प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← द्वितीयो विलासः सरस्वतीविलासः (व्यवहारकाण्डः)
तृतीयोल्लासः
प्रतापरुद्रमहादेवमहाराजः
तुरीयोल्लासः →

अथ तृतीयोल्लासः.


धर्मस्थाननिरूपणम्.

 अथ व्यवहारस्वरूपमात्रनिरूपणानन्तरं सप्रपञ्चं अष्टादशप्रभेदभिन्नो व्यवहारो निरूपयिष्यते । तदुपयोगित्वेन आदौ धर्मस्थानावस्थाननिरूपणं न्याय्यम् । यद्यपि धर्मस्थाने अवस्थितस्य राज्ञो व्यवहारदर्शनविधेः धर्मस्थानमादौ निरूपणीयम्, तथापि धर्मस्थान एव सर्वव्यवहारनिर्णय इति नियमाभावात् व्यवहारनिरूपणानन्तरं तन्निरूपणमित्यदोषः ।

धर्माधिकरणव्यवस्था.

 यद्वा पूर्वं व्यवहारस्संक्षिप्योक्तः । इदानीं धर्मस्थानप्रतिपादनानन्तरं व्यवहारः प्रपञ्च्य इति नोक्तदोषः । यत्र स्थाने आवेदितव्यतत्वनिष्कर्षः धर्मशास्त्रविचारेण निर्णेतृभिः क्रियत इति धर्मस्थानम् । अस्यैव धर्माधिकरणमिति नामान्तरम् । यत् स्थानं धर्मशास्त्रैरधिक्रियत इति धर्माधिकरणमिति । तच्च धर्माधिकरणं प्राच्यां दिशि कार्यम् । 'धर्मस्थानं प्राच्यां दिशि अग्न्युदकैः समवेतं कुर्यात्' इति शङ्खस्मरणात् । प्राच्यां दिशि राजमन्दिरादिति शेषः । अत्र लक्षण्यां सभां प्राङ्मुखीं गन्धमाल्यधूपासनबीजरत्नप्रतिमालेख्यदेवताग्न्यम्बुयुतां कल्पयेत् । एवं कल्पितां सभां प्रातः नृपः प्रविशेत् ।

"गुरून् ज्योतिर्विदो वैद्यान् देवान् विप्रान् पुरोहितान् ।
यथार्हमेतान् संपूज्य सुपुष्पाभरणाम्बरः" ॥

 अभिवन्द्य च गुर्वादीन् सुमुखः प्रविशेत् सभाम् । इति बृहस्पतिनोक्तत्वात् ॥  अत्र पुरोहितादीनिति बहुवचनं 'पाशान्' इतिवत्कर्ममात्रस्याभिधायकम् । न तु बहुत्वस्यापि । पुरोहितस्यैकत्वात् । नृपतिरपि ब्राह्मणसहितः प्रविशेत् ।

"व्यवहारान् दिदृक्षुस्तु नृपतिर्ब्राह्मणैस्सह ।
मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत् सभाम्" ॥

इति मनूक्तत्वात् । चशब्दः प्राड्विवाकपुरोहितसभ्यमन्त्रिगणकलेखकसाध्यपालहिरण्यधर्मशास्त्रैरपि सहेति ज्ञापनार्थः । "नृपश्च पुरुषसभ्यगणकलेखकहेमाग्न्यम्बुप्राड्विवाकादिसाधनसंपन्नो व्यवहारं पश्येत्" इति गौतमस्मरणात् ।

"विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।
प्रियपूर्वं प्राड्वदति प्राड्विवाकस्ततस्स्मृतः" इति ॥

पूर्वोत्तरपक्षौ पृच्छतीति प्राड्, निर्णयं विशेषेण प्रवक्तीति विवाक इति यौगिकी तस्य संज्ञा । प्राड्विवाक इति पृषोदरादित्वात् साधुः । अष्टादशविवादपदाभिज्ञः तद्भेदाष्टसहस्रवित् श्रुतिस्मृतिपरायणः आन्वीक्षिक्यादिकुशलः ब्राह्मणः प्राड्विवाकः ।

