा ।
समवायेन चैकेषां लेख्यं कुर्वीत नान्यथा" ॥

इति हारीतेन लेख्यमात्रे साक्षिणाविति द्वित्वोक्तेः । अतश्च उत्तमर्णाधमर्णसाक्षिलेखकलेखनीयरूपपञ्चविधगमकारूढत्वात् तदभेदात्पत्रस्य लेख्यं पञ्चारूढमिति लौकिकप्रसिद्धिः । ननु "पत्रं हि लिपिसंयुक्तमुच्यते" इत्यस्य लिपेर्लेखनीयार्थनिरूपकतया तदभेदात्पत्रस्य तदारूढत्वोक्तिः पञ्चसङ्ख्योक्तिश्चायुक्तेति चेत्, मैवम्, यथा लेख्यस्य लेखकनिरूपकतया तदभेदेऽपि तद्गतविशेषाकारस्वीकारेण लेखकारूढत्वोक्तिरविरुद्धा तथैवात्रेति । यद्यपि स्वहस्तलेख्ये लेखकाभावात् पञ्चारूढत्वं नास्ति, तथापि तस्मिन्नवस्थाद्वयविवक्षयाऽवस्थितं गमकत्वमवलम्ब्य तदुक्तिर्न विरुद्धा । न च वाच्यं-- स्वहस्तलेख्यसाक्ष्यभावपक्षे पञ्चारूढत्वं गौणमिति, साक्षिकृत्यं स्वकृत्यलिपावेव तिष्ठति । स्वस्यैव साक्षित्वाङ्गीकारात् । केचित्त्वन्यकृतलेख्ये पञ्चारूढत्वं पत्रस्येत्याहुः । चन्द्रिकाकारादयस्तु अन्यकृतलेख्यस्य उत्तमर्णाधमर्णसाक्षिद्वयलेखकरूपपञ्चपुरुषारूढत्वात् पञ्चारूढं पत्रमिति लोकव्यवहारः, साक्षिसङ्ख्याधिक्ये त्वयं व्यवहारो गौण इति मन्तव्य इत्याहुः । तस्मिन्मते पञ्चशब्दः पुरुषमात्रपरो न तु गमकपरः । अत्र पत्रस्य पञ्चारूढत्वे पुरुषमात्रं न निमित्तं, अपि तु तद्गतगमकत्वं, अतश्चेतरप्रमाणापेक्षया पत्रस्य प्राबल्यसिद्धिः । किंच साक्षिसङ्ख्याधिक्ये त्वयं व्यवहारो गौण इत्यसमञ्जसम् । षडादिसङ्ख्याविशिष्टसाक्षिमत्पत्रस्थलेऽपि शते पञ्चाशन्न्यायेन मुख्यतायां गौणत्वाङ्गीकारोक्तेरयुक्तत्वात् । केचित्तु तन्मतानुवर्तिन एवं तत्परिहारमाहुः-- एकोऽप्युभयसंमत इति वचनात् श्रुताध्ययनसंपन्नस्य तस्य वादिनोऽप्येकस्यैव साक्षित्वाङ्गीकारात् । पुरुषचतुष्टयारूढत्वे पञ्चारूढत्वोक्तिर्गौणीति । तत्तु पूर्वापरविरुद्धाभिधानमित्यनादर्तव्यम् । तथापि पूर्वोक्तदोषदुष्टत्वादस्मदुक्तप्रकार एव सम्यक् । नारदस्तु विशेषमाह--

"अलिपिज्ञो ऋणी यस्स्यात् लेखयेत्स्वमतं तु सः ।
साक्षिणा साक्षिणोऽन्येन सर्वसाक्षिसमन्वितः ।
विजातीयलिपिज्ञोऽपि स्वयमेव लिखेत् पदम्" ॥

पदमिति स्वसङ्केतमित्यर्थः । तदनन्तरकृत्यं याज्ञवल्क्य आह--

"उभयाभ्यर्थितेनैतन्मयाऽप्यमुकसूनुना ।
लिखितं ह्यमुकेनेति लेखकस्त्वन्ततो लिखेत्"

व्यासोऽपि--

"मयोभयाभ्यर्थितेनाऽमुकेनाऽमुकसूनुना ।
स्वहस्तयुक्तं स्वं नाम लेखकोऽन्ते ततो लिखेत्" ॥
एवं जानपदे लेख्ये व्यासेनाभिहितो विधिः" ॥

इति ।

लेख्यमष्टविधं.

 एतज्जानपदं लेख्यं अष्टविधम् । विभागपत्र, दानपत्र, संवित्पत्र, स्थितिपत्र, सन्धिपत्र, विशुद्धिपत्र, आधिपत्र, क्रयपत्रभेदात् ।

विभागपत्रदानपत्रादिक्रमः.

विभागपत्रस्वरूपं तु नारद आह--

"भ्रातरः संविभक्ता ये स्वरुच्चा तु परस्परम् ।
विभागलेख्यं कुर्वन्ति भागलेख्यं तदुच्यते" ॥

इति । दानपत्रस्वरूपं स एवाह--

"भूमिं दत्वा तु यत्पत्रं कुर्याच्चन्द्रार्कसाक्षिकम् ।
अनाच्छेद्यमनाहार्यं दानपत्रं तदुच्यते" ॥

इति । संवित्पत्रं तु पितामह आह--

"ग्रामो देशश्च यत्कुर्यान्मते लेख्यं परस्परम् ।
राजाविरोधि धर्मार्थं संवित्पत्रं वदन्ति तत्" ॥

स्थितिपत्रमाह बृहस्पतिः--

"पूगश्रेण्यादिकानां तु समयस्य स्थितेः कृतम् ।
स्थितिपत्रं तु तत्प्रोक्तं मन्वादि स्मृतिवेदिभिः" ॥

इति । सन्धिपत्रस्वरूपमाह हारीतः--

"सन्धिपत्रं तु विज्ञेयमर्थिप्रत्यर्थिनोर्यदा ।
परस्परानुमत्या च निर्मितं तु ससाक्षिकम्" ॥

इति । विशुद्धिपत्रस्वरूपं तु स एवाह--

"अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः ।
विशुद्धिपत्रं विज्ञेयं लेख्यसाक्षिसमन्वितम्" ॥

इति । आधिपत्रमाह यमः--

"आधिं कृत्वा तु यो द्रव्यं प्रयुङ्क्ते स्वधनं धनी ।
यत्तत्र क्रियते लेख्यमाधिपत्रं तदुच्यते" ॥

क्रयपत्रस्वरूपमाह वसिष्ठः-

"क्रीते क्रयप्रकाशार्थं द्रव्ये यत्क्रियते क्वचित् ।
विक्रेत्रनुमतं क्रेतुर्ज्ञेयं तत्क्रयपत्रकम्" ॥

इति । एतेष्वेवाष्टसु पत्रेषु अन्वाधिपत्रगोप्याधिपत्रक्रयलेख्यसीमापत्रादीनां यथायोगमन्तर्भावः कार्यः । एतदप्यष्टविधं पत्रं चिरकाचिरकभेदेन द्विविधम् । द्विविधमपि स्वहस्तकृतमन्यहस्तकृतं चेति द्विविधम् । चिरकं नाम पुत्रपौत्रादिदृष्टं साक्ष्यादिपञ्चारूढं तदानीं गमकानां विद्यमानत्वाच्चिरकमिति । तदन्यदचिरकम् ।

 तदयमत्र निष्कर्षः-- पत्रं द्विविधम्-- राजशासनं जानपदशासनं चेति । राजशासनं पञ्चविधम्-- शासनजयपत्राज्ञापत्रप्रज्ञापत्रप्रसादलेख्यभेदात् । शासनं द्विविधम्--भूम्यादिविषयत्वेन निबन्धनविषयत्वेन च । जानपदमष्टविधम्-- विभागदानसंवित्स्थितिसन्धिविशुद्धाधिक्रयभेदात् । एतत्सर्वं स्वहस्तकृतमन्यहस्तकृतं चेति द्विविधम् । स्वहस्तकृतं साक्षिमत्त्वासाक्षिमत्त्वाभ्यां द्विविधम् ।

"स्वहस्तलिखितं पत्रं साक्ष्यभावेऽपि तद्बलि"

इति । लेख्यप्रयोजनमाह मरीचिः--

"स्थावरे विक्रयाधाने विभागे दान एव च ।

"लिखितेनाप्नुयात्सिद्धिमपि संवादमेव च" ॥

लेख्यान्तरोत्पत्तिविषयः.

 लेख्यस्य नाशे वा कार्याक्षमत्वे वा लेख्यान्तरमुत्पादनीयम् ।

"देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने दग्धे तथा छिन्ने लेख्यमन्यत्तु कारयेत्" ॥

इति याज्ञवल्क्यस्मृतेः । देशान्तरस्थे-- सर्वथाऽऽनेतुमशक्यस्थाने स्थिते । दुर्लेख्ये-- दुर्बोधाक्षरे । भिन्ने-- द्विधा जाते । छिन्ने-- शीर्णे कृते । हृते तस्करादिना । एतच्चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्याम् । असत्यां तु व्यवहारप्राप्तौ देशान्तरस्थपत्रानयनाय आध्यपेक्षया कालो दातव्यः । दुर्देशावस्थिते नष्टे वा पत्रे साक्षिभिरेव व्यवहारनिर्णयः कर्तव्यः । यथाऽऽह नारदः--

"लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लेखिते हृते ।
सतस्तत्कालकरणमसतो द्रष्टृदर्शनम्"॥

इति । सतो विद्यमानस्यानयनाय कालकरणं कालावधिर्दातव्यः । असतः पुनरविद्यमानस्य पूर्वं ये द्रष्टारः साक्षिणस्तैः दर्शनं व्यवहारपीरसमापनं कार्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्यः ।

"अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्देशेत्" ।

इति स्मरणात् । इयमेव व्याख्या समीचीना । कालान्तरे धने देये लेख्यान्तरं तु कार्यमेवेति चन्द्रिकाकारव्याख्यानं तु धनस्य कालान्तरदेयत्वे पत्रान्तरकरणमुत्सर्गतः प्राप्तमित्यवसेयम् ।

लेख्यपरीक्षा.

 लेख्यं लेख्याचारेण साक्ष्यं साक्ष्याचारेण विचारयेदित्याह कात्यायनः--

"राजा क्रियां [४]समाहूय यथान्याय्यं विचारयेत् ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः" ।।

इति । राज्ञा साक्षिण आहूय साक्ष्याचारेण लिखितं विचारयेत् । यद्वा लेख्याचारेण लिखितं विचारयेत् । अस्मिन् व्याख्याने क्रियामिति लक्षणे द्वितीया । क्रियानिर्णयार्थं लिखितं साक्षिणश्च विचारयेदिति । क्रियां समादायेति पाठे ऋजुरेवान्वयः । लेख्याचारमाह स एव--

"वर्णवाक्यक्रियायुक्तमसन्धिग्धं स्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिमाप्नुयात्" ॥

दुष्टलेख्यम्.

 क्रियानाम-- साध्यम् ।

दुष्टलेख्यस्वरूपमाह हारीतः--

"मुमूर्षुबालभीतार्तस्त्रीमत्तव्यसनातुरैः ।
निशोपधिबलात्कारैः कृतं लेख्यं न सिध्यति" ॥

बालस्त्रीशब्दावस्वतन्त्रोपलक्षकौ । यथाऽऽह कात्यायनः--

"मत्तेनोषधिभीतेन तथोन्मत्तेन पीडितैः ।
स्त्रीभिर्बालास्वतन्त्रैश्च कृतं लेख्यं न सिध्यति" ॥

इति । अत्र बृहस्पतिः--

"लेख्यदोषास्तु ये केचित्साक्षिणश्चैव ये स्मृताः ।
वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् "॥

लेख्यसन्देहे निर्णयनिमित्तानि.

लेख्यसन्देहे निर्णयनिमित्तान्याह याज्ञवल्क्यः--

"सन्दिग्धलेख्यशुद्धिस्स्यात्स्वहस्तलिखितादिभिः ।
युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः" ॥

शुद्धमशुद्धं वेति सन्दिग्धस्य लेख्यस्य शुद्धिसस्स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन यल्लिखितं लेख्यान्तरं तेन शुद्धिः । यदि सदृशाक्षराणि भवन्ति । तदा शुद्धिस्स्यादित्यर्थः । आदिशब्दात्साक्षिलेखकस्वहस्तलिखितान्तरसंवादाच्छुद्धिरिति युक्त्या प्राप्तिः । देशकालपुरुषाणां द्रव्येण सह संबन्धः प्राप्तिः । अस्मिन् काले अस्य पुरुषस्य इदं द्रव्यं घटत इति युक्तिप्राप्तिः । क्रिया-- तत्साक्ष्युपन्यासः । चिह्नमसाधारणं श्रीकारादि तत्संम्बन्धः । अर्थिप्रत्यर्थिनोः पूर्वमपि परस्परविश्वासेन दानग्रहणसंबन्ध आगमः । अस्य एतावतोऽर्थस्य संभावितप्राप्त्युपाया एव हेतवः । एभिर्हेतुभिस्सन्दिग्धलेख्यशुद्धिस्स्यादित्यर्थः ।

साक्षिभिर्लेख्यनिर्णयः.

 यदा तु लेख्यसन्देहे निर्णयो न जायते तदा साक्षिभिः निर्णयः कार्यः । यथाऽऽह। कात्यायनः--

"दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत्"

इति स्मरणात् । यत्तु हारीतवचनं--

"न मयैतत्कृतं पत्रं कूटमेतेन कारितम् ।
प्रधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णयः" ॥

इति, तत्तु साक्ष्यभावविषयम् ।

शासन शुद्धिः.

शासनमधिकृत्याह प्रजापतिः--

"कार्यो यत्नेन महता निर्णयो राजशासने ।
राजस्वहस्ततन्मुद्रालेखकाक्षरदर्शनात् ॥

कात्यायनः--

मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं [५]सचिह्नितम् ।
राजस्वहस्तसंशुद्धं शुद्धिमायाति शासनम्" ॥

इति । क्रियाशुद्धमपशब्दानन्वयादि रहितम् ।

विंशतिवर्षोपभोगानन्तरं लेख्यशुद्धिः.

जानपदलेख्यमपि क्वचिदुक्त्या शुद्धिमायातीत्याह स एव--

"शक्तस्य सन्निधावर्थो [६]यस्य लेख्येन भुज्यते ।
वर्षाणि विंशतिं यावत्तत्पत्रं दोषवर्जितम्" ॥

स्मृत्यन्तरे तु--

"अथ विंशतिवर्षाणि आधेः भुक्तेस्स निर्णयः ।
येन लेख्येन तत्सिद्धं लेख्यं दोषविवर्जितम् ॥
सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
तस्य दोषाः प्रवक्तव्याः यावद्वर्षाणि विंशतिः" ॥

पत्रसाक्षिमृतावपि लेख्यसिद्धिविवेकः.

तदपवादमाह स एव--

"यदि लब्धं भवेत्किञ्चित्प्रज्ञप्तिर्वा कृता भवेत् ।
प्रमाणमेव लिलितं मृता यद्यपि साक्षिणः" ॥

प्रज्ञप्तिमेव प्रपञ्चयति--

"दर्शितं प्रतिकालं [७]यद्ग्राहितं स्मारितं तथा ।
लेख्यं सिध्यति सर्वत्र मृतेष्वपि च साक्षिषु" ॥

बृहस्पतिस्तु विशेषमाह--

अन्यनामाङ्कलेखने दिव्येन निर्णयः.

"स्त्रीबालार्तान् लिप्यविज्ञान् वञ्चयन्ति स्वबान्धवाः ।
लेख्यं कृत्वाऽन्यनामाङ्कं ज्ञेयं युक्त्यागमैस्तु तत् ॥
ज्ञात्वा काले देशकार्ये कुशलाः कूटकारकाः ।
कुर्वन्ति सदृशं लेख्यं तद्यत्नेन विचारयेत्" ॥

इति । प्रजापतिस्तु--

"यन्नामगोत्रैस्तत्तुल्यरूपं लेख्यं क्वचिद्भवेत् ।
अगृहीते धने तत्र कार्यो दिव्येन निर्णयः" ॥

तत्तुल्यरूपं-- अविप्रतिपन्नलेख्यान्तरतुल्यरूपम् । अगृहीते (धने) प्रतिवादिनि दृढ इत्यर्थः ।

लेख्यविरोधे निर्णयः.

लेख्यानां मिथो विरोधे बाधकनिर्णयार्थमाह व्यासः--

"स्वहस्तकाज्जानपदं तस्मात्तु नृपशासनम् ।
प्रमाणतरमिष्टं हि व्यवहारार्थमागतम्" ॥

लेख्यसाक्ष्योः मध्ये लेख्यस्य प्राबल्यम्.

लेख्यप्राबल्यमाह संवर्तः--

"लेख्यस्योपरि यत्साक्ष्यं कूटं तदभिधीयते ।
अधर्मस्य हि तद्द्वारं ततो राजा निवर्तयेत्" ॥

बृहस्पतिरपि--

"वाचकैर्यत्र सामर्थ्यमक्षराणां विहन्यते ।
क्रियाणां सर्वनाशस्स्यादनवस्था च जायते" ॥

क्रियाणां लेख्यक्रियाणाम् । कात्यायनोऽपि--

"न दिव्यैस्साक्षिभिर्वाऽपि हीयते लिखितं क्वचित् ।
लेख्यधर्मस्सदा [८]श्रेष्ठो ह्यतो नान्येन हीयते" ॥

लेख्येन तु हीयत इत्याह स एव--

"तद्युक्तः प्रतिलेख्येन तद्विशिष्टेन वा सदा ।
लेख्यक्रिया निरस्येत निरस्यान्येन न क्वचित्" ॥

अन्येन साक्ष्यादिनेत्यर्थः । अत्र विशेषमाह व्यासः--

"अदृष्टं श्रावितं लेख्यं प्रमीतधनिकर्णिकम् ।
अबन्धलग्नकं चैव बहुकालं न सिध्यति ॥"

अत्र न सिध्यतीत्येतत् पुरस्तात् "पश्यतोऽब्रुवतो भूमेः" इत्यादिवचनव्याख्यानावसरे निवेदयिष्यामः ।

भुक्तेरपि निर्णायकत्वम्.

भुक्तेरपि निर्णायकत्वमाह नारदः--

"कृत्वोत्तरं क्रियावादे लेख्यं साधनमुद्दिशेत् ।
सामन्तलक्षणोपेता भुक्तिर्वा चिरकालिकी" ॥

अत्र साधनशब्देन साक्षिण उच्यन्ते, वा शब्दः परस्परमभिसंबध्यते । लिखितं वा साक्षिणो वा भुक्तं वा समुद्दिशेदित्यर्थः । कैश्चिद्विशेषणैर्युक्ताया भुक्तेः प्रामाण्यं दर्शयति कात्यायन:--

प्रमाणेषु भुक्तेः प्राबल्यम्

"लिखितं साक्षिणो भुक्तिः प्रमाणत्रयमिष्यते ।
प्रमाणेषु [९]स्थिरा भुक्तिः सल्लेख्या संमता नृणाम् ॥

इति । सल्लेख्यमनवद्यलेख्यम् । ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्दान्तर्भावाद्युक्तं प्रामाण्यम् । भुक्तेस्तु कथं प्रामाण्यमिति चेदुच्यते । भुक्तिरपि कैश्चिद्विशेषणैर्युक्ता स्वत्वहेतुभूतक्रयदानादिकमव्यभिचारादनुमापयति । अन्यथाऽनुपपद्यमाना कल्पयतीत्यनुमानेऽर्थापत्तौ वाऽन्तर्भवतीति प्रमाणमेव ।

भुक्तेरेव प्राबल्यस्थलानि.

क्वचिद्भुक्तेरेव श्रैष्ठ्यमितराभ्यामित्याह स एव--

"रथ्यादिनगरद्वारजलवाहादिसंशये ।
भुक्तिरेव तु गुर्वी स्यात्प्रमाणेष्विति निश्चयः ॥"

इति । स्थावरेषु विशेषमाह नारदः--

"विद्यमानेऽपि लिखिते जीवत्स्वपि च साक्षिषु ।
विशेषतस्स्थावराणां यन्न भुक्तं न तत् स्थिरम् ॥"

कस्याश्चिदुक्तेः कार्यान्तरमाह याज्ञवल्क्यः--

"पश्यतोऽब्रुवतो भूमेर्हानिर्विशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥"

परेण असंबन्धेन भुज्यमानां भुवं धनं वा पश्यतः अब्रुवतः मदीयेयं भूः त्वया न भोक्तव्येत्यप्रतिषेधतस्तस्या भूमेः विंशतिवार्षिकी विंशतिवर्षोपभोगनिमित्ता हानिर्भवति धनस्य तु हस्त्यश्वादेर्हानिः दशवार्षिकी । नन्वेतदनुपपन्नम् न ह्यप्रतिषेधात्स्वत्वमपि गच्छति । अप्रतिषेधस्य दानविक्रयादिवत् स्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोरप्रसिद्धत्वात् । नापि विंशतिवर्षभोगात्स्वत्वम् । उपभोगस्य स्वत्वे अप्रमाणत्वात् । प्रमाणस्य प्रमेयं प्रत्यनुत्पादकत्वात् । रिक्थक्रयादिषु स्वत्वकारकहेतुष्वपाठाच्च । तथाहि-- स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु । ब्राह्मणस्याधिकं लब्धम् । क्षत्रियस्य विजितम्, निर्विष्टं वैश्यशूद्रयोरित्यष्टावेव स्वत्वकारकहेतून् गौतमः पठति । न भोगम् । नचेदमेव वचनं विंशतिवर्षोपभोगस्य स्वत्वापत्तिहेतुत्वं प्रतिपादयतीति युक्तम् । स्वत्वस्य स्वत्वहेतूनां च लोकसिद्धत्वेन शास्त्रैकसमधिगम्यत्वाभावस्य धनार्जननयव्युत्पाद्यत्वात् । एतच्च विभागप्रकरणे निपुणतरमुपपादयिष्यते । गौतमवचनं तु नियमार्थम् । अपि च--

"अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि ।
चोरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥"

इत्येतदप्यनागमोपभोगस्य स्वत्वहेतुत्वे विरुध्यते । न च "अनागमं तु यो भुङ्क्ते" इत्येतत्परोक्षभोगविषयम् । "पश्यतोऽब्रुवत" इत्येतत् प्रत्यक्षविषयं युक्तं वक्तुम् । "अनागमं तु यो भुङ्क्ते" इति अविशेषाभिधानात् ।

"नोपभोगे बलं कार्यमाहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनामिति धर्मो व्यवस्थितः" ॥

इति कात्यायनवचनाच्च । समक्षभोगे च हानिकारणाभावेन हानेरसंभवात् । न चैतन्मन्तव्यं आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्यापवादेन भूमिविषये विंशतिवर्षोपभोगयुक्ताया धनविषये दशवर्षोपभोगयुक्तायाः उत्तरस्याः क्रियायाः प्राबल्यमनेनोच्यत इति । यतस्तेषु उत्तरैव क्रिया तत्वतो नोपपद्यते । स्वयमेतच्चाधेयं देयं विक्रेयं च भवति । न चापि तस्य विक्रीतस्य दत्तस्य वा स्वत्वमस्ति अस्वत्वस्य दाने प्रतिग्रहे च दण्डः स्मर्यते--

"अदेयं यश्च गृह्णाति यश्चादेयं प्रयच्छति ।
उभौ तौ चोरवच्छास्यौ दाप्यौ चोत्तमसाहसम् ॥"

इति । अथ आध्यादीनां त्रयाणामपवादत्वे अस्य वचनस्य--

"आधिसीमोपनिक्षेपजलबालधनैर्विना ।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥"

इत्याध्यादिषु पश्यतोऽब्रुवतोऽपि भूमेः विंशतेर्धनस्य दशभ्यो वर्षेभ्य ऊर्ध्वमप्युपचयहानिर्भवतीति उत्तरे वचने अपवादो नोपपद्यते । तस्माद्भूम्यादीनां हानिरनुपन्नैव । नापि व्यवहारहानिः । यतः-

"उपेक्षां कुर्वतान्यस्य तूष्णीं भूतस्य तिष्ठतः ।
कालेऽतिपन्ने पूर्वोक्तव्यवहारो न सिध्यति" ॥

इति । नारदेन उपेक्षालिङ्गाभावकृतव्यवहारहानिरुक्ता । न स्वभावकृता । तथा मनुनाऽपि--

"अजडश्चेदपौगण्डो विषये चास्य भुज्यते ।
भग्नं तद्व्यवहारेण भोक्ता तद्धनमर्हति" ॥

इति व्यवहारतो भङ्गो दर्शितो न वस्तुतो व्यवहारभङ्गः । एवं भोक्ता किल वदति-- "अजडोऽयमपौगण्डो वालः अस्य सन्निधौ विंशतिवर्षाणि अनाक्रोशं मया भुक्तम् । तत्र बहवस्साक्षिणस्सन्ति । यद्यस्य स्वमन्यायेन मया भुज्येत तदायं किमित्येतावन्तं कालमुदात्त" इति । तत्र चायं निरुत्तरो भवति । एवं निरुत्तरस्यापि वास्तवो व्यवहारो भवत्येव ।

"छलं निरस्य भूतेन व्यवहारान् नयेन्नृपः" ।

इति नियमात् । अथ मतं; यद्यपि न वस्तुहानिः, नापि व्यवहारहानिः, तथापि पश्यतः अब्रुवतः अप्रतिषेधतश्च व्यवहारहानिशङ्का भवतीति तन्निवृत्तये तूष्णीं न स्थातव्यमिति उपदिश्यत इति । तच्च न, स्मार्तकालसहिताया भुक्तेः व्यवहारहानिशङ्काकारणत्वाभावात् । तूष्णीं न स्थातव्यमित्येतावन्मात्राभिधित्सायां विंशतिग्रहणमविवक्षितं स्यात् । अथोच्येत विंशतिग्रहणं ऊर्ध्वं पत्रदोषोद्भावननिराकरणार्थम् यथाऽऽह कात्यायनः--

"शक्तस्य सन्निधावर्थो यस्य लेख्येन भुज्यते ।
विंशद्वर्षाण्यतिक्रान्तं तत्पत्रं दोषवर्जितम्" ॥

इति । तदपि न; अध्यादिष्वपि विंशतेरूर्ध्वं पत्रदोषोद्भावनस्य तन्निरासकरणस्य च समत्वेनापवादासंभवात् । यथाऽह कात्यायनः--

"अथ विंशतिवर्षाणि आधिभुक्तिस्सुनिश्चिता ।
तेन लेख्येन तत्सिद्धिः लेख्यं तद्दोषवर्जितम् ।
सीमाविवादे निर्णिते सीमापत्रं विधीयते ।
तस्य दोषाः प्रवक्तव्याः यावद्वर्षाणि विंशतिः" ॥

इति । अतश्च धनस्य दशवार्षिकीत्येतदपि प्रत्युक्तं वेदितव्यम् । एतेन चन्द्रिकाकारोक्तं "हानिश्चात्र लिखितबलेन आत्मीयत्वप्रसाधनमात्रस्याभिप्रेता । न पुनर्भूम्यादौ तत्फले वा स्वत्वस्य वेति । नोपेक्षामात्रेण स्वत्वमपैतीत्युक्तत्वादित्यपास्तम् । विंशतिवार्षिकीत्यत्र वचने विंशतिग्रहणेन विंशतेरूर्ध्वं पत्रदोषोद्भावननिराकरणार्थत्वस्य प्रत्युक्तत्वात् ।

भोगबलाबलव्यवस्था.

