सरस्वतीविलासः (व्यवहारकाण्डः)/द्वितीयो विलासः

← प्रथमो विलासः सरस्वतीविलासः (व्यवहारकाण्डः)
द्वितीयो विलासः
प्रतापरुद्रमहादेवमहाराजः
तृतीयोल्लासः →

अथ द्वितीयोविलासः.


 मनुस्मृतेस्तदविरुद्धानामन्यासां स्मृतीनामितरासामुपस्मृतीनां पुराणेतिहासादीनां वेदमूलकत्वेन प्रामाण्यमङ्गीकृतं न्यायविद्भिः । केचिदत्र तासां स्मृतीनां न्यायमूलकत्वेऽपि न्यायस्य वेदमूलकत्वात् तत्स्मृतीनामपि वेदतुल्यत्वमिति केचित् ।

 अन्ये त्वाहुः । न्यायानां वेदार्थेतिकर्तव्यतावेदकत्वात् तत्तत्स्मृतीनां वेदमूलकत्वमिति । अपरे तु "व्यवहारान्नृपः पश्येत्" इत्यत्र विधेयस्य दर्शनस्य कथमंशपूरकत्वेन प्रमाणकोटिनिवेशात्प्रामाण्यमित्याहुः । अतश्च तदुक्तो धर्मोऽनुष्ठेयः सर्वेषां वर्णानां तत्प्रतिपाद्यश्चाधर्मो नानुष्ठेय इत्यविवादम् ।

 एतच्च मन्वादिस्वरूपाऽपरिज्ञाने तु न शक्यमिति[] तन्निरूप्यते--

धर्मशास्त्रकर्तारः;

 मन्वङ्गिरोव्यासगौतमात्रेययमवसिष्ठदक्षसंवर्तशातातपपराशरविष्ण्वापस्तम्बहारीतशङ्खकात्यायनगुरुप्रचेतोनारदयोगीश्वरबोधायनपितामहसुमन्तुकश्यपबभ्रुपैठीनसिव्याघ्रपादसत्यव्रतभरद्वाजगार्ग्यकाष्णजिनिजाबालिजमदग्निलौगाक्षिवत्समरीचिदेवलपारस्करलिखितछागलेयात्रिभिः प्रणीताः[] - स्मृतयः ॥ जाबानाचिकेतस्कन्दलौगाक्षिकश्यपव्याससनत्कुमारशतंनुजनकव्याघ्रकात्यायनजातूकर्णिकपिञ्जलबोधायनकणादविश्वामित्र (पैठीनसिगोभिल)[] प्रणीता उपस्मृतयः । जाबालिलौगाक्षिव्यासादयः पूर्वोक्ता न भवन्ति ॥

पुराणानि.

 पुराणानि तु-- ब्राह्मपाद्मवैष्णवशैवभागवतनारदीयमार्कण्डेयाग्नेयभविष्यत्ब्रह्मवैवर्तर्लैङ्गवाराहस्कान्दवामनकौर्ममात्स्यगारुडब्रह्माण्डानि एतान्यष्टादशपुराणानि ॥

इतिहासनामानि.

 इतिहासाः-- सत्यतप उपाख्यानसोमोत्पत्तिप्रभृतयः । अत एव "मानवो धर्मस्साङ्गो वेदः । पुराणं चिकित्सितमित्येतानि चत्वार्याज्ञासिद्धानि" इत्युक्तं विष्णुना । मानवो धर्म इत्यनेन मनुस्मृत्यविरुद्धास्सर्वास्स्मृतयश्च सङ्गृहीताः । पुराणशब्दश्चेतिहासादीनामुपलक्षकः । एवञ्च गृह्यकारप्रणीतानामपि प्रामाण्यमविरुद्धम् । तेषामपि मन्वादिप्रणीतसंस्कारकलापस्यैव मन्त्रविनियोगद्वारेण प्रयोजकत्वात् ॥

 "गृह्यकाराः स्वतन्त्रतः तत्प्रयुक्तप्रयोक्तारः" इति देवलस्मृतेः एवं स्थिते टीकाकारैः विज्ञानयोगिप्रभृतिभिः निबन्धनकारैः कुलार्कलक्ष्मीधरप्रभृतिभिः लोकानुजिघृक्षया स्मृतिव्याख्यानव्याजेन सर्वाः स्मृतयो व्याख्याताः शिष्टाऽनुगृहीतसर्वानुष्ठापकपूर्वनिबन्धृनिर्मितनिबन्धेषु विद्यमानेषु ।

एकेन चरितार्थत्वात् इतराऽनर्थतानयः ।
पूर्वप्रबन्धैर्विषयी भवेदिति ममोद्यमः ॥

 मदीयग्रन्थे जाग्रति पूर्वनिबन्धृनिर्मितनिबन्धेषु आनर्थक्यनयविश्रान्तिरिति । यद्वा पूर्वनिबन्धेषु विषयैक्ये तद्विपरीतलक्षणया विज्ञानयोगिभारुचिमेधातिथ्यसहायापरार्कचन्द्रिकाकारकुलार्कलक्ष्मीपतिप्रभृतिभिः प्रबन्धृभिः निर्मितेषु प्रबन्धेषु प्रतिगृहं विद्यमानेषु प्रत्येकं स्मार्तकर्मानुष्ठापकेषु जाग्रत्सु एकेन चरितार्थत्वादितरानर्थक्यमिति न्यायो नात्रावतरतीति वक्तव्यम् । तथैवास्मद्ग्रंन्थे न प्रसरत्येवेतरानर्थक्यन्याय इति ममोद्यम इति कारिकार्थः ॥

व्यवहारस्य आचारोपजीव्यत्वम्.

 अत्र व्यवहारस्य आचारोपजीव्यत्वं व्यवहारदर्शननिबन्धनत्वादाचारस्य । तथा हि व्यवहारदर्शनाद्धि दुष्टनिग्रहः । दुष्टनिग्रहे सति वर्णाश्रमधर्मावस्थितिः । तदवस्थितौ सत्यामेव तद्विहितधर्मानुष्ठानमित्याचारस्य व्यवहारोपजीव्यता ॥

प्रथमं व्यवहारकाण्डप्राथम्यम्.

 ततश्चाचारकाण्डाद्व्यवहारकाण्डः प्रथममारब्धः । यद्यपि मन्वादिस्मृतिषु आचारकाण्डः पूर्वं प्रतिपादितः तदनन्तरं व्यवहारकाण्डः तदनन्तरं प्रायश्चित्तकाण्ड इत्येवं क्रमेण निरूपितम् । अस्मिन् स्मृतिसङ्ग्रहरूपे ग्रन्थे तत्तत्स्मृत्यनुसारेण तदुक्तक्रमेण आचारकाण्डनिरूपणानन्तरं व्यवहारकाण्डनिरूपणं युक्तम् । तथापि वीररुद्रगजपतिमहाराजस्याकाङ्क्षानुसारेण प्रथमं व्यवहारकाण्डः प्रक्रम्यते । तत्र व्यवहारदर्शने राज्ञ एवाधिकारः । वर्णाश्रमधर्मनिर्वाहकस्य प्रजापरिपालनस्य दुष्टनिग्रहशीलस्य राजैकनियतधर्मत्वात् । तथा च याज्ञवल्क्यः--

यो दण्ड्यान् दण्डयेद्राजा सम्यक् दण्ड्यांश्च घातयेत् ।
इष्टं स्यात् क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥

[]  दण्डः धनदण्डः शारीरदण्डश्च वधस्स्पष्टः । तेन राज्ञा भूरिदक्षिणैः क्रतुभिरिष्टं स्यात् । बहुदक्षिणक्रतुफलं स राजा प्राप्नोतीत्यर्थः । न च यच्छब्दस्य विध्युपघातकत्वे निश्चिते यच्छब्दो यदाग्नेयवन्नेय इति पुरस्तात् स्वत्वनिरूपणावसरे निरूप्यते नच फलश्रवणाद्दण्डप्रणयनं काम्यमिति मन्तव्यम् । अकरणे प्रत्यवायश्रवणात् । तथा च मनुः--

अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाऽप्यदण्डयन् ।
अयशो महदाप्नोति नरकं चैव गच्छति ।।

दण्डविधाने नृपत्यादीनां प्रायश्चित्तम्.

 वसिष्ठेन-- दण्डोत्सर्गे राजा एकरात्रमुपवसेत्, त्रिरात्रं पुरोहितः, कृच्छ्रमदण्ड्यदण्डने, पुरोहितस्त्रिरात्रं चेति । अतश्च दुष्टे सम्यग्दण्डः प्रयोक्तव्य इत्युक्तम् ॥

 दुष्टपरिज्ञानं व्यवहारदर्शनमन्तरेण न सिद्ध्यति । तत्परिज्ञानाय राज्ञा व्यवहारदर्शनमहरहः कर्तव्यम्-- अत एव विष्णुः--

 ‘प्रजापरिपालनमेव राज्ञां स्वधर्मः अन्यथा स्वधर्मात्प्रच्यवेत’ इति व्यवहारदर्शनं प्रजापालनार्थत्वात्सन्ध्यावन्दनादितुल्यमित्यभिप्रायः । अत एव याज्ञवल्क्यः--

इति सञ्चिन्त्य नृपतिः क्रतुतुल्यफलान् पृथक् ।
व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतोऽन्वहम् ॥

 इति । अस्यार्थः इत्युक्तेन प्रकारेण "इष्टं स्यात्क्रतुभिः" इत्यादिना पृथगिति वर्णादिक्रमेणेत्यर्थः । वर्णादिक्रमं तु स एवाऽऽह-

स्वधर्माच्चलितानां कृत्यानुसारेण दण्डः.

कुलानि जातीः श्रेणीश्च गणान् जनपदानि च ।
स्वधर्माच्चलितान् राजा विनीय स्थापयेत्पथि ॥

कुलानि ब्राह्मणादीनां, जातयो मूर्धावसिक्तादयः, श्रेणयः ताम्बूलिकादीनां, गणः पाषण्डिनां, जनपदा नापितकारुकादयः, विनीय दण्डयित्वा । अत एव बृहस्पतिः--

धर्मशास्त्रानुसारेण सामात्यस्सपुरोहितः ।
व्यवहारान्नृपः पश्येत्प्रजासंरक्षणाय च
क्रोधलोभविहीनस्तु सत्यवादी जितेन्द्रियः ॥ इति ॥

धर्मशास्त्रानुसारेणेत्यनेन क्रोधलोभविसर्जनस्य सिद्धत्वात्क्रोधलोभविसर्जनं राज्ञस्स्वभावगुण इति प्रदर्शितम् । अत एव याज्ञवल्क्यः--

महोत्साहस्स्थूललक्षः कृतज्ञो वृद्धसेवकः ।
विनीतस्सत्वसंपन्नः कुलीनस्सत्यवाक् शुचिः ॥
अदीर्घसूत्रस्स्मृतिमान्नक्षुद्रोऽपरुषस्तथा ।
धार्मिकोऽव्यसनश्चैव प्राज्ञश्शूरो रहस्यवित् ॥
स्वरन्ध्रगोप्ताऽऽन्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विदितस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥ इति ॥

उत्साहः पौरुषं महानुत्साहो यस्य स महोत्साहः । स्थूललक्षः स्थूलमनेकद्रव्यं ददातीति स्थूललक्षो बहुप्रदः, कृतज्ञः कृतमुपकारमपकारं वा जानाति स्मरतीति कृतज्ञः । वृद्धानां सेवको वृद्धसेवकः । विनीतो गर्वरहितः । सत्वसंपन्नः परैः दुर्धर्षः । कुलीनो महाकुले जातः । सत्यवाक् प्राणाऽत्ययेऽपि सत्यं वदतीति सत्यवाक् । शुचिर्बाह्याभ्यन्तरशौचवान् । अदीर्घसूत्रः शीघ्रकारी । स्मृतिमान् अधीतवेदधारणशीलः । अक्षुद्रो गम्भीराऽशयः । अपरुषः परदोषानाविष्करणशीलः । धार्मिकः नित्यनैमित्तिक कर्मानुष्ठानपरः । वर्णाश्रमधर्मान्वितः इति विज्ञानेश्वरः । अव्यसनः अष्टादशव्यसनशून्यः । तथा च मनुः-