"सप्राड्विवाकस्सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः" ॥ इति ।

प्राड्विवाकः-- पूर्वोक्तलक्षणः । तेन सह वर्तते इति सप्राड्विवाकः । अमात्यलक्षणलक्षितैः युक्तः सामात्यः । सर्वशास्त्रज्ञानालोभन्यायभावाप्रज्ञत्वक्रमायातत्वानि अमात्यलक्षणानि ।

शूद्रस्य व्यवहारविचारणनिषेधः

स च विप्रक्षत्रियवैश्यानामन्यतम एव न शूद्रः ।

"द्विजान्विहाय यः पश्येत् कार्याणि वृषलैस्सह ।
तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशश्च नश्यति" ॥

इति व्यासेनोक्तत्वात् । सभ्यान् कुर्वीत व्यवहारदर्शनार्थम् ।

सभ्यजीवनकरणावश्यकत्वम्

यथा सभायां न त्यजन्ति स्थितिं तथा अर्थदानसंमानप्रभृतिभिरुपायैर्नियुञ्जीत । ते च-- श्रुताध्ययनसंपन्नाः धर्मज्ञास्सत्यवदिनः रिपौ मित्रे च समाः सभायां नियोक्तव्याः । देशाचारानभिज्ञान् नास्तिकान् शास्त्रवर्जितान् उन्मत्तान् क्रूरान् लुब्धान्न युञ्जीत । अत्र सभासदः सप्त पञ्च त्रयोऽपि वा कार्याः । अत्र प्राड्विवाकादीनां अर्थार्थितया ऋत्विजामिव सभायत्तत्वमात्रं नाधिकारः । अधिकारस्तु व्यवहारदर्शने राज्ञ एवेत्युक्तम् प्रकरणादौ । अत एव "सप्राड्विवाक" इत्यादिना तस्यैव प्राधान्येन निर्देशः । अत्र व्यवहारदर्शने अभिषिक्तस्य अनभिषिक्तस्य वा क्षत्रियजातीयस्य वा अन्यजातीयस्य वा प्रजापरिपालनादिकर्तुः नृपतेरधिकारः । अत एव--

"व्यवहारान् नृपः पश्येत् विद्वद्भिः ब्राह्मणैस्सह ।"

इति याज्ञवल्क्यः--

"प्रातरुत्थाय नृपतिः शौचं कृत्वा विधानतः ।
गुरून् ज्योतिर्विदो वैद्यान् देवान् विप्रपुरोहितान् ॥
यथार्हमेतान् संपूज्य सुपुष्पाभरणाम्बरः ।
अभिवन्द्य च गुर्वादीन् सुमुखः प्रविशेत् सभाम् ॥"

 इति बृहस्पतिः । यत्त्वभिषेकयुक्तस्य राज्ञो व्यवहारदर्शनं प्रजापतिनोक्तं, तन्न परिसङ्ख्यानार्थम् । अन्यथा 'व्यव हारान् नृपः पश्येत्' इत्यादियाज्ञवल्क्यवचनव्याकोपः । राजशब्दप्रयोगो राज्यकर्तरि गौणवृत्त्या, अवेष्ट्यधिकरण एवोक्तत्वात् । यदा नृपतिस्स्वयं कार्यनिर्णयं न करोति व्यासङ्गात् तदा तत्र बहुश्रुतं दक्षं कुलीनं मध्यस्थं शास्त्रपारगमनुद्वेगकरं स्थिरं परभीरुं क्रोधवर्जितं धर्मिष्ठं ब्राह्मणं नियुञ्जीत । यत्र ब्राह्मणो न स्यात्तत्र क्षत्रियं योजयेत् ।

"वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ।
यस्य राज्ञस्तु कुरुते शूद्रो धर्मविवेचनम् ।
तस्य सीदति तद्राष्ट्रं पङ्के गौरिव पश्यतः" ॥

राष्ट्ररञ्जनार्थं राज्ञा कतिपयैर्वणिग्भिरपि सह संसदि स्थातव्यम्--

"चतुरो वणिजस्तत्र कर्तव्या न्यायदर्शिनः" ॥

गणकलेखकावपि--

"शब्दाभिधानतत्वज्ञौ गणनाकुशलावपि ।
नानालिपिज्ञौ कर्तव्यौ"