 तदयमत्र निष्कर्षः-- भूमेर्धनस्य च न स्वरूपहानिः । नापि व्यवहारहानिः । किन्तु फलहानिरिह विवक्षिता । निराक्रोशविंशतिवर्षोपभोगादूर्ध्वं यद्यपि स्वामी व्यवहारतः क्षेत्रं लभते । तथाऽपि फलानुसरणं न लभते । अप्रतिषेधलक्षणात्स्वापराधादस्माच्च वचनादेव ।

 परोक्षभोगे तु विंशतेरूर्ध्वमपि फलानुसरणं लभत एव । पश्यत इति वचनात् । प्रत्यक्षभोगे च साक्रोशे अब्रुवत इति वचनात् । विंशतेः प्राक् प्रत्यक्षे निराक्रोशे च लभते । विंशतिग्रहणात् । अतश्च स्वाम्युपेक्षालक्षणस्वापराधात् । अस्माच्च वचनाद्विंशतेरूर्ध्वं नष्टं फलं न लभते । अनागमभोगे तु-भोक्ता--

"अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि ।
चोरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥"

इत्यनेन प्रोक्तं दण्डं नार्हति, हानिर्विंशतिवार्षिकीत्यनेन तदुक्तदण्डस्यापोद्यत्वादिति स्थितमिति विज्ञानेश्वरः । [१०]एतेन दशवार्षिकीत्येतदपि व्याख्यातम् । अत एव व्यासः--

"वर्षाणि विंशतिर्यस्य भूमिर्भुक्तापरैरिह ।
सति राज्ञि समर्थस्य तस्य सेह न सिध्यति" ॥

अत्रापवादमाह मनुः--

"संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।
धेनुरुष्ट्रो वहन्नश्वो यच्च दम्यः प्रयुज्यते" ॥

अत एव मनुः--

"आधिश्च सीमाऽऽत्मधनं निक्षेपोपनिधिस्त्रियः ।
राजस्वं श्रोत्रियद्रव्यं नोपभोगेन नश्यति" ॥

आधेः भुक्तौ आधिर्त्वोपाधिक एव भोग इत्युपेक्षायामपि न पुरुषापराधः । सीम्नः चिरकृततुषाङ्गारादिगोप्यचिह्नैस्सुसाधनत्वादुपेक्षा संभवति । नात्मधनस्य बन्धुभिरुपयोगे संबन्धित्वेनोपेक्षा संभवः । केचिन्नाटधनं--शैलूषधनमिसाहुः । तेषामभिनयाद्यभ्यासादिनिविष्टचित्तत्वाद्युक्तमुपेक्षणम् । निक्षेपोपनिध्योर्लक्षणमष्टादशपदनिरूपणापसरे निरूपितम् । तयोरुपनिधाननिक्षेपणकाले भुक्तेः प्रतिषिद्धत्वात्प्रतिषेधातिक्रमोपभोगे सोदयलाभादुपेक्षोपपत्तिः । स्त्रीणामप्रागल्भ्यादज्ञानाच्च श्रोत्रियस्याध्ययनाध्यापनतदनुष्ठानव्याकुलत्वात् राज्ञो बहुकार्यव्याकुलत्वादुपेक्षा युक्तैवेत्येवमादिषु सर्वत्रोपेक्षाकारणसंभवात् प्रत्यक्षभोगे निराक्रोशे च न कदाचिदपि फलहानिः । कस्याश्चिद्भुक्तेः प्रामाण्यमाह पितामहः--

"सागमा दीर्घकाला च विच्छेदोपरवोज्झिता ।
प्रत्यर्थिसन्निधाना च भुक्तिः पञ्चविधा स्मृता" ॥

उपरवः-- आक्रोशः । पञ्चविधेति-- पञ्चाङ्गेति यावत् । अत एव व्यासः--

"सागमो दीर्घकालश्च विच्छेदोपरवोज्झितः ।
प्रत्यर्थिसन्निधानश्च पञ्चाङ्गो भोग इष्यते" ॥

इति वदन् एकाङ्गवैकल्येऽप्यप्रामाण्यमेव भोगस्येति दर्शयति, तथा च नारदः--

[११]"संभोगं केवलं यस्तु कीर्तयेन्नागमं क्वचित् ।
भोगच्छलापदेशेन विज्ञेयस्स तु तस्करः" ॥

तेन सभ्यसन्निधावागमादिकमप्यङ्गं कीर्तनीयमित्यभिप्रायः । अत एवाऽऽह कात्यायनः--

"प्रणष्टाऽऽगमलेख्येन भोगाऽऽरूढेन वादिना ।
कालः प्रमाणं दानं च कीर्तनीयानि संसदि" ॥

इति । दानग्रहणमागमोपलक्षणार्थम् । चशब्दः सातत्यादिविशेषणग्रहणार्थः । तदयमत्र निष्कर्षः-- भोगैकप्रमाणवादिना भोगाऽऽख्यप्रमाणं तद्विशेषणानि आगमदीर्घकालादीनि च कीर्तनीयानि । कीर्तितानि च तद्विप्रतिपत्तौ साधनीयानि । कीर्तनमात्रेण निश्चयाभावात् ॥

आगमभुक्त्योः परस्परसापेक्षत्वम्.

 एवं च दीर्घकालभुक्तिरागमानुगृहीता प्रमाणम् । आगमस्तु दीर्घकालभुक्त्यनुगृहीत इति । अत एव पितामहः--

"नागमेन विना भुक्तिः नागमो भुक्तिवर्जितः।
तयोरन्योन्यसंबन्धात्प्रमाणत्वं व्यवस्थितम्" ॥

इति । अनेनैवाभिप्रायेण बृहस्पतिरपि--

"भुक्त्या केवलया नैव भूमिस्सिद्धिभवाऽऽप्नुयात् ।
आगमेनापि शुद्धेन द्वाभ्यां सिध्यति नान्यथा" ॥

केवलया-- आगमरहितयेत्यर्थः । अत एव हारीतः--

"न मूलेन विना शाखा अन्तरिक्षे प्ररोहति ।
आगमस्तु भवेन्मूलं भुक्तिश्शाखा प्रकीर्तिता" ॥

स्तोकभुक्त्यभावे आगमदौर्बल्यं.

 आगमस्य भोगनिरपेक्षत्वेन प्रामाण्यं नास्तीत्याह याज्ञवल्क्यः--

"आगमेऽपि बलं नैव भुक्तिस्स्तोकाऽपि यत्र नो" ॥

इति । यस्मिन्नागमे स्वल्पाऽपि भुक्तिर्नास्ति तस्मिन्नागमे बलसंपूर्णता नैवास्ति । अयमभिसन्धिः-- स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च परो यदि दानं स्वीकरोति तदा संपद्यते । तथा स्वीकारश्च त्रिविधः मानसो वाचिकः कायिकश्चेति । तत्र मानसो ममेदमिति सङ्कल्परूपः । वाचिकस्तु ममेदमिति अभिव्याहारोल्लेखी सविकल्पकप्रत्ययः । कायिकःपुनरुपादानाभिमर्शनादिरूपोऽनेकविधः । तत्र च निमयस्स्मर्यते-

"दद्यात्कृष्णाजिनं पुच्छे गां पुच्छे करिणं करे ।
केसरेषु तथैवाश्वं दासीं शिरसि दापयेत्" ॥

इति । तत्र त्रिविधोऽपि स्वीकारः उदकदानानन्तरमेव । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायिकस्वीकारासंभवात् स्वल्पेनाप्युपभोगेन भवितव्यम् । अन्यथा दानविक्रयादेः संपूर्णता न भवतीति फलोपभोगलक्षणकायिकस्वीकारविकलतया आगमो दुर्बलो भवतीति । अत्राऽऽगमस्य दौर्बल्यमात्रमित्याह नारदः--

"आदौ तु कारणं दानं मध्ये भुक्तिस्तु साऽऽगमा" ॥

इति । अयमर्थः- आद्ये पुरुषे साक्षिलेख्याभ्यां भावित आगमो भोगादप्यधिको बलवान् । पूर्वक्रमाऽऽगतस्तु भोगो विनाऽपि भावितादागमाच्चतुर्थपुरुषे लिखितेन भावितादागमाद्बलबान् । मध्ये तु भोगरहितादागमात् स्तोकभोगसहितोऽप्यागमो बलवानिति । अत्रेदमुपतिष्ठते याज्ञवल्क्योक्तं--

"आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात्" ।

इति । ननु विना पूर्वक्रमागतादित्यनेन आगमनिरपेक्षत्वेन प्रामाण्यमुक्तं भोगस्य, तच्च आगमोऽभ्यधिको भोगादित्यनेन विरुध्यते इति चेत्, मैवं, स्मार्तास्मार्तकालविषयत्वाद्वचनस्य, आगमोऽभ्यधिको भोगादिति स्मार्तकालविषयम् । विना पूर्वक्रमागतादित्येतदस्मार्तकालविषयं वेदितव्यम् । अतश्च स्मरणयोग्यकाले योग्यानुपलब्ध्या आगमाभावनिश्चयसंभवात् आगमज्ञातसापेक्षस्यैव भोगस्य प्राणाण्यम् । अस्मार्तकाले तु योग्यानु पलब्ध्यभावेन आगमाभावनिश्चयासंभवात् आगमज्ञाननिरपेक्ष एव सातत्यविशेषणविशिष्टो भोगः प्रमाणम् । अत एवोक्तं कात्यायनेन--

"स्मार्तकाले क्रिया भूमेस्सागमा भुक्तिरिष्यते ।
अस्मार्तेऽनुगमाभावात्क्रमात्त्रिपुरुषाऽऽगता" ॥

इति । अनुगमाभावः-- योग्यानुपलब्ध्यभावेनागमाभावनिश्चयासंभवः । स्वत्वहेतुप्रतिग्रहक्रयादिरागमः । ननु यच्च--

"अन्यायेनापि यद्भुक्तं पित्रा [१२]पूर्वतमौस्त्रिभिः ।
न तच्छक्यमपाकर्तुं क्रमात्त्रिपुरुषागमम्" ॥

इति । पित्रेति सहार्थे तृतीया । क्रमात्त्रिपुरुषागममिति तु स्मार्तकालोपलक्षणम् । त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसंभवाद्द्वितीये वर्षे निरागमस्यापि भोगस्य प्रामाण्यप्रसङ्गात् ।

"स्मार्तकाले क्रियाभूमेस्सागमा भुक्तिरिष्यते" ॥

इति । स्मृतिविरोधश्च स्यात् । किन्तु अन्यायेनापि भुक्तमपहर्तुं न शक्यम् । किं पुनरन्यायानिश्चय इत्येवं परम् । यत्तूक्तं--

"यद्विनाऽऽगममत्यन्तं भुक्तं पूर्वैस्त्रिभिर्भवेत् ।
न तच्छक्यमपाकर्तुं क्रमात्त्रिपुरुषाऽऽगतम्" ॥

इति, तत्रात्यन्तमागमं सातत्यादिगुणविशेषणविशिष्टमुपलभ्यमानं विनेति व्याख्येयम् । न पुनरागमस्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्युक्तं विज्ञानयोगिना-

स्मार्तकालप्रमाणम्.

स्मार्तकालस्वरूपमाह पितामहः--

"त्रिंशत्समा या तु भुक्ता भूमिरव्याहता परैः ।
भुक्तिस्सा पौरुषी ज्ञेया द्विगुणा तु द्विपौरुषी ॥
त्रिपौरुषी तु त्रिगुणा तत ऊर्ध्वं चिरन्तनी" ।

अत्र नारदः--

अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि ।
चोरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥

इति । अनागममिति सिद्धवन्निर्देशादन्वाहितादीनां भोगे दण्ड इति ज्ञापितम् । अन्यथा पूर्वोक्तवचनविरोधात् । निश्चितागमाश्च तेनैव दर्शिताः ।

"अन्वाहितं हृतं न्यस्तं बलावष्टब्धयाचितम् ।
अप्रत्यक्षं च यद्भुक्तं षडागमविवर्जिताः" ॥

अन्वाहितं-- अन्यस्मै दातुमर्पितम् । बलावष्टब्धं-- राजप्रसादादिदिबलेन भुक्तम् । तथा च संवर्तः--

"या राज्ञा क्रोधलोभाभ्यां छलान्न्यायेन वा कृता ।
प्रदत्ता चापि तुष्टेन न सा सिद्धिमवाऽऽप्नुयात्" ॥

या खल्वन्यस्य भूमिः क्रोधादिना राज्ञा परभोग्यतया कृता तुष्ट्या च अन्यस्मै दत्ता सा चिरन्तनभोगेनापि न भोक्तुस्सिद्ध्यतीत्यर्थः । [१३]पूर्वस्यापवादमाह याज्ञवल्क्यः--

"योऽभियुक्तः परेतस्स्यात्तस्य रिक्थी तमुद्धरेत् ।
न तत्र कारणं भुक्तिरागमेन विना कृता" ॥

अभियुक्तः-- अकृतव्यवहारनिर्णय एव । परेतः-- परलोकं गतः । तदा तस्य रिक्थी-- पुत्रादिः । तमागममुद्धरेत् । पूर्वाभियोगेन भोगस्य सापवादत्वात् । अत एवोक्तं नारदेन--

"तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सोऽर्थस्संशोध्यो न तं भोगान्निवर्तयेत्" ॥

इति । एवं च विज्ञानयोगिना स्मार्तकालः शतवर्षपर्यन्तः शतायुः पुरुष इति श्रुतेः इत्युक्तम् । चन्द्रिकाकारेण तु पञ्चाधिकशतवर्षपर्यन्तं स्मार्तकाल इत्युक्तम् । तत्तु प्रायिकाभिप्रायिकम् । नवतिवर्षपर्यन्तायास्त्रिपुरुष्याः प्रतिपादितत्वात् ।

अत्रमतान्तरम्.

 अत्र वरदराजः-- विंशतावागमप्राबल्यम् । भोगस्य तदानुगुण्यम् । द्वितीये भुक्तेः प्राबल्यम् । चतुर्थपुरुषे पञ्चाङ्गभोग एव प्रमाणम् । नागमापेक्षेति सिद्धमिति ।

अत्र बृहस्पतिस्तु विशेषमाह--

"तिवर्षं भुज्यते येन समग्रा भूरवारिता ।
तस्य सा नापहर्तव्या क्षमालिङ्गं न चेद्वदेत् ॥
चतुष्पाद्धनधान्यादि वर्षाद्धानिमवाप्नुयात्" ॥

एतद्वचनं भुक्तेरादरार्थं यथाश्रुतं व्याख्येयं बहुप्रतिपक्षत्वादिति वरदराजः ।

इति लिखितभुक्तिनिरूणम्


अथ साक्षिप्रकरणम्.


(सक्षिस्वरूपम्.)

साक्षिस्वरूपमाह नारदः--

"ब्राह्मणाः क्षत्त्रिया वैश्याश्शूद्रा ये चाप्यनिन्दिताः ।
प्रतिवर्णं भवेयुस्ते सर्वे सर्वेषु वा पुनः" ॥

इति । अत्र सति संभवे व्यवहर्तुस्सवर्णा एव साक्षिण इत्यर्थः । अत एव नारदः--

"श्रेणिषु श्रेणिपुरुषाः तेषु वर्गेषु वर्गिणः ।
बहिर्वासिषु बाह्यास्स्युः स्त्रियः स्त्रीषु च साक्षिणः" ॥

इति । एतदप्युपलक्षणम् । यथाऽऽह याज्ञवल्क्यः--

"तपस्विनो दानशीलाः कुलीनास्सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥
त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः" ॥

इति। त्रय अवरा न्यूना एषां ते त्र्यवराः । त्रिभ्योऽर्वाङ्न भवन्ति । जातयो-- मूर्धावसिक्तादयः । मूर्धावसिक्तानां मूर्धावसिक्तास्साक्षिणः । अत्र वर्णा-- ब्राह्मणादयः । तत्र ब्राह्मणानां ब्रह्मणा एव साक्षिणो भवन्ति । एवं क्षत्रियेष्वपि द्रष्टव्यम् । अत्रापवादमाह नारदः--

"श्रेण्यादिषु तु वर्गेषु कश्चिद्वै द्वेष्यतामियात् ।
तस्य तेभ्यो न साक्ष्यं स्यात् द्वेष्टारस्सर्व एव ते" ॥

इति । श्रेण्यादिग्रहणं वर्णादिप्रदर्शनार्थम् । द्वेष्यादिग्रहणं प्रमादालस्यविप्रलिप्सादीनामुपलक्षणार्थम् ॥

साक्षिपरीक्षा.

यथाऽऽह पितामहः--

"नियमेनैव संशोध्याः सर्व एव हि साक्षिणः ।
विप्रलिप्सादयो दोषा विज्ञेयाश्चर्मचक्षुषा ॥
प्रतिवाक्यमपेक्ष्यं स्यात् प्रामाण्यं [१४]धर्मनिश्चितम् ।"

इति । आदिशब्देन प्रमादालस्यद्वेषादयो गृह्यन्ते । प्रतिवाक्यं प्रामाण्यमपेक्ष्यम् । न तु प्रतिपुरुषम्, अवस्थाभेदेन विप्रलिप्सादीनां संभावयितुं शक्यत्वात् ॥

साक्षियोग्याः.

इति । अत एव मनुः--

"आप्तास्सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।
सर्वधर्मविदोऽलुब्धान् विपरीतांस्तु वर्जयेत्" ॥

इति । यत्तु सङ्ग्रहकारः--

"कर्तव्यास्सर्वकार्येषु त्रिभ्यः आरभ्य साक्षिणः ।
द्व्येकयोः प्रतिषेधस्यादेकोऽप्युभयसंमतः ॥

इति । अपिशब्दादुभयसंमतत्वे द्वयोरपि ग्रहणम् ।

तथा च नारदः--

"उत्तमर्णाधमर्णौ द्वौ साक्षिणौ लेखकस्तथा ।
समवायेन चैतेषां लेख्यं कुर्वीत नान्यथा" ॥

इति । अत्र साक्षिणाविति द्वित्वोक्तिः । यत्तूक्तं बृहस्पतिना--

"नव सप्त पञ्च वा स्युश्चत्वारस्त्रय एव वा ।
उभौ वा श्रोत्रियौ शान्तौ नैकं पृच्छेत् कदाचन" ॥

इति । तच्च उभयसंमतव्यतिरिक्तविषयम् । नव पञ्च सप्त त्रयाणां विषमसङ्ख्यात्वेऽपि सङ्ख्यासाम्यप्रतिपादनं प्राबल्यार्थमित्युक्तत्वाददोषः । नवादिसङ्ख्यानामपवादमाह याज्ञवल्क्यः--

एकस्यापि साक्षित्वम्.

"उभयानुमतस्साक्षी भवत्येकोऽपि धर्मवित् ॥"

इति । ज्ञानपूर्वकं नित्यनैमित्तिकधर्मानुष्ठाता धर्मवित् । अत एव शङ्खलिखितौ--

 "मौलाः प्रतिष्ठितास्साक्ष्यर्थं विदितवन्तः कुलीना ऋजवः जन्मतः कर्मतोऽर्थतश्शुद्धाः पुत्रिणस्सत्यवादिनः श्रौतस्मार्त क्रियायुक्ताः विगतद्वेषमत्सराः अप्रवासिनो युवानो लोभमोहविवर्जिताः त्र्यवराः नवसंख्याका न जातु कूटतां प्रतिपद्यन्त" इति ॥ अत एव नारदः--

"ज्ञात्वा कार्यं देशकालौ कुशलाः कूटकारकाः ।
कुर्वन्ति सदृशं लेख्यं नैते स्युः साक्षिणो यथा" ॥

विपरीतांस्तु वर्जयेदित्युक्तम् ।

वर्जनीयसाक्षिणः

तानाह मनुः--

"नार्थसंबन्धिनो नाप्ताः न सहाया न वैरिणः ।
न दृष्टदोषाः कर्तव्या न व्याध्यार्ताः न दूषिताः ॥

न साक्षी नृपतिः कार्यः वै न [१५]कामुककुशीलवाः ।
न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विवर्जितः ॥
न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः ।
नाथ्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् ॥
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥"

इति । अर्थसंबन्धिनः-- प्रतिपाद्यार्थसंबन्धिनः--- प्रतिभूप्रभृतय इत्यर्थः । यद्वा विप्रतिपद्यमानार्थसंबन्धिनस्सहायाः । दूषिताः महापातकैरभियुक्ताः । श्रोत्रियो वेदाेक्तकर्मानुष्ठानतत्परः न तु वेदपाठकः । तस्य साक्षित्वेनाभिधानात् । लिङ्गस्थो ब्रह्मचारी । सङ्गेभ्यो विवर्जितः वानप्रस्थः । एक इति उभयाननुमतः । एकस्योभयानुमतस्य एकोऽप्युभयसंमत इति साक्षित्वाभिधानात् । अन्त्यः चण्डालादिः । एतच्चण्डालादिव्यतिरिक्तव्यवहारविषयम् । तत्कुलव्यवहारेषु तदीयानामेव साक्षित्वनियमात् । 'तत्कुलीनास्तत्कुलव्यवहारे साक्षिणः, इति स्मृतेः । [१६]वक्तव्यः बोध्यः । दस्युः पश्यतो हरः । मत्तादीनां लक्षणं पूर्वमेवोक्तम् । तस्करस्सुरुङ्गादेर्निर्माता । असाक्षिणां पाञ्चविध्यमाह नारदः--

असाक्षिणः.

"असाक्ष्यपि विनिर्दिष्टः शास्त्रे पञ्चविधो बुधैः ।
वचनाद्दोषतो भेदात् स्वयमुक्तिर्मृतान्तरः ॥"

अयमर्थः-- असाक्षिहेतूनां पञ्चविधत्वात् तन्मूलेन असाक्ष्यपि पञ्चविध इति । वचनादसाक्षिणो याज्ञवल्क्य आह-

"श्रोत्रियास्तापसा वृद्धाः ये तु प्रव्रजितादयः ।
असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः" ॥

इति । तापसः-- वानप्रस्थः । आदिशब्देन पित्रा विवदमानानां ग्रहणम् । यथाऽऽह शङ्खः-- "पित्रा विवदमानगुरुकुलवासि वानप्रस्थनिर्गन्धा असाक्षिणः" इति । नारदेन दोषादसाक्षिणो दर्शिताः--

"स्तेनास्साहसिकाश्चण्डाः कितवा वधकास्तथा ।
असाक्षिणस्तु दुष्टत्वात् तेषु सत्यं न विद्यते" ॥

इति । भेदादसाक्षिणां च स्वरूपं तेनैव दर्शितम् ।

"साक्षिणां लिखितानां च निर्दिष्टानां च वादिनाम् ।
तेषामेकोऽन्यथावादी भेदात्सर्वे न साक्षिणः" ॥

इति । अत्र लिखितग्रहणात् अकृतसाक्षिणां भेदेऽपि न साक्ष्यहानिरित्युक्तम् । स्वयमुक्तिस्वरूपं स एवाह--

"स्वयमुक्तिरनिर्दिष्टः स्वयमेवैत्ययो वदेत् ।
सूचीत्युक्तस्स शास्त्रेषु न स साक्षित्वमर्हति" ॥

इति । मृतान्तरस्यापि लक्षणमाह व्यासः--

"अर्थी यत्र न विद्येत तत्र साक्षी मृतान्तरः ।
प्रत्यर्थी वा मृतो यत्र तत्राप्येवं प्रकल्पयेत्" ॥

अयमर्थः-- अर्थिना वा प्रत्यर्थिना वा साक्षिणो 'यूयमत्रार्धे साक्षिण' इति योऽर्थः श्रावयितव्यो भवेत् तस्मिन् अर्थिनि प्रत्यर्थिनि वा असति मृते वा साक्षी मृतान्तर इति ॥  यत्तु विज्ञानयोगिनोक्तं यत्र तु मुमूर्षुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविताः 'अमी साक्षिण' इति अत्र मृतान्तरोऽपि साक्षी" । यथाऽऽह नारदः--

"मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्रावितो दृढः" ॥

इति । तत्तु श्रावितस्य साक्षित्वं नापगतमित्येवं परम् । न पुनर्मृतान्तरस्यापि साक्षित्वविधानार्थमित्यवगन्तव्यम् । मृतान्तरस्य साक्षित्वासंभवात् । ननु भेदादसाक्षिण इत्यनुपपन्नम् । 'साक्षिद्वैधे बहूनां वा गुणवत्तमानां वा वचनं ग्राह्यम्' इति विष्णुस्मरणात् । समसङ्ख्यानां वा समगुणानां वा द्वैधे युक्तिसध्रीचीनं वचनं ग्राह्यमित्यर्थादुक्तं भवतीति निबन्धनकारवचनादिति चेन्मैवम् । बहवस्साक्षिणो मिळित्वा साक्ष्यभावमेकस्मिन् निवेश्य संसदि अनेन यदुक्तं तदस्माकं संमतमित्यवोचन्; तदाऽसावेकोऽपि विसंवादी, सर्वे ते साक्षिणो विसंवादिन इत्येवं परं वचनमिति न कश्चिद्विरोधः ।

साक्षिविभागादि.