मृगयाऽक्षो दिवास्वापः परिवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथा त्यागः कामजो दशको गणः ॥

मृगयादीनां काममूलकत्वात्कामजं गणदशकमिति वाक्यार्थः क्रोधजं गणाष्टकमित्याह स एव--

पैशुन्यं साहसं द्रोहमीर्ष्याऽसूयार्थदूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणाष्टकः ॥ इति ॥

अष्टसङ्ख्यासङ्घघातः । एतस्मिन् वर्गद्वये काममूलकानां दशानां पानाक्षमृगयाः कष्टतमाः इत्याह स एव--

पानमक्षाःस्त्रियश्चैव मृगया च यथाक्रमम् ।
एतत्कष्टतमं विन्द्याच्चतुष्कं कामजे गणे ॥

अत्र यथाक्रममिति कामक्रोधावलम्बनेनैव क्रमविवक्षा न तु पानाक्षस्त्रीमृगयाणां परस्परवैषम्यविवक्षया क्रमपदप्रयोगः । तेषां पानाक्षस्त्रीमृगयारूपाणां कष्टतमत्वेनैव तुल्यतया चतु ष्कपदेन ज्ञापितत्वात् । क्रोधजे गणे त्रयाणां कष्टतरत्वमाह स एव ।

दण्डस्य पालनं चैव वाक्पारुष्यार्थदूषणे ।

क्रोधजे गणे त्रयाणां कष्टतमत्वमाह स एव--

क्रोधजेऽपि गणे विन्द्यात् कष्टमेतत्त्रिकं सदा ॥ इति ।

प्राज्ञः शास्त्रार्थसूक्ष्मदर्शी गम्भीरार्थावधारणक्षम इति विज्ञानेश्वरः, शूरः निर्भयः, रहस्यवित् गोपनीयार्थवेदनशीलः । पररहस्यवेदनशील इति भारुचिः । स्वरन्ध्रगोप्ता परप्रवेशद्वाररक्षकः । आन्वीक्षिक्यामात्मविद्यायां, दण्डनीत्यां अर्थयोगक्षेमोपयोगिन्यां, वार्तायां कृषिवाणिज्यपशुपाल्यायां धनोपचयहेतुभूतायां, त्रय्यां ऋग्यजुस्सामाख्यायां च विदितः प्रसिद्धः । विनीत इति पाठं कृत्वा व्याचष्टे विज्ञानेश्वरः । विशेशेण प्रावीण्यमपि नीत इति तत्तदभिज्ञैरिति शेषः । यथाऽऽह मनुः--

त्रैविद्येभ्यस्त्रयीं विन्द्यात् दण्डनीतिं च तद्विदः ।
आन्वीक्षिकीं चात्मविदः वार्तारम्भांश्च लोकतः ॥ इति ॥

तत्परिज्ञानं किमर्थमित्यपेक्षिते हारीतः--

आन्वीक्षिक्यां तु विज्ञानं धर्माधर्मौ त्रयीस्थितौ ।
अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ इति ॥

आन्वीक्षिक्यादिषु विज्ञानादिकं ज्ञातव्यमित्यर्थः नराधिपः अभिषिक्तस्स्यादिति सर्वत्र सम्बन्धः । अत्र अभिषेकयुक्तस्य नृपतेरन्तरङ्गधर्मकथनावसरे प्रासङ्गिकं तत्रैव बहिर ङ्गनिरूपणं क्रियते-- तत्र कात्यायनः-

राजा पुरोहितं कुर्यादुदितं ब्राह्मणं हितम् ।
कृताध्ययनसम्पन्नमलुब्धं सत्यवादिनम् ॥ इति ॥

अत्रैकत्वं विवक्षितं यूपं छिनत्तीतिवदुत्पाद्यत्वात् । तथा च याज्ञवल्क्यः--

पुरोहितं च कुर्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्यां तु कुशलमथर्वाङ्गिरसे तथा ॥

 उदितोदितमिति-- उदितैर्विद्याभिजननानुष्ठानादिभिरुदितं समृद्धमिति विज्ञानेश्वरः--

भारुचिस्तु--

 उदिते राज्ञः पट्टवन्धसमये उदितस्सम्पाद्यः तथा च हारीतः--

पट्टबन्धोदये कार्य एक एव पुरोहितः ।
तेनैव कार्यास्सर्वास्तु राज्ञस्तस्यौर्ध्वदैहिकाः ॥
अल्पायुष्ट्वात् कलियुगे तथा कुर्यात् द्विकं सदा ॥ इति ॥

अत्र और्ध्वदैहिकग्रहणं सर्वक्रियोपलक्षणार्थम् । ऐहिकक्रिया राज्ञस्त्वशक्त्या पुरोहितेनैव कार्याः । तदा पट्टवन्धसमय एव द्विकं द्वौ कुर्यात् । एकः प्राधान्येन, अपरस्तूपसर्जनतया, प्रधानस्य नाशे उपसर्जनस्य प्राधान्यं । तस्योपसर्जनपुरोहितस्य प्राधान्यस्वीकारसमये उपसर्जनं पुरोहितान्तरं सम्पाद्यम् । "अल्पायुष्ट्वात्कलियुग" इति न्यायस्यात्रापि समा नत्वात् । यद्यप्यत्र सङ्ख्याऽविवक्षिता । तथाप्युपसर्जनस्य तत्रैवान्तर्भावादेक एव पुरोहित इति अनेन द्वित्वसङ्ख्या न विरुध्यते । अथर्वाङ्गिरसे चेति शन्त्यादिकर्मसु कुशलमित्यर्थः शेषमतिरोहितार्थम् । एक एव पुरोहित इति नियमः । पुरोहितान्तरनिवृत्तिपरः न तु ज्योतिर्विन्निवृत्तिपरः । पुरोहितत्वाज्ज्योतिर्विदः पृथक्सम्पाद्यात्वात् । अत एव विष्णुः-- "ज्योतिर्वित्पुरोहितौ कार्यौ" इति ।

 तथाच राजलासके--

"ज्योतिर्वित्पुरोहितमन्त्रिणः कार्याः" इति ।

मन्त्रिण इति मन्त्रणं राजकार्यविचारः । यद्यपि याज्ञवल्क्येनोक्तम्--

"पुरोहितं च कुर्वीत दैवज्ञमुदितोदितम्" इति ।

पुरोहित एव दैवज्ञश्चेत् दैवज्ञान्तरं न कर्तव्यम् । इत्येवं परमिति केचिद्व्याचक्षते ।

 "पुरोहितं च कुर्वीत दैवज्ञं च कुर्वीत" तौ कदेत्याकाङ्क्षायामाह "उदितोदितमिति" । उदितमुदयं भावे निष्ठा उदयसमयात् उदितमिति पञ्चमीसमासः । उदयात् पट्टबन्धात् पूर्वमेव ज्योतिर्विद्वरणम् । पट्टबन्धनानन्तरं पुरोहितवरणमिति । अत एवोक्तं राजलासके--

"वृतोपदिष्टमुहूर्तेऽभिषेकं कुर्यात्" इति

 वृतेन ज्योतिर्विदा उपदिष्ट इति वृतोपदिष्टः ।  यत्तूक्तं विष्णुना--

 "आथर्वणिकं पौराणिकं धर्मशास्त्रकुशलं पुरोहितं वृत्वा ततो ज्योतिर्विदं वृणुयात्" इति ।

 तत्तु ज्योतिर्विद्वरणाऽऽवश्यकत्वप्रतिपादनपरम् ।

वरणस्य पूर्वापरभावप्रतिपादनं क्त्वाप्रत्ययस्य समानकर्तृकत्वमात्र एव विहितत्वेन न पूर्वकालनिबन्धनत्वात् समानकर्तृकत्वमात्रनियतत्वं मुखं व्यादाय स्वपितीत्यादौ दृष्टम् । एतच्च समानकर्तृकयोः पूर्वकाल इत्यत्र हरिणा प्रपञ्चितम् । अतश्च ज्योतिर्वित्कर्तव्यताप्रतिपादनपरमिति युक्तमुत्पश्यामः । ततश्च राजलासकोक्तं-- "वृतोपदिष्टमुहूर्तेऽभिषेकं कुर्यात्" इति समञ्जसं स्यात् । अत एव राजकार्यविचारे--

तैस्सार्धं चिन्तयेद्राज्यं विप्रेणाथ स्वयं ततः ।

इति याज्ञल्क्यवचने विप्रपदं ज्योतिर्वित्परम् ।

मन्त्रिपुरोहितादिवरणम्.

राजकार्यकुशलमन्त्रिविचारानन्तरं दैवज्ञविचार एव युज्यते । न तु पुरोहित विचारः । विज्ञानयोगिना तु विप्रपदं पुरोहितपरमित्युक्तम् । यदि पुरोहित एव ज्योतिर्वित्तत्परमित्यनुसंधेयम् । तथाच मन्त्रिणोऽपि कार्या इत्याह विष्णुः-- "मौल्यानर्थविदो मन्त्रिणः कुर्वीत स्वराष्ट्रस्य गुप्तये" इति मौल्यान् स्ववंशपरम्परायातान्, अर्थविदः धनार्जनोपायविदश्च एतेषामभावे राज्यस्य गुप्ति र्न विद्यत इत्यवश्यं संपाद्या इत्यर्थः । मौल्यानिति बहुवचनं सप्त वाऽष्टौ वा कार्या मन्त्रिण इति । तथाच मनुः ।

मौल्यान् शास्त्रविदश्शूरान् लब्धरक्षान् कुलोद्भवान् ।
सचिवान् सप्त वाऽष्टौ वा कुर्वीत सुपरीक्षतान् ॥ इति ।

 अत्र विशेषमाह याज्ञवल्क्यः--

स मन्त्रिणः प्रकुर्वीत मौलान्प्राज्ञान्शुचीन्स्थिरान् ।
तैस्सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततस्स्वयम् ॥ इति ।

स राजा महोत्साहादिगुणयुक्तः प्राज्ञः हिताहितविवेककुशलः, मौल्या व्याख्याताः, स्थिराः महत्यपि हर्षविषादस्थाने विकाररहिता इति विज्ञानेश्वरः । भारुचिस्तु स्थैर्यं नाम मित्र भेदेऽपि स्वभावतोऽवस्थानं स्वामिहितैषणमित्यर्थः । शुचयो निष्कळङ्काः एवं मन्त्रिभिस्सार्धं राजा राज्यं सन्धिविग्रहादिकार्यं चिन्तयेत् । ततः सर्वशास्त्रार्थकुशलेन ज्योतिर्विदा ब्राह्मणेन सह कार्यं सञ्चिन्त्य ततः स्वयं स्वबुद्ध्या चिन्तयेत् । अत्र विशेषमाह विष्णुः--

 "चत्वार ऋत्विजो वृणुयात् सदस्यं पञ्चमं श्रौतस्मार्तक्रियासिद्धय" इति । चत्वार ऋत्विज इति ब्रह्मा होता अध्वर्युरग्निरिति केचित् । केचिद्ब्रह्माऽध्वर्युर्होतोद्गातेति महर्त्विजश्चत्वार इत्याहुः । श्रौतस्मार्तक्रियानुष्ठानसिद्धर्थं सदस्यपञ्चमान् ऋत्विजो वृणुयादित्यर्थः ।

 गौतमस्तु विशेषमाह--

  "उपद्रष्टापि सम्पाद्य" इति । अत एव अविशेषेणोक्तं याज्ञवल्क्येन ।

"श्रौतस्मार्तक्रियाहेतोर्वृणुयादेव चर्त्विजः ।
यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् ॥

यज्ञानग्निष्टोमादीन् चकाराद्राजसूयादीन् । तदनन्तरमाह वसिष्ठः ।

योगक्षेमलक्षणम्.