तथा तत्र संसदि होरागणितसंहितारूपस्कन्धत्रयाभिज्ञं स्फुटप्रत्ययकारकं श्रुताध्ययनसंपन्नं ज्योतिर्विदं योजयेत् । साध्यपालस्तु शूद्र एव क्रमायातः दृढस्सभ्यानुमतः अर्थिप्रत्यर्थिसाक्ष्यादीनामाहानादिकार्यस्य कर्ता कर्तव्यः । अग्न्युदके दिव्याद्यर्थं संपाद्ये, शपथार्थं हिरण्यकोशशकृद्दर्भा निधातव्याः, एवं मन्वादिभिः श्रेष्ठं निर्णयस्थानमुक्तम् ।

भृगुप्रभृतिभिस्तु जघन्यान्यपि निर्णयस्थानान्युक्तानि ।

साधारणनिर्णयस्थानानि.

सैनिकानां सैनिका निर्णयस्थानम् । आरण्यकानामारण्यकाः । सार्थिकानां सार्थिकाः । उभयवासिनां ग्रामाः । कुलिकसार्थमुख्यपुरग्रामनिवासिनामुभयानुमतत्वात् एवं च प्रत्येकनियतानि । ग्रामपौरगणश्रेणिचातुर्विद्यवर्गकुलकुलिकनियुक्त नृपतिभेदेन दशविधं साधारणं स्थानम् । ग्रामो नाम ग्रामाकारेणावस्थितो जनः । पौरः पुरवासिनां समूहः । कुलानां समूहो गणः । श्रेणयः रजकाद्यष्टादशहीनजातयः । चातुर्विद्यः आन्वीक्षिक्यादिविद्याचतुष्टयोपेतः । चातुर्विद्यश्चेति चशब्देन विद्वद्राजपूरुषादिसमुच्चयः स्वीकृतः ।

एकस्य धर्मनियन्तृत्वनिषेधः

"तस्मान्न वाच्यमेकेन विधिज्ञेनापि धर्मतः ॥"

इति पितामहेन एकस्य धर्मकथननिषेधात् । वर्गिणो गणादयः

"गणाः पाषण्डपूगाश्च व्राताश्च श्रेणयस्तथा ।
समूहस्थाश्च ये चान्ये वर्ण्याख्यास्ते बृहस्पतिः ॥"

इति । बृहस्पतिग्रहणं-- गणादिषु इयमाख्या पूर्वमेव प्रसिद्धा इति दर्शयितुम् । आयुधधारिणां समूहो व्रातः । कुलान्यर्थिमत्यर्थिनोस्स्वगोत्राणि । कुलिका-- केचन अर्थिप्रत्यर्थिनोः गोत्रजा वृद्धाः । नियुक्ताः-- प्राड्विवाकसहितास्त्रयस्सभ्याः । नृपतिः ब्राह्मणादिसहितः ।

 सा सभा अप्रतिष्ठिता प्रतिष्ठिता मुद्रिता शास्त्रिता चेति चतुर्विधा । आरण्यकादिस्थानत्रये या सभा सा अप्रतिष्ठिता, प्रायेण देशान्तरगमनयोगित्वादुभयवादिप्रतिपन्नेषु दशस्थानेषु तदभावात् प्रतिष्ठिता । नियुक्तस्थाने पुनः मुद्राहस्तादिप्राड्विवाकाद्यधिष्ठिता मुद्रिता । नृपस्थाने शास्त्रनियन्त्रृकत्वात् शास्त्रिता ।

"प्रतिष्ठिता पुरे ग्रामे चला नामाप्रतिष्ठिता ।
मुद्रिताऽध्यक्षसंयुक्ता राजयुक्ता तु शास्त्रिता ॥

इति स्मृतेः । अध्यक्षः-- प्राड्विवाकः । एतेषां प्राबल्यमुत्तरोत्तरमस्यैव ।

"कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः ।
प्रतिष्ठा व्यवहारस्य पूर्वेभ्यश्चोत्तरोत्तरः ॥"

इति नारदोक्तेः नृपस्य प्राबल्यं । अतश्च--

"पूर्वस्थानगता वादा धर्मतोऽधर्मतोऽपि वा ।
राजस्थानं समाश्रित्य पूर्ववादं भजन्ति ते’ ॥