 साक्षी तु द्विविधः-- दर्शनश्रवणभेदात् । यथाऽऽह पितामहः--

"समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति" ।

इति । स च द्विविधः कृताकृतभेदात् । अकृतष्षड्विधः यथाऽऽह नारदः--

"ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ।
कार्येष्वधिकृतो यस्स्यादर्थिना प्रहितश्च यः ॥
कुल्याः कुलविवादेषु विज्ञेयास्तेऽपि साक्षिणः" ॥

इति । प्राड्विवाकग्रहणं लेखकस्याप्युपलक्षणार्थम् ।

"लेखकः प्राड्विवाकश्च सभ्याश्चैवानुपूर्वशः ।
नृपे पश्यति तत्कार्यं साक्षिणस्समुदाहृताः" ॥

इति । कृतसाक्षिणां पञ्चानां स्वरूपमाह नारदः--

"लिखितस्स्मारितश्चैव यदृच्छाभिज्ञ एव च ।
गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधस्स्मृतः ॥

इति । तेषां स्वरूपं--

"अर्थिना स्वयमाहूतः यो लेख्ये सन्निवेश्यते ।
स साक्षी लिखितो नाम स्मारितः पत्रकादृते ॥

इति । पत्रकादृते-- पत्रकं विहाय स्वकार्यसिद्ध्यर्थं दृष्ट्वा पुनः पुनः स्मार्यते स साक्षी स्मारित इत्यर्थः, यदृच्छयागतस्साक्षी क्रियते यः स यदृच्छाभिज्ञः--

"प्रयोजनार्थमानीतः प्रसंगादागतश्च यः ।
द्वौ साक्षिणौ चालिखितौ पूर्वपक्षस्य साधकौ" ॥

स्मारितयदृच्छाभिज्ञयोः पत्रानारूढत्वेऽपि प्रसङ्गादागतत्वप्रयोजनार्थमानीतत्वाभ्यां भेद इत्यर्थः--

"अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्कुटम् ।
यश्श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यते" ॥

इति--

"साक्षिणामपि यस्साक्ष्यमुपर्युपरि भाषते ।
श्रवणाच्छ्रावणाद्वाऽपि स साक्ष्युत्तरसंज्ञितः" ॥

इति । लिखिते तु विशेषमाह नारदः--

"सुदीर्घेणापि कालेन निश्चितस्सिद्धिमाप्नुयात् ।

आत्मनैव लिखेज्ज्ञातमज्ञस्त्वन्येन लेखयेत्" ॥

यत्पुनस्तेनैवोक्तम्--

"अष्टमाद्वत्सरात्सिद्धिं स्मारितस्येह साक्षिणः ।
आपञ्चमात्तथा सिद्धिं यदृच्छोपगतस्य तु ॥
आतृतीयात्तथा वर्षात् सिद्धिं गूढस्य साक्षिणः ।
आ च संवत्सरात्सिद्धिं वदन्त्युत्तरसाक्षिणः" ॥

इति । तत्तु न नियमार्थम् । अत एवाह स एव--

"अथ वा कायनियमो न दृष्टस्साक्षिणं प्रति
स्मृत्यपेक्षं हि साक्षित्वमाहुश्शास्त्रविदो जनाः ।
यस्य नोपहता वृद्धिः स्मृतितन्त्रेषु साक्षिणः
सुदीर्घेणापि कालेन स साक्षी साक्ष्यमर्हति" ॥

इति । तत्र निर्दुष्टास्साक्षिणस्सन्ति चेन्निर्देष्टव्याः सदोषेषु साक्षिषु दूषयितव्या इत्याह बृहस्पतिः--

"साक्षिणोऽर्थिसमुद्दिष्टान् सत्सु दोषेषु दूषयेत् ।
अदुष्टान् दूषयन्वादी तत्समं दण्डमर्हति ॥

तत्समो दुष्टसाक्षिदण्डसमः । दोषास्तु विवादकाल एव वक्तव्याः नान्यत्रेथेत्याह कात्यायनः--

"लेख्यदोषास्तु ये केचित् साक्षिणां चैव ये स्मृताः ।
वादकाले तु वक्तव्या पश्चादुक्तं न दूषयेत्" ॥

न दूषयेदित्यनेन दण्डाभावोऽपि प्रतिपादितः । यत आह स एव-

"उक्तेऽर्थे साक्षिणो यस्तु दूषयेत् प्रागदूषितान् ।
न च तत्कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥

किञ्च

नावद्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्ड्यस्स्यात् साध्यार्थाच्चापि हीयते" ॥

इति । अयमर्थः-- दोषेणैव तु दूषयेत् । न तु गुणाभावेन तस्य वचनप्रामाण्यविघातकारित्वादित्यभिप्रायः । अत एव ऋणादानादौ निषिद्धेतरस्यापि साक्षित्वमभ्यनुज्ञातम् । अतो न गुणाभावोद्भावनमात्रेण ऋणादानादौ निर्दिष्टसाक्षिणामसाक्षित्वात्सिद्धिः । किन्तु दासकितवत्वादिनिषेधनिमित्तोत्थापनेनेत्यवगन्तव्यम् । साहसादौ न तावन्मात्रेण, किन्तु अज्ञानासत्यशीलत्वादिदोषोद्भावनेनेत्यवगन्तव्यम् ।

"अन्यैस्तु साक्षिभिस्साध्ये दूषणे पूर्वसाक्षिणाम् ।
अनवस्था भवेद्दोषः तेषामप्यन्यसंभवात्" ॥

एवं प्रतिवादिनां दूषणप्रतिपादनं । न प्रकटदूषणं कार्यम् । वैयर्थ्यात् । सभ्यैरेव तत्प्रसिद्धेरित्यर्थः । यदि पुनरपि प्रसिद्धं दूषणं कीर्तितं, तत्र तदसाधयतो दण्डमाह कात्यायनः--

"असाधयन् दमं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।
भाविनस्साक्षिणो वर्ज्याः साक्षिधर्मनिराकृताः" ॥

स्फुटं यथा च भवति तथा साक्षिदोषमसंभावयन् इत्यर्थः । दोषित्वेन साधिताः साक्षिणो वर्ज्याः न तु दण्ड्या इत्यभिप्रायः ।

"प्रत्यर्थिनोऽर्थिनो वाऽपि साक्षिदूषणसाधने ।
न तु साक्ष्यभियोगस्स्यात् व्यवहारान्तरं तथा" ॥

इति । प्रमाणदोषविवादनिर्णयः पूर्वव्यवहारमध्य एव कर्तव्य इत्यभिप्रायः । न च व्यवहारमध्ये व्यवहारान्तरनिर्णयस्य अनुचितत्वादयुक्तमिति वाच्यम्, प्रमाणदोषविवादनिर्णयस्य पूर्वव्यवहारशेषत्वेन तत्रैव कार्यत्वात् । पृथक्फलाभावेन व्यवहारान्तरत्वाभावाच्चेति । साक्षिणः सर्वे यस्य वादिनः प्रतिवादिनो वा साध्योक्तिं सत्यामूचुः तस्य जय इत्याह याज्ञवल्क्यः--

साक्षिफलम्.

"[१७]यस्योचुस्साक्षिणस्सत्यां प्रतिज्ञां विजयी भवेत्" ।

इति । बृहस्पतिरपि--

"यत्रादोषः प्रतिज्ञार्थस्साक्षिभिः प्रतिवर्णितः ।
स जयी स्यात्"

इति । प्रतिज्ञा-- साध्योक्तिः । यस्य पुनः प्रतिज्ञां साक्षिणः असत्यामूचुः तस्य पराजय इत्याह याज्ञवल्क्यः--

"अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः" ।

इति ।

क्वचिदनृतसाक्ष्यनुज्ञा.

 ननु याज्ञवल्कीयवचने-- "वर्णिनां हि वधो यत्र साक्ष्ये तत्रानृतं वदेत्" इति साक्षिणामनृतवचनेन वर्णिनां विजयित्वात् सत्यवचनेनैव विजयित्वमिति न नियम्यत इति प्रतीयत इति चेन्मैवं, तत्रानृतवचनस्य विहितत्वात्प्रायश्चित्ताददोष इति । न चात्र अनृतवचनं न विहितमिति वाच्यम् । उत्तरार्धे 'तत्पा वनाय निर्वाप्यश्चरुस्सारस्वतो द्विजैः" इति अनृतवचनजनितदुरितापनोदनप्रायश्चित्तस्मरणात् । नन्वेवमनृतवचनस्य विहितत्त्वाद् तत्प्रायश्चित्तमनुपपन्नमिति चेत्, उच्यते, अत्र विज्ञानयोगिनो मतं-- उत्तरार्धपूर्वार्धयोरेकवाक्यताऽङ्गीकारात् उत्तरार्धार्थानुसारेण अनृतवचनजनितदुरितनिवृत्त्यर्थं सारस्वतश्चरुः कार्यः इति । भगवत्पादमतं तु क्षामवतीष्टिवत् सारस्वतः, अयमर्थः-- तत्पावनाय शुद्ध्यर्थं-- दोषिणां संरक्षणार्थं; एतत्पर्यन्तमेकं वाक्यं, यत्र वर्णिनां वधस्तत्र तत्पावनाय साक्ष्यमनृतं वदेत् अतो नैमित्तिकक्रतुरिति सारस्वतश्चरुर्नैमित्तिक इति । अत्र नैमित्तिकत्वे तत्पावनाय इति पदं नान्वीयादिति अन्यथेति पदमध्याहृत्य व्याचष्टे टीकाकारः, अयमर्थः-- सत्यमेव वदित्वा सारस्वतश्चरुर्नैमित्तिकः । न च सत्यवचनानन्तरं प्राणिव्यापादे जाते तदपनोदनाय सारस्वतश्चरुः मायश्चित्तमात्रमिति वाच्यम् । अनृतवचनस्य विहितत्वात्, विहिताननुष्ठान एव प्रायश्चित्तस्मरणात् । अत्र केचिदेतद्वचनमन्यथा पठित्वा व्याचक्षते-- तत्वावनाय निर्वाप्यत इति । तत्वावनाय-- सत्यसंरक्षणाय । अस्मिन्ननृतेऽपि सारस्वतश्चरुर्नैमित्तिक एव, तत्वावनायेत्यस्यापमर्थः-- तत्वस्य अवनं रक्षणम् । तादृशे समये सत्यमनृतवचनेनैव सेत्स्यतीत्यभिप्रायः । क्रियाग्रहणमात्रे चतुर्थी । यत्र केचित् साक्षिणस्साध्योक्तिं सत्यां केचिदसत्यामूचुः तत्र मनुराह--

साक्षिद्वैविध्ये निर्णयः.

"बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
समेषु च गुणोत्कृष्टान् गुगद्वैधे द्विजोत्तमान्" ॥

नारदोऽपि--

"साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः ।
तत्साम्ये शुचयो ग्राह्याः समे तु शुचिमत्तराः" ॥
तत्साम्यात् साक्षिसाम्ये च विवादो यत्र दृश्यते ।
सूक्ष्मत्वात् साध्यधर्मस्य साध्यं व्यावर्तयेत्ततः" ॥

इति ।

साक्षिभिरन्यूनाधिकमेव वक्तव्यम्.

पृष्टादूनाधिकं न कर्तव्यमिति कात्यायन आह--

"निर्दिष्टेष्वर्थजातेषु साक्षी चेत् साक्ष्य आगते ।
न ब्रूयादक्षरसमं न तन्निगदितं भवेत्" ॥

 साक्ष्ये-- साक्ष्यवादे । आगते प्राप्ते । अक्षरसमं अक्षरानुरूपं पृष्टार्थमिति यावत् । पृष्टार्थासमर्थकमपार्थमित्यर्थः । एवं पृष्टादूनाधिकं च न वक्तव्यम् ।

"ऊनमभ्यधिकं वाऽर्थं विब्रूयुर्यत्र साक्षिणः ।
तदप्ययुक्तं विज्ञेयं एष साक्षिविनिश्चयः" ॥

कूटसाक्षिचिह्नानि.

विष्णुः-

 स्वभावाद्विकृतौ मुखवर्णविनाशे च असंबद्धप्रलापे च कूटसाक्षिणं विन्द्यात्, इति । स्वभावविकृतिमाह याज्ञवल्क्यः--

"देशाद्देशान्तरं याति सृक्किणी परिलेढि च ।
ललाटं स्विद्यते यस्य मुखं वैवर्ण्यमेति च" ॥
अभियोगेऽथ साक्ष्ये वा दुष्टस्स परिकीर्तितः ॥

इति ॥

जानतोऽकथयितुः कूटसाक्षिदण्डः

"न ददाति हि यस्साक्ष्यं जानन्नपि नराधमः ।
स कूटसाक्षिणां पापैः तुल्यो दण्डेन चैव हि" ॥

 यो विप्रतिपद्यमानमर्थं जानन्नपि दौराम्यात् साक्ष्यं नाङ्गीकरोति "नाहमत्र साक्षी" इति असौ कूटसाक्षिवद्दण्ड्यः तद्वत्पापीति चार्थः । बृहस्पतिस्तु विशेषमाह--

"आहूतो यस्तु नागच्छेत् साक्षी रोगविवर्जितः ।
ऋणं दमं च दाप्यस्स्यात् त्रिपक्षात्परतस्तु सः" ॥

तथा च मनुः--

"त्रिपक्षादब्रुवन्साक्ष्यं ऋणादिषु नरो यदि ।
तदृणं प्राप्नुयात्सर्वं दशबन्धं च सर्वतः" ॥

अगदः-- स्वस्थः । दशबन्धशब्देन दशमोंऽश उच्यते । स तु दण्डो राजग्राह्यः । यत्तु--

"न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।
महान् दोषो भवेत्काले धर्मव्यावृत्तिलक्षणः" ॥

इति तत् स्पष्टसाक्षिविषयम् । अत आह कात्यायनः--

"सम्यक्क्रियापरिज्ञाने ज्ञेयः कालस्तु साक्षिणाम् ।
सन्दिग्धं पत्रसाक्ष्यं तु स्पष्टं सद्यो विवादयेत्" ॥

इति । याज्ञवल्क्यस्तु कूटसाक्षिणो विशेषमाह--

कूटसाक्षिदण्डः.

"पृथक् पृथक् दण्डनीयाः कूटकृत्साक्षिणस्तथा ।
विवादद्विगुणं दण्डं विवास्यो ब्राह्मणस्स्मृतः" ॥

इति । अस्यार्थः-- ये धनादानादिना कूटं कूटसाक्ष्यं कुर्वन्तीति-- कूटकृतस्साक्षिणो मिथ्यावादिन इति यावत्; ते राज्ञा पृथग्दण्डनीयाः । ब्राह्मणस्तु निर्वास्यः-- राष्ट्रान्निर्वास्यः न दण्ड्यः । एतच्च लोभादिकारणविशेषपीरज्ञाने अनभ्यासे च बोद्धव्यम् । यथाऽऽह मनुः--

"लोभात्सहस्रं दण्ड्यस्स्यात् मोहात्पूर्वं तु साहसम् ।
भयाद्वै मध्यमो दण्डो[१८] मैत्र्या पूर्वं चतुर्गुणम् ॥
कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम् ।
अज्ञानात् द्विशते पूर्णे बालिश्याच्छतमेव तु" ॥

एतद्दण्डस्य कालः.

 अत्र लोभोऽर्थलिप्सा । मोहो विपर्ययज्ञानम् । भयं संत्रासः । मैत्री स्नेहातिशयः । कामः स्त्रीव्यतिकराभिलाषः । क्रोधोऽमर्षः । अज्ञानमस्फुटज्ञानम् । वालिश्यं ज्ञानानुत्पादः । एतत्सर्वं सप्ताहादिसाक्ष्यविहितकालप्रतीक्षणानन्तरं वेदितव्यम् । यदि साक्षिद्वैधे गुणवत्तमानां समसङ्ख्याकानामपि अर्थिप्रत्यर्थिनोरन्यतरोऽन्यतरस्य साक्षिणो वचनं नानुमन्यते तत्र वादानन्तरं सप्ताहद्विसप्ताहत्रिसप्ताहषट्चत्वारिंशद्दिवसावधिराजकदैविकप्रतीक्षणं कार्यम् । द्रव्यतारतम्यादित्याह निबन्धनकारः । अत्र कात्यायनः--

"सप्ताहात्तु प्रतीयेत यत्र साक्ष्यनृतं वदेत् ।
रोगोऽग्निर्ज्ञातिमरणं द्विसप्ताहात्त्रिसप्त वा ॥
षट्चत्वारिंशके वाऽपि द्रव्यजात्यादिभेदनः" ।

 द्रव्यभेदः-- द्रव्यतारतम्यम् । जातिभेदः-- जातितारतम्यमित्यर्थः । तथा च विष्णुः--

"शतनाशे षट्चत्वारिंशद्दिवसप्रतीक्षणम् ।
द्विशतनाशे त्रिसप्ताहप्रतीक्षणम् ॥
पञ्चशतनाशे द्विसप्ताहप्रतीक्षणम् ।
सहस्रनाशे सप्ताहप्रतीक्षणम्" ॥

इति ।

अत्र पणविवेकः.

 अथ शतादिसङ्ख्यासङ्ख्येयत्वं ताम्रिकपणानामित्याह भारुचिः । सुवर्णमाषाणामित्याह वरदराजः । दण्डविधाने 'सहस्रं ब्राह्मणो दण्ड्यः' इत्यादौ सहस्रसङ्ख्यासङ्ख्येयत्वं ताम्रिकपणानामित्याह विज्ञानयोगी । भारुचिस्तु-- सहस्रसङ्ख्यासङ्ख्येयत्वं सुवर्णमाषाणामित्याह । अत्र देशतो व्यवस्था ।

कूटसाक्षिदण्डविवेकः.

कौटसाक्ष्यं तु कुर्वाणान् त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥

इति । एतच्चाभ्यासविषयं । कुर्वाणान् इति वर्तमाननिर्देशात् । क्षत्रियादीन् त्रीन् वर्णान् दण्डयित्वा प्रवासयेत्-- मारयेत् ।प्रवासशब्दस्यार्थशास्त्रे मारणे प्रयोगात् । अस्य काण्डस्यार्थशास्त्ररूपत्वात् । तत्रापि प्रवासनं ओष्ठच्छेदनं जिह्वाच्छेदनं प्राणवियोजनं च कौटसाक्ष्यविषयानुसारेण द्रष्टव्यं । ब्राह्मणं तु दण्डयित्वा विवासयेत्-- स्वराष्ट्रान्निर्वासयेत् ।  यद्वा विवासनं-- वाससो राहित्यं नग्नीकरणमित्यर्थः । अथ वा वसत्यस्मिन्निति वासो-- गृहं; विवासयेत्-- भग्नगृहं कुर्यादिति यावत् । ब्राह्मणस्यापि लोभादिविशेषापरिज्ञाने अनभ्यासे च तत्र तत्रोक्तार्थदण्ड एव । अभ्यासे त्वर्थदण्डो विवासनं च । न च ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यं, अर्थदण्डाभावे शारीरदण्डे च निषिद्धे स्वल्पेऽप्यपराधे नग्नीकरणं गृहभङ्गोऽङ्कनं विवासनं दण्डाभावो वा प्रसज्येरन् ।

महत्यपराधे ब्राह्मणस्यापि धनदण्डश्शारीरदण्डश्चास्ति.

चतुणार्मपि वर्णानां प्रायश्चित्तमकुर्वताम् ।
शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥

इति स्मरणाच्च--

सहस्रं ब्राह्मणो दड्यः गुप्तां विप्रां बलाद्व्रजन् ।

इति स्मरणाच्च । तत्रापि जातिद्रव्यानुबन्धाद्यपेक्षया विवासनं नग्नीकरणं गृहभङ्गो देशान्निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणविशेषापरिज्ञाने अनभ्यासे चाल्पविषये कौटसाक्ष्ये ब्राह्मणस्यापि क्षत्रियादिवदर्थदण्ड एव । महाविषये तु देशान्निर्वासनमेव । अभ्यासे सर्वेषां नग्नीकरणं गृहभङ्गः देशान्निर्वासनं धनदण्डश्च मिळिताश्च । यदप्युक्तं मनुना--

राष्ट्रादेनं बहिष्कुर्यात् समग्रधनमक्षतम् ।

इति । तत्प्रकृतसाहसविषयं । न सर्वसाहसविषयं ।

शारीरदण्डो ब्राह्मणस्य न कदाचिद्भवति ।
न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ॥

इति । सामान्येन मनुवचनाच्च--

ब्राह्मणस्य वधाद्भूयानधर्मो विद्यते भुवि ।
तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥

इति--

इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥

इति याज्ञवल्क्यवचनाच्च । अतश्चतुणार्मपि वर्णानामित्यत्र चतुर्णां वर्णानां धनदण्डः । शारीरसहितधनदण्डस्तु ब्राह्मणव्यतिरिक्तत्रैवर्णिकानामवगन्तव्यः ।

 ननु द्वितीयकाण्डोऽर्थशास्त्रमित्युक्तं । अर्थशास्त्रे आततायिनो ब्राह्मणस्य हननं विधीयते--

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवाविचारयन् ।
आततायिवधे दोषो हन्तुर्भवति कश्चन ।
प्रच्छन्नं वा प्रकाशं वा मन्युस्तं मन्युमृच्छति ॥

तथा--

आततायिनमायान्तमपि वेदान्तगं रणे ।
जिघांसन्तं जघांसीयान्न तेन भ्रूणहा भवेत् ।

इति । भ्रूणो-- ब्राह्मणः । आततायित्वं कूटसाक्षिणोऽप्यस्ति । यथाऽऽह विष्णुः--

 परदाराभिमर्शकः परक्षेत्रापहारी उद्यतासिः अग्निदो गरदः परद्रव्यापहारी महाभियोगेषु कूटसाक्षी मिथ्यामहाभियोगी चेत्याततायिनः इति,। अत्र पर शब्देन ब्राह्मण उच्यते । ब्राह्मण दाराभिमर्शी ब्राह्मणक्षेत्रापहारी ब्राह्मणधनापहारी ब्राह्मणे महापातकाभियोक्ता शस्त्रपाणिः ब्राह्मणे ब्राह्मणे महाभियोगे कूटसाक्षी ब्रह्मगृहेष्वग्निदः ब्राह्मणे गरदश्चेति । अत्र गरदत्वं औषध्यादिना निवृत्ते विषे । अन्यथा महापातकित्वप्रसङ्गात् ॥

उद्यतासिविषाग्निश्च [१९]शापोद्यतकरस्तथा ।
आथर्वणेन हन्ता च पिशुनश्चापि राजनि ॥
भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।
एवमाद्यान्विजानीयात्सर्वानेवाततायिनः ॥

इति । अतश्च--

अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारापहर्ता च षडेते आततायिनः ॥

इति उपलक्षणं वेदितव्यम् ।

धर्मशास्त्रार्थशास्त्रयोर्बलाबलविवेचना ।

 अत्र केचिदेवं परिहारमाहुः-- धर्मशास्त्रान्तर्गतमेव अर्थशास्त्रमिह विवक्षितं, नोशनसादिनिर्मितमर्थशास्त्रम् । अतश्च धर्मशास्त्रविरोधे अर्थशास्त्रं दुर्बलम् । यथोक्तं याज्ञवल्क्येन--

अर्थशास्त्रात्तु बलवत् धर्मशास्त्रमिति स्थितिः ।

इति । यद्यपि समानकर्तृकतया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपतो विशेषो नास्ति, तथाऽपि प्रमेयस्य धर्मप्राधान्यात् अर्थस्याप्राधान्यात् धर्मशास्त्रं बलवदित्यभिप्रायः । अतश्च धर्मशास्त्रार्थशास्त्रयोर्विरोधे अर्थशास्त्रस्य बाध एव, न विषयव्यवस्था नापि विकल्प इति । तदयुक्तम्-- अनयोरेकविषय [२०]त्वसम्भवेन विरोधाभावान्न बलाबलचिन्ताऽवतरति । तथाहि--

शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते ।

इत्युपक्रम्य--

आत्मना स्वपरित्राणे दक्षिणानां च सङ्गरे ।
स्त्रीवित्तादिविपत्तौ च घ्नन् धर्मेण न दूष्यते ॥

इत्यात्मनो रक्षणे दक्षिणादीनां यज्ञोपकरणानां च युद्धे च स्त्रीब्राह्मणहिंसायां च आततायिनमकूटशास्त्रेण घ्नन् न दण्डभागित्युक्त्वा तस्य अर्थवादार्थमिदमुच्यते-- 'गुरुं वा बालवृद्धौ वा' इत्यादि । गुर्वादीनत्यन्तावध्यानप्याततायिनो हन्यात्किमुतान्यानिति वाशब्दग्रहणात् 'अपि वेदान्तपारगम्, इत्यत्राप्यपिशब्दश्रवणान्न गुर्वादीनां वध्यत्वप्रतीतिः । तथा च सुमन्तुः--

महत्यपराधेऽपि ब्राह्मणस्य शरीरदण्डाभावः ।

आततायिवधे न दोषोऽन्यत्र गोब्राह्मणेभ्यः ।

इति । यत्तु भवदेवेनोक्तं-- आततायिवधे दोषो नेत्यन्वयः । गोशब्देन गोः शृङ्गस्थानं ब्राह्मणशब्देन ब्राह्मणरूपवेदवाक्यमित्युक्तं, तत्तु सकलस्मृतिविरोधात्क्लिष्टकल्पनया हेयम् । यत्त्वपरार्केणोक्तं--

उद्यतासिं च विषदं शापोद्यतकरं तथा ॥

इत्याततायिलक्षणे उद्यतासि [२१]शापोद्यतकरपदद्वयसामर्थ्याद्वधे व्याप्रियमाणा ब्राह्मणा अप्याततायिनो वध्या इति तत्सकलविद्वदसम्मतत्वाद्धेयम् ।

आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् ।
न हिंस्याद्ब्राह्मणं गां च सर्वांश्चैव तपस्विनः ॥

इति मनुवचनाच्च ब्राह्मणवधे दोषस्स्मर्यते । अतश्चेदं वचनं ’ब्राह्मणो न हन्तव्यः' इति सामान्यशास्त्रेण निषेधस्य सिद्धत्वादाततायिनां हिंसाप्रतिषेधेनार्थवदिति ।

नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥

इति वचनं ब्राह्मणव्यतिरिक्तविषयमेव । ब्राह्मणस्य कूटसाक्ष्ये यथार्हं देशान्निष्कासनं ग्रामान्निष्कासनं नग्नीकरणमङ्कनं गृहभङ्गोऽर्थदण्डश्च कार्याः ॥ कदाचिदपि ब्राह्मणस्य शारीरदण्डो नास्तीति सर्वस्मृतिसिद्धमित्यवगन्तव्यमित्यलं [२२]विस्तरेण ।

साक्ष्यनुयोगप्रकारः.

साक्ष्यानुयोगप्रकारमाह मनुः--

देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेन्नृपो द्विजान् ।
उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिश्शुचीन् ॥

नारदस्तु--

आहूय साक्षिणः पृच्छेत् नियम्य शपथैर्भृशम् ।
समस्तान्विदिताचारान् विज्ञातार्थान् पृथक्पृथक् ॥

भयावहैश्शपथैः सत्यनिष्ठान् कृत्वा प्रत्येकं पृच्छेदित्यर्थः । शपथास्तेनैव दर्शिताः ॥

वर्णभेदेन सत्ये वस्तुभेदः.