"योगक्षेमार्थयोर्यत्नः कर्तव्य" इति

अस्यार्थः अलब्धस्य लाभो योगः । लब्धस्य परिपालनं क्षेमः उभयमपि धर्मानुसारेणैव । अत एवाह याज्ञवल्क्यः--

अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ इति ।

अलब्धलाभाय धर्माविरोधेन यत्नः कर्तव्यः । लब्धं तु स्वयमपेक्षया रक्षेत् । नीतिः वणिक्पथादिका । वृद्धं पात्रेषु त्रिषु धर्मार्थकामेषु निक्षिपेत् । अत्र पात्रेष्विति बहुवचनं त्रित्व एव पर्यवसितम् । कपिञ्जलाधिकरणन्यायेनेति भारुचिः । एतद्भारुचिव्याख्यानं पात्रत्रैविध्यप्रतिपादनपरम् । न तु पात्रसङ्कोचप्रतिपादनपरम् । अत एवोक्तं हारीतेन--

 "आयव्ययौ परिज्ञायेति" पालितं वर्धयेन्नीत्येति"

याज्ञवल्कीय वचनसमानार्थं वेदितव्यम् । आयव्ययपरिज्ञानानन्तरं आयव्यययोः साम्ये व्ययस्याधिक्ये वा दातुमनुचितत्वात् कोशाभावे राज्ञः स्वराष्ट्रस्य स्थापनं परराष्ट्रस्य साधनं दुश्शकमिति वक्ष्यमाणत्वात् । यत्तु विष्णुनोक्तं- "योगक्षेमसाधितं द्रव्यं ब्राह्मणेभ्योऽतिथिभ्यः सत्रिभ्यः इष्टापूर्तार्थं कुशीलवेभ्यो नर्तकादिभ्यो बलिने राज्ञे करं सौदायिकं पारितोषिकं दद्यात्" इति ।

 योगक्षेमौ व्याख्यातौ । ब्राह्मणेभ्यः पात्रभूतेभ्यः तुलापुरुषादिदानरूपेण देयम् । अतिथिभ्यः पञ्चमहायज्ञावसाने स्वयमागतेभ्यः, सत्रिभ्यः यज्ञदक्षिणार्थमागतेभ्यः, एतत्सत्रिपदं धर्मजनकक्रियासाधनार्थं द्रव्ययाचकानामुपलक्षकं । अतश्च तटाकादिनिर्मातॄणां यत्किञ्चिद्देयम् । इष्टापूर्तार्थं । इष्टं यागः, पूर्तं तटाकादि । यागशब्देन यागदक्षिणा । पूर्तशब्देन पूर्तनिर्मातृभृतिरुपलक्ष्यते । एतद्द्वयं स्वकृतमित्यवगन्तव्यम् । अन्यथा सत्रिपदपौनरुक्त्यात् । अयं च धर्ममूलव्ययप्रकारः । बलिने राज्ञे करमिति अर्थपुरुषार्थमूलव्ययः । शेषस्तु कामपुरुषार्थमूलव्ययः । कृषिकाणां भृतिः त्रिवर्गसाधारणव्ययः । सौदायिकं स्त्रीधनं पारितोषिकं स्त्रीणां तोषवशाद्दत्तम् । तच्च पारितोषिकपदं सामान्यतः परितोषमूलकदाने विशेषनिष्ठतां विहाय प्रवर्तते क्वचित् ।

यथा--

"राजा भटानां पारितोषिकं दत्ते" ॥ इति ।

तदपि आयव्ययपरिशीलनानन्तरं यथाशक्ति देयमित्येवं परम् । आयव्ययपरिशीलनानन्तरं यथाशक्ति किं कर्तव्यमित्यपेक्षिते याज्ञवल्क्यः-

"भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च ।
अक्षयोऽयं निधीराज्ञां यद्विप्रेषूपपादितम् ॥

ब्राह्मणेभ्यः पात्रभूतेभ्यः भोगान् सुखानि तत्साधनद्वारेण दद्यात् । सुखसाधनानि दद्यादित्यर्थः । वसूनि सुवर्णरूप्यप्रभृतीनि नानाप्रकाराणि दद्यात् । शेषं व्यक्तार्थम् ।

 साधारणधर्मत्वेन दानविधौ प्राप्ते राज्ञां धनमावश्यकमिति पुनर्वचनं याज्ञवल्क्यस्य । स च तदेव प्रस्तौति--

"अस्कन्नमव्यथं चैव प्रायश्चित्तैरदूषितम् ।
अग्नेस्सकाशाद्विप्राग्नौ हुतं श्रेष्ठमिहोच्यते ॥

अस्यार्थः-- अग्नेस्सकाशादग्निसाध्याद्भूरिदक्षिणात् राजसूयाश्वमेधादेरपि विप्राग्नेर्हुतं श्रेष्ठमुच्यते । यत् एतदस्कन्नं क्षयरहितं अव्यथं पशुहिंसादिरहितं प्रायश्चित्तादिरहितं च यद्ब्राह्मणेभ्यो दीयते । तथा च मनुः--

"नृपाणामक्षयो ह्येष निधिर्ब्राह्मे निधीयते ।
न तं स्तेना न चामित्रा हरन्ति न च नश्यति ॥
तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ।
न स्कन्दति न व्यथते न विनश्यति कर्हिचित् ।
वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ इति ।

तत्र विशेषमाह याज्ञवल्क्यः--

"दत्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥" इति ।

निबन्धो वाणिज्याधिकारिभिः प्रतिवर्षं प्रतिमासं वा स्ववाणिज्यात् द्रव्यात् यत्किञ्चिद्धनमस्मै ब्राह्मणाय अस्यै देवतायै वा देयमिति प्रभुसमये लभ्योऽर्थः ।

 यद्यप्यत्र धनदातृत्वं वाणिज्याधिकारिणामेव । तथापि निबन्धकर्तुरेव पुण्यं तदुद्देशेनवैतेरस्य प्रवृत्तेः । भूमिं दत्वेत्यत्र भूमिशब्दः आरामादीनामुपलक्षकः । अतएव बृहस्पतिः--

शासनप्रकरणम्.

"दत्वा भूम्यादिकं राजा ताम्रपट्टेऽथवा पटे ।
शासनं कारयेद्धर्म्यं स्थानवंशादिसंयुतम्" ॥

अत्र याज्ञवल्क्यः--

"अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः ।
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ॥
स्वहस्तकालसम्पन्नं शासनं कारयेत् स्थिरम् ।
पट्टे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम्" ॥

एतच्च लेख्यप्रकरणे प्रतिपाद्यते ।

दुर्गम्

इदानीं राज्ञो निवासस्थानयाह ।

जाङ्गलं तु प्रकुर्वीत दुर्गं कोशस्य गुप्तये ।

जाङ्गलं जाङ्गलदेशस्थितं न तु दुर्गं जाङ्गलम् ।

यदाऽऽह याज्ञवल्क्यः--

"रम्यं पशव्यमाजीव्यं जाङ्गलं देशमाविशेत् ।
तत्र दुर्गाणि कुर्वीत जनकोशाप्तगुप्तये" ॥

रम्यमुपवनादिभिः, पशव्यं पशुभ्यो हितं, आजीव्यं कन्दमूलफलपुष्पादिभिः । यद्यप्यल्पोदकतरुपल्लवदेशो जाङ्गलः, तथाप्यत्र समृद्धजलतरुपर्वतदेशो जाङ्गल इति विज्ञानेश्वरः ।

 दुर्गं षड्विधम्--

"धन्वर्दुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव च ।
नृदुर्गं गिरिदुर्गं च समाश्रित्य वसेत्पुरम्" ॥

 इति मनुस्मरणात् । अत्र विशेषः स्मृत्यन्तरे--

"धर्मकृत्येषु धर्मज्ञानर्थकृत्येषु पण्डितान् ।
स्त्रीषु क्लीबान्नियुञ्जीत नीचान्नीचेषु कर्मसु ॥ इति ।

 अनेनैवाभिप्रायेणोक्तं याज्ञवल्क्येन--

"तत्र तत्र च निष्णातान् अध्यक्षान् कुशलान् शुचीन् ।
प्रकुर्यादायकर्मान्तव्ययकर्मसु चोदितान्" ॥ इति ।

तत्र धर्मादिस्थानेष्विति शेषः । अस्यार्थः स्पष्टीकृतो वृद्धैः--

प्राज्ञत्वमुपधाशुद्धिरप्रमादोऽभियुक्तता ।
कार्येषु व्यसनाभावः स्वामिभक्तिश्च योग्यता ॥ इति ।

राज्ञां प्रतापार्जितस्य दाने फलाधिक्यमाह याज्ञवल्क्यः--

"नाऽतः परतरो धर्मो नृपाणां यत् रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ इति ।

रणार्जितद्रव्याभावेऽपि तद्द्रव्यदानात् तत्र मरणमेव श्रेय इत्याह स एव-

"य आहवेषु युध्यन्ते भूम्यर्थमपराङ्मुखाः ।
अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥
पदानि क्रतुतुल्यानि भग्नेष्वविनिवर्तिनाम् ।
राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥
तवाहंवादिनं क्लीबं निर्हेतिं परसङ्गतम् ।
निहन्याद्विनिवृत्तं च वृद्धप्रेक्षणकारिकम्" ॥

तवाहमिति यो वदति त्वदीयोऽहमिति वदेदित्यर्थः । शेषं सुगमम् । आदिग्रहणात् विरथविसारथ्यादयो गृह्यन्ते । यथाऽऽह गौतमः--

 "न दोषो हिंसायामाहवेऽन्यत्र व्यश्चसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः" इति । शङ्खोऽपि विशेषमाह-

 "न पानीयं पिबन्तं न भुञ्जानं नोपानहौ मुञ्चन्तं नापवर्माणं नाक्तरेणुं न स्त्रियं न वाजिनं न राजानं हन्यादिति"

 विष्णुस्तु-- "दीक्षितं कान्तापरिवृतं कान्तावेषं कृताञ्जलिं प्रपलायितं त्यक्तास्त्रं न हन्यादिति"

मनुस्तु विशेषमाह--

"न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् ।
न कर्णिभिर्नापि दिग्धैः नाग्निज्वलिततेजनैः ॥
न च हन्यात्स्थलाऽरूढान् न क्लीबान्न कृताञ्जलीन् ।
न मुक्तकेशं नाऽसीनं न तवास्मीति वादिनम् ॥

न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।
नाऽयुध्यमानं पश्यन्तं न परेण समागतम् ॥
नायुधव्यसनं प्राप्तं नार्तं नातिपरिक्षतम् ।
न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ इति ।

व्यवहारदर्शनम्.

अत्र विशेषमाह विष्णुः--

 "प्रतिदिनमायव्ययपरिशीलनं कर्तव्यं व्यवहारदर्शनवदिति" अनेनाभिप्रायेणाह याज्ञवल्क्यः--

"कृतरक्षस्समुत्थाय पश्येदायव्ययौ स्वयम् ।
व्यवहारान् ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः" ॥ इति ।

कृतरक्षः पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातकाल उत्थाय स्वयमेवायव्ययौ पश्येत् । ततो व्यवहारान् दृष्ट्वा मध्याह्नकाले कामतो यथारुचि भुञ्जीतेति क्रमविवक्षामाह विज्ञानेश्वरः । अत्र क्रमो न विवक्षित इति भारुचिः । अतः प्रातःकाल एव स्नात्वा भुक्त्वा व्यवहारदर्शनं कर्तव्यमिति । भोजनानन्तरकृत्यमाह वसिष्ठः--

 "भाण्डागारनिरीक्षणं, चारदूतप्रेषणं, उपायनादिस्वीकारः, मन्त्रविचारो मन्त्रिभिः" इति ।

 उपायनं सामन्तभूपालैः प्रेषितः करः । चारा वाणवेषधारिणो गूढाः । दूतास्तु प्रकाशाः यथाऽऽह योगीश्वरः-

"हिरण्यं व्यावृतानीतं भाण्डागारे विनिक्षिपेत् ।
पश्येच्चारान् ततो दूतान् प्रेषयेन्मन्त्रिसङ्गतः" ॥ इति ।

अत्र विज्ञानेश्वरः--

 "चारास्तु त्रिविधाः-- निसृष्टार्थाः, सन्दिष्टार्थाः, शासनहस्ताश्चेति । तत्र निसृष्टार्थाः राजकार्याणि देशकालोचितानि स्वयमेव कथयितुं क्षमाः । सन्दिष्टार्थास्तु उक्तमात्रं परस्मै निवेदयन्ति । शासनहस्तास्तु राजलेख्यहारिण इत्याह" ।