इति पितामहेनोक्तेः, पूर्ववादं-- पूर्वपक्षमित्यर्थः । अत्र सभायां राजा पूर्वाभिमुखं उपविशेत् । सभ्यास्तु उदङ्मुखाः । गणकः पश्चिमाभिमुखः । लेखको दक्षिणाऽभिमुख उपविशेदिति नियमार्थोऽयमारम्भः । राजव्यतिरेकेण प्राड्विवाकादिभिः निर्णयमात्रमेव कार्यम्, साहसविवादे तु निर्णयमात्रमपि न कार्यम् । यथाऽऽह बृहस्पतिः--

"राज्ञा [१]येऽभिहितास्सम्यक्कुलश्रेणिगणादयः ।
साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम् ॥

इति । "वाग्दण्डो धिग्दमश्चैव विप्रायत्तावुभौ स्मृतौ ।

अर्थदण्डवधावुक्तौ राजायत्तावुभावपि ॥
इति स्मरणात् ।

धर्मस्थापनफलं.

"अज्ञानतिमिरोपेतान् संदेहपटलान्वितान् ।
निरामयान् यः कुरुते शास्त्राञ्जनशलाकया ।
इह [२]कीर्तिमवाप्नोति लभते स्वर्गतिं च सः ॥"

इति । लोभद्वेषादिकं त्यक्त्वा यः कुर्यात्कार्यनिर्णयम्--

शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ।
अधर्मतः प्रवृत्तं तु नोपेक्षेरन् सभासदः ।
उपेक्षमाणास्ते भूपाः नरकं यान्त्यधोमुखाः ।
न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं त्वप्रियं तत्र न सभ्यः किल्बिषी ततः" ॥ इति ।
स्नेहाच्चाज्ञानतो वाऽपि मोहाद्वा लोभतोऽपि वा ।
यत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि सः ।

स्नेहो-- रागः, मोहो-- विपरीतज्ञानं । अत्र रागाल्लोभाद्भयाद्वा अन्यथावादी विवादपराजयनिबन्धनदमद्विगुणदमं दण्ड्यं इत्याह योगयाज्ञवल्क्यः--

"रागाल्लोभाद्भयाद्वाऽपि स्मृत्यपेता(दि)र्थकारिणः ।
सभ्याः पृथक् पृथक् दण्ड्याः विवादद्विगुणं दमम्" ॥

विवादे यो दमो भवति पराजये तद्द्विगुणं दाप्य इति बहुव्याख्यातृसंमतोऽर्थो ग्राह्यः । न पुनर्विवादास्पदीभूतद्रव्यद्विगुण इति कस्यचिद्व्याख्यातुरर्थः । प्राड्विवाकस्सभ्या वा व्यवहारनिर्णयात् पूर्वं अर्थिना सह विजने संभाषणमात्रादपि दण्ड्या इत्याह कात्यायनः--

"अनिर्णीते तु यद्यर्थे संभाषेत रहोऽर्थिना ।
प्राडिवाकोऽथदण्ड्यस्स्यात् सभ्याश्चैव न संशयः" ॥

इति । निर्णयादूर्ध्वमपि सभ्यदोषपरिज्ञाने तु दण्डमाह स एव ।

"सभ्यदोषात्तु यन्नष्टं देयं सभ्येन तत्तदा ।
कार्यं तु कारिणामेव निश्चितं न विचालयेत्" ॥

दुष्टसभ्येनापि निर्णीतं कार्यं न परावर्तयेत् । किन्तु धार्ष्ट्यान्नष्टं दापयेदित्यर्थः ।

"न सा सभा यत्र न सन्ति वृद्धाः ।
[३]न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यमस्ति ।
न तत्सत्यं यच्छलेनानुविद्धम्" ॥

राजा विगतमत्सरः सर्वभूतेषु समो वैवस्वतं व्रतं बिभ्रत् व्यवहारान् पश्येत् । वैवस्वतव्रतं तु यथाह यमः--

"प्रियद्वेष्यान् यथा प्राप्ते काले धर्मो नियच्छति ।
तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम्"॥