सत्येन शापयेद्विप्रं क्षत्त्रियं वाहनायुधैः ।

गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥

इति । अतश्च द्विजानिति द्विजग्रहणं साक्षिमात्रोपलक्षक[२३]मिति मन्तव्यं, शूद्रं सर्वैस्तु पातकैरिति शूद्रस्य शापविधानात् ॥ अत्र मनुना विशेषस्स्मृतः--

ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् ।

इति । वैश्यप्रश्ने विशेषानुक्तेः गोबीजकाञ्चनैर्वियोगः स्याद्यद्यन्यथा ब्रूयादिति शूद्रे तु [२४]प्रश्नवाक्यप्रकारो मनुना प्रपञ्चितः--

ब्रह्मघ्ना ये स्मृताश्चौरा ये च स्त्रीबालघातिनः ।
मित्रद्रुहः कृतघ्नाश्च ते ते स्युर्वदतो मृषा ॥
जन्मप्रभृति यत्किञ्चित् पुण्यं भद्र त्वया कृतम् ।
तत्ते सर्वं शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा ॥
यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः ।
तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥
नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः ।
[२५]अधश्शत्रुगृहं गच्छेत् यत्साक्ष्यमनृतं वदेत् ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदेत् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः ॥
एतान् दोषानवेक्ष्य त्वं सर्वाननृतभाषणे ।
यथाश्रुतं यथादृष्टं सत्यमेवाञ्जसा वदेः ॥

कुरून् कुरुक्षेत्रम् । अञ्जसा शुद्धेन हृदयेन । जातानजाता निति स्वकुल इति शेषः । [२६]अयं च शूद्रप्रश्ने विधिरनापदि हीनवृत्त्युपजीविनां द्विजानामपि भवति, तेषामल्पशपथेन नियन्तुमशक्यत्वात् । अत एव मनुः--

[२७]येऽनुपाताः स्वकर्मभ्यः परपिण्डोपजीविनः ।
द्विजत्वमभिकाङ्क्षन्ते तांश्च शूद्रवदाचरेत् ॥

साक्ष्ये इति शेषः । तत्र कात्यायनः--

सभान्तस्स्थैस्तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः ।
सर्वसाक्ष्येष्वयं धर्मोऽन्यत्र स्यात् स्थावरेषु तु ॥

अन्यत्र [२८]स्थावरेऽपीत्यर्थः ।

वधे चेत्प्राणिनां साक्ष्यं वादयेच्छवसन्निधौ ।
तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् ॥

चिह्नस्य शृङ्गादेः ।

साक्ष्यवादप्रकारः.

साक्ष्यवादप्रकारमाह बृहस्पतिः--

विहायोपानदुष्णीषं दक्षिणं बाहुमुद्धरेत् ।
हिरण्यगोशकृद्दर्भान् समादाय ऋतं वदेत् ॥

दक्षिणं पाणिमुद्धरेत् प्रावृतं वस्त्रं यज्ञोपवीतवत्कुर्यादित्यर्थः ।

तथाच श्रुतिः--

'दक्षिणं बाहुमुद्धरते वधत्ते सव्यमिति यज्ञोपवीतम्' ।

इति । तथाच वसिष्ठः--

प्राङ्मुखो यस्स्थितस्साक्षी शपथैश्शापितस्स्वकैः ।
हिरण्यगेशकृद्दर्भानुपस्पृश्य वदेदृतम् ॥

इति । ऋतं सत्यम् । स्वकान् शपथानाह मनुः--

सत्येन पूयते साक्षी धर्मस्सत्येन वर्धते ।
तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥

इति ।

वदन् साक्ष्यनृतं पाशैर्बध्यते वारुणैर्नरः ।
विवशं शतमाजाति तस्मात्साक्षी वदेदृतम् ॥
आत्मैव ह्यात्मनस्साक्षी गतिरात्मा तथाऽऽत्मनः ।
मावमंस्थास्त्वमात्मानं नृणां साक्षिणमुत्तमम् ॥

शतमाजाति शतजन्मपर्यन्तमित्यर्थः । विवशमिति क्रियाविशेषणम् । नारदोऽपि--

कुबेरादित्यवरुणशक्रवैवस्वतादयः ।
पश्यन्ति लोकपालाश्च नित्यं दिव्येन चक्षुषा ॥

बृहस्पतिरपि--

कूटसभ्यः कूटसाक्षी ब्रह्महा च समास्स्मृताः ।
भ्रूणहा वित्तहा चैषां नाधिकस्समुदाहृतः ॥

इति । वसिष्ठोऽपि--

अथ चेदनृतं ब्रूयात्सर्वतोऽमेध्यभक्षणम् ।
मृतौ नरकमायाति तिर्यग्गच्छेदनन्तरम् ॥

अमेध्यभक्षणयुतं नरकं मृतो गच्छतीत्यर्थः ।

कूटसाक्ष्ये दोषाः.

व्यासोऽपि--

पीड्यन्ते वारुणैः पाशैः साक्षिणोऽनृतवादिनः ।
षष्टिर्वर्षसहस्राणि नरके वसतिर्ध्रुवम् ॥

तेषां वर्षशते पूर्णे पाश एकः प्रमुच्यते ।
कालेऽतीते मुक्तपाशः तिर्यग्योनिषु जायते ॥

कूटसाक्ष्यं प्रकृत्य वसिष्ठः--

सूकरो दशवर्षाणि दशवर्षाणि गार्दभः ।
श्वा चैव दशवर्षाणि भासो वर्षाणि विंशतिम् ।
कृमिकीटपतङ्गेषु चत्वारिंशत्तथैवच ॥
मृगस्तु दशवर्षाणि जायते मानवस्ततः ।
मानुष्यं तु यदाऽऽप्नोति मूकोऽन्धस्तु भवेत्तु सः ।
दारिद्र्यं तु भवेत्तस्य पुनर्जन्मनि जन्मनि ॥
बुभुक्षितश्शत्रुगृहे भिक्षते भार्यया सह ।
ज्ञात्वा त्वनृततो दोषान् ज्ञात्वा सत्ये च सद्गुणान् ॥
श्रेयस्करमिहामित्रे सत्यं साक्षी वदेदतः ॥

अत्रापिशब्दोऽध्याहर्तव्यः । अमित्रेऽपि साक्ष्ये सत्यं वदेदित्यर्थः । एवं संशोधनमेतैरेव वचनैः कार्यम् ॥

क्वचित्साक्ष्ये प्रत्यवायाभावः

क्वचिद्विषयेऽपवादमाह मनुः--

शूद्रविट्क्षत्रविप्राणां यत्रर्तोक्तौ भवेद्वधः ।
तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥

इति । तथा च याज्ञवल्क्यः--

वर्णिनां हि वधो यत्र वदेत्साक्ष्यं तथाऽनृतम् ।

इति । साक्ष्यभावेऽप्यग्निदत्वादिविवादेषूल्काहस्तादिचिह्नान्येव साक्षिकार्यं कुर्वन्तीत्याह नारदः--

उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च घातकः ।
केशाकेशिगृहीतश्च युगपत्पारदारिकः ॥

कुद्दालपाणिर्विज्ञेयः सेतुच्छेता समीपगः ।
तथा कुठारपाणिश्च वनच्छेत्ता प्रकीर्तितः ॥
प्रत्यक्षचिह्नैर्विज्ञेयो दण्डपारुष्यकृन्नरः ।
असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् ॥

इति । हारीतस्तु--

कश्चित्कृत्वाऽऽत्मनश्चिह्नं द्वेषात्परमुपद्रवेत् ।
[२९]युक्तिहेत्वर्थसम्बन्धैस्तत्र युक्तं परीक्षणम् ॥

तथा च नारदः--

यात्यचोरोऽपि चोरत्वं चोरश्चायात्यचोरताम् ।
अचोरश्चोरतां प्राप्तो माण्डव्यो व्यवहारतः ॥

अतः परीक्षणमावश्यकमित्यभिप्रायः । अयमभिसन्धिः-- अत्राक्रोशाभावविशिष्टा एव लिखितादयः प्रमाणपदवीमवगाहन्ते, नान्यथा । अत एवाह विष्णुः-- 'आसिद्धमनासिद्धमेव' इति । एतद्व्याचष्टे भारुचिः--

 आसिद्धं सर्वलिखितं भुक्तिप्रभृति [३०]अवरुद्धं आसमन्तात्सिद्धं न भवति [३१]कदापि सिद्धं न भवतीत्यर्थः ।

यत्तुनारदेनोक्तं--

वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः ।
आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥

इति । एतद्व्याख्यातं चन्द्रिकाकारेण-- सन्दिग्धार्थनिर्णय उदासीनं तन्निर्णयाय प्रवर्तितव्यमित्यादि चार्थिनो वचनमव मन्यमानं प्रत्यर्थिनं स्वयं चार्थी आसेधयेत् । राजाज्ञया व्यवहारदर्शनपर्यन्तं निरोधयेत् इति स्वरूपासेधनमुक्तं; तत्तु प्रत्यर्थिगृहीतप्रत्यर्पणीयद्रव्यद्वारा स एवासेध्यत इति स्वरूपासेधमात्रपरं वेदितव्यं । भारुचिस्तु--

वक्तव्येऽर्थे न तिष्ठन्तं उत्क्रामन्तं च तद्वचः ।
असेधयेद्विवादार्थी वादी तत्प्रतिवादिनम् ॥

सिषाधयिषितार्थविषये आसेधयेत्-- तद्गृहीतं स्वं सिषाधयिषितार्थं राजाज्ञयाऽवरोधयेत् । तदभावे [३२]तद्ग्रहीतारं तन्नाशकं वाऽ[३३]वरोधयेत् । इति मुख्यवृत्त्या द्रव्यासेधपरमिदं वचनमित्याह । अतो भारुचिव्याख्यानमेव सम्यक् । विष्णुवचनानुरोधित्वात् । नन्वेवमयुक्तं विष्णुवचनानुरोधाभावात् । तथा च विष्णुः--

 'आसेद्धुः फलमेवासेध्या' इति, मैवं । भवता वैष्णववचनतात्पर्यापरिज्ञानात् । तत्तात्पर्यं तु लिखितासेधात्फलासेधनं बलवत् । सर्वेषां फलार्थमेव प्रवृत्तेः । फलासेधाकरणे तत्पूर्वकृता लिखिता[३४]द्यासेधा अप्रयोजका एवेति तत्प्राबल्यज्ञापनार्थत्वात्त[३५]द्वचनस्य इति । तथाच गौतमसूत्रं--

'फलासेधःकौत्तिकवत्' इति ।

 तस्यार्थो विवृतो निबन्धकारेण-- अत्र द्वितीयार्थे वतिः कौत्तिकः-- कुत्ताजीविकः, यथा आसेधविषयः । एवं सर्वत्र फलमेवासेधविषय इति । यथा कौत्तिकः कुत्ताकारेण गृहीतपारिभाषिकार्थातिरिक्तोपचितद्रव्यस्वीकारदशायामासेध्यः । एवं सर्वेषु व्यवहारेषु फलस्वीकारदशायामासेधः कर्तव्य इति । फलस्वीकारदशायां फलमेवासेध्यं न स्वरूपमिति तात्पर्यम् । कौत्तिकग्रहणं तु कुत्ताविषये इतरव्यवहारवत् पूर्वकालासेधा न सन्ति । किन्तु कुत्तायां फलमेवासेधविषय इति तावन्मात्रविशेषज्ञापनार्थमित्यवगन्तव्यम् ।

आसेधाक्रोशबलाबलम्

 नन्वसिधो नाम फलस्यावरोधः । मध्यस्थजनगोचरे विवादास्पदीभूतद्रव्यनिधापनमिति यावत् । फलानुत्पत्तौ तत्स्वीकारोद्योगोपरोधः । फलनाशकरणोद्योगे स्वरूपासेधो राजाज्ञया निरोधनं-- आसेधः । आक्रोशस्तु; तादृशी न भवति । किन्तु-- फलं न भोक्तव्यं । पत्रं न लेखनीयं । साक्षिभिर्न भवितव्यं । मया सार्धं न्यायनिर्णयायागन्तव्यं । अन्यथा राजाज्ञामुल्लङ्घितवानित्याद्याकारकवाग्व्यापाररूपो न कायिकव्यवहाररूपः । अतश्च सेधादाक्रोशो दुर्बल एव । तत आसेध एव व्यवहारबीजं नाक्रोश इति चेत्, मैवं, आक्रोशासेधयोः विषयभेदो न स्वरूपभेदः । दुर्बलेनार्थिना कृतोपरोध आक्रोशपदालभिप्यः । बलवता तु कृत आसेधपदाभिधेय इति । तथाच विष्णुः--

दुर्बलप्रबलकृतवाक्रोशासेधौ[३६]

इति । अयमर्थः--

 'दुर्बलस्य बलं राजा' इति राजपुरुषैर्दुर्बलेनापि कारित आसेध आक्रोशमूलोऽपि प्रबलकृतत्वादासेध एवेति । [३७]दुर्बलेनैवाक्रोश इति लक्षणं सुष्टु, [३८]परत्रासेधादाक्रोशस्येयान्विशेषः-- आक्रोशः कालान्तरे धर्मनिर्णयानन्तरं फलगतमपि स्वत्वमाकर्ष यति । आसेधस्त्वासेधसमय एव फलमप्युपरुणद्धीति । अत्राहुः-- बलवता आसेध एव कर्तव्यो नाक्रोश इति भारुच्यादयः । अत्रा[३९]क्रोशकर्तुः निरूपणं स्फुटत्वान्न कृतं, अतश्चा[४०]सेधसद्भावे तु तदभावविशिष्टत्वरूपधर्मोपमर्दनद्वारा विशिष्टं कृत्स्नं प्रमाणमुपमृद्गात्याक्रोश इति ।

कुत्तालेखबलविचारः

 ननु लिखितादीनां प्रामाण्यमागमनिरूपणद्वारा, आगमाभावे तत्प्रामाण्यं प्रशिथिलमूलतया दृढं न भवति, आगमास्तु केषाञ्चिन्मते सप्त । तथा च स्मृतिः--

'सप्त वित्तागमा धर्म्याः'

इति । गौतमादीनां मते तु रिक्थक्रमसंविभागपरिग्रहाधिगमप्रति ग्रहनिर्वेशादयोऽष्ट वित्तागमा इति । भारद्वाजमते तु परिवृत्तेरपि वित्तागमरूपतया निगदितत्वात्तया सार्धं नव वित्तागमाः । एतेषां मध्ये कुत्ताकाराकारितपरिभाषितार्थस्यापरिगणनादागमप्रकारनिरूपणाशक्तौ कुत्तालेखस्य तदारूढसाक्षिणां च दौर्बल्यं प्राप्तं ।

[४१]अनागमेन यो भु बहून्यब्दशतान्यपि ।
चोरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥

इति स्मृतेः । आगमशून्याया भुक्तेः प्रमाणकोटिनिवेशाभावः प्रतीयते । यत्तु भोगागमयोः साम्यं बृहस्पतिवचनात्प्रतीयते; तत्तु केवलभुक्तेः दौर्बल्यज्ञापनपरतया न विरुद्धं । तथा च बृहस्पतिः--

भुक्त्या केवलया नैव भूमिसिद्धिमवाप्नुयात् ।
आगमेनापि शुद्धेन द्वाभ्यां सिद्धिमवाप्नुयात् ॥

तथा च व्यासः--

सागमो दीर्घकालश्च विच्छेदोषरवोज्झितः ।
प्रत्यर्थिसन्निधानं च पञ्चाङ्गो भोग इष्यते ॥

इति । अत्र 'पञ्चाङ्गो भोग इष्यत' इति वदन्नेकाङ्गवैकल्येऽप्यप्रामाण्यं भोगस्येति दर्शयतीत्युक्तं प्राक्, अतश्चागमनिरूपणे तदभावप्रतीतेः मूलशुद्ध्यभावात् तद्गमकप्रमाणदार्ढ्याभाव इति, अत्रोच्यते-- क्वचित्परिभाषाऽपि वित्तागम एव, यथा--

आधिः प्रणश्येद्द्विगुणे धने यदि न मोक्ष्यते ।

इत्यत्र धनद्वैगुण्यनिबन्धनपरिभाषा वित्तागममध्येऽपरिगणिताऽपि सोपाधिकं स्वत्वमवगमयतीति विज्ञानेश्वरः । चन्द्रिकाकारस्तु-- धनद्वैगुण्यपरिभाषा परिवृत्तिरूपेण तिलव्रीहिविनिमयवत् स्वत्वापदिकेत्याह । विज्ञानेश्वरमतावलम्बनेन परिभाषाया वाचिकदानान्तर्गततया स्वत्वापादकत्वमस्ति । औपाधिमकस्थलेऽप्युपाधिनिवृत्तौ स्वत्वस्य दृढत्वात् । तथाहि-- क्षेत्रादेतस्यादेतावद्धनमस्मभ्यं दीयतां अवशिष्टं गृह्यताम् । यद्वा-- एतावद्द्रव्यं गृहीत्वा तदृणं संशोध्यतां अवशिष्टं गृह्यतां इति परिभाषायामवशिष्टद्रव्ये स्वत्वनिवृत्तिः परस्वत्वापत्तिपर्यन्ता भवत्येवेति दृश्यते । अथवा भारुचिमतावलम्बनेन कुत्ताकारकारितापरिभाषावष्टम्भितमानसिकदानान्ततया स्वत्वापादकत्वं परिभाषायास्समस्ति । ननु सङ्कल्पमात्रात् स्वत्वं नोत्पद्यते किन्तु सङ्कल्पात् स्वत्वमपैति । स्वत्वोत्पत्तिस्त्वार्जनादेवेति धनार्जननयसिद्धत्वात्तद्व्याकोपो मानसिकदानान्ततया परिभाषाया स्स्वत्वहेतुत्वोक्ताविति चेत्, मैवं, यदि धनार्जननयस्स्वत्वापाय हेतुमानसिकक्रियैवेति स्यात्तदाऽयं दोषः प्रादुष्यात्, न च तथा, स्वत्वापायहेतुः क्वचित्सङ्कल्पः क्वचिन्महापातकादिरित्युक्तम् । अतश्च तस्याप्यधिकरणस्य लौकिकव्यवहारानुरोधितया स्वत्वस्यापि लौकिकत्वाच्च । यथा लोके दृष्टं तथा स्वीकर्तव्यम् । कुत्तादिव्यवहारे मनासिकी क्रियैव स्वत्वहेतुरिति संमतं लौकिकानाम् । तथा च दृश्यते-- बहुशो बहवः कायस्थाः क्षेत्रादिकं देशग्रामादिकं वा कुत्ताकारेण गृह्णन्तः पाक्षिकापचयभारसहिष्णवो दृश्यन्ते । तत्र ग्रामादिक्षेत्रादिदेशाद्युपचितपारिभाषिकद्रव्ये तेषां व्यवहाराणां स्वाम्यं विद्यत एव । स चाऽगमस्साधीयानेव । ननु कुत्ताकारेण गृहीतद्रव्ये उपचयो विद्यते चेत्तमुपचयं कुत्ताप्रदातार उत्तमपदाभिलप्यास्स्वीकुर्वन्ति परिदृश्यन्ते च, मैवं, यदि कौत्तिकस्त्वपचयभारसहिष्णुर्न भवे[४२]त्तदाऽप्युत्तमस्याप्युपचयापायसहिष्णुत्वं न स्यात् । कौत्तिकत्वप्रसिद्धिर्यास(दुग्ध)वरुद्धभोगपदानान्यथाकरणमूला । अत एवोक्तं विष्णुना--

 कौत्तिकोऽपचयभारसहिष्णुरुत्तमस्तूपचयापायसहिष्णुरिति । अत्र भारुचिः--

 कुत्तोपजीवी-- कौत्तिकः । कुत्ताप्रदातोत्तमः । कुत्तानाम--गृहक्षेत्रारामग्रामदेशादिपदार्थसमृद्धफलप्राप्त्यर्थं यस्मैकस्मैचिद्व्यवहारिणे तद्गृहादिपदार्थजातसन्दानमिति । सन्दानं नाम-- सम्यग्दानं न भवति, औपाधिकदानरूपत्वात् कुत्तायाः, अपि तु सन्दानं-- बन्धनं । उत्तमस्याप्युपचयानङ्गीकारेण कौत्तिक एव बन्धनरूपत्वात् सन्दानं । कुत्तेत्युपचर्यते । संदानं नाम-- त्यागमात्रमिति केचित्, अत्राऽयं विशेषः- यद्यनयोः कौत्तिकोत्तमयोः र्वीद्यते समयः 'उपचयश्चेन्मयोत्तमेन सोढव्यः अपचयश्चेत्त्वया कौत्तिकेन सोढव्य' इति, तदा संविदनुसरणे उपचये विद्यमानेऽपि विष्णुवचनानुसारेण पादमात्रोपचय एव स्वाम्यं कौत्तिकस्य । तथा च विष्णुः--

पादमात्रोपचये कौत्तिकस्य स्वाम्यम् ।

इति । अत्र भारुचिः--

 सोऽयमुपचयः कुत्तातः पादमात्रं चेत्तस्मिन्नेवोपचये उत्तमो मनसा इममुपचयं कौत्तिको गृह्णीत, अन्यदायनाशंयोस्स्वाम्यधीनत्वं न तु कौत्तिकस्य । पादाधिक्यएव स्वाम्यात्तस्येति स्मरति । तदा तस्मिन् पादमात्रोपचितद्रव्ये उत्तमस्य स्वत्वनिवृत्तिः परस्वत्वापत्तिपर्यन्ता भवतीति तात्पर्यमिति । अयमाशयः-- मानसिकमपि दानं त्यागात्मकं स्वत्वापादकमिति वैष्णवं मनमिति । उत्तमो मननाऽयं कौत्तिक इममुपचयं गृह्णात्विति वदता भारुचिना यावत्युपचिते द्रव्ये उत्तमस्य मानसिकयागः तावत्यपि स्वत्वं वैष्णवं पादमिति मतं; ततो न्यूनेन न भवितव्यमिति । अत्र केचिदाहुः-- अनेनैव न्यायेन कुत्तायाः अपचये विद्यमानेऽपि पादमात्रमुत्तमेन सोढव्यं । ततो न्यूनं दूरत एव, तत्राधिकमैच्छिकमिति विष्णुवचनस्य तात्पर्यार्थ इति--

इति मानुषप्रमाणनिर्णयः

अथ दिव्यप्रमाणनिरूपणम्.

 अथ दिव्यप्रमाणनिरूपणम् ।

अत्र नारदः--

यथा विधानेन सदा पञ्च दिव्यानि सर्वतः ।
ददद्राजाऽभियुक्तायं पेत्य स्वर्गेऽभिनन्दति ॥

 पञ्च दिव्यानि-- तुलाऽग्निरापो विषं कोश इति, यथाऽऽह याज्ञवल्क्यः--

तुलाग्न्यापो विषं कोशो दिव्यानाहुर्विशुद्धये ।

इति । अनेन अभियोक्तॄणामेतानि दिव्यानि भवन्तीत्यर्थादुक्तं भवति । यथाऽऽह कात्यायनः--

न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥

इति । कश्चित्-- सभापत्यादिः दिव्यविशारदाः- प्राड्विवाकादयः । अनेनार्थिप्रत्यर्थिनोरन्योन्येच्छया दिव्याङ्गीकारेणायं नियम इत्यर्थादुक्तं भवति । उक्तं च याज्ञवल्क्येन--

रुच्या वाऽन्यतरः कुर्यादितरो वर्तयेच्छिरः ॥

इति । शिरो नाम व्यवहारस्य चतुर्थः पादो जयपराजयलक्षणः । तेन च दण्डो लक्ष्यते । रुच्या-- अभियोक्त्रभियुक्तयोः परस्परानुमत्या अन्यतरः-- अभियोक्ता अभियुक्तो वा दिव्यं कुर्यात् । इतरः अभियुक्तः अभियुक्तो वा शिरः-- शारीरमर्थदण्डं वा वर्तयेत्-- अङ्गीकुर्यात् । पञ्च दिव्यानीति महाभियोगविषयं । यदाह याज्ञवल्क्यः--

 महाभियोगेष्वेतानि ।

इति । एतानि महाभियोगेष्वेव नान्यत्रेति नियम्यते ।

घटोऽग्निरुदकं चैव विषं कोशस्तथैव च ।
तण्डुलाश्चैव दिव्यानि सप्तमं तप्तमाषकम् ॥

इति । इदमपि फालधर्मयोरुपलक्षणाम् । यथाऽऽह बृहस्पतिः--

घटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः ।
षष्ठं तु तण्डुलाः प्रोक्तं सप्तमं तप्तमासकम् ॥

अष्टमं फालमित्युक्तं नवमं धर्मजं स्मृतम् ।
दिव्यान्येतानि सर्वाणि निर्दिष्टानि स्वयम्भुवा ॥

इति । नन्वल्पाभियोगेऽपि कोशोऽस्त्येव। 'कोशमल्पेऽपि दापयेत्' इति स्मरणात्, सत्यं, कोशस्य तुलादिषु पाठो न महाभियोगेष्वेवेति नियमार्थः, किन्तु सावष्टम्भाभियोगेषु प्राप्त्यर्थः, अन्यथा शङ्काभियोग एव स्यात् ॥

अवष्टभ्भाभियुक्तानां घटादीनि विनिर्दिशेत् ।
तण्डुलाश्चैव कोशश्च शङ्कास्वेव न संशयः ॥

इति स्मरणात् । शङ्कास्विति विश्वासादीनामुपलक्षणार्थं । यथाऽऽह कात्यायनः--

शङ्काविश्वाससन्धाने विभागे रिक्थिनां तथा ।
क्रियासमूहकर्त्रृत्वे कोशमेव प्रदापयेत् ॥

इति । अत्र कोशश्शिरोरहितः--

शिरस्थायिविहीनानि दिव्यानि परिवर्जयेत् ।
घटादीनि विषान्तानि कोश एकोऽशिखस्स्मृतः ॥

इति । शङ्काभियोगादिविषय इति शेषः--

 महातत्वाभियोगे तु कोशोऽपि शिरस्स्थायिविहीनो वर्ज्यः 'शीर्षकस्थेऽभियोक्तरि' इति पञ्चदिव्यशेषतया याज्ञवल्क्ये नोक्तत्वात् । महाभियोगेष्वपि राजप्राड्विवाकसभाव्यतिरिक्त सभायां घटादिदिव्यपञ्चके न शिरःकल्पनमस्ति ॥

वाग्दण्डो धिग्दमश्चैव विप्रायत्तावुभौ स्मृतौ ।
अर्थदण्डवधावुक्तौ राजायत्तावुभावपि ॥

राजप्राड्विवाकसभायामेव दण्डस्य व्यवहारशिरस्थानीयस्योक्तत्वात् । ततश्च-

वाग्दण्डो धिग्दमश्चैव विप्रायत्तावुभौ स्मृतौ ।
अर्थदण्डवधावुक्तौ राजायत्तावुभावपि ॥

राजप्राड्विवाकसभायामेव दण्ड्यस्य व्यवहारशिरस्थाननियमस्योक्तत्वात् । ततश्च--

शिरस्स्थायिविहीनानि दिव्यानि परिवर्जयेत् ।

इत्यादि वचनं राजप्राड्विवाकादिसभायामेवेति मन्तव्यं । धर्मजं तु दिव्यमल्पविषयमेव । तस्य प्रायश्चित्तादौ शङ्काभियोगे युक्तत्वात् । यथाऽऽह पितामहः--

हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ।
सन्दिग्धेष्वभिशस्तानां धर्म्याधर्म्यपरीक्षणम् ॥

एतानि च दिव्यानि शपथाश्च यथासंभवमृणाधानादिषु विवादेषु प्रयोक्तव्यानि ।

स्थावरविषये लिखितस्याभावे दिव्यावसरः.