तदनन्तरकर्तव्यमाह विष्णुः--

"अपराह्णे यथेच्छमन्तःपुरविहारी स्यादिति"

अत एवाह मनुः--

"भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सदा ।
विहरेच्च यथाकामं पुनः कार्याणि चिन्तयेत्" ।

इत्यत्र केन सहेत्याकाङ्क्षायामाह याज्ञवल्क्यः--

"ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समाहितः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत्" ॥ इति ।

ततः अपराह्ण इत्यर्थः । ततः किं कुर्यादित्युक्तं हारीतेन--

"सन्ध्यामुपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।
रहस्यस्थायिनां चैव प्रणिधीनां च चेष्टितम् ॥ इति ।

तथाच विष्णुः--

 "सायंकाले शस्त्रपाणिः क्वचित् स्थापितचारानाहूय रहस्यं शृणुयात्" इति । अनेनैवाभिप्रायेणोक्तं योगीश्वरेण-

"सन्ध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् ।
नृत्तगीतैश्च भुञ्जीत पठेत्स्वाध्यायमेव च" ॥ इति ।

सन्ध्योपासनस्य सामान्यतः प्राप्तस्यापि पुनर्वचनं कार्यानुकूलत्वादविस्मरणार्थम्" इति विज्ञानेश्वरः । भारुचिस्तु- "कार्यव्यासङ्गेऽपि शक्तौ सत्यां न पुरोहितकृत्यं सन्ध्योपासनमिति ज्ञापनार्थम्" इत्याह । तदनन्तरं किं कर्तव्यमित्यपेक्षिते योगीश्वरः-

"संविशेत्तूर्यघोषेण प्रबुध्येच्च तथैव च ।
शास्त्राणि चिन्तयेद्बुध्या सर्वकर्तव्यतां तथा" ॥ इति ।

अत एवाह वसिष्ठः--

 "ब्राह्मे मुहूर्ते चोत्थाय त्रिचतुरैः विद्वद्भिस्सह शास्त्राणि चिन्तयेत्" इति । सर्वकर्तव्यतां तु स्वयमेव चिन्तयेत् । एतत् स्पष्टविषयम् । यथाऽऽह हारीतः--

एतद्वृत्तं समातिष्ठेत् स्वस्थस्सन् पृथिवीपतिः ।
अस्वस्थः सर्वमेतत्तु मन्त्रिमुख्ये निवेदयेत्" ॥ इति ।

तदनन्तरकृत्यमाहतुः शङ्खलिखितौ--

"विश्वासिनश्चारान् समानयेत् तानन्यत्र प्रेषयेत्" ॥ इति

तदनन्तरकृत्यमाह विष्णुः--

 "सन्ध्योपासनमग्निहोत्रर्त्विक्पुरोहिताशीर्वादस्वीकारो ज्योतिविद्दर्शनसम्भाषणरहस्यकथनपूर्वकं स्वशरीरस्थितिं निवेद्य प्रतिर्विधानं चादिभ्य श्रोत्रियेभ्यः कनकतिलादिदानानि दद्यात्" ॥ इति । स्वशरीरनिवेदनं वैद्यानाम् । अतएवाह याज्ञवल्क्यः--

"प्रेषयेच्च ततश्चारान् स्वेष्वन्येषु च सादरान् ।
ऋत्विक्पुरोहिताचार्यैराशीर्भिरभिनन्दितः ॥
दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद्गां काञ्चनं महीम् ।
नैवेशिकानि च तथा श्रोत्रियाणां गृहाणि च ॥
ब्राह्मणेषु क्षमा स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।
स्याद्राजा भृत्यवर्गे च प्रजासु च पिता यथा" ॥ इति ॥

 ब्राह्मणेष्वधिक्षिपत्स्विति शेषः ।

राज्ञः प्रजापरिपालने फलविशेषमाह विष्णुः--

षड्भाग हारित्वम्

"तपसः षड्भागं गृह्णाति प्रजारञ्जनात् राजा" इति ।

अस्यार्थः-- प्रजारञ्जनादेव राजशब्दवाच्यः । न तु पुण्यात् । षड्भागमादत्ते इति । अत एवाह वसिष्ठः--

"न्याय्यो राजा षड्भागहारी" इति ।

न्याय्यो न्यायादनपेतः षष्ठं भागं तपस इति शेषः ।

राज्ञः प्रजापरिपालनफलम्.

अतएवाह याज्ञवल्क्यः--

"पुण्यात् षड्भागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात् प्रजानां परिपालनम्" ॥ इति ॥

सर्वदानेभ्योऽअधिकं तस्मादवश्यं कर्तव्यमित्यर्थः । विज्ञानेश्वरस्तु,

 "यस्मादधिकं फलं तस्मात् प्रजासु यथा पिता तथैव स्यादिति गतेन संबन्धः" इत्याह । अत्र विशेषमाह हारीतः--

"राष्ट्राधिकृतवृत्तं तु चारैर्ज्ञात्वा प्रजावनम्" ॥ इति ।

प्रजावनं-- प्रजारक्षणम् । राज्ञा ये अधिकृताः--- अधिकारिणः तेषां वृत्तं चारैर्ज्ञात्वा दुष्टान् घातयेत्, साधून् सम्मानयेदिति ।

 यथाह-- वसिष्ठः ।

"कायस्थेभ्यो विशेषतो रक्षेदुत्कोचजीविभ्यः" ॥ इति ।

एतच्च व्याख्यातं सङ्ग्रहकारेण-- उत्कोचजीविभ्यः कायस्थेभ्य इत्यन्वये कायस्था यद्युत्कोचजीविनः तदा तेभ्यः अवश्यं संरक्षणं कर्तव्यमिति, तत्र, कायस्था-- गणका उत्कोचजीविन एव । एतच्चोत्कोचजीविभ्योऽपि रक्षणं पृथगेव ।

अतएवाह-- याज्ञवल्क्यः ।

"ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् ।
साधून् सम्मानयेद्राजा विपरीतांस्तु घातयेत् ॥
उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् ।
सदानमानसत्कारान् श्रोत्रियान् वासयेत्तदा ॥
चाटतस्करदुवृत्तमहासाहसिकादिभिः ।
प्रीड्यमानाः प्रजा रक्षेत् कायस्थैश्च विशेषतः" ॥ इति ॥

कायस्थानां राजवल्लभतया अतिमायावितया दुर्निवारत्वादित्यर्थः । चाटाः प्रतारकाः ।

अन्यायेन कोशपूरणे राज्ञो हानिः.

"अन्यायेन नृपो राष्ट्रात् स्वकोशं यो विवर्धयेत् ।

सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥
प्रजापीडनसन्तापात्समुद्भूतो हुताशनः ।
राज्ञां कुलं श्रियं प्राणान् नादग्ध्वा विनिवर्तते ॥
य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालनात् ।
तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥

यस्मिन् देशे य आचारः कुलस्थितिव्यवहारो वा यथैव प्रागासीत्तथैवासौ परिपालनीयः । यदि शास्त्रविरुद्धो न भवतीति विज्ञानेश्वरः । 'यदा वशमुपागतः' इत्यनेन वशोपनयनात् प्राक् अनियम इति दर्शितम् । तथाच पितामहः--

"उपरुद्ध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच्चास्य सततं यवसान्नोदकं समम्" ॥ इति ॥

अत्र विशेषमाहतुः शङ्खलिखितौ--

"आफलोदयं मन्त्रगुप्तिः"॥ इति ॥

आफलोदयं-- फलप्राप्तिपर्यन्तं । मन्त्रो-- राजकार्यविचारः ।

यदाऽऽह याज्ञवल्क्यः--

"मन्त्रमूलं यतो राज्यं तन्मन्त्रं च सुरक्षितम् ।
कुर्याद्यथास्य न विदुः कर्मणामाफलोदयात्" ॥ इति ॥

अस्य राज्ञः कर्मणां सन्धिविग्रहादीनाम् । किञ्च--

कृत्रिमसहजप्राकृतशत्रुमित्राणि

"अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः" ॥

अरिर्द्विषन् । मित्रं सखा । एतद्विलक्षणः उदासीनः-- मैत्रशात्रवरहितः । ते च त्रिविधाः । सहजाः प्राकृताः कृत्त्रिमाश्चेति । सहजाः--सापत्नपितृव्यसुतादयः । कृत्त्रिमाः-- यस्यापकृतं येन वा अपकृतं । प्राकृतस्तदनन्तरदेशाधिपतिः । सहजमित्रं भागिनेयपैतृष्वसेयमातृष्वसेयादिः । कृत्त्रिमं-- येन वोपकृतं यस्य वा उपकृतं । प्राकृतं मित्रं-- एकान्तरितदेशाधिपतिः । सहजकृत्त्रिममित्रलक्षणरहितौ सहजकृत्त्रिमोदासीनौ । प्राकृतोदासीनो-- द्व्यन्तरदेशाधिपतिः ।

 अरिः पुनश्चतुर्विधः-- यातव्यः, छेतव्यः, पीडनीयः, कर्शनीयश्चेति । तत्र यातव्योऽनन्तरभूमिपतिः । व्यसनी हीनबलो विरक्तप्रकृतिः विदुर्गो मित्रहीनो दुर्बलः छेत्तव्यः । पीडनीयो मन्त्रबलहीनः । []प्रबलमन्त्रस्तु कर्शनीयः ।

यथोक्तम्--

"निर्मूलनाश उच्छेदः पीडनं बलनिग्रहः ।
कर्शनं तु पुनः प्राहुः कोशदण्डोपकर्शनात्" ॥ इति ॥

बृंहणीयकर्शनीयभेदेन मित्रं द्विविधम्

मित्रं च द्विविधम् । बृंहणीयं कर्शनीयं चेति । बलकोशहीनं बृंहणीयं । 'कोशहीनं बृंहणीयम्, कोशबलाधिकं कर्शनीयं' इत्याह विज्ञानेश्वरः । एतद्राजमण्डलं क्रमशः पूर्वादिक्रमेण चिन्त्यम् । पुरतः पृष्ठतः पार्श्वतः त्रयस्त्रय आत्मा चैक इति त्रयोदशराजकं राजमण्डलम् । पार्ष्णिग्राहादयस्तु अरिमित्रोदासीनेष्वेवान्तर्भावान्न पुनरुक्ता धर्मशास्त्रे ।

राजमण्डलम्

 उशनआदिमते तु एकत्वादिसङ्ख्यासङ्ख्येयप्रकृतिभेदेन मण्डलबहुत्वमुक्तम् । अत एव उशना--

"परस्पराभियोगेन विजगीषोररेस्तथा ।
अरित्वविजिगीषुत्वे एका प्रकृतिरित्यतः" ॥

विजिगीषुणा अभियुक्तस्य अरेरपि प्रत्यभियोक्तृत्वाकारेण एका प्रकृतिरित्यर्थः । पराशरमतानुसारेण द्वे प्रकृती इत्याह उशना--

 "द्वे एव प्रकृती न्याय्ये इत्युवाच पराशरः ॥ इति ॥

अयमर्थः-- विजिगीषुः अभियोक्तृत्वात् प्रधानम् । अभियोज्यत्वात् अरिरपि प्रधानम् । इतरेषां तन्मण्डलान्तर्गतत्वात् तयोरेकानुप्रवेशः इति द्वे एव प्रकृती इति ।

 त्रितयमपि न्याय्यमिति विष्णुः-- मध्यमोदासीनशत्रुभिरभियुञ्जानस्य अरिमिति शेषः । सिद्धिः कार्यसिद्धिः अत्र विजिगीषोरपि प्रत्यभियोगसमये शत्रुत्वात् शत्रुकोटिनिवेशः इति भावः ।

अतएवाह उशना--

"मण्डलं त्रिकमित्याहुः विजगीष्वरिमध्यमाः" ॥ इति ॥

अन्ये चतुष्कं मण्डलमित्याहुः । यथोक्तं राजलासके--

"मूलप्रकृतयश्चैताः चतस्रः परिकीर्तिताः ।
आहैतत्तन्त्रकुशलः चतुष्कं मण्डलं मयः" ॥ इति ॥