इति स्मरणात् ।

 नृपतिः धर्मशास्त्रार्थशास्त्राभ्यां अविरोधेन समीक्षमाणो व्यवहारगतिं नयेत् । धर्मशास्त्राणि-- वेदाः साङ्गाः स्मृतयो मीमांसा च पुराणं न्यायशास्त्राणि । प्रमाणान्तरदृष्टार्थविषया स्मृतिरित्यर्थः । एवं च उभयविधशास्त्रानुसरणं तयोर्मिथो विरोधाभाव एव । यदि विरोधस्स्यात्तदा याज्ञवल्कीयमुपतिष्ठते तथाच याज्ञवल्क्यः--

"स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः" ॥

इति । व्यवहाराख्यनिर्णयविशेषत इत्यर्थः । श्रुतिमूलस्मृत्योर्विरोधे वृद्धव्यवहारावगतसावकाशत्वादितर्कबलेन यथा व्यवस्था तयोर्जायते तथा ग्रहीतव्यमित्यर्थः । केवलं शास्त्रमाश्रित्यायं निर्णयो न कर्तव्यः, किन्तु तर्कानुगृहीतमेव शास्त्रमाश्रित्येति ।

"यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः" ।

इति स्मरणात् । अतश्चा परीक्ष्य व्यवहारो न कर्तव्यः अपितु परीक्ष्यैव कर्तव्य इत्याह पितामहः--

"असत्याः सत्यसङ्काशाः सत्याश्चासत्यसन्निभाः ।
दृश्यन्ते भ्रान्तिजनकाः तस्माद्युक्तं परीक्षणम् ॥
सूक्ष्मो हि भगवान् धर्मो दुष्प्रेक्ष्यो दुर्विचारणः ।
अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ॥

प्रत्यक्षमार्गः-- स्पष्टमार्गः । व्पवहारदर्शनोपायो मनुना दर्शितः--

"यथा नयत्यसृक्पातैः मृगस्य मृगयुः पदम् ।
नयेत्तथाऽनुमानेन धर्मस्य नृपतिः पदम् ॥
बाह्यैर्विभावयेल्लिङ्गैः भावमन्तर्गतं नृणाम् ।
स्वरवर्णेङ्गिताकारैश्चक्षुषा भाषितेन च ।
भूतच्छलानुरोधित्वात् द्विगतिसमुदाहृता ॥"

व्यवहारस्य क्वचिद्भूतानुसारित्वमाश्रित्य निर्णयः, क्वचिच्छलानुसारित्वमाश्रित्यापि । यदा तु सर्वदा भूतानुसरणं न शक्यते कर्तुं तदा छलानुसारेणापि साक्ष्यादिप्रमाणाधीनो निर्णयः कार्य एव । विप्रतिपत्तौ "साक्षिनिमित्ता (सत्यव्यवस्था) व्यवस्थितिः" इति गौतमोक्तत्वात्--

"भूतच्छलानुसारित्वात् द्विगतिस्समुदाहृतः ।
व्यवहारः" ॥

इति स्मृतेः छलानुसरणेऽपि राजा नाधर्मेण सज्यते ।

"यद्यदाचरति श्रेष्ठो धर्म्यं वाऽधर्म्यमेव वा ।
कुलादिदेशाचरणाच्चरित्रं तत्प्रकीर्तितम् ॥

देशस्यानुमतेनैव व्यवस्था या निरूपिता ।
लिखिता तु सदा धार्या मुद्रिता राजमुद्रया ॥
शास्त्रवद्यवतो राजा तां निरीक्ष्य विनिर्णयेत्" ॥

इति । व्यवहारश्चरित्रेण निर्णेतव्य इति भावः ।

"देशपट्टणगोष्ठेषु पुरग्रामेषु वासिनाम् ।
तेषां स्वसमयैर्धर्मशास्त्रतोऽन्येषु तैस्सह"॥

इति । यत्र चैते हेतवो न विद्यन्ते तत्र राजाज्ञया निर्णयमाह बृहस्पतिः--

"लेख्यं यत्र न विद्येत न साक्षी न च भुक्तयः ।
प्रमाणानि न सन्त्येकं प्रमाणं तत्र पार्थिवः ॥
निश्चेतुं ये न शक्यास्स्युर्वादास्सन्दिग्धरूपिणः ।
तेषां नृपः प्रमाणं स्यात् स सर्वस्य प्रभुर्यतः" ॥ इति ।
"व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतोऽन्वहम्" ॥