यत्पितामहवचनम्--

स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।

इति । तदा लिखितसाध्यादिसद्भावे दिव्यानि परिवर्जयेदिति व्याख्येयम्--

 ननु विवादान्तरेष्वपि प्रमाणान्तरसंभवे दिव्यानामनवतार एव, सत्यं, ऋणादानादिषु विवादेषूक्तलक्षणसाक्ष्युपन्यासे अर्थिना कृतेऽपि प्रत्यर्थी यदि दण्डाभ्युपगमावष्टम्भेन दिव्यमवलम्बते तदा दिव्यमपि भवति, साक्षिणामतिशयदोषसंभवात् । दिव्यस्य निर्दोषत्वेन वस्तुतस्सर्वविषयत्वात् । यथाऽऽह नारदः--

तत्र सत्ये स्थिरो धर्मो व्यवहारश्च साक्षिणि ।
देवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥

इति । स्थावरेषु तु प्रत्यर्थिना दण्डावष्टम्भनेन दिव्यालम्बने कृतेऽपि सामन्तादिदुष्टप्रमाणसंभवे दिव्यं न ग्राह्यमित्येवमर्थं--

स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।

इति पितामहवचनं; नात्यन्तिकदिव्यनिराकरणार्थं, लिखितसामन्ताद्यभावे स्थावरविवादेष्वनिर्णयप्रसङ्गात् । यत्तु--

लेख्यं यत्र न विद्येत न भुक्तिर्न च साक्षिणः ।
न च दिव्यावतारोऽस्ति प्रमाणं तत्र पार्थिवः ॥

इति । दिव्यावताराभावस्य स्थावरविवादस्यैव विषयत्वात् । तत्र निर्णायकं राजाज्ञेति स्थावरविवादेष्वनिर्णयप्रसङ्गादित्युक्तिरयुक्तेति न वाच्यं । एतच्चन्द्रिकाकारविज्ञानियोगिमतभेदेन व्यवस्था पूर्वमेवोक्तेति नात्र प्रपञ्च्यते । दिव्यानां कालविशेषमाह--

दिव्यानां कालविशेषः.

पितामहः--

पूर्वाह्णेऽह्नि परीक्षा स्यात् पूर्वाह्णे च घटो भवेत् ।
मध्याह्ने तु जलं देयं धर्मतत्वमभीप्सता ॥
दिवसस्य तु पूर्वाह्णे कोशशुद्धिर्विधीयते ।
रात्रौ तु पश्चिमे यामे विषं देयं सशीतलम् ॥

इति । अनुक्तवेळाविशेषाणां तण्डुलतप्तमाषप्रभृतीनां पूर्वाह्ण एव प्रधानं परिकीर्तितमिति सामान्यनारदस्मरणात् । तथाच हारीतेन विशेषो दर्शितः--

आग्नेश्शिशिरहेमन्तौ वर्षाश्चैव प्रकीर्तिताः ।

शरद्ग्रीष्मे तु सलिलं हेमन्तशिशिरे विषम् ॥
चैत्रो मार्गशिरश्चैव वैशाखश्च तथैव च ।
एते साधारणा मासा दिव्यानामविरोधिनः ॥
कोशस्तु सर्वदा देयः तुला स्यात्सार्वकालिकी ।

दिव्यप्रतिषेधकालः

 कोशग्रहणं सर्वशपथानामुपलक्षणं । तण्डुलादीनां पुनर्विशेषेणाभिधानात्सार्वकालिकत्वं । केषां चित्कालानांप्रतिषेधः--

न शीततोये शुद्धिस्स्यान्नोष्णकालेऽग्निशोधनम् ।
न प्रावृषि विषं दद्यात्प्रवाते न तुलां तथा ॥
नापराह्णे न सन्ध्यायां न मन्याह्ने कदाचन ।

 शीतः-- शीतकालः । अथ विवादिनोर्जात्यादितो दिव्यव्यवस्थामाह बृहस्पतिः--

ऋणादिकेषु कार्येषु संविवादे परस्परम् ।
द्रव्यसंख्या(दिना)न्विता देया पुरुषापेक्षया तथा ॥

पुरुषापेक्षया-- वादिनोर्जात्यापेक्षयेत्यर्थः--

वर्णभेदेन दिव्यं

यथाऽऽह स एव--

ब्राह्मणस्य घटो देयः क्षत्रियस्य हुताशनः ।
वैश्यस्य सलिलं देयं शूद्रस्य विषमेव तु ॥
साधारणस्समस्तानां कोशः प्रोक्तो मनीषिभिः ।

इति । अनित्या चेयं व्यवस्था । यथाऽऽह कात्यायनः--

सर्वेषु सर्वदिव्यं वा विषवर्जं द्विजोत्तम ॥

इति । अत्र विशेषमाह याज्ञवल्क्यः--

तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।
अग्निर्जलं वा शूद्रस्य यवास्सप्त विषस्य वा ॥

स्त्री इति स्त्रीमात्रं; जातिवयोऽवस्थाविशेषानादरेण--

 बाल आषोडशाद्वर्षात् । तथा वृद्धः-- आशीतिकापरः । एतच्च सव्रतानां अत्यन्तार्तानां स्त्र्यादीनां वेदितव्यं । यथा पितामहः--

स व्रतानां भृशार्तानां याचितानां तपस्विनां ।
स्त्रीणां च न भवेद्दिव्यं यदि[४३] धर्मानपेक्षते ।

इति ।

स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् ।
घटकोशादिभिस्तासामन्तस्तत्वं विचारयेत् ।

इति विषसलिलव्यतिरिक्तघटकोशादिभिश्शुद्धिविधानात् । स्त्रीणामिति बालानामुपलक्षणं । सव्रतानामित्यादिसामान्येनाभिधानात् । ब्राह्मणादीनामपि न सार्वकालिकस्तुलादिनियमः--

सर्ववर्णानां कोशाच्छुद्धिः ।

सर्वेषामेव वर्णानां कोशाच्छुद्धिर्विधीयते ।
सर्वाण्येतानि सर्वेषां ब्राह्मणस्य विषं विना ॥

इति । तदयमत्र निष्कर्षः-- वर्षास्वग्निरेव सर्वेषां, हेमन्तशिशिरयोस्तु क्षत्रियादित्रयाणामग्निविषयो विकल्पः, ब्राह्मणस्य त्वग्निरेव न कदाचिद्विषं, ग्रीष्मशरदोस्तु सलिलमेव, साधारणे काले बहुदिव्यसमवाये तुलादिनियम इति ।

पुरुषविशेषे दिव्यविशेषनिषेधः

लोहकारादीनां तु विशेषमाह कात्यायनः--

न लोहशिल्पिनामग्निः सलिलं नाम्बुसेविनाम् ।
मन्त्रयोगविदां चैव विषं दद्याच्च न क्वचित् ॥
तण्डुलैर्न नियुञ्जीत व्रणिनं मुखरोगिणम् ।
कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् ॥
पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ।
मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ॥
कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ।

इति । नारदोऽपि--

महापराधे निर्धर्मे कृतघ्ने शीलकुत्सिते ।
नास्तिके दृष्टदोषे च कोशदानं विवर्जयेत् ॥

एवं च क्लीबादेरग्निः कोशश्च वर्ज्यः । यथाऽऽह नारदः--

[४४]क्लीबातुरान् सत्यहीनान् परितश्चार्दितान् नरान् ।
स्त्रीबालवृद्धांश्चान्धांश्च परीक्षेत घटे सदा ॥

नित्या चेयं व्यवस्था । सदेत्यभिधानात् । अत्र विशेषमाह स एव--

येषु वादेषु दिव्यानि प्रतिषिद्धानि यत्नतः ।
कारयेत्स्वजनैस्तानि नाभिशस्तं त्यजेन्मनुः ॥

न त्यजेत् उक्तप्रकारेणाविशोध्येति शेषः ।

द्रव्यसङ्ख्याविशेषेण दिव्यविशेषः ।

कात्यायनस्तु विशेषमाह--

सर्वद्रव्यप्रमाणं तु ज्ञात्वा दिव्येन योजयेत् ।

ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ॥

अत्र सुवर्णानां संख्यां ज्ञात्वा अपहृतद्रव्यस्य सुवर्णात्मकतया सङ्ख्यासंख्येयतां कृत्वेत्यर्थः ।

अशीतेस्तु विनाशे वै दद्यादेव हुताशनम् ।
षष्ट्या नाशे जलं देयं चत्वारिंशति(के)वै घटम् ॥
विंशद्दशविनाशे तु कोशदानं विधीयते ।
पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तण्डुलाः ॥
तदर्धार्धस्य नाशे तु [४५]पुत्रदारशिरांशि च ।
तदर्धार्धस्य नाशे तु लौकिक्यश्च क्रियास्स्मृताः ।

अत्र सर्वत्र विनाशशब्देन अपह्नवो लक्ष्यते । तस्यैव प्रमाणप्रस्तावहेतुत्वात् । चशब्देन स्मार्तशपथास्समुच्चिताः । यथाऽऽह हारीतः--

निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् ।
ऊनत्रिके तु पुष्पं स्यात् कोशदानमतः परम् ॥

अत्र निष्कशब्दो लौकिकनिष्कवचन इति चन्द्रिकाकारः; तथैवात्र व्यवहारादिति । अत्र विशेषमाह विष्णुः--

 [४६]यथार्हं समयक्रिया । राजद्रोहसाहसेषु यथाकामम् । निक्षेपस्तेयेष्वर्थपरिमा(णं)णात् सर्वेषु अर्थजातेषु मूल्यं कनकं परिकल्पयेत् । तत्र कृष्णलोने दूर्वाकरं शापयेत् । द्विकृष्णलोने तु तिलकरं । त्रिकृष्णलोने रजतकरं । चतुष्कृष्णलोने सुवर्णकरं । पञ्चकृष्णलोने[४७] सीरोद्धृतमहीकरं । सुवर्णार्धोने कोशो देयश्शूद्रस्य । ततः परं यथार्हं घटाग्न्यम्बुविषाणामन्यतमं, द्विगुणार्धे यथाऽहिता समयक्रिया वैश्यस्य [४८]त्रिगुणार्थे राजन्यस्य । चतुर्गु(णे)णार्थे ब्राह्मणस्य । प्राग्दृष्टदोषब्राह्मणं दिव्यानामन्यतममेव स्वल्पेऽप्यर्थेऽपि दाप(कार)येत् । सुविदितसच्चरित्रं न महत्यर्थेऽपि इति । एतद्विष्णुवचनं कृत्स्नशः सर्वस्मृत्यनुरोधेन व्याख्यास्यते । समयक्रिया-- लौकिकक्रिया । सीरोद्धृतमहीकरं-- लाङ्गलोद्धृतलोष्टकरमित्यर्थः । अत्र ऊनग्रहणमधिके शापनिवृत्त्यर्थं । अत्र विशेषमाह मनुः--

एषा सङ्ख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणोत्तमानां तु सर्ववर्णेष्ययं विधिः ॥

इति । एषां सङ्ख्याकृष्णलं तु व्यावहारिकनिष्कस्य विंशतितमो भागः, मतान्तरे तु पञ्चकृष्णलाः पलं, तत्र लौकिकव्यवहारे मानचतुष्टयं कृष्णलमित्युच्यते, तण्डुलपरिमितमानमिति प्रसिद्धम् । मानवयाज्ञवल्क्ययोश्शास्त्रयोः काकणिकद्वयन्यूनमानसप्तकं कृष्णलमित्युच्यते । वैष्णवे धर्मशास्त्रे काकणिकत्रयन्यूनं मानवकृष्णलमित्युच्यते । एवं त्रिविधेषु कृष्णलेषु सत्सु वैष्णवधर्मशास्त्रोक्तकृष्णलमेवाश्रयितुमुचितमिति । काकिणिकत्रयं न्यूनमानषट्कं कृष्णलमेवात्र स्वत आश्रियते, मानवकृष्णलं तु कर्तृगुणादिभिराश्रियते । तत्र यावताऽपहृतद्रव्येण कृष्णलपूर्तिः । तत्कृष्णलापहारे उपोषितस्स्नात आर्द्रपटः शूद्रो देवब्राह्मणसन्निधौ दूर्वाकरश्शपथं कुर्यात् । एवंभूतं द्वितीयकृष्णलादारभ्य आतृतीयकृष्णलाच्छूद्रः तिलकरः शपथं कुर्यात् तृतीयकृष्णलादारभ्य आचतुर्थाद्रजतपाणिः शपथं कुर्यात् । कृष्णलचतुष्टयादारभ्यापञ्चमाच्छूद्रो हिरण्यपाणिः शपथं कुर्यात् । कृष्णलपञ्चकादारभ्याषष्ठाच्छूद्रो लाङ्गलोद्धृतलोष्टकरः शपथं कुर्यात् । षष्ठकृष्णलादारभ्य दशमानानां दशकादर्वाक्छूद्रो निकृष्टश्चेत्पुत्रेण भार्यया वा शपथं कुर्यात् । सच्छूद्रश्चेदस्मिन्नेवार्थे सर्वैः पातकैः शपथं कुर्यात् । यद्यप्यत्र--

शूद्रं सर्वैस्तु पातकैः ॥

पुत्रदारानवाप्यैनं शिरांसि स्पर्शयेत्पृथक् ।

इति । द्रव्यप्रमाणविशेषो नोक्तः; तथाऽप्यौचित्येन कृष्णलपञ्चकपरिसमाप्तेरारभ्य दशमानपणादर्वागेतौ भवितुमर्हतः । तथाच बृहस्पतिना-- विषादीनि धर्मजान्तानि दिव्यान्युक्त्वोक्तं--

सत्यं वाहनशास्त्राणि गोबीजकनकानि च ।
देवब्राह्मणपादांश्च पुत्रदारशिरांसि च ॥
एते तु शपथाः प्रोक्ताः सत्येर्थे सुकरास्सदा ।

इति । एवमेतेषां धर्मजं प्रत्यल्पार्थविषयत्वात् प्रत्ययस्वरूपपरामर्शनेनैव सीरोद्धृ(शिरोधृ)तमहीं प्रति गुर्वर्थविषयत्वावगमात् । पणदशकादर्वाक् कृष्णलपञ्चकादूर्ध्वं एतानि भवन्तीत्युक्तं । पणानां दशकादारभ्य पञ्चदशकादर्वाक् शूद्रस्य धर्मशोधनं भवति । अस्मिन्नेवार्थे हलोपजीविनां कृषिकाणां फालं दातव्यमिति । तथाच बृहस्पतिः--

शते हृतेऽपह्नुते च दातव्यं धर्मशोधनम् ।
गोचारस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ॥

इति । मानानां शतेऽपह्नुते च शूद्रस्य धर्मशोधनं भवति, मानशतस्य दशपणात्मकत्वात् । पणदशकादारभ्य पणपञ्चदशकादर्वाग्धर्मप्रत्ययो भवतीत्यर्थः । अस्मिन्नेवार्थे गोचारस्य फालं गोचारस्य-- कृषीवलस्य शूद्रस्येत्यर्थः । "शूद्रस्य फालं दातव्यं," इति गौतमस्मरणात् । पञ्चदशपणादारभ्य त्रिंशत्पणादर्वाक् शूद्रस्य कोशदानम् । त्रिंशत्पणादारभ्य चत्वारिंशत्पणादर्वाक् शूद्रस्य तण्डुलभक्षणं भवति । चत्वारिंशत्पणादारभ्य पञ्चाशत्पणादवार्क् शूद्रस्य तप्तमाषा भवन्ति । तथाच बृहस्पतिः--

चतुश्शताभियोगे तु दातव्यस्तप्तमापकः ।
त्रिंशतस्तण्डुला देयाः कोशश्चैव तदर्धके ॥

चतुश्शताभियोगे-- शतचतुष्टयमानसुवर्णीविषयाभियोगे इत्यर्थः । तत्र तप्तमाषो दातव्यः । तेषां चत्वारिंशत्पणात्मकत्वात् । चत्वारिंशत्पणाभियोगे शूद्रस्य तप्तमाषो दातव्यः इति यावत् ॥ त्रिशते तण्डुला देया इत्यत्रापि शतत्रयमानसुवर्णे त्रिंशत्पणात्मके शूद्रस्य तण्डुला देया इति । तथा-- "कोशश्चैव तदर्धके" इति पञ्चदशपणात्मके पञ्चाशदधिकशतमानसुवर्णे शूद्रस्य कोशो देय इति । तथा पञ्चाशत्पणादारभ्य सप्ताधिकषष्टिपणादर्वाक् शूद्रस्य तुलाधारणं भवति । सप्ताधिकषष्टिपणादारभ्य पञ्चाधिकसप्ततिपणादर्वाक् शूद्रस्य जलप्रत्ययो भवति । पञ्चाधिकसप्ततिपणादारभ्य शतपणादर्वाक् शूद्रस्य परशुर्भवति । शतपणादारभ्य शूद्रस्य विषभक्षणमेव । तथा च बृहस्पतिः--

विषं सहस्रेऽपहृते पादोने तु हुताशनः ।
त्रिपादो (भागो)ने च सलिलं अर्धे देयो घटस्सदा ॥

पणशतात्मकसहस्रमानसुवर्णे शूद्रस्य विषभक्षणं भवति । मानसहस्रचतुर्भागहीने पञ्चसप्ततिपणात्मके शतसप्तमाने शूद्रस्य परशुधारणं । तथा सहस्रमानसुवर्णस्य तृतीयभागहीने सप्त षष्टिपणे शूद्रस्य जलप्रत्ययो भवति । पञ्चाशत्पणात्मके सहस्रमानार्धे शूद्रस्य तुलाधिरोहणं भवतीत्यर्थः ।

 ननु विषं सहस्र इत्यादौ सहस्रादिसंख्यानां संख्येयत्वेन तण्डुलतुलितमानसुवर्णमेव ग्राह्यमिति कथमवसीयते । उच्यते--

सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेतुं प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तथा दिव्यं प्रयोजयेत् ॥
शते विषं तु पादोने दत्तभुक्ततृतीयके ।
आपस्त्रिभागहीने तु शतार्धे तु तुला स्मृता ॥
कोशदानं तदर्धे वा दशपञ्चकसप्तसु ।
तदर्धे तण्डुला ज्ञेयास्तदर्धे तप्तमाषकम् ॥

इति कात्यायनः । तथाच--

ज्ञात्वा संख्यां सुवर्णस्य शतमाने विषं स्मृतम् ।
अशीतेस्तु विनाशे तु हुतभुक्प्रत्ययस्स्मृतः ॥

हुतभुक्-- परशुः ।

षष्ठ्या नाशे जलं देयं स्याच्चत्वारिंशके घटः ।
त्रिंशद्विनाशे वा कोशदानं तत्र बृहस्पतिः ॥
पञ्चार्धैकस्य वा नाशे तदर्धस्य तु तण्डुलाः ।

इति वृद्धमनुः । अनयोः कात्यायनवृद्धमनुवचनयोः शतनाशे विषमुक्तं । बृहस्पतिवचने तु सहस्रनाशे विषयुक्तमिति; अनेन ताभ्यां महान्विरोधोऽस्तीति प्रतीयते । तद्विरोधपरिहारार्थं भूयसांन्यायेन वचनद्वयानुसारेण बृहस्पतिवचनं योजनीयं । तथा च सति धर्मशास्त्रेषु दण्डविधानादौ संख्यादिमात्रे निर्दिष्टे पणानां व्यवहारार्थतया क्लृप्तत्वात्संख्येयतया प्रायेण पणा एव तत्र गृह्यन्त इति इहापि कात्यायनवृद्धमनुवचनगतशतादिसंख्यानां संख्येयत्वेन पणा एव गृह्यन्ते । एवंच बृहस्पतिवचनगतसहस्रसङ्ख्यादीनां संख्येयतया तण्डुलतुलितमानसुवर्णे गृहीते "मानस्तण्डुलमात्रं स्यात् दशमानः पणः स्मृत" इत्यादिवचनदर्शनाच्छतसहस्रयोरविरोधः । यदपि याज्ञवल्क्यवचनम्--

नासहस्राद्धरेत्फालं न विषं न तुलां तथा ।

अत्र सहस्रशब्दः पादोनार्धोनयोरुपलक्षणार्थ इति न विरोधः । तत्र फालशब्दः परशुपरः । मुख्यफालशब्दस्याल्पार्थविषयत्वस्य दर्शितत्वात् । यत्त्वत्र वृद्धमनुनोक्तं--

अशीतेस्तु विनाशे तु हुतभुक्प्रत्ययस्स्मृतः ।

यच्च कात्यायनेनोक्तं--

शते विषं तु पादोने हुतभुक्तत्र दीयते ॥
आपस्त्रिभागहीने तु शतार्धे तु तुला स्मृता ।

इति । एताभ्यां वचनाभ्यां एवं प्रतीयते-- पञ्चसप्तत्या आरभ्य अशीतेरर्वागग्निः उदकं च प्राप्तं; एवं षष्ट्या आरभ्य सप्तषष्टिप्रदेशादर्वाक् जलघटप्राप्तौ पुत्रसहितोत्कृष्टस्य पुरुषस्य लघुप्रत्ययो भवति । अपुत्रस्य गुरुप्रत्ययो भवतीति व्यवस्थामाह वरदराजः ।

तदर्धे तण्डुला देयास्तदर्धे तप्तमाषकम् ।

इति अल्पविषये तप्तमाषविधानं चौर्यादिशङ्काविषयमित्यविरोधः

दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्प्य(ल्पयेत्) ते ।
स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ॥

इति कात्यायनवचनात् । एवमत्र सिद्धान्तितार्थस्य च विरुद्धार्थप्रतिपादकानि स्मृतिवचनानि सन्ति; तेषामेव व्यवस्थां कल्पयित्वा तद्विरोधपरिहारः कर्तव्य इत्यनुसन्धेयम् । ब्राह्मणस्यागामिकाल इत्यादि । अयमर्थः-- भविष्यत्कार्यविषये तु ब्राह्मणस्यापि कोशो भवतीति । शूद्रस्येति-- पूर्वोक्तद्रव्यप्रमाणानि शूद्रविषयाणीत्यर्थः । पूर्वोक्तसर्वविषयेषु द्विगुणार्थे वैश्यस्य शपथक्रिया भवति । त्रिगुणार्थे राजन्यस्य शपथक्रिया । चतुर्गुणार्थे ब्राह्मणस्य शपथक्रियेति द्रष्टव्यं, यत्तूक्तं । बृहस्पतिना--

एषा सङ्ख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणा चोत्तमानां कल्पनीया परीक्षकैः ॥

इति । तत्तूत्तमादर्वाचीनानां मध्यमादुत्कृष्टानां त्रैगुण्यप्रतिपादनस्याप्युपलक्षकं विष्णुवचनानुरोधात् । अनेनैव व्याख्यानेन एषा संख्या निकृष्टानामित्यादि मनुवचनमपि व्याख्यातम् । शूद्रादर्वाचीनानामपि शूद्रवदेव दिव्यानि देयानि ।

शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजास्स्मृताः ।

इति मनुवचनात् । केषांचिद्ब्राह्मणानामपि शूद्रवदेव दिव्यं देयमित्याह कात्यायनः--

गोरक्षकान् वाणिजकान् शिल्पिनश्च कुशीलवान् ।
प्रेष्यान्वार्धुषिकाश्चैव विप्राञ्छूद्रवदाचरेत् ॥

एतदुक्तं भवति-- शूद्रस्य पुत्रदारादिशपथस्थाने वैश्यस्य गोबीजकाञ्चनैः शपथः । क्षत्रियस्य वाहनशस्त्रैः । ब्राह्मणस्य सत्यवाक्येन । अतश्च यद्वृत्तं बाह्मणस्य तत्प्रयुक्ताश्शपथाः कार्या इति । अत्र विवदन्ते वृद्धाः-- केचिद्दिव्येषु पणानां संख्येयत्वेऽपि काकणिकचतुष्टये लोके पणव्यवहारात् काकणिकः पणचतुर्भाग इति वैयाकरणप्रसिद्धेश्च काकणिकचतुष्टयात्मकं सुव र्पणमेव सहस्रादिशतादिसंख्यासंख्येयमिति मन्यन्ते । अन्ये तु ताम्रकाकणिकाभिप्राया सर्वदिव्येषु संख्येति मन्यन्ते । अपरे तु--

मानस्तण्डुलमात्रं स्याद्दशमानः पणस्स्मृतः ।

इत्यागमवचनाद्दशमानात्मक एव पण इति मन्यन्ते । अपरे--

माषो विंशतिमो भागो ज्ञेयः कार्षापणस्य तु ।
काकणीस्तु चतुर्भागो माषस्येति प्रकीर्तितः ॥

इति औशनसवचनात्-

तथा माषं बुधाः प्राहुः काकणीनां चतुष्टयम् ।
विंशतिस्स्यात्पुनस्तेषां स मुख्यः पण उच्यते ॥

इति भारद्वाजवचनात्-

माषो विंशतिमो भागः पणस्य परिकीर्तितः ।

इति कात्यायन (स्मरणा) वचनाच्च विंशतिमाषाः पण इति तद्विषया दिव्येषु संख्येति मन्यन्ते । तदेतदसारम्--

पणो विंशतिमाषस्तु दिव्यादन्यत्र कीर्तितः ।

इति कात्यायनवचनेन दिव्येषु विंशतिमाषस्य पणस्य निषेधात् । तथा ज्ञात्वा सुवर्णस्य संख्यां इति स्मृतेः--

सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।

 सर्वेष्वर्थजातेषु मूल्यं कनकं कल्पयेदित्येवमादिस्मृतिभ्यः सुवर्णस्यैव संख्येयत्वावगमात् । ताम्रिककार्षापणस्य दिव्येषु संख्येयत्वप्रापकवचनाभावाच्च सुवर्णपणानामेव दिव्येषु संख्येयत्वमुक्तं । यत्तु-- चन्द्रिकाकोरण सहस्रादिसंख्यानां लौकिकनिष्कस्य संख्येयत्वमित्युक्तमिति । तत्तूक्तरीत्या सहस्रादिसंख्यानां पणस्यैव संख्येयत्वस्य न्याय्यत्वात् निष्कप्रतिपादकवचनाभावाच्च हेयं । ननु काकणिकानामष्टकं तण्डुलशब्देनोच्यते । मानशब्देनापि तदेवोच्यते । तत्र दण्डप्रकरणे--

माषानष्टौ तु महिषीं सस्यघातस्य काकिणीम् ।

इति वचनात्--

दापयेत्पणपादं तु गां पादौ माहषीं तथा ।

इति वचनात् । पणपादद्वयाष्टमानमाषशब्दयोरेकार्थत्वावगमात् षोडशमाषात्मकः पण इति गम्यते । तथा च चरके--

उत्थितस्त्वर्कजालेन त्रसरेणुक उच्यते ।
अष्टकं त्रसरेणूनां लिक्षेति परिकीर्त्यते ॥
तास्तिस्रः सर्षपः प्रोक्तः काकिणी स्यात्तु सा स्मृता ।
अष्टकं काकिणीनां तु तण्डुलः परिकीर्तितः ॥
तण्डुलं मानकं प्रोक्तं माषकः परिकीर्त्यते ।

यद्वस्तु स्मृतिषु मानशब्देनोच्यते तदेव वैद्यके मानशब्देनोच्यते ।

तद्द्वयं कृष्णलं प्रोक्तं मण्डिका कृष्णलद्वयम् ।
अस्तिकापणशब्दौ तु पर्यायेण प्रकीर्तितौ ॥

इति । अत्र षोडशात्मकः पण इति गम्यते । तथा वैखानससंहितायामपि--

मानस्तण्डुलमात्रं स्यादष्टमाषः पणस्स्मृतः ।

इति । तत्राप्यष्टकमेव काकिणीनां माषशब्देन तण्डुलशब्देन वोच्यते षोडशमानात्मकः पण इति; सत्यमेतत् । षोडशमाषात्मकः दशमाषात्मको वा पणः संख्येयत्वेन गृह्यते इति; तत्र शोध्यस्य गुणवत्त्वे षोडशमाषात्मकस्य संख्येयत्वेन ग्रहणम् । निर्गुणस्य शोद्ध्यत्वेऽस्य दशमाषात्मकस्य पणसख्येयत्वमिति व्यवस्था । अभिशापव्यवस्थया दिव्यव्यवस्थामाह कात्यायनः--

अपराधविशेषेण दिव्यस्थानानि.

इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहप्रवृत्तानां राजद्वारि प्रयोजयेत् ॥
प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।
ततोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः ॥

अन्येषु कार्येषु-- स्वल्पकार्येषु-- अधिककार्येष्वप्युत्तमानां सत्यादिपुष्पान्ताश्शपथा एव । दिव्यं देयमिति दिव्यग्रहणाद्घटादिविषान्तान्यवगन्तव्यानि । इन्द्रस्थानमिति प्रख्यातदेवतायतनमुपलक्षयति । यथाऽऽह नारदः--

सभाराजकुलद्वारदेवताचत्वरा इति ।

इमानि दिव्यानि जनसमक्षमेव देयानि । यथाऽऽह पितामहः--

प्रत्यक्षं दापयेद्दिव्यं राजा वाऽधिकृतोऽपि वा ।
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥

प्रकृतयः-- प्रजाः । अधिकृतः-- प्राड्विवाकः । प्रतिगतमक्षं-- प्रत्यक्षम् । अत्र विशेषमाह हारीतः--

धने प्रमुषिते चोरैः प्रहृतेऽपि धनी स्वयम् ।
परिमाणं स्वरूपं च शपथेन विशोधयेत् ॥

चोरैरपहृते द्रव्ये तद्द्रव्ये गुरुपरिमाणं (स्वरूपंच) वाऽल्पपरिमाणं वाऽनादृत्य शपथेनैव दण्डपाशिकानां द्रव्यपरिमाणं च द्रव्यवान् साधयेदित्यर्थः ।

इति सर्वदिव्योपयोगिनी मातृका समाप्ता ।

दिव्यनिर्माणप्रकारः.

अथ दिव्यनिर्माणप्रकार उच्यते । अत्र प्रजापतिः--

दिव्येषु सर्वकार्याणि प्राड्विवाकः प्रकाशयेत् ।
अध्वरेषु यथाऽध्वर्युः सोपवासो नृपाज्ञया ॥
छित्वा यज्ञीयवृक्षं तु यूपवन्मन्त्रपूर्वकम् ।
प्रणम्य लोकपालेभ्यः तुला कार्या मनीषिभिः ॥

अत्र प्राड्विवाकग्रहणाद्राजनियुक्तसभायामेव तुला न तु ग्रामादिसभासु तत्र प्राड्विवाकाभावात् । सोपवास इति पूर्वोक्तनियमानां उपलक्षणम् । नृपाज्ञया तुला कार्येत्यन्वयः । छित्वा-- भेदयित्वा । मन्त्रपूर्वकमित्यत्र मन्त्रमाह--

 "सौम्यो वानस्पत्य" इति । सौम्यः-- सोमदैवत्यः । सोमो धेनुमित्यादिः । वानस्पत्यो-- वनस्पतिदैवत्यः वनस्पते शतवलूशो विरोहेत्यादिः । ऋज्वी तुला कार्या खादिरी वा तैन्दुकी वेति विष्णुः । अत्र प्रजापतिर्विशेषमाह--

खादिरं कारयेत्तत्र निर्व्रणं शुक्लवर्जितम् ।

शुक्लो-- निर्यासः ।

शिंशपां तदभावे तु सालं वा कोटरं विना ।
एवंविधानि काष्ठानि धटार्थं परिकल्पयेत् ॥
चतुर्हस्ता तुला कार्या पादौ चापि तथाविधौ ।
अन्तरं तु तयोर्हस्तौ भवेदध्यर्धमेव वा ॥
तोरणे च तथा कार्ये पार्श्वयोरुभयोरपि ।
घटादुच्चतरे स्यातां नित्यं दशभिरङ्गुळैः ॥

धटनिर्माणं.

अवलम्बौ च कर्तव्यौ तोरणाभ्यामधोमुखौ ।
मृन्मयौ सूत्रसंबन्धौ धटमस्तकचुम्बिनौ ॥

इति । अत्र तुलार्थं वृक्षच्छेदनं सपरिकरायास्तुलायाः । अतश्च पादस्तम्भार्थमपि तद्वृक्षच्छेदनं कार्यमित्यवगन्तव्यम् । "चतुर्हस्ता तुला कार्या" इत्यनेन सपरिकरायास्तुलायाः प्रमाणमुक्तम् । तथाविधाविति-- चतुर्हस्तप्रमाणावित्यर्थः । पादाविति-- तुलाधारणार्थकाष्टधारणार्थस्तम्भौ । तच्चतुर्हस्तमानौ करणीयहस्तद्वयादूर्ध्वम्--

हस्तद्वयनिखेयं तु प्रोक्तं कटकयोर्द्वयोः ।
षड्ढस्तं तु तयोः प्रोक्तं प्रमाणं तु प्रमाणतः ॥

इति । अक्षप्रमाणं तु तयोरन्तराळाभिधानेनैवार्थसिद्धं, तेन पादस्तम्भसक्तकटकाद्बहिर्निसृतो यथा भवति तथा हस्तद्वयात्सार्धहस्ताधिकोऽक्षदण्डः कार्य इत्यवगन्तव्यम् । हस्तः पुनश्चतुर्विंशत्यङ्गुलः--

तिर्यग्यवोदराण्यष्टौ ऊर्ध्वा वा व्रीहयस्त्रयः ।
प्रमाणमङ्गुलस्योक्तं वितस्तिर्द्वादशाङ्गुलम् ॥

'हस्तौ वितस्तिद्वितयम्' इति स्मृतेः । तुलास्थौल्ये तु विशेषास्मृतेः यावति स्थौल्ये दार्ढ्यं तावत् स्थौल्यं कार्यं । यद्वा-- आचारात् स्थौल्यविशेषो वेदितव्यः । एतदेवाभिप्रेत्योक्तं पितामहेन--

चतुर्हस्ता तुला कार्या दृढा ऋज्वी तथैव च ।
कटकानि च देयानि त्रिषु स्थानेषु यत्नतः ॥

कटकानि-- लोहवलयानि । उपान्तयोर्मध्ये च देयानि । उपा न्तयोश्शिक्यधारणार्थं मध्येऽक्षकाष्ठे तुलाधारणार्थमिति विवेकः ॥ यथाऽऽह पितामहः--

आयसेन तु पादेन मध्ये संगृह्य धर्मवित् ।
योजयेत्तु सुसंयुक्तां तुलां प्रागपरायताम् ॥
प्रागपरायतां-- पूर्वपश्चिमदीर्घा मित्यर्थः ।
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्सदा ॥
शिक्यद्वयं समासज्य पार्श्वयोरुभयोरपि ।
प्राङ्मुखान् कल्पयेद्दर्भान् शिक्ययोरिति निश्चयः ॥

 [४९]एकस्मिंस्तोलयेत्कर्तॄन् अन्यस्मिन् मृत्तिकां शुभाम् । कर्तुरिति पाठे तु कर्तारं-- अभियुक्तमित्यर्थः ॥

पिटकं पूरयेत्तस्मिन् इष्टकाग्रावपांसुभिः ।

अत्र मृत्तिकेष्टकाग्रावपांसूनां विकल्पो वेदितव्यः । एतच्च माषानामुपलक्षणम् । 'माषैर्वा निकटं पूरयेत्, इति स्मृत्यन्तरवचनात् । विकटं-- शिक्यान्तर्गतपात्रम् ॥

परीक्षका नियोक्तव्यास्तुलामानविशारदाः ।
वणिजो हेमकाराश्च कांस्यकारास्तथैव च ॥
कार्यः परीक्षकैर्नित्यमवलम्बसमो धटः ।
उदकं च प्रदातव्यं धटस्योपरि पण्डितैः ॥
यस्मिन्न प्लवते तोयं स विज्ञेयस्समो धटः ।
धटं तु कारयेन्नित्यं पताकाध्वजशोभितम् ॥
तोलयित्वा नरं पूर्वं ततस्तमवतारयेत् ।

एवमुक्तविधानां तुलां कृत्वा प्राड्विवाकः किं कुर्यादित्यत आह--

प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्विवाकस्ततो वदेत् ।

एह्येहि भगवन् धर्म अस्मिन्दिव्ये समाविश ॥
सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः ।
आवाह्य तु धटे धर्मं पश्चादङ्गानि विन्यसेत् ॥
इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा ।
वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥
अग्न्यादिलोकपालांश्च कोणभागेषु विन्यसेत् ।
इन्द्रः पीतो यमश्श्यामो वरुणस्स्फटिकप्रभः ॥
कुबेरश्च सुवर्णाभः अग्निश्चैव सुवर्णभः ।
तथैव निर्ऋतिश्श्यामो वायुर्धूम्रः प्रदृश्यते ॥
ईशानस्तु भवेद्रक्तः एवं ध्यायेत्क्रमादिमान् ।
इन्द्रस्य दीक्षणे पार्श्वे वसूना (राध) वाहयेद्बुधः ॥
धरो ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥
देवेशेशानयोर्मध्ये आदित्यानां तथाऽयनम् ॥
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमस्स्मृतः ॥
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ।
इत्येते द्वादशादित्या नामभिः परिकीर्तिताः ।

अत्राजघन्यो जघन्यज इति त्वष्ट्टविष्ण्वोर्विशेषणे । अतो न सङ्ख्यातिरेकः ।

अग्नेः पश्चिमभागे तु रुद्राणामयनं स्मृतम् ।
वीरभद्रश्च शम्भुश्च वागीशश्च महायशाः ॥
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ।
भवनाधीश्वरश्चैव कलीपा च विशांपते ॥

स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः ।
प्रजेशरक्षसोर्मध्ये मातृस्थानं प्रकल्पयेत् ॥
ब्राह्मी माहेश्वरी चैव कौमारी चैव वैष्णवी ।
वाराही चैव माहेन्द्रा चामुण्डागणसंवृता ॥
निर्ऋतेरुत्तरे भागे गणेशायतनं विदुः ।
वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते ॥
[५०]गगनस्पर्शनो वायुरनिलो मारुतस्तथा ।
प्राणः प्राणेजीवौ च मरुतोऽष्टौ प्रकीर्तिताः ॥

स्मृत्यन्तरे तु--

आवहो विवहश्चैव उद्वहः संवहस्तथा ।
निवहोऽधिवहश्चैव प्रवहोऽभिवहस्तथा ॥

इति । एतयोर्विकल्पः--

धटस्योत्तरदिग्भागे दुर्गामावाहयेद्बुधः ।
एतासां देवतानां तु स्वनाम्ना पूजनं विदुः ॥
भूषावसानं धर्माय दत्वा चार्घ्यादिकं क्रमात् ।

भूषावसानं-- भूषान्तं । तदयमत्र निष्कर्षः-- तुलायामेह्येहीति मन्त्रेण धर्ममावाह्य आवाहिताय धर्माय अर्घ्यपाद्याचमनीयस्नानवस्त्राचमनीययज्ञोपवीताचप्रनीयमकुटकनकभूषान्तं दत्वा इन्द्रादीनां दुर्गान्तानामपि अर्घ्यादिभूषादिसपर्यां पदार्थानुसमयेन दत्वा उभयेषां गन्धपुष्पधूपदीपनैवेद्यादीनि दद्यादिति । गन्धपुष्पाणि घटपूजायां रक्तानि कार्याणि । यथाऽऽह नारदः--

रक्तैर्गन्धैश्च धूपैश्च दद्याद्दी(द्धू)पाक्षतादिभिः ।

अर्चयेत्तु धटं पूर्वं तथा शिष्टांश्च पूजयेत् ॥

इति । इन्द्रादीनां रक्तैरन्यैर्वा पूजनं; विशेषादर्शनात् । एतत्सर्वं पूर्वाह्णे कार्यम्--

पूर्वाह्णे सर्वदिव्यानां प्रदानमनुकीर्तितम् ।

इति नारदवचनात् । एतच्च प्राड्विवाकः कुर्यादित्याह प्रजापतिः--

प्राड्विवाकस्ततो विप्रो वेदवेदान्तपारगः ।
श्रुतवृत्तोपपन्नश्च शान्तचित्तो विमत्सरः ॥
सत्यसन्धश्शुचिर्दक्षः सर्वप्राणिहिते रतः ।
उपोषितश्शुद्धवासाः कृतदन्तानुधावनः ॥
सर्वासां देवतानां च पूजां कुर्याद्यथाविधि ।
चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः ।
आज्येन हविषा चैव समिद्भिर्होमसाधनैः ॥
सावित्र्या प्रणवेनाथ स्वाहाऽन्तेनैव भावयेत् ।

इति । होमप्रकारो विज्ञानयोगिनोक्तः--

 ऋत्विग्भिश्चतुर्भिः चतुर्दिक्षु लौकिकाग्नौ प्रणवादिकां गायत्रीमुच्चार्य पुनस्स्वाहाकारान्तं प्रणवमुच्चार्य समिदाज्यचरून् प्रत्येकमष्टोत्तरशतं जुहुयादिति ।

यं चार्थमभियुक्तस्स्याल्लिखित्वा तं तु पत्रके ।
मन्त्रेणानेन सहितं तत्कार्यं तु शिरोगतम् ॥

इति । एवं होमान्तां देवपूजां विधायानन्तरं अभियुक्तमर्थं मन्त्रसहितं पत्रे लिखित्वा तत्पत्रं शोध्यशिरोगतं कुर्यादित्यर्थः ॥ मन्त्रस्तु--

आदित्यचन्द्रावनलोऽनिलश्च
द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम् ॥

इति । यत्तु प्रजापतिनोक्तं-

इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
आवाहनं च दिव्यानां तथैव परिकल्पयेत् ॥

इति । अस्यार्थः-- धर्मावाहनादि शिरसि पत्रारोपणान्तमनुष्ठानकाण्डं सर्वदिव्यसाधारणमुक्तमिति मन्तव्यम् । अनन्तरं प्राड्विवाको धटमामन्त्र्य तं शोध्यं पुनरारोपयेत् ॥

समयैः परिगृह्याथ पुनरारोपयेन्नरम् ।
निवाते वृष्टिरहिते शिरस्यारोप्य पत्रकम् ॥

समयाः-- शपथाः । शपथाश्च तेनैव दर्शिताः--

ब्रह्मघ्नो यस्य लोका ये ये लोकाः कूटसाक्षिणाम् ।
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥

इति । पुनरारोपणानन्तरं नारदः--

तस्मिन्नेव कृते लक्ष्ये लक्ष्यं कृत्वा द्विजो वदेत् ।
त्वं धट ब्रह्मणा दिष्टः परीक्षार्थं दुरात्मनाम् ॥
धकाराद्धर्ममूर्तिस्त्वं टकारात्कुटिलं नरम् ।
धृतो भावयसे यस्मात् धटस्तेनाभिधीयसे ॥
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।
त्वमेव देव जानीषे न विदुर्यानि मानुषाः ॥

व्यवहाराभियुक्तोऽयं मानुषश्शुद्धिमिच्छति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥

इति । अनन्तरं तु शोध्यस्तुलामामन्त्रयेत् । यथाऽऽह याज्ञवल्क्यः--

तुलाधारणविद्वद्भिः आवियुक्तस्तुलाश्रितः ।
प्रतिमानसमीभूतो रेखां कृत्वाऽवतारितः ॥

तुलाभिमन्त्रणम्

त्वं तुले सत्यधामाऽसि पुरा देवैर्विनिर्मिता ॥
तत्सत्यं वद कल्याणि संशयान्मां विमोचय ।
यद्यस्मि पापकर्माऽहं ततो मां त्वमधो नय ।
शुद्धश्चेद्गमयोर्ध्वं मां तुलामित्यभिमन्त्रयेत् ॥

अत्र नारदः--

शिक्यद्वयं समासज्य धटकर्कटयोर्दृढम् ।
एकत्र शिक्ये पुरुषं अन्यत्र तृलयेच्छिलाम् ॥

धटकर्कटयोः-- कर्कटशृङ्गोपमयोः लोहवलययोरुभयोः कोटिलग्नयोः ।

धारयेदुत्तरे पार्श्वे पुरुषं दीक्षणे शिलाम् ।

शिरोऽवस्थितपत्रकं धटं पुनरारोप्य विनाडीपञ्चकं यावत्तथैवावस्थापयेत् ॥

विनाड्यादिलक्षणम्

विनाड्यः पञ्च विज्ञेयाः परीक्ष्याः कालकोविदैः ।

इति । दशगुर्वक्षरोच्चारणकालः प्राणः, षट्प्राणा विनाडिः, उक्तं च ज्योतिश्शास्त्रे--

दश गुर्वक्षराः प्राणाः षट्प्राणा स्याद्विनाडिका ।
तासां षष्ट्या च घटिका तत्षष्ट्या अहरुच्यते ॥

इति । अनेन ज्योतिश्शास्त्रपरिचयवानेकश्च तुलाकोविदेषु कार्यः ।

तुलायां शुद्ध्यशुद्धिप्रकारः

शुद्ध्यशुद्धिविनिर्णयप्रकारमाह प्रजापतिः--

तुलितो यदि वर्धेत स शुद्धस्स्यान्न संशयः ।
समो वा हीयमानो वा न विशुद्धो भवेन्नरः ॥

यत्तु पितामहेनोक्तं--

हीयमानो न शुद्धस्स्यादेतेषां तु समा शुचिः ।

इति । तन्मतान्तरग्रहणं पूजनार्थं; न तु विकल्पार्थं । तथाऽन्यत्र--

कशाच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा ।
रज्जुच्छेदेऽक्षभङ्गे च तथैवाशुचिमादिशेत् ॥

इति । तथाऽपि दृश्यमाने कारणे येषां भङ्गः नादृष्टवशात्; तदा समाधानं कृत्वा पुनरारोपणं कर्तव्यम् ॥

शिक्यादिच्छेदभङ्गे च पुनरारोपयेन्नरम् ।

इति स्मृत्यन्तरवचनात् । अत एवाह बृहस्पतिः--

धटे नियुक्तस्तुलितो हीनश्चेद्धानिमाप्नुयात् ।
तत्समस्तु पुनस्तौल्ये वर्धितो विजयी भवेत् ॥
शिक्यच्छेदेऽक्षभङ्गे वा दद्याच्छिक्यं पुनर्नृपः ।
साक्षिणो ब्राह्मणाश्श्रेष्ठाः यथादृष्टार्थवादिनः ॥
ज्ञातिनश्शुचयो लुब्धा नियोक्तव्या नृपेण तु ।
तेषां वचनतो गम्यः शुद्ध्यशुद्धिविनिर्णयः ॥

ऋत्विजां दक्षिणा दातव्येत्याह पितामहः--

ऋत्विक्पुरोहिताचार्यान्दक्षिणाभिस्तु तोषयेत् ।

इति ।

एवं कारयिता राजा भुक्त्वा भोगान् मनोरमान् ।
महतीं कीर्तिमाप्नोति ब्रह्मभूयाय कल्पते ॥

धटसंरक्षणप्रकारः

धटसंरक्षणप्रकारमाह पितामहः--

विशालामुच्छ्रितां शुभ्रां धटशालां तु कारयेत् ।
यत्रस्थो नोपहन्येत श्वभिश्चण्डालवायसैः ॥
तत्रैव लोकपालादीन् सर्वदिक्षु निवेशयेत् ।
त्रिसन्ध्यं पूजयेच्चैनां गन्धमाल्यानुलेपनैः ॥
कवाटबीजसंयुक्तां परिचारकरक्षिताम् ।
मृत्पानीयाग्निसंयुक्तामशून्यां कारयेन्नृपः ॥

इति । बीजानि यवव्रीह्यादीनि । विज्ञानयोगी तु-- यदा तूक्तलक्षणं धटं तथैव स्थापयितुमिच्छति तदा श्ववायसाद्युपघातनिरासार्थं कवाटादिसहितां शालां कुर्यादिति । इति धटविधिः ।

अथाग्निविधिः

अथाग्निविधिरुच्यते--

अग्नेर्विधिं प्रवक्ष्यामि यथाशास्त्रप्रचोदितम् ।
कारयेन्मण्डलान्यष्टौ पुरस्तान्नवमं तथा ॥
आग्नेयं मण्डलं त्वाद्यं द्वितीयं वारुणं स्मृतम् ।
तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ॥
पञ्चमं त्वैन्द्रदैवत्यं मण्डलं तूच्यते बुधैः ।
कौबेरमुच्यते षष्ठं सप्तमं सोमदैवतम् ॥
आदित्यमष्टमं चैव नवमं सर्वदैवतम् ।
एतानि मण्डलान्यष्टाविति शास्त्रविदो विदुः ॥

एतानि नव मण्डलानि प्रख्यातदेवतायननादिविहितदेशे प्रागपवर्गाणि गोमयेन कार्याणि । अत्र हारीतः--

अष्टाभिर्मण्डलैः प्रोक्तं अङ्गुलीनां शतद्वयम् ।
षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना ॥
षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ।

अङ्गुलप्रमाणं तुलाप्रकरणे दर्शितम् । पितामहेनाप्युक्तम्--

द्वात्रिंशदङ्गुलं प्राहुर्मण्डलं मण्डलान्तरम् ।
अष्टाभिर्मण्डलैरेवमङ्गुलानां शतद्वयम् ॥
षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना ।
कर्तुः पदसमं कार्यं मण्डलं तु प्रमाणतः ॥

 तत्र नवमं मण्डलमपरिमिताङ्गुलप्रमाणकं तं विहायाष्टभिर्मण्डलैश्चाष्टाभिश्चान्तरालैः प्रत्येकं षोडशाङ्गुलप्रमाणैरङ्गुलानां षट्पञ्चाशत्समधिकं शतद्वयं संपद्यते । तत्रापि सप्तैव गन्तव्यानि मण्डलानि । कथं? प्रथमे तिष्ठति नवमे क्षिपतीति । ननु--

द्वात्रिंशदङ्गुलं प्राहुर्मण्डलं मण्डलान्तरम् ।
अष्टाभिर्मण्डलैरेवमङ्गुलानां शतद्वयम् ॥
चत्वारिंशत्समधिकं भूमेरङ्गुलमानतः ।

इति नारदोक्तिः कथमिति चेदुच्यते-

 अवस्थानमण्डलं विहाय गन्तव्यमण्डलाभिप्रायं तत् । अयमर्थः-- अवस्थानमण्डलात् षोडशाङ्गुलात् मण्डलान्तरमन्यमण्डलं द्वितीयाद्येकमेकं द्वात्रिंशदङ्गुलं सान्तराळं । तदेवमवस्थानमण्डलं षोडशाङ्गुलं गन्तव्यानि च सप्तमण्डलानि सान्तराळानि चत्वारिंशदङ्गुलानि एवमष्टभिर्मण्डलैश्चत्वारिंशत्समधिकशतद्वयं भूमेरङ्गुलमिति । अत्र दिव्यमातृकोक्तसाधारणधर्मेष्वनुष्ठितेषु तुलाप्रकर णोक्तधर्मावाहनादिशिरःपत्रान्तविध्यन्ते सति अग्निविधौ विशेषमाह प्रजापतिः--

पश्चिमे मण्डले तिष्ठेत् प्राङ्मुखः प्राञ्जलिश्शुचिः ।

तिष्ठेत्-- शोध्यः । शोधनप्रकारमाह--

लक्षयेयुः क्षतादीनि हस्तयोस्तस्य हारिणः ।

लक्षणं-- चिह्नं । यथाऽऽह नारदः--

हस्तक्षतेषु सर्वेषु कुर्याद्धंसपदानि च ॥

इति । अलक्तकरसादिना व्रणकिणस्थानेषु हंसपादाकारेण- अङ्कयित्वेत्यर्थः । ततःकिमित्यपेक्षिते याज्ञवल्क्यः--

करौ विमुदितव्रीही लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पर्णानि तावच्छुभ्राणि वेष्टयेत् ॥
वेष्टयीत सितैर्हस्तौ सप्तभिस्सूत्रतन्तुभिः ।

इति नारदवचनादश्वत्थपर्णमुपरि सप्त शमीपर्णानि सप्त दूर्वापर्णानि दध्यक्षतांश्च विन्यसेत् । तथा च पितामहः--

सप्त पिप्पलपत्राणि शमीपत्राण्यथाक्षतान् ।
दूर्वायास्सप्त पर्णानि दध्यक्तानक्षतांस्तथा ॥

विन्यसेदिति शेषः । कुसुमनि च विन्यसेत् । तथा च पितामहः--

सप्त पिप्पलपत्राणि अक्षतान् सुमनो दधि ।
हस्तयोर्निक्षिपेत्तत्र सूत्रेणावेष्टितं तथा ॥