चतस्र इति अरिविजिगीषुमध्यमोदासीनाः । केचित्पञ्चकमाहुः--

"पञ्चकं मण्डलं न्याय्यं त्रितयं वा मनीषिभिः ॥ इति ॥

आक्रन्दकरणकपार्ष्णिग्राहनिवृत्तिमूलकपृष्ठशुद्धिमन्मित्रोत्पादित कोपपश्चात्कोपविजिगीषोश्शत्रुमभियुञ्जानस्य कार्यसंसिद्धिरिति पञ्चकं न्याय्यमिति भावः । केचिन्मण्डलषट्कमाहुः--

"विजिगीषुररिर्मित्रं पार्ष्णिग्राहोऽथ मध्यमः ।
उदासीनः पुलोमेन्दौ मण्डलं षट्कमूचतुः" ॥ इति ॥

मध्यमोदासीनानुगृहीतावरिविजिगीषू स्वं स्वं शत्रुमभियुञ्जानाविति तात्पर्यम् ।

 दशकं राजमण्डलमाहोशना--

"अरिर्मित्रमरेर्मित्रं मित्रमित्रमतःपरम् ।
अथारिमित्रं मित्रं च विजिगीषोः पुरस्सराः ॥
पार्ष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् ।
आसारावनयोश्चैव विजिगीषोस्तु मण्डलम्" ॥ इति ॥

अस्यार्थः-- तत्र विजिगीषोस्समन्ततो मण्डलीभूतभूम्यनन्तरः शत्रुः, तथैव भूम्यैकान्तरितं मित्रं, तथा तदनन्तरमरेर्मित्रं, ततो मित्रमित्रमिति । अरिमभियोक्तुं प्रवृत्तस्य विजिगीषोः पुरस्तादेतदेवंविधसंज्ञया व्यवह्रियते । शत्रुहिताय पार्ष्णि गृह्णातीति पार्ष्णिग्राहः । जिगीषुणा आक्रन्द्यते आहूयत इत्याक्रन्दो विजिगीषुमित्रं । आसारावनयोश्चेति-- पार्ष्णिग्राहमभ्यनुज्ञादानेनासारयतीति अमित्रमासारः । तथैव आक्रन्दः आसारः विजिगीषुमित्रमित्रम् । एतद्विजिगीषोर्मण्डलम् । तज्जे यत्वात् कृत्स्ना भूमिरुक्ता चक्रवर्त्यपेक्षया, राजमात्रापेक्षया तु,

"मण्डलाद्बहिरेतेषामुदासीनो बलाधिकः ।
अनुग्रहे संहितानां व्यस्तानां च वधे प्रभुः" ॥ इति ॥

उदासीनान्तर्भावे एकादशविधमिति ध्येयम् । द्वादशं मण्डलं त्रयोदशकं च पूर्वमेव व्याख्यातम् । चतुर्दशं मण्डलमित्यपरे--

 तथाच बृहस्पतिः--

"सप्तप्रकृतिकं यत्तु विजिगीषोररेश्च यत् ।
चतुर्दशकमेवेदं मण्डलं परिचक्षते" ॥ इति ॥

विजिगीषोररेश्च प्रत्येकं सप्तेति चतुर्दशकम् । यत्पदद्वयोपादानादित्याहुराचार्याः । केचिदष्टादशकमाहुः--

"संयुक्तस्त्वरिमित्राभ्यां उभयारिस्तथा रिपुः ।
मौला द्वादश राजानः इत्यष्टादशकं गुरुः" ॥ इति ॥

अयमर्थः । अरिविजिगीष्वोरुभयोः अपकार्युपकारिलक्षणाभ्यां बहिस्स्थितस्य स्वारिमित्रसहिताभ्यां अरिमित्राभ्यां षड्भ्यां सह मौला द्वादश राजानः । एवमष्टादशकं मण्डलमिति । अपरे त्वेकविंशतिकं मण्डलमाहुः यथाऽऽहोशना--

"सप्तप्रकृतिकास्सर्वे विजिगीष्वरिमध्यमाः ।
एकविंशतिकं प्राहुरपरे परवादिनः" ॥ इति ॥

त्रिंशत्कमित्यपरे--

"पौरस्त्यौ द्वौ जिगीषेस्तु पश्चिमौ चेति पञ्चकम् ।
अमात्याद्या पृथक्तेषां त्रिंशत्कं परिकीर्ति[]तम्" ॥

अमात्याद्याः पञ्जविंशतिः राजप्रकृतयः पञ्चेति एवं त्रिंशत्कम् ।

"षट्त्रिंशत्कं केचिदाहुर्मण्डलं मण्डलीविदः
षट्त्रिंशत्कं प्रचक्षते" ॥ इति ॥

 अष्टचत्वारिंशन्मण्डलमित्यन्ये-- यथोक्तं बार्हस्पत्ये--

"चत्वारः पृथिवीपालाः पृथग्न्यित्रैस्सहाष्टकम् ।
अमात्यादिभिरेते च जगत्यक्षरसंहिताः" ॥ इति ॥

जगत्यक्षराणि-- जगतीछन्दोऽक्षराणि अष्टाचत्वारिंशत् । चतुःपञ्चाशत्कमाह विशालाक्षः इत्युक्तं राजलासके--

"एतेऽष्टादश चैतेषां मित्रशत्रू पृथक् पृथक् ।
चतुःपञ्चाशतमिति विशालाक्षः प्रभाषते ॥" इति ।

 षष्टिर्मण्डलमित्यपरे--

"दशानां भूमिपालानां अमात्याद्याः पृथक् पृथक् ।
मण्डलं मण्डलविदः षष्टिसंख्यं प्रचक्षते" ॥

अत्र दश राजानः अरिमित्रादयः पञ्चाशदित्यर्थः । मानवमते द्व्यधिकं सप्ततिकं मण्डलम् ।

"द्वादशानां नरेन्द्राणां पञ्च पञ्च पृथक्पृथक् ।
अमात्याद्याश्च प्रकृतीनामनन्तीह मानवाः ॥
मौला द्वादश एवैते अमात्याद्यास्तथा च याः ।
सप्ततिर्द्व्यधिका ह्येषा सर्वप्रकृतिमण्डलम् ॥"

अयमर्थः-- षष्टिर्द्रव्यप्रकृतयः । द्वादश राजप्रकृतयः । इति सर्वप्रकृतिमण्डलं द्व्यधिका सप्ततिः । अष्टोत्तरशतमण्डलमाहोशना--

"अष्टादशानामेतेषाममात्याद्याः पृथक् पृथक् ।
अष्टोत्तरशतं ह्येतन्मण्डलं कवयो विदुः ॥" इति ।

अष्टादश राजप्रकृतयः, नवतिः द्रव्यप्रकृतयः इत्यर्थः । केषांचिन्मते चतुर्विंशत्त्युत्तरत्रिशतं मण्डलं । यथोक्तं राजलासके--

चतुःपञ्चाशतो राज्ञाममात्याद्याः पृथक् पृथक् ।
सचतुर्विंशतीदं हि मण्डलं त्रिशतं मतम् ॥ इति ॥

अत्र द्रव्यप्रकृतयः सप्तत्युत्तरद्विशतम् । स्वामिप्रकृतयः चतुःपञ्चाशदित्यर्थः । एवं बहुप्रकारमपि राजमण्डलं द्वादशकेऽन्तर्भूतम् इति । तदेवोक्तं याज्ञवल्क्यादिधर्मशास्त्रकारैः । यद्यप्येकप्रभृत्येकादशान्तानां मण्डलानां द्वादशान्तर्भावो नास्ति । तथापि द्वादशराजमण्डलस्य लोकप्रसिद्धत्वादेकादिमण्डलानां दुर्ज्ञानत्वात् द्वादशकमेवाङ्गीकृतं याज्ञवल्क्यादिभिः । औशनसादिमतेऽपि मण्डलविकल्पेषु विद्यमानेषु द्वादशकमेवाभिप्रेतम् ॥ यथाऽऽहोशनाः--

"इति प्रकारैर्बहुधा मण्डलं परिचक्षते ।
सर्वलोकप्रतीतं तु स्फुटं द्वादशराजकम्" ॥ इति ॥

चतुर्विधोपायाः.

 अत्रोपायमाह विष्णुः--

"उपायास्सामदानभेददण्डाश्चत्वारः" ॥ इति ॥

साम प्रियभाषणं । दानं सुवर्णादेः । भेदो-भेदनम् तत्सामन्तादीनां परस्परवैरोत्पादनम् । दण्डः-- उपांशुप्रकाशाभ्यां धनादिवधपर्यन्तश्चापकारः । एते सामादयः परिपन्थ्यादिसाधनोपायाः । तेषामुद्देशत एव चतुष्ट्वसिद्धौ पुनश्चतुर्ग्रहणं दण्डस्यागतिक[]सगतिकत्वप्रतिपादनार्थम् । अतः उपायाः त्रय एवेति सम्यञ्चः । अतएवाह योगीश्वरः--

"उपायास्साम दानं च भेदो दण्डस्तथैव च
सम्यक्त्वयुक्तासिद्ध्येयुः दाण्डस्त्वगतिका गतिः" इति ॥

चत्वार इति चतुस्सङ्ख्यया अयोगस्य व्यवच्छेद एव नान्ययोगव्यवच्छेदः क्रियते इत्याहुः । तथा च मायाक्षेन्द्रजालात्मकमुपायत्रयं सङ्गृहीतं भवति । तैस्सार्धमुपायास्सप्तैव । माया नाम अपह्नवोपायः । मिथ्याज्ञानोत्पादनमिति यावत् । अक्षाः प्रसिद्धाः । यथा शकुनिनाक्षैः युधिष्टिरराज्यग्रहणम् । अत्रौशनसादिनीतिशास्त्रेषु मायाक्षेन्द्रजालैस्सह सामादयः सप्तेति । माया नाम कीचकवधे वृकोदरेण स्त्रीरूपधारणम् । तत्रैव कीचकवधे विराटस्यासौ कीचको म्रियतामित्युपेक्षेत्युक्तम् । इन्द्रजालं तु मायारूपवस्तुकल्पनम् । यथा-- वत्सराजग्रहणं ऐन्द्रजालिकगजनिर्माणेन । अतश्च मायेन्द्रजालयोः कार्यकारणतया भेदः । अक्षेषु यद्यपि मायास्ति, तथापि माया प्रतारणशब्दवाच्येति भेदः । अतएव मायादित्रिकं प्रतारणनिबन्धनत्वात् कष्टम् । अतएव चत्वार उपाया इत्युक्तम् । गौतमसूत्रे । याज्ञवल्क्यादिस्मृतिकारैरपि चत्वार एवोपायाः प्रतिपादिताः । तथाच गौतमसूत्रम्--

"चतुरुपायानवलम्ब्य सन्धिविग्रहयानासनद्वैधीभाव
समाश्रयाख्यान् गुणान् परिकल्पयेत् ॥ इति ॥

सन्धिविग्रहादिगुणाः.