इति । स्वयं-- राजा । अन्वहं-- एतच्चतुर्दश्यादिव्यतिरिक्तविषयम् ।

"चतुर्दशी त्वमावास्या पौर्णमासी तथाऽष्टमी ।
तिथिष्वासु न पश्येत्तु व्यवहारपदं नृपः" ॥

इति हारीतोक्तेः । अन्यास्वपि तिथिष्वावर्तनादर्वागेव व्यवहारदर्शनम् ।

"आद्यादह्नोऽष्टभागाद्यदूर्ध्वं भागत्रयं भवेत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः" ॥ इति ।

अस्मिन् भागत्रयपरिमिते काले व्यवहारान् पश्येदित्यर्थः ।

"लेखको गणकश्शास्त्रं साध्यपालस्सभासदः ।
हिरण्यमग्निरुदकमष्टाङ्गं करणं स्मृतम् ।

तदध्यस्यानिशं पश्येत् पौरैः कार्यं निवेदितम् ।
न तु राजा वशित्वेन धनलोभेन वा पुनः ।
उत्पादयेत्तु कार्याणि नराणामविवादिनाम्" ॥

कार्याणि विवादानित्यर्थः--

"न रागेण न लोभेन न क्रोधेन गृहे नृपः ।
परैरप्रापितानर्थान् न चापि स्वमनीषया" ॥

इति । अत्र अपवादमाह पितामहः--

"पदानि चापराधांश्च छलानि नृपतेस्तथा ।
स्वयमेतानि गृह्णीयात् नृपस्त्वावेदकैर्विना" ॥

पदानि-- धिक्कृतिः सस्यघातः, अग्निदानं, विध्वंसः कुमार्याः, निपानस्योपभोगः,[४], सेतुकण्टक कच्छेदः, आरामच्छेदः, क्षेत्रसञ्चारः, विषप्रदानम्, राज्ञां द्रोहकरणं तन्मुद्रामन्त्रयोर्भेदः, बन्धविमोचनम्, भोगदण्डयोर्ग्रहणम्, दानमुत्सेकः पटहादिघोषश्च, अस्वामिकद्रव्यस्वीकारः, राजावलीढद्रव्यस्वीकारः, अङ्गविनाशनं, एतानि द्वाविंशतिपदानि नृपज्ञेयानि-- नृपेण साक्षाद्वा सूचकवचनाद्वा ज्ञात्वा द्रष्टव्यानि ।

 अपराधास्तु-- आज्ञोल्लङ्घनम्, स्त्रीवधः, वर्णसङ्करः, परस्त्रीगमनं, चौर्यं, पतिं विना गर्भः, वाक्पारुष्यं, अवाच्यं दण्डपारुष्यं च, गर्भस्य पातनं चेति । एतांश्च स्वयमेव विचारयेत् वेदकं विना । छलानि तु-- परभङ्गः, पराक्षेपः, प्राकारोपरि लङ्घनम्, निपानायतनयोर्विनाशः, परिधापूरणं, राजच्छि द्रप्रकाशनम्, अन्तःपुरवासगृहभाण्डागारमहानसेषु प्रवेशः, अनियोगेन भोजननिरीक्षणम्, विण्मूत्रश्लेष्मवातानां नृपाग्रतः प्रक्षेपकामना, राजविद्विष्टसेवा, अदत्तविहितासनं, सुवर्णवस्त्राभरणपरिधानम्, स्वयंगृहीतताम्बूलभक्षणं, अनियुक्तप्रभाषणं, नृपाक्रोशकरणं, एकवासोधारणं, अभ्यक्तत्वं, मुक्तकेशत्वम्, अवकुण्ठितत्वम्, विचित्राङ्गत्वम्, स्रग्वित्वम्, परिधानविधूननम्, शिरःप्रच्छादनम्, छिद्रान्वेषणतात्पर्यम्, दुर्जनसंसर्गः, दन्तकर्णाक्षिदर्शनम्, दन्तोल्लेखनम्, कर्णनासादिशोधनम् इत्येतानि पञ्चाशच्छलानि ।