इति । सुमनसः-- पुष्पाणि । यत्तूक्तं हारीतेन--

अयस्तप्तं तु पाणिभ्यां अर्कपर्णैस्तु सप्तभिः ।
अन्तर्हितं हरन् शुद्धस्त्वदग्धः सप्तमे पदे ॥

इति । तत्तु अश्वत्थपर्णानामभावे अर्कपत्रविषयं वेदितव्यम् । अश्वत्थपत्राणां पितामहप्रशंसावचनेन मुख्यत्वावगमात्--

पिप्पलाज्जायते वह्निः पिप्पलो वृक्षराट् स्मृतः ।
अतस्तस्य तु पत्राणि हस्तयोर्निक्षिपेद्बुधः ॥

इति विज्ञानयोगी । अपरे तु शमीपत्रादीनां अर्कपत्रपक्षेऽनुप्रवेशो नास्तीत्येवंपरमित्याहुः । अत्र प्रजापतिः--

अश्रिहीनं समं कुर्यादष्टाङ्गुलमयोमयम् ।
पिण्डं तु तापयेदग्नौ पञ्चाशत्पलिकं स्मृतम् ॥

अत्र व्यासः--

प्राङ्मुखस्तु ततस्तिष्ठेत् प्रसारितकराङ्गुळिः ।
आर्द्रवासाश्शुचिश्चैव शिरस्यारोप्य पत्रकम् ॥
जात्यैव लोहकारो यः कुशलश्चाग्निकर्मणि ।
दृष्टप्रयोगश्चान्यत्र तेनायोऽग्नौ तु दापयेत् ॥
अग्निवर्णमयःपिण्डं सस्फुलिङ्गं सुरञ्जितम् ।
पञ्चाशत्पलिकं भूयः स्नापयित्वा शुचिर्द्विजः ॥
तृतीयतापे तप्यन्तं ब्रूयात्सत्यपुरस्कृतम् ।

इति । दृष्टप्रयोगश्चान्यत्रेत्यनेन यथा लोके लोहशुद्ध्यर्थं सुतप्तलोहमुदके निक्षिप्य पुनः सन्तापेन लोहकार्यसिद्ध्यर्थं क्रियते तथाऽत्रापि कर्तव्यमिति वदतः चन्द्रिकाकारस्य मते तृतीयतापेतप्यन्तमित्यादि वचनानि न्यायसिद्धार्थानुवादीनीति मन्तव्यम् । सत्यपुरस्कृतमित्युक्तं; तत्स्वरूपमाह पितामहः--

शृण्विमं मानवं धर्मं लोकपालैरधिष्ठितम् ॥
त्वमग्रे सर्वदेवानां पवित्रं परमं मुखम् ।

त्वमग्ने सर्वभूतानां हृदिस्थो वेत्सि चेष्टितम् ।

अत्र याज्ञवल्क्यः--

तस्येत्युक्तवतो लोहं पञ्चाशत्पलिकं समम् ।
अग्निवर्णं न्यसेत्पिण्डं हस्तयोरुभयोरपि ॥

तस्य-- कर्तुः । इति-- एवं प्रकारेण ।

त्वमग्ने सर्वदेवानां अन्तश्चरसि साक्षिवत् ।
त्वमेव देव जानीषे न विदुर्यानि मानवाः ॥
व्यवहाराभिशस्तोऽयं मानुषश्शुद्धिमिच्छति ।
पापं पुनासि वै यस्मात्तस्मात्पावक उच्यसे ॥
पापेषु दर्शयात्मानं अर्चिष्मान् भव पावक ।
अथवा शुद्धभावेन शीतो भव हुताशन ॥

इति । अत्र व्यासः--

एष त्वां धारयति सत्येनानेन मानवः ।
सत्यवाक्यस्य चास्य त्वं शीतो भव हुताशन ।
मृषावाक्यस्य पापस्य दह हस्तौ च मायिनः ॥

इति । तदनन्तरकृत्यमाह प्रजापतिः--

अमुं मन्त्रं च पत्रस्थं अभियुक्तं यथार्थतः ।
संश्राव्य मूर्ध्नि तस्यैव न्यसेदेवं यथाक्रमम् ॥

न्यासप्रकारमाह मनुः--

इत्युक्त्वा हस्तयोस्तस्य प्रदद्यात्पिण्डपावकम् ।
सुप्रतप्तमसंभुग्नं विस्फुलिङ्गाग्न्यनुद्धृतम् ॥

असंभग्नमनिम्नप्रदेशं स्वरूपेणावस्थितमित्यर्थः ।

दृढं गृहीत्वा सन्दशैः विद्युज्जालसमप्रभम् ।

इति । उत्कटं धृतं विलीनं न भवतीत्यनुद्धृतम् । ततः शोद्ध्यकृत्यमाह यमः--

हस्ताभ्यां तु समादाय प्राड्विवाकसमपितः ।
स्थित्वैकस्मिन् ततोऽन्यानि व्रजेत्सप्त त्वजिह्मगः ॥

एकस्मिन्निति-- पश्चिमे प्रथमे मण्डले । अजिह्मगः-- अकुटिलगतिः ॥

असंभ्रान्तश्शनैर्गच्छेदक्रुद्धस्सोऽनलं प्रति ।

यथाऽऽह याज्ञवल्क्यः--

स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत् ।

इति । सः-- पुरुषः । तं-- तप्तलोहपिण्डं । एवकारेण मण्डलेष्वेव पदन्यासः । मण्डलानतिक्रमं च दर्शयति पितामहः--

न मण्डलमतिक्रामेत् नाप्यर्वाक्स्थापयेत्पदम् ।

इति ।

मण्डलं चाष्टमं गत्वा ततोऽग्निं विसृजेन्नरः ।
यस्त्वन्तरा पातयति दण्ड्यश्च स विभाव्यते ॥
पुनस्तं हारयेदग्निं स्थितिरेषा दृढीकृता ।

प्रथममण्डले स्थितस्य कर्तुरभिमन्त्रणमाह याज्ञवल्क्यः--

त्वमग्ने सर्वभूतानां अन्तश्चरासि पावक ।
साक्षी मत्पुण्यपापानां ब्रूहि सत्यं कवे मम ॥

सत्यं-- ब्रूहि दर्शयेत्यर्थः । अत्रायं प्रयोगः-- सुतप्तमयःपिण्डं उदके लोहशुद्ध्यर्थं निक्षिप्य पुनस्सन्ताप्योदके निक्षिप्य तृतीयतापे सन्दंशेन गृहीत्वा पुनरप्यानीय त्वमग्ने सर्वभूतानामित्यभिमन्त्रणं ब्रूयात् । अस्मिन्नवसरे प्राड्विवाको मण्डलाद्दक्षिणप्रदेशे लौकिकमग्निमुपसमाधाय अग्नये पावकायेत्याज्येन अष्टोत्तरशतं जुहुयात् । अस्मिन्नेवाग्नौ अयःपिण्डताप इति चन्द्रिकाकारः ॥ अष्टमे मण्डले स्थित्वा नवमे अग्नित्यागे कृते किं कुर्यादिति याज्ञवल्क्यः--

मुक्त्वाऽग्निं मृदितव्रीहिरदण्ड्यः शुद्धिमाप्नुयात् ।

अत्र कात्यायनस्तु विशेषमाह--

न स्खलत्यभिशस्तश्चेत् स्थानादन्यत्र दह्यते ।
अदग्धं तं विदुर्देवाः तस्य भूयोऽपि दापयेत् ॥

स्थानादन्यत्र-- हस्ताभ्यामन्यत्रेत्यर्थः । प्रजापतिस्तु--

अन्तरा पतिते पिण्डे सन्देहे वा पुनर्भवेत् ।
हृते तु मर्दयेत्पश्चात् व्रीहीन्वाऽप्यथवा यवान् ॥

यदा गच्छतोऽन्तरा-- मध्ये अष्टममण्डलादर्वागेव पिण्डः पतितः व्रीहियवविमर्दने कृते दण्ड्यादण्ड्यत्वनिर्णयाभावेन सन्देहो भवति तदा पुनर्भवेत् । द्वितीयप्रयोगेऽपि यदा सन्देहो जायते । तदा पुनपुनर्हरेदिति वचनाभावेऽपि न्यायतः प्राप्तं धारणम् । यथाऽऽह विज्ञानयोगी-- पुनः पुनर्हरेदित्यर्थप्राप्तमुक्तमिति । अत्र शुद्धस्य राज्ञा विशुद्धिपत्रं देयम् । अशुद्धस्य दण्डपूर्वकं त्याग एव । तत्र नारदः--

अनेन विधिना धार्यो हुताशनसमस्सदा ।
ऋते गीष्मादहर्व्यक्तकालेऽन्यस्मिन् सुशीतले ॥

इति । हुताशनसमस्तप्तायःपिण्डः । इत्यग्निविधिः ।

जलविधिः

 अथ जलविधिरुच्यते । अत्र चन्द्रिकायां-- जलविधिर्विषविधिश्च न प्रतिपादितौ । यथोक्तं चन्द्रिकाकारेण-- जलवि षयोरुत्सन्नानुष्ठानत्वात् तद्विधिमनाख्याय कोशविधिरुच्यत इति । उत्कलादिषु क्वचिद्देशेषु जलविधेरेव प्रामाणिकत्वेन व्यवह्रियमाणत्वात् । शूरसेनमागधादिषु क्वचिद्देशेषु विषविधेरेव प्रामाणिकत्वेन परिगृहीतत्वात् । अतः क्रमप्राप्तो जलविधिरुच्यते । तत्र प्रजातिः--

 तोयस्याथ प्रवक्ष्यामि विधिं धर्म्यं पुरातनम् ।
 ऋतानृत (शुभाशुभ) परीक्षार्थं ब्रह्मणा विहितं स्वयम् ॥
 शरान्वै पूजयेद्भक्त्या वैष्णवं च धनुस्तथा ।
 मण्डयेत्पुष्पधूपैश्च ततः कर्म समारभेत् ॥

इति । तत्र कात्यायनः--

 शरांश्चानायसैरग्रैः प्रकुर्वीत विशुद्धये ।
 वेणुकाण्डमयैश्चैव क्षेप्ता च सुदृढः क्षिपेत् ॥

क्षेप्ता क्षत्रिय एव--

 क्षेप्ता तु क्षत्रियः प्रोक्तः तद्वदब्राह्मणोऽपि वा ।
 अक्रूरहृदयश्शान्तः सोपवासस्ततःक्षिपेत् ॥

इति पितामहवचनात् । अत्र नारदः--

 क्रूरं धनुस्सप्तशतं मध्यमं षट्शतं स्मृतम् ।
 मन्दं पञ्चशतं प्रोक्तं एष ज्ञेयो धनुर्विधिः ॥

सप्तशतमिति । अङ्गुलानां सप्ताधिकं शतं क्रूरमित्यर्थः । एवं षट्शतं पञ्चशतं ।

 मधमेन तु चापेन प्रक्षिपेच्च शरत्रयम् ।
 हस्तानां तु शते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥
 न्यूनाधिके तु दोषस्स्यात् क्षिपतत्सायकांस्तथा । इति ।

 नातिक्रूरेण धनुषा क्षेपयित्वा शरत्रयम् ।
 पानीयमज्जनं कार्यं शङ्का यत्र विज्ञायते ॥

यत्र शङ्का विज्ञायते तं अभियुक्तमित्यर्थः । लक्षनिर्देशार्थं तोरणं कार्यं । यथाऽऽह स एव--

 तोरणं तत्र कर्तव्यं लक्ष्यलक्षणसन्धये ।

लक्ष्यलक्षणयोस्सन्धिरभिसंन्धिः-- परिज्ञानमिति यावत् । तत्तोरणं च निमज्जनस्थानसमीपे समदेशे शोध्यकर्णप्रमाणोच्छ्रितं कार्यम् । यथाऽऽह नारदः--

 गत्वा तु तज्जलस्थानं तटे तोरणमुच्छ्रितम् ।
 कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचौ ॥

इति । अत्र नारदः--

 ब्राह्मणः क्षत्रियो वैश्यो रागद्वेषविवर्जितः ।
 नाभिमात्रजले स्थाप्य पुरषं स्तम्भवत्स्थले ॥
 तस्योरू प्रतिसंगृह्य निमज्जेदभिशापवान् ।

अत्र याज्ञवल्क्यः--

 सत्येन माऽभिरक्ष त्वं वरुणेत्यभिशाप्य कम् ।
 नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥

इति । कं-- उदकं । सत्येन माऽभिरक्ष त्वं वरुणेति मन्त्रतः अभिशापोऽभिमन्त्रणं । जलं विशेदिति निमज्जेदित्यर्थः । एतच्च वरुणपूजायां सत्यां । यथाऽऽह नारदः--

 गन्धमाल्यैः सुरभिभिः मधुक्षीरघृतादिभिः ।
 वरुणाय प्रकुर्वीत पूजामादौ समाहितः ॥ इति । तथा सर्वदिव्यसाधारणधर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा--

 तोयं त्वं प्राणिनां प्राणस्सृष्टेराद्यं तु कारणम् ।
 शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥
 अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणम् ।

इति । प्राड्विवाकेनोदकाभिमन्त्रणे कृते शोध्यः सत्येनमाऽभिरक्ष त्वं वरुणेत्युदकं प्रार्थयेदिति । अत्र प्रजापतिः--

 तृणशैवालरहिते जलूकामत्स्यवर्जिते ।
 नाभिमात्रे जलेमज्जेन्न चागाधे न चाल्पके ॥
 आविशेदमले नित्यमूर्मिपङ्कविवर्जिते ।
 आहार्यं वर्जयेत्तोयं शीघ्रगासु नदीषु च ॥

आहार्यं-- घटादिभिरुद्धृतं । अनेन अल्पवेगासु नदीषु ह्रदेषु सरस्तटाकादौ च यत्तोयं मुक्तदोषं तत् विशोधकमित्यर्थादुक्तं भवति ।

 स्थापयेत्प्रथमं तोये स्तम्भवत्पुरुषं नृपः ।
 आश्रित्य यं निमज्जन्ति मानवाश्शुद्धिकाङ्क्षिणः ॥

इति । अत्र स्मृत्यन्तरे विशेष उक्तः--

 उदके प्राङ्मुखस्तिष्ठेद्धर्मस्थूणां प्रगृह्य च ।

इति । अत्र शङ्खलिखितौ--

 नाभिप्रमाणोदकस्थो यज्ञीयवृक्षोद्भवां धर्मस्थूणामवष्टभ्य प्राङ्मुखस्तिष्ठेत् । तस्योरू-- अभिमतपुरुषस्य ऊरू इति । अभिमतपुरुषः पूर्वोक्तलक्षणः । अत्र विशेषमाह नारदः--

 [५१]इषून्न प्रक्षिपेद्विद्वान् मारुते वातिवै भृशम् ।  विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले ॥

इति । अत्र पितामहः--

 गन्तुश्चापि च कर्तुश्च समं गमनमज्जनम् ।
 गच्छेत्तोरणमूलं तु लक्ष्यस्थानाज्जयी नरः ॥
 अस्मिन् गते द्वितीयोऽपि वेगादादाय सायकम् ।
 गच्छेत्तोरणमूलं तु ततस्स पुरुषो गतः ॥
 आगतस्तु शरग्राही न पश्यति यदा जले ।
 अन्तर्जलगतं सम्यक् तदाशुद्धिं विनिर्दिशेत् ॥
 अन्यथा न विशुद्धस्स्यादेकाङ्गस्यापि दर्शने ।
 स्थानाच्चान्यत्र गमनाद्यस्मिन् पूर्वे निवेशितः ॥

एकाङ्गस्यापीति कर्णाद्यभिप्रायम् ।

 शिरोमात्रं तु दृश्येत न कर्णौ न च नासिका ।
 अप्सु प्रवेशने यस्य शुद्धं तमभिनिर्दिशेत् ॥

इति विशेषाभिधानात् । अत्र जयस्वरूपनिर्धारणमाह नारदः--

 पञ्चाशतो [५२]यावकानां यौ स्यातामधिकौ जले ।
 तौ तत्र विनियोक्तव्यौ शरानयनकर्मणि ॥

तत्राऽयं प्रयोगक्रमः-- प्राड्विवाको जलाशयसन्निधौ तोरणं विधाय उक्तप्रमाणदेशं लक्ष्यं निधाय तोरणसन्निधौ धनुश्शरान् संपूज्य जलाशये वरुणमावाह्य पूजयित्वा तत्तीरे धर्मादिदेवानां आवाहनाद्युपचारैरिष्ट्वा शोध्यशिरसि प्रतिज्ञापत्रमाबध्य प्राड्विवाक एव "तोयत्वं प्राणिनः प्राण" इत्यादि मन्त्रेण जलमभिमन्त्र्य सत्येनेत्यादिमन्त्रेण शोध्यकर्तृकजलाभिमन्त्रणानन्तरं नाभिमात्रोदकावस्थितस्य बलीयसः पुरुषस्य धर्मस्थूणाया वा समीपं शोध्यं प्रापयेत् । तदनन्तरं त्रिषु शरेषु मुक्तेषु एको वेगवान् मध्यमशरपातं गत्वा तमादाय तत्त्रैव तिष्ठति । अन्यस्तु पुरुषो वेगवान् शरमोक्षणस्थाने तोरणमूले तिष्ठति । एवं स्थितयोः तृतीयस्यां करताळिकायां विशोध्यो निमज्जति । तत्समकालमेव तोरणमूले स्थितोऽपि द्रुततरं मध्यमशरपातस्थानं गच्छति । शरग्राही च तस्मिन् प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न पश्यति तदा शुद्धो भवतीति । सार्धशतहस्तपरिमितदेशे लक्ष्यं कृत्वा जविनोः पुरुषयोः लक्ष्यतोरणपर्यन्तं प्रधावनानुधावने कार्ये । सार्धशतहस्तपरिमितदेशन्यूनाधिकभावे दोषश्रवणादेतदेव प्रधानमिति केचित् । धनुश्शरादि पूजास्मरणात् तिश्रियमार्थमित्यपरे । इति जलविधिः

अत्र विषविधिः

अथ विषविधिरुच्यते । अत्र प्रजापतिः--

 विषस्याद्य प्रवक्ष्यामि विधिं चक्षणचोदितम् ।
 अभियुक्ताय दातव्यं यवमात्रं प्रदीयते ॥
 यवास्सप्त प्रदातव्या अथवा षट्च संख्यया ।
 [५३]शृङ्गिणो वत्सनाभस्य हैमस्य च विषस्य च ॥
 चारितानि च जीर्णानि कृत्रिमाणि तथैव च ।
 भूमिजातानि सर्वाणि विषाणि परिवर्जयेत् ॥

नारदस्तु--

 भ्रष्टं च चारितं चैव धूपितं मिश्रितं तथा ।


 कालकूटमलाबुं च विषं यत्नेन वर्जयेत् ॥

इति । चारितं-- चरित्वाऽवशिष्टम् ।

 औषधान्यपि रत्नानि मन्त्रयोगान् विषापहान् ।
 कर्तुश्शरीरसंस्थाश्च परीक्षेत महीपतिः ॥

इति । सप्तादिसङ्ख्याव्यवस्था ऋतुभेदेन द्रष्टव्या । तथा च नारदः--

 वर्षे चतुर्यवमात्रा ग्रैष्मे पञ्च यवास्स्मृताः ।
 हैमन्तके सप्त यवाः शरद्यल्पा ततोऽपि च ॥
 दद्याद्धि सोपवासाय देवब्राह्मणसन्निधौ ।

इति । अल्पा-- षड्यवेत्यर्थः । तत इत्यनेन सप्तसख्यापरामर्शात् । हेमन्त इत्यनेन शिशिरस्यापि ग्रहणं । हेमन्तशिशिरयोस्समासेन हेमन्तशिशरावृतू प्रीणामीत्यादौ प्रायशः सहभावेन श्रवणात् । वसन्तस्य सर्वदिव्यसाधारणत्वात्तत्रापि सप्त यवा इति विज्ञानेशः । यवप्रमाणं तु--

 जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः ।
 प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥
 त्रसरेणवोऽष्ट विज्ञेया लिक्षैका परिमाणतः ।
 ता राजसर्षपास्तिस्रः ते त्रयो गौरसर्षपः ॥
 सर्षपाः षड्यवो मध्यः त्रियवाः कृष्णलास्स्मृताः ।
 पञ्चकृष्णलको माषः ते सुवर्णं तु षोडश ॥

इति । हारीतेन विशेषान्तरमुक्तं--

 पूर्वाह्ने शीतले देशे विषं देयं घृतप्लुतम् । इति । अत्र पूर्वाह्नशब्दः परिसंख्यापरः--

 नापराह्ने न मध्याह्ने न सन्ध्यायां तु धर्मवित् ।

इति कालान्तरनिषेधस्मरणात् । घृतं च विषत्त्रिंशद्गुणं ग्राह्यं--

 पूर्वाह्ने शीतले देशे विषं देयं हि देहिनाम् ।
 घृतेन योजितं श्लक्ष्णं घृतं त्रिंशद्गुणान्वितम् ॥

इति कात्यायनस्मरणात् । पितामहेन प्रयोगक्रम उक्तः--

 सोपवासाय देयं स्याद्विषं ब्राह्मणसन्निधौ ।
 सूपोपहारमन्त्रैश्च पूजयित्वा महेश्वरम् ॥
 देवानां सन्निधौ चैव दक्षिणाभिमुखे स्थिते ।
 उदङ्मुखः प्राङ्मुखो वा दद्याद्विप्रस्समाहितः ॥

इति । तदयमत्र निष्कर्षः-- प्राड्विवाकस्सोपवासो महादेवं षोडशोपचारैरभ्यर्च्य तत्पुरतश्शार्ङ्गं हैमवतं वा विषं घृतप्लुतं संस्थाप्य धर्माद्यावाहनादि शिरप्रपत्रारोपणान्तं दिव्यमातृकान्तं कृत्वा विषमभिमन्त्र्य दक्षिणाभिमुखाय स्वयं प्राङ्मुख उदङ्मुखो वा विषं प्रयच्छति । स च शोध्यो विषमभिमन्त्र्य भक्षयेदिति क्रमः । प्राड्विवाककर्तृकविषाभिमन्त्रण मन्त्रः--

 त्वं विष ब्रह्मणा सृष्ट परीक्षार्थं दुरात्मनाम् ।
 पापानां दर्शयात्मानं शुद्धानाममृतं भव ॥
 मृत्युमूर्तिर्विषं त्वं हि ब्रह्मणा परिकीर्तिता ।
 त्रायस्वैनं नरं पापात्सत्येनास्यामृतं भव ॥

इति । शोध्यकर्तृकविषाभिमन्त्रणमन्त्रस्तु--

 त्वं विष ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः ।
 त्रायस्वास्मानभीशापात्सत्येन भव मेऽमृतम् ॥ इति । अत्र शोध्यश्च कुहकादिभ्यो रक्षणीय इत्याह पितामहः--

 त्रिरात्रं पञ्चरात्रं वा पुरुषैस्स्वैरधिष्ठितम् ।
 कुहकादि भयाद्राजा धारयेद्दिव्यकारिणम् ॥

इति । तथा विषमपि रक्षणीयमित्याहस एव--

 शार्ङ्गं हैमवतं शस्तं गन्धवर्णरसान्वितम् ।
 अकृत्रिममसंमूढममन्त्रोपहितं भवेत् ॥

इति । उक्तविशेषणविशिष्टं यथा भवेत्तथा रक्षणीयमित्यर्थः ।

 भक्षिते तु यदा स्वस्थो मूर्छाछर्दिविवर्जितः ।
 निर्विकारो दिनस्यान्ते शुद्धं तमभिनिर्दिशेत् ॥

इति । एतच्च दिनान्तकालरूपकालप्रतीक्षणं यावत्काले विषं जीर्यति तावन्मात्रोपलक्षकं; न तु नियामकम् । तथा च याज्ञवल्क्यः--

 एवमुक्त्वा विषं शार्ङ्गं भक्षयेद्धिभशैलजम् ।
 यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ॥

इति । यदा विषप्रतिमात्रं प्रयुक्तं स्यात् तदा करताळिकाशतपञ्चकपरिमितकालं प्रतीक्ष्य तदनन्तरं चकित्सा कर्तव्येत्याह पितामहः--

 पञ्चताळशतं कालं निर्विकारो यदा भवेत् ।
 तदा भवति संशुद्धः तदा कुर्याच्चिकित्सिकम् ॥

इति । अत्र विज्ञानयोगिनोक्तं-- विषे पीते यावत्करताळशतपञ्चकं तावत्परीक्षणीयः । अनन्तरं चिकित्सनीय इति मुख्यं प्रतीक्षणकालमुक्त्वा 'निर्विकारो दिनस्यान्ते' इत्यादि शुद्धिवचनं स्वल्प मात्रविषयमिति । तन्मन्दम्--

 एवमुक्त्वा विषं शार्ङ्ग भक्षयेद्धिमशैलजम् ।
 यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ॥

इति याज्ञवल्क्यवचने विषजीरणप्रतिपादनं;

 तदा भवति संशुद्धस्तदा कुर्याच्चिकित्सितम् ।

इति पितामहवचने चिकित्साप्रतिपादनमपि विरुन्ध्यात् । अतः चिकित्साप्रतिपादकवचनं करताळिकाशतपञ्चकावच्छिन्नकालप्रतीक्षणद्वारेणातिमात्रप्रयुक्तविषयमित्यस्मदुक्तैव विषयव्यवस्था सम्यक् । यच्च विषवेगो नाम धातोः धात्वन्तरप्राप्तिरित्युक्तं विज्ञानयोगिना; तत्प्रायिकाभिप्रायिकमित्यवगन्तव्यम् । आद्यविषवेगस्यैवंरूपत्वासंभवात् । ततश्च विषस्य धातुसङ्क्रामो वेग इत्येतावद्विवक्षितं विज्ञानयोगिनेत्यवगन्तव्यम् ।

 त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः ।

एवं शुद्धस्य शुद्धिपत्रं राज्ञा दातव्यम् । इतरस्य दण्डादि कर्तव्यमिति । इति विषविधिः ।

अथ कोशविधिः

 प्राड्विवाकः कृतोपवासो दुर्गाऽऽदित्यादीनुग्रदेवान् स्नापयित्वा तदुदकं ताम्रपात्रादौ संगृह्य तद्देवान् गन्धपुष्पादिभिस्संपूज्य तत्स्नानोदकं दिव्यदेशं नीत्वा धर्मावाहनादिशिरसि पत्रान्तं सर्वदिव्यसाधारणविधिं विधाय शोध्यं च प्राङ्मुखं कृत्वा गोमयानुलिप्तमण्डलान्तस्स्थितं कृत्वा पूर्वनिहितोदकात्प्रसृतित्रयं शोध्यं पाययेत् । तथा च पितामहः--