 सन्धिः व्यवस्थाकरणम् । विग्रहः अपकारः । यानं परं प्रति यात्रा । आसनमुपेक्षा । द्वैधीभावो बलस्य भिदाकरणम् । आश्रयो बलवदाश्रयणम् ।

यात्राकालः

यानकालानाह याज्ञवल्क्यः--

यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥

अर्थशास्त्रस्य पुरुषकारायत्तत्वात्पुरुषकारस्य प्राबल्यमाह-- वसिष्ठः ॥ 'दैवपुरुषकारयोः पुरुषकारो बलवान्, उभयमेकमित्येके' याज्ञवल्क्यादय इत्यर्थः । स्वमते पुरुषकारस्यैव प्रबलत्वम् । तथा लोके दर्शनात् । अन्यथा चिकित्सकादिशास्त्रवैयर्थ्यात् । अन्यथा कौशलादिचक्रविद्यानां दृष्टार्थानां वैयर्थ्यात् । यथा कौशलेऽस्मिन् युद्धे अनेनासावस्मिन्नवयवे हन्यते, अनेन हननेन म्रियत इति निश्चये तस्मिन्नवयवे गुप्ताकारेण लोहपट्टादिके निक्षिप्ते तस्मिन् लोहपट्टघातः । न तु म्रियत इति दैवात्पुरुषकारो बलवानिति शास्त्रस्य प्रयोजनं सिद्धमिति भावः । याज्ञवल्क्यादीनां मतं तु--

दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता ।
तत्र दैवमतिव्यक्तं पौरुषं पूर्वदैहिकम् ॥

पूर्वदैहिकं-- पूर्वदेहार्जितं । पौरुषमेव दैवमित्युच्यत इति तदेकदेशिमतम् ।

 मतान्तराणि तु केचिद्देहबलभावाच्च कालात्पुरुषकारः । केचिदिष्टानिष्टफलं दैवादेवेच्छन्ति । केचित्स्वभावात् न का रणमपेक्षते इति । केचित् कालात् । केचित्पुरुषकार एवेत्युक्त्वा स्वमतमाह योगीश्वरः--

"संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः" ।

एकैकस्मात् फलं न भवतीत्यर्थः । तत्र दृष्टान्तमाह--

"यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति" ॥

पञ्चाङ्गानि

पञ्चाङ्गान्याह हारीतः--

"सहायास्साधनोपाया विभागो देशकालयोः ।
विपत्तेश्च प्रतीकारः सिद्धिः पाञ्चङ्ग इष्यते" ॥

कार्यसिद्धिरूपलाभस्त्रिविधः । हिरण्यलाभो भूलाभो मित्रलाभश्चेति । तेषु मित्रलाभो ज्यायान् । अतः तत्सिद्ध्युपायो ज्यायान् । ततस्तत्प्राप्त्युपाये यत्नो विधेयः ।

 सचोपायः सत्यभाषणमेवेत्याह वसिष्ठः--

"सत्यभाषणान्मित्रलब्धिः सा हिरण्यभूमिभ्योऽधिका" ।

तथा च याज्ञवल्क्यः--

"हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
ततो यतेत तत्प्राप्तौ रक्षेत्सत्यं समाहितः" । इति ।

मर्माणिः

पञ्चस्वपि मर्मसु न प्रमदितव्यम् । तथा च गौतमसूत्रम्--

"भोजननिधुवनक्षौराभ्यङ्गस्वापकालाः पञ्च मर्माणि तेषु
न प्रमदितव्यम् इति ।

भोजनकालः अभ्यवहारकालमात्रोपलक्षकः । ताम्बूलादिचर्व णकालोऽपि मर्मकालः निधुवनकालोऽपि व्यक्त्यन्तरसंसर्गस्योपलक्षकः । तथा च मित्रेणैकशय्यासनकालोऽपि मर्मकालः । क्षौरकालस्तु शस्त्रसंसर्गकालस्योपलक्षकः । अभ्यञ्जनकालस्तु श्रमादिकालानामुपलक्षकः । स्वापकालस्त्वेकाकित्वावस्थायाः उपलक्षकः इति व्याख्यातं व्याख्यातृभिः । अत उक्तं मनुना-

"एवं सर्वमिदं राजा सम्मन्त्र्य सह मन्त्रिभिः ।
व्यायम्याप्लुत्य मध्यान्हे भोक्तुमन्तःपुरं व्रजेत् ॥
तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः ।
सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥
विषघ्नैरौषधैरद्भिस्सर्वद्रव्याणि नेजयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥
परीक्षितास्त्रियश्चैनं व्यजनोदकधूपनैः ।
वेषाभरणसंयुक्तास्संस्पृशेयुस्समाहिताः ॥
एवं प्रयत्नं कुर्वीत यानशय्यासनाशनैः ।
स्नाने प्रसादने चैव सर्वालङ्कारकेषु च ॥
भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह ॥
विहृत्य च यथाकालं पुनः कार्याणि चिन्तयेत् ॥" इति

सप्ताङ्गानि

सप्ताङ्गानि तु स्वाम्यमात्यादीनि

 तथा च गौतमसूत्रम्--

"स्वाम्यमात्यसुहृद्दुर्गकोशदण्डजनाः ॥" इति ।

स्वामी प्रसिद्धः । अमात्या मन्त्रिणः । सुहृदः सहजकृत्रिम प्राकृताः । दुर्गाः गिरिदुर्गाणि सप्त । कोशस्सुवर्णादिद्रव्यराशिः । दण्डः चतुरङ्गसैन्यम् । जना ब्राह्मणादिवर्णाः । तथा च याज्ञवल्क्यः--

"स्वाम्यमात्यजना दुर्गं कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयः राज्यं सप्ताङ्गमुच्यते ।" इति

प्रकृतयः मूलकारणानि । अतस्सप्ताङ्गानि सर्वथा संरक्ष्याणीत्याह-- सुमन्तुः-- स्वाम्यमात्मना संरक्षेत् । अमात्यान् सन्मानेन । वर्णान् रञ्जनेन, जनान् वर्णधर्मरञ्जनेन । दुर्गं धनधान्यादिसमृद्ध्या, कोशमुचितव्ययेन । दण्डं स्वधर्मेण । मित्रं सत्यभाषणेन" इति । अत्र दण्डः चतुरङ्गसैन्यं न भवति । अपराधानुसारेण शारीरोऽर्थदण्डः परिकल्पनीयः । अयमभिसन्धिः-- सुमन्तुमते चतुरङ्गसैन्यस्य कोश एवान्तर्भावः" इति । कोशस्तु सर्वथा अभिसंरक्ष्यः इत्याह गौतमः--'तन्मूलत्वान् प्रकृतीनाम्' इति । प्रकृतीनां षडङ्गानामित्यर्थः । सर्वथा सर्वप्रकारेण असद्व्ययं विहाय चोरादिभ्यः कायस्थादिभ्यश्चापि संरक्षणीयः इति ।

 अत एव गौतमसूत्रम्--

"प्रभु मन्त्रोत्साहशक्तयस्तन्मूलाः" इति ।

तन्मूलाः कोशमूला इत्यर्थः । तथाच याज्ञवल्क्यः--

"तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।
दण्डो हि धर्मरूपेण ब्रह्मणा निर्मितः पुरा" । इति ॥

तदिति राज्यम् ।

"सत्यसन्धेन शुचिना सुसहायेन धीमता ।
यथाशास्त्रं प्रयुक्तस्सन् सदेवासुरमानवम् ।
जगदानन्दयेत् सर्वं अन्यथा तत्प्रकोपयेत् ।
अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितस्स्वकात् ॥

एतच्च मातापित्रादिव्यतिरिक्तं विषयम् ।

"अदण्ड्यौ मातापितरौ स्नातकश्च पुरोहितः ।
परिव्राजकवानप्रस्थाश्च . . . . . . . ."

इति विष्णुस्मरणात् ।

 इदानीं सामान्येन राज्ञो व्यवहारदर्शनं कार्यमित्युक्तं । स च व्यवहारः कीदृशः? कतिविधः? कथं चेति प्रदर्श्यते-- व्यवहारो नाम अन्यविरोधेन स्वात्मसम्बन्धितया कथनम् । सत्यभाषणाहिंसननिष्ठत्वात् । प्रयत्नसाध्यधर्माख्यपदार्थे लोभद्वेषादिवशद्विच्छिन्ने सति ऋणादानादौ स्वधनप्राप्त्यर्थं समयधर्मादौ च परधर्मवर्जनार्थं न्यायविस्मरणं क्रियते । तत्र साध्यमूलो यो मनुष्याणां विवादस्स व्यवहार इत्युच्यत इति । न चैवं चौर्यपारुष्यविवादो न व्यवहार इति शङ्कनीयम् । अष्टादशविधविषयाणामन्यतमविषयको विवादो व्यवहार इति लक्षणाङ्गीकारात् । तथाहि--

अष्टादशविवादपदानि.

 ऋणादानोपनिधिसंभूयोत्थानदत्ताप्रदानिकाभ्युपेत्याशुश्रूषावेतनानपाकर्मास्वामिविक्रयासम्प्रदानक्रीत्वानुशयसीमा विवादक्षेत्रजस्त्रीपुंससम्बन्धदायविभागसाहसवाक्पारुष्यदण्डपारुष्यद्यूतप्रकीर्णकान्यष्टादश विवादपदानि । न च वाच्यं निक्षेपादिपदान्तरेषु व्यवहारस्मरणात् लक्षणस्याव्याप्तिरिति । निक्षेपादीनां उपनिध्यादिष्वन्तर्भावात् । अष्टादशविवादपदानां सङ्गतिसङ्ग्रहः कथ्यते । सर्वासु स्मृतिषु प्रामाणनिरूपणानन्तरं अष्टादशविवादपदनिरूपणम् । प्रमाणनिरूपणानन्तरं प्रमेयनिरूपणं न्याय्यमिति तदनन्तरमेव अष्टादशविवादपदाख्यं प्रमेयं तावन्निरूप्यते--

 तत्र ऋणादान एव मानुषदिव्यात्मकसकलप्रमाणसाध्यत्वेन व्यवहारस्य निरूपणात् प्रथमादुद्देशक्रमेण प्रथममृणादानाख्यं विवादपदं निरूप्यते-- अतएवोक्तं मनुना--

"तेषामाद्यं ऋणादानम्" इति ।

 ऋणादाने-उपचयापेक्षया परहस्तदत्तमृणं । तदनपेक्षया रक्षणार्थमेवान्यहस्ते दत्तं द्रव्यमुपनिधिरिति ऋणादानानन्तरमुपनिधेरवसरः । ऋणादाने प्रयुक्तधनादुत्पन्नस्य उपचयस्य एकनिष्ठत्वम् । सम्भूय समुत्थाने स्वनेकनिष्ठत्वमिति ऋणादानानन्तरं सम्भूय समुत्थानस्यैवावसरो न्याय्यः । तथाप्येतत्पदानन्तरमुपनिधिपदस्यावकाशाभावात् उक्तन्यायेन ऋणादानानन्तरमेव उपनिधेः प्रवेश इति पश्चादस्य पदस्यावसरसङ्गतिः ।

 दत्ताप्रदानिकस्य सङ्गतिस्तु आध्युपनिधिचौर्यागतादिद्रव्याणामदेयत्वप्रतिपादनादृणादानोपनिधिसम्भूयसमुत्थानानां शेषतयास्य सम्प्रतिपादनाद्दायविभागशेषताप्यस्ति । तथापि भूयसां न्यायेन त्रयाणां शेषतोक्तेति ध्येयम् । दत्ताप्रदानिके प्रतिश्रुतार्थस्य सोपाधिकत्वे प्रत्यादेयत्वमुक्तम् । अभ्युपेत्याशुश्रूषाख्ये विवादपदे निरुपाधिकत्वेऽपि प्रत्यादेयत्वमिति संगतिः । न चानयोरेकप्रकरणत्वं, पूर्वप्रकरणे दत्तस्यादानं द्रव्यविषयम् । अत्रोपेतस्याकरणमुपजीवकविषयमिति भिन्नविषयत्वात् प्रकरणान्तरेण व्युत्पाद्यमिति नैकप्रकरणत्वम् । अभ्युपेत्याशुश्रूषाख्ये पदे उपगतपणजीव्यतादीनां दानानां प्रतिश्रुतनिर्वाहार्यं प्रतिनिधिर्वा कार्यं इत्युक्तम् । अत्र वेतनानपाकर्माख्ये तु पदे प्रतिश्रुतनिर्वाहार्थं वेतनमिव कर्तव्यम् । अन्यथा तद्वेतनं प्रतिश्रुतमव्यवहरणीयमिति संगतिः । न चास्य दत्ताप्रदानिकेऽन्तर्भावः । तत्र दत्तस्यादत्तप्रायतोक्ता, न तु दत्तस्यापहरणम् । ततश्च अनयोर्भेदः । तदभिसन्धायाह मनुः--