"शास्त्राणि वर्णधर्मांस्तु प्रकृतीनां च भूपतिः ।
व्यवहारस्वरूपं च ज्ञात्वा कार्यं समाचरेत्"

प्रकृतयस्तु पितामहेन दर्शिताः-- रजक-चर्मकार-नट-बुरुड-कैवर्तक-म्लेच्छ-भिल्लादयः ।

वर्णानामाश्रमाणां तु सर्वदा च बहिस्स्थिताः ।

एते राजैकनिरता यद्यपि प्रकीर्णकाख्यविवादपद एव निर्णेतव्याः । तथापि प्रसङ्गादत्रोक्तिः । व्यवहारस्त्वष्टादशपदात्मकः प्राङ्निरूपितः ।

धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।
समाहितमतिः पश्येद्व्यवहाराननुक्रमात् ॥

अर्थिवचनानुक्रमेणेत्यर्थः--

व्यवहारदर्शनचातुर्विध्यं.

आगमः प्रथमः कार्यो व्यवहारपदं ततः ।
विचारो निर्णयश्चेति दर्शनं स्याच्चतुर्विधम् ॥

आगमोऽर्थिवचनश्रवणमादौ कर्तव्यः । ततस्तद्वचनमृणादानाद्यन्यतमे पदेऽन्तर्भाव्यम् । ततः प्रतिज्ञोत्तरप्रमाणानां विचारः । ततः प्रमाणतो जयावधारणम् । एवमालोच्य राजा सभ्या वा व्यवहारनिर्णयं कुर्युः ।

"केन कस्मिन् कदा कस्मादेवं पृच्छेत् सभां गतः"

इति[५] मनुस्मृतिं कात्यायनो व्याचष्टे ।

"काले कार्यार्थिनं पृच्छेत् प्रणतं पुरतः स्थितम् ।
किं कार्य का च ते पीडा माभैषीर्ब्रूहि मानव ॥

इति ॥ किं कार्यमित्यनेन देयाप्रदानस्य ज्ञापनार्थः प्रश्नः । का च ते पीडेति हिंसायाः । एवं पृष्टः कार्यार्थी ततस्तस्मै वक्तव्यजातं विज्ञापयेत् ।

आवेदयितृप्रश्नप्रकारः.

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥

 अनेन वाक्येन परकृतमुपद्रवं स्वयमावेदयेदित्यार्थिकोऽर्थः प्रतीयते । परैरिति बहुवचनमुपलक्षणम्, केनेत्यादिमनुवचने एकवचनान्तदर्शनानुरोधात् । चेच्छब्देन आवेदकस्य स्वरुच्यैवावेदनं कार्यम् । न तु राजाज्ञयेति ज्ञापितम् । आधर्षित इत्यनेन विवादे येषामधिकारस्तेऽप्युपलक्षिताः । न कर्तृमात्रमुक्तम् । यथाऽऽह कात्यायनः--

"अर्थिना सन्नियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।
यो यस्यार्थे विवदते तयोर्जयपराजयौ" ॥

इति । पितामहस्तु--

पिता भ्राता सुहृच्चापि बन्धुस्संबन्धिनोऽपि वा ।
यदि कुर्युरुपस्थानं वादं तत्र प्रवर्तयेत् ॥

नियुक्तनिर्देशः.

"यः कश्चित्कारयेत्किञ्चित् नियोगाद्येन केनचित् ।
तत्तेनैव कृतं ज्ञेयमनिवर्त्यं हिं तत्स्मृतं" ॥

इति । एवं च अर्थिना वा तदीयेन पुरुषेण वा आवेदनं कार्यं नान्येनेत्यनुसन्धेयम् ।

पितृभ्रातृसुहृत्संबन्धिभिन्नानां नियुक्तकार्यकरणे दण्डः.

"यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यस्स्यात् व्यवहारेषु विब्रुवन्" ॥

इति नारदोक्तेः । कात्यायनस्तु विशेषमाह--

"दानकर्मकराश्शिष्या नियुक्ता बान्धवास्तथा ।
वादिनो न च दण्ड्यास्स्युः यस्ततोऽन्यस्स दण्डभाक्"

निवेदयितृविनयः अन्यथा दण्डः.