 प्राङ्मुखं कारिणं कृत्वा पाययेत्प्रसृतित्रयम् ।  पूर्वोक्तेन विधानेन स्नातमार्द्राम्बरं शुचिम् ॥

पूर्वोक्तेन-- सर्वदिव्यसाधारण्येनोक्तेन । कारिणं-- दिव्यकारिणम् । तथा च याज्ञवल्क्यः--

 देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत् ।
 संश्राव्य पाययेत्तस्माज्जलाच्च प्रसृतित्रयम् ॥

इति । नारदस्तु-

 तमाहूयाभिशप्तं तु मण्डलाभ्यन्तरस्थितम् ।
 आदित्याभिमुखं कृत्वा पाययेत्प्रसृतित्रयम् ॥

इति । हारीतस्तु--

 गोमयेनानुलिप्तायां भूमौ शौध्यं तु पाययेत् ।

इति । याज्ञवल्क्यस्तु शुद्धिप्रकारमाह--

 अर्वाक्चतुर्दशादह्नो यस्य नो राजदैविकम् ।
 व्यसनं जायते घोरं स शुद्धस्स्यान्न संशयः ॥

इति । ऊर्ध्वं पुनरवधेर्न दोष इत्याह नारदः--

 ऊर्ध्वं यस्य द्विसप्ताहाद्वैकृतं तु महद्भवेत् ।
 नाभियोज्यस्स विदुषा कृतकालव्यतिक्रमात् ॥

इति । एतन्महाभियोगविषयं; 'महाभियोगेष्वेतानि' इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहेनोक्तान्यल्पविषयाणि । 'कोशमल्पे तु दापयेत्' इति स्मरणात् ।

 त्रिरात्रात्सप्तरात्राद्वा दशाहाद्वा द्विसप्तकात् ।
 वैकृतं यस्य दृश्येत पापकृत्स उदादृतः ॥

इति । द्विसप्तकादिति याज्ञवल्क्यवचनेन समानार्थत्वान्महाभियोगविषयम् । एतदेवोक्तं विज्ञानयोगिना-- महाभियोगोक्तद्रव्याद र्वाचीनद्रव्यं त्रेधा विभज्य त्रिरात्रादिपक्षत्रयं व्यवस्थापनीयमिति । दैविकान्याह पितत्महः--

 क्षयातिसारविस्फोटवातास्थिपरिपीडनम् ।
 नेत्ररुग्जलरोगाश्च तथोन्मादः प्रजायते ॥
 शिरोरुग्भुजभङ्गश्च व्याधयो दैविका नृणाम् ।

इति । राजकं-- राजदण्डः । यथाऽऽह विष्णुः--

 यस्य पश्येद्द्विसप्ताहात्त्रिसप्ताहात्तथाऽपि वा ।
 रोगोऽग्निर्ज्ञातिमरणं राजदण्डमथापि वा ॥
 तमशुद्धं विजानीयात्तथा शुद्धं विपर्ययात् ।

राजदण्डशब्दः अर्थभ्रंशधनक्षययोरुपलक्षकः ।

 रोगोऽग्निर्ज्ञातिमरणप्रर्थभ्रंशो धनक्षयः ॥

इति नारदोक्तेः । अर्थशब्द पुत्रादिवचन इति चन्द्रिकाकारः । अत एव स्वीयस्यापि जनस्य सर्वस्य मध्ये यदा यस्य कस्यचिद्वैकृतं भवेत्स हीयत इत्याह पितामहः--

 न तस्यैकस्य किन्त्वेवं सर्वस्य यदि तद्भवेत् ।
 रोगोऽग्निर्ज्ञातिमरणं सैव तस्य विभावनम् ॥

पितामहेन विशेष उक्तः--

 भक्तो यो यस्य देवस्य पाययेत्तस्य तं नरम् ।
 समभावे तु देवानामादित्यस्य तु पाययेत् ॥
 दुर्गायाः पाययेच्चोरान् ये च शस्त्रोपजीविनः ।
 भास्करस्य तु यत्तोयं ब्राह्मणं तन्नपाययेत् ॥
 दुर्गायाः स्नापयेच्छूलमादित्यस्य तु मण्डलम् ।
 इतरेषां तु देवानां स्नापयेदायुधानि तु ॥ अत्र निष्कर्षः-- उग्रदेवाभिषेकजलं प्राड्विवाको जलदिव्यप्रकरणोक्तेन 'तोय त्वं प्राणिनां प्राणः' इत्यनेन मन्त्रेणाभिमन्त्र्य अभिमन्त्रणानन्तरं शोध्येन 'सत्येन माऽभिरक्ष त्वं वरुण' इत्यभिमन्त्रितं प्रसृतित्रयं पाययेत् । संश्राव्येत्युभयामन्त्रणमुच्यते । अत एव नारदः--

 आदित्याभिमुखं कृत्वा तोयं संश्राव्य पाययेत् ।

याज्ञवल्क्योऽपि-

 संश्राव्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयम् ।

इति । किं सश्राव्येत्यपेक्षिते । नारदः--

 एनश्च श्रावयेत्पातुः पाययेत्प्रसृतित्रयम् ।

इति । एनः-- पापं । तथा च विष्णुः--

 [५४]विसं(वादे नरो)वदेन्नरो लोभाच्छली भवति दुर्मतिः ।

स्मृत्यन्तरेऽपि--

 आत्मनः कामकारेण कोशं पीत्वा विसंवदेत् ।
 दरिद्रो व्याधितो मूढः सप्तजन्मनि जायते ॥

इति ।

 एवं श्रावयतः शोध्यः श्रुत्वेदं न मया कृतम् ।

इति वदन् भवेत् । तथा च विष्णुः-- उग्रदेवान् समभ्यर्च्य तत्स्नानोदकात्प्रसृतित्रयं पिबेत् । इदं मया न कृतमिति व्याहरेद्देवताभिमुखमिति । एवं कृते पूर्वोक्तकालेषु विकाराभावे शुद्धो भवति । अन्यथा दण्ड इत्यवगन्तव्यम् । इति कोशविधिः ।

अथ तण्डुलविधिः

अत्र बृहस्पतिः--

 सोपवासस्सूर्यग्रहे तण्डुलान्भक्षयेच्छुचिः ।
 शुद्धिस्याच्छुक्लनिष्ठीवे रक्तमिश्रे तु दोषकृत् ॥

अत्र केवलरक्तादपि दोषभाक्त्वं चशब्दार्थः । अत्र दिव्यसाधारणधर्मावाहानादिहोमशिरःपत्रारोपणादिकं कृत्वा आर्द्रवाससः शोध्यस्य तण्डुलभक्षणं कार्यम् । तत्तु चौर्याभियोग एव यथाऽऽह पितामहः--

 तण्डुलानां प्रवक्ष्यामि विधिं भक्षणचोदितम् ।
 चौर्ये तु तण्डुला देया नान्यस्मिन्निति निश्चयः ॥
 तण्डुलान् क्षाळयेच्छुभ्रान् शालेयान्यस्य कस्यचित् ।
 मृन्मये भाजने कृत्वा आदित्यस्याग्रतश्शुचिः ।
 स्नानोदकेन संमिश्रान् रात्रौ तत्राधिवासयेत् ॥
 प्राङ्मुखं दोषिणं स्नातं शिरोरोपितपत्रकम् ।
 तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः ॥
 पिप्पलस्य तु नान्यस्य अभावे भूर्ज एव यत् ।
 लोहितं यदि दृश्येत हनुस्तालु च शीर्यते ।
 गात्रं च कम्पते यस्य तमशुद्धं विनिर्दिशेत् ॥

इति । भक्षयित्वेति स्वार्थे ण्यन्ताद्भक्षिधातोर्हेतुर्माण्णिच् । अन्यथा निर्दिशेदित्यस्य भक्षयित्वेत्यस्य च समानार्थत्वप्रतीतेर्भक्षणं प्राड्विवाकस्यैव स्यान्न शोद्ध्यस्येति हेतुमण्णिजेव सम्यक् । आदित्यस्येति प्रतिमारूपस्यादित्यस्य; रात्रौ तत्राधिवासयेदिति स्वारस्यात् । तत्रत्येत्यादित्यगृहे । शालिव्यतिरिक्ततण्डुलनिषेधस्त्वदृष्टार्थः । अत्र चन्द्रिकाकारः- चौर्ये तु तण्डुला देया नन्यस्मिन्निति निश्चयः ।

इति । अत्रान्यस्मिन्-- स्त्रीसङ्ग्रहणाद्यन्यतरविवादे, न धनविवादे । धनविवादे तु चौर्यादन्यत्रापि तण्डुला देयाः । तदर्धार्धस्य तण्डुला इति कात्यायनेनोक्तत्वात् । नच तद्वचनं चौर्यविषयमेवास्त्विति वाच्यम् । दत्तस्यापह्नवो यत्रेत्युपक्रमविरोधापत्तेरित्याह । इति तण्डुलविधिः ।

अथ तप्तमाषविधिः

अत्र पितामहः--

 तप्तमाषस्य वक्ष्यामि विधिमुद्धरणे शुभम् ।
 कारयेदायसं पात्रं ताम्रं वा षोडशाङ्गुलम् ॥
 चतुरङ्गुलमात्रं तु मृन्मयं वाऽथ मण्डलम् ।
 पूरयेद्धृततैलाभ्यां विंशत्या वा पलैस्तु तत् ॥
 गव्यं घृतमुपादाय तदग्नौ तापयेच्छुचिः ।

मण्डलं-- परिमण्डलं-- वर्तुलमिति यावत् । घृततैलाभ्यां पूरयेदेकः पक्षः । गव्यघृतेन वा पूरयित्वा लौकिकमग्निं दिव्यदेशे प्रतिष्ठाप्य तत्र तापयेत् । पक्षद्वयेऽपि तापे वर्तमाने धर्मावाहनादिशोध्यशिरःपत्रारोपणान्तसर्वदिव्यसाधारणविधिं विदध्यात् । घृततैलपूरणपक्षे पितामहेन विशेष उक्तः--

 सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत्ततः ।
 अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तप्तमाषकम् ॥

तस्मिन्निति-- घृततैलाभ्यां पूरिते पात्रे--

 कराग्रं यो न धुनुयाद्विस्फोटो वा न जायते ।
 शुद्धो भवतु धर्मेण निर्विकारकराङ्गुळिः ॥ इत्यत्र शुद्धिविधानं उद्धरेदिति वचनात्पात्रादुत्क्षेपणमात्र एव; न बहि प्रक्षेपणे । गव्यघृतपूरणपक्षे पितामहेन विशेष उक्तः--

 सुवर्णे राजते ताम्र आयसे मृन्मयेऽपि वा ।
 गव्यं घृतमुपादाय तदग्नौ तापयेच्छुचिः ॥
 सौवर्णीं राजतीं ताम्रीं आयसीं वा सुशोभिताम् ।
 सलिलेन सकृद्धौतां मुद्रिकां तत्र निक्षिपेत् ॥
 भ्रमद्वीचीतरङ्गाढ्ये न नखस्पर्शगोचरे ।
 परीक्षेतार्द्रपत्रेण चरुकारं सघोषकम् ॥
 ततश्चानेन मन्त्रेण सकृत्तदपि मन्त्रयेत् ।
 परं पवित्रममृतं घृतं त्वं यज्ञकर्मसु ॥
 दह पावक पापं त्वं हिमशीतं शुचेर्भव ।

शुचेः-- शुद्धस्य । पापं-- पापकर्माणम् । अनन्तरकृत्यमाह प्रजापतिः--  उपोषितं ततस्स्नातमार्द्रवाससमागतम् ।
 ग्राहयेन्मुद्रिकां तां तु घृतमध्यगतां तथा ॥
 प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः ।
 यस्य विस्फोटका न स्युश्शुद्धोऽसावन्यथाऽशुचिः ॥

इति । प्रदेशिनीं परीक्षेयुरिति वचनात् प्रदेशिन्यैव मुद्रिकोद्धारणम् । अत्र प्रयोगक्रमः--

 धर्मावाहनादि शिरःपत्रान्तं सर्वदिव्यसाधारणं विधिं विधाय दह पावकेति घृतानुमन्त्रणमन्त्रेण प्राड्विवाको तैलं गव्यघृतं वाऽभिमन्त्र्य त्वमग्ने सर्वभूतानामिति मन्त्रेणाग्न्यभिमन्त्रणं-- कृतवतश्शोध्यस्य मुद्रिकातप्तमाषयोरुद्धरणान्ते प्रदेशिनीं परीक्ष काः परीक्षेयुरिति । तप्तमाषोद्धरणे पर्वाङ्गळीपरीक्षणम् । मुद्रिकोद्धरणे तु प्रदेशिनीमात्रपरीक्षणमिति विवेकः । इति तप्तमाषविधिः ।

अथ फालविधिः

अथ फालविधिरुच्यते । अत्र बृहस्पतिः--

 आयसं द्वादशपलं घटितं फालमुच्यते ।
 अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तरम् ॥
 अग्निवर्णं तु तच्चोरो जिह्वया लेलिहेत्सकृत् ।
 अदग्धश्चेच्छुचिर्भूयादन्यथा तु स हीयते ॥

अत्र चोरग्रहणं शोध्योपलक्षणार्थमिति चन्द्रिकाकारः । विज्ञानेश्वरवरदराजप्रभृतयस्तु फालविधिश्चोरस्यैव; न शोध्यमात्रस्येति वदन्ति । अत्र विद्वांसो विदां कुर्वन्तु । तत्रायं प्रयोगक्रमः-- उक्तपरिमाणं फालं दिव्यदेशे प्रतिष्ठिताग्नौ निक्षिप्य धर्मावाहनादि शोध्यशिरसि पत्रारोपणान्तं कृत्वा सर्वदिव्यसाधारणेऽनुष्ठिते सर्वं कुर्यात् । इति फालविधिः ।

अथ धर्मविधिः

अत्र पितामहः--

 अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् ।
 राजतं कारयेद्धर्ममधर्मं सीसकायसम् ॥

सीसकमिश्रमायसमिति केचित् । सीसकं वा आयसं वेत्यपरे ।

 हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ।

हन्तॄणामिति साहसाभियोगेषु । प्रायश्चित्तार्थिनामिति-- पातकाभियोगेषु । पक्षान्तरमाह बृहस्पतिः- लिखेद्भूर्जपुटे वाऽपि धर्माधर्मौ सितासितौ ।
 अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैस्समर्चयेत् ॥
 सितपुष्पस्तु धर्मस्स्यादधर्मोऽसितपुष्पधृत् ।
 एवं विधायोपलिप्य पिण्डयोस्तानि धापयेत् ॥
 गोमयेन मृदा वाऽपि पिण्डौ कार्यौ समौ ततः ।
 मृद्भाण्डकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥
 उप्तलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ ।
 समर्चयेत्ततो देवान् लोकपालांश्च पूर्ववत् ॥
 धर्मावाहनपूर्वं तु प्रतिज्ञापत्रकं लिखेत् ।
 यदि पापविमुक्तोऽहं धर्मश्चायातु मे करे ॥

इति । अभिशस्तोऽभिमन्त्रयेत् ।

 अभिशस्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः ।
 धर्मे गृहीते शुद्धिस्स्यादधर्मे तु स हीयते ।।

इति । प्रजापतिना विशेष उक्तः--

 वस्त्रद्वये लेखनीयौ धर्माधर्मौ सितासितौ ।
 जपहोमादिकैर्मन्त्रैः गायत्र्या सहितैस्तथा ॥
 आमन्त्र्य पूजयेद्गन्धैः कुसुमैश्च सितासितैः ।
 अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥
 समौ कृत्वा तु मृत्पिण्डौ स्थाप्यौ चानुपलक्षितौ ।
 ततः कुम्भात्पिण्डमेकं प्रगृह्णीताविलम्बितः ॥
 धर्मे गृहीते शुद्धिस्स्यात्संपूज्येत परीक्षकैः ।
 अधर्मे तु गृहीते तु दण्ड्यो निर्वास्य एव च ॥

   इति । धर्मविधिः । एतानि दिव्यानि ।

अथ शपथाः

 ते च मन्वादिभिरुक्ता इति पूर्वमेवोक्ताः । तथाऽपि विस्पष्टार्थमुच्यते । यथाऽऽह विष्णुः--

 निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् ।
 त्रिकादर्वाक्च्छिरः पुष्पं कोशदानमतः परम् ॥
 सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।
 गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु भेदकैः ॥

इत्यादयः । अत्र शुद्धिविभावना मनुनोक्ता--

 नचार्तिमृच्छति क्षिप्रं स ज्ञेयः शपथैश्शुचिः ।

इति । आर्तिः-- पीडा 'यस्य नो राजदैविकम्' इत्युक्ता । कालनियमश्च त्रिरात्रप्रभृतिकालगौरवलाघवपर्यालोचनया द्रष्टव्यः । यद्यपि शपथानामपि दिव्यशब्दवाच्यत्वमस्ति, तथाऽपि कालान्तरविनिर्णयनिमित्तत्वेन समनन्तरनिमित्तेभ्यो घटादिभ्यो भेदेन व्यपदेशः स्मृतिषु ब्राह्मणपरिव्राजकन्यायेन कृतः । अत्रापि विशेषमाह हारीतः--

 कोशतण्डुलधर्मांस्तु धर्मसंभवमेव च ।
 पुत्रदारादिशपथान् सर्वकालं प्रयोजयेत् ॥

नन्वाक्रोशाभावविशिष्टा लिखितादयः प्रमाणपदवीमवगाहन्त इत्युक्तम् । तन्न सङ्गच्छते । आक्रोशाभावस्य सर्वदा साक्षिसाध्यत्वनिश्चयाभावात् । दिव्येनैव साध्यत्वे तत्र मानुषं प्रमाणं निरवकाशं स्यात्तथाहि-- आक्रोशाभावः साक्षिसाध्यो न भवति । केनचित्कदाचित्कथंचिदपि कृतस्याक्रोशस्य सर्वथा चर्मचक्षुषां दिव्यज्ञानशून्यानां निश्चेतुमशक्यत्वात् । किन्तु देवदत्तस्स्वयमेवार्थी न क्वचित्कदाचित्केनचित्कथंचिदप्यासेधनीय इति कृत्वा स्वयमेवासेधाभावं जानाति । तथैव प्रत्यर्प्य सर्वप्रकारेणासेध्य इति स एवासेध्यं सम्यग्जानाति । नन्वासेधस्ससाक्षिकः । तादृशसाक्ष्यभावादेवासेधाभावस्सम्यगुद्भावयितुं शक्यः । मैवं । न ह्यभावस्य साक्षित्वं क्वचिद्दृष्टम् । नन्वनुपलब्धिप्रमाणादेवासेधाभावस्साधयितुं शक्यते । लिङ्गानामनुपलब्धिप्रमाणानुग्राहकतया प्रामाणिकमेवासेधाभावज्ञानमिति चेन्न । साक्ष्यनुपलब्ध्या साक्ष्यभाव एव ज्ञातुं शक्यो नासेधाभावः वैयधिकरण्याभावात् । ननु साक्ष्यनुपलब्ध्या साक्ष्यभावो निर्णीयते तेन साक्ष्यभावेन आसेधाभावो निर्णेतुं शक्यत इति चेत्सत्यं; ससाक्षिकासेधस्थले प्रामाणिकत्वमासेधाभावसाधनस्य भवतु । असाक्षिकासेधस्थले तु पूर्वोक्तमेवावतिष्ठत इति न कश्चिद्विरोधः । किञ्चासेधानां ससाक्षिकत्वप्रसिद्धिः प्रायिकाभिप्राया । लोके आसेधाः ससाक्षिका असाक्षिका अपि सन्ति । दृश्यन्ते च लौकिकव्यवहारेषु । आसेधगमकसाक्ष्यभावादेवासेधाभाव इति निश्चये धर्मस्य तत्वं निहितं गुहायां ईश्वर एव जानातीति स साक्षिकधर्मव्याहतिस्स्यात् । ननु सर्वेषां मानुषविग्रहवतामाशयदोषसद्भावे ससाक्षिकेऽपि प्रामाणिके व्यवहारे साक्षिणां वा लेखकादीनां वा मूलस्वामिनो वाऽप्याशये कतिपयविशेषा उद्भावयितुमशक्या इति सर्वत्र दिव्यमेव प्रवर्तते । अतो मानुषप्रमांणं निरवकशं स्यादिति चेन्मैवं । मानुषप्रमाणानां परिशुद्धानां सद्भावेऽप्याशयदोषोद्भावनद्वारा तेषां मूलशैथिल्यमापाद्य दिव्याङ्गीकारैर्निर्णेतुभिस्सभ्यैः प्राड्विवाकेन च व्यवहारस्य सोत्तरत्वमापा द्यावष्टम्भेन निर्णयः कर्तव्यः । अत एवोक्तं पितामहेन--

 सोत्तरानुत्तरत्वेन व्यवहारो द्विधा मतः ।

इति । एतद्व्याचष्टे नारदः--

 'सपणापणभेदाद्व्यवहार' इति ।

द्विप्रकार इति शेषः । अतश्च मानुषप्रमाणदूषणार्थमाशयदोषोद्घाटनेन दिव्यावलम्बने पणबन्धं दत्वा व्यवहारमवष्टभ्यावश्यं दिव्यं देयमवेति ध्येयम् ।

निर्णयकृत्यम्

अत्र निर्णयकृत्यमाह सङ्ग्रहकारः--

 उक्तप्रकाररूपेण स्वमतस्थापिताःक्रियाः ।
 राज्ञा परीक्ष्य सत्यैश्च स्थाप्यौ जयपराजयौ ॥
 यो यथोक्तान्यतमया क्रिययाऽर्थं प्रसाधयेत् ।
 भाषाक्षरसमं साध्यं स जयी परिकीर्तितः ॥
 असाधयन् साधयित्वा विपरीतार्थमात्मनः ।
 दृष्टकारणदोषो वा यःपुनस्स पराजयी ॥

इति । व्यासः--

 जितं तु दण्डयेद्राजा जेतुः पूजां प्रवर्तयेत् ।

पूजा च गन्धमाल्यवस्त्रादिना कार्या ।

 जेतुःप्रवर्तयेत्पुजां गन्धमाल्याम्बरादिभिः ।

इति स्मृतेः । यत्तु कात्यायनोक्तम्--

 शतार्धं दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत् ।

इति । यदपि विष्णुनोक्तम्--

 एतैर्दिव्यजयावधारणे शतार्धं दण्ड्यश्शुद्धः । अशुद्धो दण्डभाक् इति । तत्तु शुद्धस्य दण्डविधानं सपणव्यवहार एव । यथा समनन्तरमेव विष्णुः--

 'सोत्तर एव व्यवहारे शुद्धस्य दण्डः' इति । स तु दण्डोऽर्थदण्ड इत्यर्थसिद्धम् । अशुद्धस्य दण्डप्रकारमाह कात्यायनः--

 विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
 तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥
 सहस्रं षट्च्छतं चैव तथा पञ्चशतानि तु ।
 चतुस्त्रिद्व्येकमेवं च हीनं हीने(तु) च कल्पयेत् ॥

इति । अयं दण्डो 'निह्नवे भावितो दद्यात्' इत्युक्तदण्डेनापि समुच्चीयते इति विज्ञानेशः । सहस्रादिसङ्ख्यासङ्ख्येयत्वं पणानामेवेति भारुचिः ।

पूजाप्रवर्तनानन्तरकृत्यमाह कात्यायनः--

 सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।
 लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः ॥

इति । लेख्यं जयपत्रमुच्यते । जयपत्रे च यद्वक्तव्यं तदखिलं लेख्यविधावुक्तं तत्रानुसन्धेयम् ।

इति श्रीवीरगजपति गौडेश्वर नवकोटिकर्णाटकलुबुरिगेश्वर
जमुनापुराधीश्वर हुशनसाहि सुरत्राण शरणरक्षण श्री-
दुर्गावरपुत्र परमपवित्रचरित्र राजाधिराजराज-
परमेश्वर श्रीप्रतापरुद्रमहादेवमहाराज वि-
रचिते स्मृतिसंग्रहे सरस्वतीविलासे
व्यवहारकाण्डे प्रमाणनिर्णयो-
नाम तुरीयोविलासः


  1. मभियुक्तास्स--D.
  2. यातावार्थि
  3. व्यग्तपद--B.
  4. समादाय.
  5. स चिह्नकम्. स्मृ-वं-वा.
  6. येन. स्मृ-वं-पा.
  7. यच्छ्रावितम्.
  8. श्रेष्ठस्तेन.

  9. स्मता भुक्तेस्सल्लेख्यसमता नृणाम् स्मचंपा.
  10. एतेन धन्यस्य दशवा.
  11. भोगं केवलतो यस्तु.
  12. पूर्वतरै (नै)
  13. विनापूर्वक्रमागतादित्यस्याम्
  14. धर्ममिच्छता --D.
  15. कारुत.
  16. वक्तव्यः-- कष्ठादिना कत्सितदेहः-- (इति स्मृति च)
  17. यत्राशेष. प। स्मृ च अत्रपाठे सत्यत्वेनेतिशेषः.
  18. मैत्रात्पूर्वं, स्मृ, च पा.
  19. चापोद्यत.
  20. त्वासम्भवेन
  21. चापोद्यत.
  22. लमतिविस्तरेण.
  23. मित्यवगन्तव्यम्.
  24. प्रश्नप्रकारो.
  25. अन्धः शत्रु.
  26. एवं च
  27. येनुत्पाताः.
  28. स्थावरस्योपरीत्यर्थः.
  29. हेत्वर्थगतिसामर्थ्यैस्तत्र.
  30. इति नारदस्मृतौ दृश्यते.
  31. कदाचिदपि न सिध्यतीत्यर्थः.
  32. तद्ग्रहीतार B.
  33. वारोधयेत् B.
  34. लिखिताद्याक्षप्रयोजकाः B.
  35. B पुस्तके.
  36. द्याकाराकारित B.
  37. दुर्बलेनैवकृताकोश B.
  38. परस्त्वासे B.
  39. अत्रासेधकर्तुर्निरूपणम् B.
  40. अतश्चाक्रोश.
  41. अनागमं तु.
  42. तदाऽत्यन्तमस्याप्यु.
  43. धर्मस्त्वपेक्षितः.
  44. बालवद्ध्यस्यन्धकांश्च.
  45. स्पृशेत्पुत्रादिमस्तकम्.
  46. मुद्रितकोशे यथार्हं अर्थपरिमाणात् इत्यंशो न दृश्यते.
  47. शिरोधृतमही.
  48. त्रिगुणे.
  49. पश्चिमे
  50. पवनः, वीरमित्रोदये, वा ।
  51. इषून्न प्रक्षिपेत्प्राज्ञो.
  52. धावनानां.
  53. शृङ्गिणोवस्स्ताभस्य हिमजस्य.
  54. न संवदेन्नरो लोभात् क्षत्री वीरमित्रोदये पा ॥