"अतः परं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥" इति ।

 अतः परमभ्युपेत्याशुश्रूषाख्यस्य पदस्यानन्तरमित्यर्थः । पूर्वप्रकरणे वेतनानपाकर्माख्ये वेतनमनपाकरणीयमित्युक्तम् । अत्रास्वामिविक्रयाख्ये तु क्रीतमपाकरणीयमिति संगतिः । दत्ताप्रदाने तु दत्तस्यादत्तप्रायतोक्ता । अत्र तु क्रीतस्यापाकरणमेव, न तु क्रीतस्याक्रीतप्रायतेति तस्माद्भेदः । अस्वामिविक्रये पदे अस्वामिविक्रीते द्रव्ये स्वत्त्वानुत्पत्तेः तत्परावर्तनीयमित्युक्तम् । अत्र तु विक्रीयासंप्रदानाख्ये विवादपदे क्रयात् स्वत्वोत्पत्तावपि तस्य सप्रतिबन्धत्वात् परावर्तनीयतेति संगतिः । न च गोप्याधिवत् सोपाधिकस्वत्वेऽपि ऋणादानान्तःपातित्वमस्य । तत्र गोप्याधौ परिभाषामूलं स्वत्वस्य सोपाधिकत्वम् । अत्र त्वनुशयमूलमित्यनयोः भेदः । न चास्य दत्ताप्रदानिकेऽन्तर्भावः । दानक्रययोः भेदात् । किञ्च दत्तस्यादत्तप्रायता । अत्र तु विक्रीतस्य परावृत्तिरिति प्रागुक्त एव न्याय्यः, अत एव वेतनानपाकर्मादावनन्तर्भावः । विक्रीयासंप्रदानाख्ये विवादपदे विक्रीतस्य परावृत्तिः, अत्र क्रीत्वानुशयाख्ये विवादपदे क्रीतस्येति संगतिः । न चास्य पूर्वत्रान्तर्भावः । क्रीतविक्रीतगतिभिन्नत्वात् परावृत्तेः । ननु क्रयविक्रययोः वीवधकलशतुल्यतया परस्परापेक्षत्वात् ऐकाधिकरण्यं युक्तमिति चेत्, सत्यम् । "दशाहोऽनुशयः क्रयः" इत्यस्मिन् वचने क्रयशब्दः परिवृत्तिविनिमययोरुपलक्षकः । "सजातीययोः द्रव्ययोः विनिमयः, विजातीययोस्तु विपरिवृत्तिः" इति विष्णुस्मरणात् । न च परिवृत्तेः क्रय एवान्तर्भाव इति वाच्यम् । क्रये तुल्यं मूल्यं त्रिवर्षफलं । परिवृत्तौ तु स्वतुल्यमेव । यद्यपि रिक्थक्रयादिगौतमसूत्रे विपरिवृत्तिविनिमययोः परिगणनाभावात् स्वत्वहेतुता नास्तीति भाति, तथापि तिलक्रयस्य निषेधात् प्रतिग्रहस्यातिदुष्टत्वात् तिलं दत्वा तिलव्रीह्यादिग्रहणस्थले विनमयपरिवृत्त्योरेव स्वत्वापादकत्वं लोकसिद्धम् । यत्तु-- 'अधिः प्रणश्येद्द्विगुणः' इत्यादौ तिलविनिमयवत् धनद्वैगुण्यं स्वत्वापादकं न भवति । अपितु क्रयान्तपर्यवसानात् स्वत्वापादकमित्युक्तम्, तत्तु विनिमयस्य स्वत्वापादकत्वं नस्तीत्येवंपरं न भवति, किन्तु तस्मिन् स्थले क्रयान्तपर्यवसानादेव स्वत्वापादकत्वम् । अन्यत्र तु तिलविनिमयादौ विनिमयपरिवृत्त्योरपि क्रयादीनामिव स्वत्वापादकत्वं लोकसिद्धम् नापह्नोतुं शक्यमित्याह भारुचिः ।  वस्तुतस्तु विनिमयपरिवृत्तिपारिभाषिक्या परिभाषया तयोर्वाचनिकदानरूपेण स्वत्वहेतुत्वसिद्धिरस्त्येवेत्युक्तं तत्रैव । अतश्च पूर्वप्रकरणे विक्रीयासंप्रदानता, अत्रतु परितृत्त्यनुशय इति । समाख्या तु विनिमयपरिवृत्त्यनुशययोरपि लक्ष्येत्याह भारुचिः ।

 पूर्वस्मिन् प्रकरणे क्रीत्वानुशये परिवृत्त्यनुशये च क्रीतविषयः परिवृत्तेश्च अतिक्रम उक्तः । अत्र तु समयानपाकर्माख्ये विवादपदे समयस्य अतिक्रम उच्यत इति संगतिः । पूर्वस्मिन् प्रकरणे समयानपाकर्माख्ये विवादपदे नैगमादिविषयतया संविद्व्यतिक्रम इति संगतिः । यद्यप्यनयोरैकाधिकरण्यमेव युक्तम्, तथापि स्त्रीपुंसाख्यविवादपदोपयोगितया गृहक्षेत्रादिनिर्णयोपयोगितया पृथगधिकरणतेति ध्येयम् । पूर्वस्मिन् प्रकरणे क्षेत्रविवादो निर्णीतः । क्षेत्रं द्विविधम् । स्थावरं जङ्गमं चेति । स्थावरक्षेत्रविषयविवादविषयानन्तरं जङ्गमात्मकस्त्रीरूपक्षेत्रजविवादनिर्णय इति संगतिः । पूर्वस्मिन् प्रकरणे स्त्रीपुंसाख्यो धर्मः प्रतिपादितः । अत्र तु दायविभागाख्ये विवादपदे स्त्रीपुंसावेवाधिकृत्य विवादः प्रवर्तत इति तयोरुपजीव्योपजीवकतया संगतिः । अथ साहसाख्यस्य पदस्य संगतिः । पूर्वत्र त्रयोदशविवादपदेषु देयादेयविचारः कृतः, यथाह-- विष्णुः 'व्यवहारो द्विरुत्थानः' इति । व्यवहारकारणद्वयं कथितम् । तथाच गौतमसूत्रं "द्विरुत्थानतो द्विगतिः" इति, व्यवहार इत्यनुषज्यते ॥ तत्र निबन्धनकारेणोक्तम्-- ऋणादानादिदायविभागान्तानां देयनिबन्धनसाहसादिपञ्चकस्य दण्डनिबन्धनत्वमिति द्विरुत्थानतेत्यर्थ इति । यद्यपि मन्वादिभिः--

"तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः ।
संभूय च समुत्थानं दत्तस्यानपकर्म च ॥
वेतनस्यैव चादानं संविदश्च व्यतिक्रमः ।
क्रयविक्रयानुशयौ विवादस्स्वामिपालयोः ॥
सीमाविभागधर्मश्च पारुष्ये दण्डवाचिके ।
स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥
स्त्रीषु धर्मो विभागश्च द्यूतमाह्वय एव च ।
पदान्यष्टादशैतानि व्यवहारे विदुर्बुधाः ॥

 इत्येवं प्रकारेण क्रमिकाणि व्यवहारपदान्युक्तानि । तत्र वाक्पारुष्यदण्डपारुष्यस्त्रीसंग्रहणानन्तरं दायविभागः क्रमिकः । निबन्धनकारेण तु त्रयोदशविवादपदं दाय इत्युक्तम् । उभयोर्महान् विरोधः स परिहीयते । तथोक्तं नारदेन--

अष्टादशव्यवहारवाचकवचनोपन्यासः.

"ऋणादानं ह्युपनिधिः संभूयोत्थानमेव च ।
दत्तस्य पुनरादानमशुश्रूषाभ्युपेत्य च ॥
वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।
विक्रीयासंप्रदानं च क्रीत्वानुशय एव च ॥
समयायानपाकर्म विवादः क्षेत्रजस्तथा ।
स्त्रीपुंसयोश्च संबन्धो दायभागोऽथ साहसम् ॥
वाक्पारुष्यं तथा प्रोक्तं दण्डपारुष्यमेव च ।
द्यूतं समाह्वयश्चैवमष्टादश पदानि च ॥" इति ।

नारदवचनानुसारि निबन्धनकारवचनम् । अतस्तद्वाक्यस्यापि गौतमसूत्रस्य नारदवचनानुसारित्वमेवेति ध्येयम् । एतदनुसारेणैवास्माभिरप्युक्ता विवादपदानां परस्परसंगतिः । अतश्च ऋणादानादिदायविभागान्तानां देयनिबन्धनत्वेन प्रतिपादनम् । साहसादिपञ्चकस्य दण्डनिबन्धनत्वमिति प्रकरणभेदं सूचयितुं "दायभागोऽथ साहसम्" इत्यथशब्दः प्रयुक्तः । अतश्च देयप्रतिपादनानन्तरं दण्डप्रतिपादनस्यावसर इति संगतिः । वाक्पारुष्यदण्डपारुष्ययोः साहसस्य च परस्परभेदाभावेऽपि दण्डाल्पत्वबहुत्वार्थं पृथग्ग्रहणमिति वक्ष्यते । पूर्वप्रकरणे चौर्यं निरूपितम् । द्यूतसमाह्वययोस्तुल्ययोगक्षेमतया चौर्यानन्तरं संगतिः । अथवा सप्तदशविवादपदप्रकीर्णकपदयोः संगत्यन्तरं पूर्वं पराजितस्यैव दण्डविधानमुक्तम्, अत्र तु (वि)जयिनोऽपि दण्डविधानमित्यनयोस्संगतिः ।

"दुर्दृष्टांस्तु पुनर्दृष्ट्वा व्यवहारान् नृपेण तु ।
सभ्यास्सजयिनो दण्ड्या विवादद्विगुणं दमम् ॥" इति

याज्ञवल्क्येन जयिनो दण्डविधानं प्रकीर्णकाख्यविवादान्तर्गतत्वेन स्मृतत्वात् । अत्र तु बहु वक्तव्यमस्ति । तत्तु तत्रैव वक्ष्यते । अथवा संगत्यन्तरम्--

 "भृतच्छलानुरोधेन द्विगतिस्समुदाहृता" इति व्यवहारस्य छलानुसरणं तत्वानुसरणं इति गतिद्वयमुक्तम् । तत्र तत्वानुसरणेन सप्तदश विवादपदान्यनुक्रान्तानि । छलानुसरणेन प्रकीर्णकाख्यं विवादपदमनुक्रान्तमिति । तथा च अस्मिन् प्रकरणे बृहस्पतिः-

"साक्षिसभ्यार्थसन्नानां दूषणे दर्शनं पुनः ।
स्ववाचैव जितानां तु नोक्तः पौनर्भवो विधिः" ॥ इति ।

अत्र "व्यवहारान् नृपः पश्येत्" इति विधिः स्वापराधेन व्यवहारस्य समाप्तत्वात् स्ववागनुसरणरूपछलमेवावलम्बते । न तु प्रमाणान्तरगवेषणं विलम्बत्वाद्विधेरिति । "तेषामाद्यमृणादानं" इत्यादिमानवक्रमेणापि संगतिर्वक्तुं शक्यते, ग्रन्थविस्तरभयान्नोच्यते । एतच्च सर्वसंगतिकथनं तत्तद्विवादपदविवरणावसरेऽपि सम्यङ्निरूपितमपि शास्त्रार्थं करतलामलकी चिकीर्षुणा गौरवसहिष्णुना ग्रन्थकारेण सङ्क्षेपतो निरूपितमिति न पौनरुक्त्यम् । पुत्रपौत्राद्यधिकारिणा बाल्यानन्तरं कालद्वैगुण्यादिप्रकारेण ऋणं देयम् ।

देयादेय ऋणे

 द्यूतादिकुत्सितकुटुम्बभरणाद्यावश्यकेतरकार्यार्थं पित्रादिकृतं ऋणमदेयम् । बन्धग्रहणादिधनप्रयोगधर्माः शनैः कीर्त्यादिपृथुधनादानधर्माश्च यस्मिन् विवादविषये उक्ताः तत्परमृणादानमिति ।