"सशस्त्रोऽनुत्तरीयश्च मुक्तकेशस्सहाशनः ।
वामहस्तेन वा स्रग्वी वदन् दण्डमवाप्नुयात्" ॥

इति । अतो नैवंभूतो वदेदित्यभिप्रायः ।

व्यवहारदर्शनोपक्रमः

"धर्मासनमधिष्ठाय संवीताङ्गस्समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत्" ॥

अथासेधविधिः.

अत्रायमाक्रोश आसेधनानन्तरं ।

यथाऽऽह नारदः--

"वक्तव्येऽर्थे ह्यतिष्ठन्तमुत्क्रामन्तं च तद्वचः ।
आसेधयेद्द्विवादार्थी यावदाह्वानदर्शनम्" ॥

इति ॥ सन्दिग्धेऽप्यर्थे निर्णयोेदासीनं निर्णयाय प्रवर्तितव्यमित्यादिकमर्थिनो वचनमवमन्यमानं आसेधयेत्-- राजाज्ञया निरोधयेत् व्यवहारदर्शनार्थाह्वानपर्यन्तं विवादनिर्णयार्थीत्यर्थः । अयमासेधः-- स्थानकालकृतप्रवासकर्मभेदात् चतुर्विधः । स्थानासेधः गृहदेवकुलादिस्थानात् न चलितव्यम् इति निरोधनम् । कालकृतः "पञ्चम्यादौ भवत्स्वरूपं प्रदर्शनीयम् नो चेत् राजाज्ञामुल्लङ्घितवान्" इत्येवंविधः । प्रवासासेधः-- यात्रावारणम् । कर्मासेधः-- पुण्यप्रसरणादेर्वारणम् । न पुनर्निरीक्षणादे इन्द्रियनिरोधादेः संकटत्वात् न तत्र राजाज्ञातिक्रमो दोषमावहति । नदीसन्तरणकान्तारदुर्गदेशोपप्लवादिषु आसिद्ध उत्क्रामन् नापराध्नुयात् । अनासेध्यमासेधयन् दण्डभाक् भवतीत्याह नारदः--

आसेधकाल आसिद्ध आसेधं योऽतिवर्तते ।
तद्दिने योऽन्यथा कुर्वन् आसेद्धा दण्डभाग्भवेत् ॥

इति । अनासेध्याः कात्यायनेनोक्ताः--

 हस्त्यश्वरथनौवृक्षपर्वतारूढा-- विषमस्थाः-- व्याध्यार्ताव्यसनिनश्च-- यजमानाश्च-- कार्यान्तराविष्टाश्च-- तत्समये ना सेध्याः । मत्तोन्मत्तजडास्तु सर्वदा अनासेध्याः, कर्षको बीजकाले च सेनाकाले च सैनिकाः । कृतकालश्च मध्येऽनासेध्यः समुदाहे भृतगवां प्रचारेण पालाः शिल्पिनश्च तत्काले अप्राप्तव्यवहारश्च दानोन्मुखश्च । अप्राप्तव्यवहारो नाम अपूर्णषोडशवर्षः । विषमस्थः-- चोराद्यपहृत सर्वस्वः । सैनिका इत्यत्र युद्धे आसन्न इति शेषः ।

इति श्रीवीरगजपति गौडेश्वर नवकोटिकर्णाटकलुबुरिगेश्वर
जमुनापुराधीश्वर हुशनसाहि सुरत्राण शरणरक्षणश्री-
दुर्गावरपुत्र परमपवित्रचरित्र राजाधिराजराज-
परमेश्वर श्रीप्रतापरुद्रमहादेवमहाराज वि-
रचिते स्मृतिसंग्रहे सरस्वतीवि-
लासे व्यवहारकाण्डे इति
कर्तव्यतानिरूपणं नाम
तृतीयोल्लासः.


  1. ये निहिताः विदिताः.
  2. कीर्ति राजपूजां.
  3. वृद्धा न ते.
  4. सेतुकटक-- पाठान्तरम्.
  5. इदं वचनं मनुस्मृतौ नोपलभ्यते । 'स्मृत्यन्तरे च स्पष्टमेवोक्तम्' इति इदमेव वचनं विज्ञानयोगी निर्दिशति.