"करण्डस्थमसंख्यातमनाख्यातमदर्शितम् ।

परहस्ते दत्तमुपनिधिकमिति द्वितीयं विवादपदम् । एतदेव संख्यातं चोन्नक्षेप इत्यतो न भिन्नं विवादपदम् । दायादेभ्यः भयात् राजचोरभयाच्च स्थाप्यतेऽन्यगृहे द्रव्यं न्यास इति न पृथग्विवादपदम् । वणिजो वाणिज्यं ऋत्विजो यज्ञं कृषीवलाः कृषिं हेमकारादयः शिल्पिनः शिल्पं नर्तकादयो नृत्यादिकं स्तेनाः स्तेयं यत्र संहत्य कुर्वते तत्संभूय क्रिय माणं वाणिज्यादि कर्म समुत्तिष्ठतेऽनेनेति व्युत्पत्त्या संभूय समुत्थानाख्यं व्यवहारपदम् । यत्र स्वर्णकारादिभ्यः प्रीत्यादिना दत्तं द्रव्यं वैगुण्यादिना तेभ्यः पुनरपहार्यं दत्तस्याप्रदानमस्मिन् विद्यत इति दत्ताप्रदानिकं नाम विवादपदम् । कर्मकाराद्यवैगुण्याद्दत्तस्यानपाकर्म-- अनपनयनमस्मिन्निति दत्तानपाकर्मापि विवादपदमित्यतो न पृथगभिहितम् । अतश्च देयमदेयं दत्तमदत्तमिति द्रव्यभेदेन चातुर्विध्यमविरुद्धं । देयमनिषिद्धदानक्रियानिर्वर्तकम् । दत्तं दाने सति संप्रदानादनपहार्यम् । अदत्तं चापहार्यमिति यच्छिष्यादेश्शुश्रूषादिकमङ्गीकृत्य गुर्वाद्याज्ञाकरत्वाद्यकरणं तदभ्युपेत्याशुश्रूषाख्यं विवादपदम् । शिष्यशब्दोऽन्तेवासिभृतककर्मकृद्दासानामुपलक्षक इति तन्मूले न पृथग्भिद्यत इत्येकमेव पदम् । ईदृशस्य देयमीदृशस्यादेयं दत्तमस्य एवंविधात्प्रत्यादेयं क्वचिद्द्विगुणमादेयमित्याद्युक्तम् । यत्र विवादे तद्वेतनस्य भृतेरनपाकर्म-- अनपनयनं विद्यते तद्वेतनानपाकर्माख्यं विवादपदम् । स्वामिनोऽसमक्षं याचितान्वाहितन्यासादिकं परद्रव्यं विक्रीयते असावस्वामिविक्रयः । सोऽस्मिन् व्यवहारे निर्णेय इत्यस्वामिविक्रयाख्यं विवादपदम् । मूल्येन विक्रयपण्यं क्रेतुर्यन्न प्रदीयते तद्विक्रीयासंप्रदानम् ।

पण्यं षड्विधम्,

गणिततुलितमेयक्रियारूपकान्तिभिः पण्यं षड्विधम् ।

 गणितं नारिकेळादि । तृलितं हिङ्ग्वादि । मेयं व्रीह्यादि । क्रिया-- वाहनादिदोहनादिक्रिया गोमहिष्यादेः । कान्त्या रत्नादि । रूपतः पण्याङ्गनादि । अतश्च क्रमुकादीनां तुलितपण्यविशेषत्वात् तन्मूलेन विवादपदस्य न पृथग्भेदः । यः क्रेता मूल्येन पण्यं क्रीत्वा अपरामर्शपूर्वकं मन्यते, तत्क्रीत्वानुशयाख्यं विवादपदम् । गणश्रेणिसमूहनार्थं जातानां स्थिरीकरणरूपस्य समयस्यानपाकर्म-- अनुल्लङ्घने यत्तत्समयानपाकर्म । विरुद्धलक्षणया दर्शादिवत्समयानपाकर्माख्यं विवादपदम् । संविद्व्यतिक्रम इत्येतस्यैव नामान्तरम् । पाषण्डपूगाः श्रेणिनैगमानां सङ्घाः । समूहस्तु ब्राह्मणानां संहतिः । व्रातः आयुधधराणां व्रततिः ।

 यत्र केदारसेतुनिकृष्टाकृष्टमर्यादानिश्चयाः क्षेत्रविषयाः तत् []क्षेत्रविवादाख्यं पदम् । तच्चाधिक्यन्यूनताभेदात् षड्विधम् । कंचिद्भूभागमधिकृत्य ततोऽधिका भूरस्ति नवेति विवादे आधिक्यनिबन्धनः । एतावती भूस्तव नेत्युक्ते ममैतावत्यस्तीत्येवंविधो न्यूनता हेतुकः । अस्यां भुवि ममांशोऽस्तीत्युक्ते नेत्येवंविधोंशास्तित्वकारितः । अत्र तवांशो नास्तीत्युक्ते विद्यत इत्येवंविधोंऽशो नास्तित्वनिमित्तकः । मदीया भूः त्वया प्रागभुज्यमानैव इदानीं भुज्यत इत्युक्ते प्रागपि भुक्तिरस्तीत्येवंविधः अभोगभुक्तिबीजकः । इयं मर्यादा मदीयाया भुव इत्युक्ते नेत्येवंविधः सीमासंभवः । अतश्च न्यूनतादीनां तदनतिरेकान्न तन्मूलेन भेदः ।  तस्य सीमाविवादस्य पाञ्चविध्यम् । ध्वजनीमात्स्यानैदानीभयवर्जिताराजशासनानीताविषयत्वात् । अतो ध्वजिन्यादिभेदेन पृथग्भिद्यते विवादपदम् । ध्वजिनी-- वृक्षादिना लक्षिता । मात्स्या-- जलेन । नैदानी- धूततुषादिना । भयवर्जिता-- उभयवादिसंप्रतिपन्ना । राजशासनानीता-- राजेच्छया निर्मिता । यत्र स्त्रीपुरुषयोर्मिथुनीभावो विषयीकृतः स च स्त्रीपुंससंबन्धाख्यं विवादपदम् । अस्यैव स्त्रीसंग्रहणमिति नामान्तरम् । पित्र्यादेरर्थस्य पुत्रादिभिर्विभागः प्रकल्प्यते यत्र स दायभागो नाम विवादपदम् । यत्किञ्चित्कर्म मारणचौर्यपरदाराभिमर्शनादिकं सहसा बलेन बलदर्पितैः कृतं निर्णीयते तत्साहसमिति साहसाख्यं विवादपदम् । यद्वचनं देशजातिकुलादीनां बाधकत्वेनात्यन्तदुःखकरार्थं तद्वाक्पारुष्यं विवादपदम् । यत्र पदे परगात्रेषु हस्तपादायुधादिभिः कृतस्याभिद्रोहस्य भस्मादिभिश्चोपघातस्य निर्णयः क्रियते तद्दण्डपारुष्याख्यं विवादपदम् ।

 ननु पारुष्यद्वयस्य स्त्रीसंग्रहणस्य च साहसविशेषत्वात् पदान्तरत्वोक्तिर्न युक्ता, सत्यम्, बलदर्पावष्टम्भोपाधिना साहसं भिद्यते इति दण्डातिरेकार्थं पृथगभिधानम् । अक्षादिभिः पणपूर्वकं क्रीडनं कौटिल्येन कृतं यत्र विषयीक्रियते तद्द्यूताख्यं विवादपदम् । तथा कूटसाक्षिभिः पणपूर्वकं देवनं कृतं तद्विषयीक्रियते यत्र तत्समाख्यं विवादपदम् । अनयोः पणपूर्वकक्रीडनमूलकत्वात् न भेदः ॥ तथा च निघण्टुः--

"अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते ।

 "प्राणिभिः क्रियमाणं तु स विज्ञेयस्समाह्वयः" ॥ इति ॥ यत्र नृपेण यद्यत्स्वाज्ञातिक्रमादौ प्रतिवादितत्वमास्थाय निर्णेतव्यं यच्च ऋणादानादिपूर्वोक्तपदेषु नोक्तं तत् प्रकीर्णकाख्यं पदम् । स चैवमष्टादशप्रभेदभिन्नो व्यवहारः पुनर्द्विविधः । सपणः अपणश्चेति । नारदादयस्तु सोत्तरोऽनुत्तरश्चेत्याहुः । प्रतिज्ञाविलेखनात्पूर्वं यत्र व्यवहारे दण्डाभ्यधिकः पणः उभाभ्यामुपेयते अन्यतरेण वा स सोत्तरो व्यवहारः । तदन्योऽनुत्तरः । अतश्च याज्ञवल्क्यनारदोक्तयोः सपणापणसोत्तरानुत्तररूपयोर्भेदयोः पृथग्भेदो नास्ति । तथाप्यन्येऽपि भेदाः नारदादिभिरुक्ताः--

 "चतुष्पादचतुस्साधनचतुर्भूतचतुर्व्यापिचतुष्कारित्वरूपाः अष्टाङ्गाष्टादशपदशतशाखत्रियोनिद्व्यभियोगद्विवारद्विगतिरूपाश्च"

 धर्मः व्यवहारः चरित्रं राजशासनं चत्वारः पादाः । अतश्चतुष्पाद्व्यवहारः । अत्रोत्तरः पूर्वबाधकः । तथा च हारीतः--

"धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया ।
चतुष्पाद्व्यवहारोऽयमुत्तरः पूर्वबाधकः" ॥ इति ॥

ननु प्रतिज्ञोत्तरप्रत्याकलनप्रमाणनिर्णयश्चतुष्पात्त्वं न धर्मादिभिरिति चेत् । मैवम् । निर्णयवादो धर्मानुसारेण चतुर्विधः । तत्र यदनुसारेण यो निर्णयः कृतः स तच्छब्देनोच्यते । तेन धर्मादिभिरपि चतुष्पात्त्ववर्णनं युक्तमेव । धर्मो नाम पादः यत्र विवादे धर्ममूलनिर्णयेनैव दोषकारित्वं दोषकारी, स्वकं धनं धनस्वामी च प्राप्नोति स धर्म इत्युच्यते । धर्मशास्त्रनिरूपितप्रतिज्ञोत्तरानुसारेण निर्णयो व्यवहाराख्यः पादः । धर्माधर्मविवेकराहित्येन देशाचारमवलम्ब्य यदाचर्यते तच्चरित्रं पादः । तदनुसारी निर्णयोऽपि तथैव । मानान्तराविद्धो राजबुद्धिमात्रपरिकल्पितो निर्णयो राजशासनम् । अत्र धर्मादीनामेकैकस्य द्वैविध्यम् । स च धर्माख्यनिर्णयः तत्वानुसरणेन एकः । विना तत्वानुसरणं []तत्वोत्तरेण वा दिव्यप्रमाणेन वा कृतो द्वितीयः । मानुपप्रमाणनिश्चितो व्यवहार एकः । वाक्छलानन्तरत्वेन द्वितीयः । उल्काहस्तादिलिङ्गेन निर्णीतश्चरित्रमेकः प्रकारः । देशस्थित्या द्वितीयः।

 नन्वेवं तर्हि "उत्तरः पूर्वबाधकः" इत्युक्तिरयुक्ता तत्वार्थानुगुण्यातिशयेन पूर्वस्यैवोत्तरबाधकत्वात् ।

 "छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ॥" इति याज्ञवल्क्येनोक्तेः, उच्यते, सत्यम्, उत्सर्गतः, न सर्वत्रैवं । क्वचिद्विषये तूत्तरः पूर्वबाधको भवत्येव । तथाहि-- यथा येन केनचिद्राजन्यादिना मोहात्कथंचिद्राजदारादेः स्पर्शनादिकं कृतं, कृत्वा च प्राणभयात् मिथ्याकरोति साक्षिणश्च सन्ति । ते च राज्ञा पृष्टास्सन्तो वधो[१०] माभूदिति नायमस्य कर्मणः कर्तेति मिथ्यासाक्ष्यं ब्रूयूः । तदा दोषकारिणः तत्कर्तृत्वाप्राप्तेः धर्मो व्यवहारेण बाध्यते । युक्तं चात्र धर्मबाधनम् "वर्णिनां हि वधो यत्र" इति साक्षिणो मिथ्याभिधानविधानात् । यदा पुनः "परदाराभिगमनं कृतमनेन अस्य साक्षिणो विद्यन्त" इति केनचिदभियुक्तो ब्रूते । "सत्यमेतत्साक्षिभाषितम् । तथापि नाहं दण्ड्यश्चरित्रबलात् । मयैत त्कृतं निवेशितं च शिलातलपुस्तकादौ राज्ञा तत्" इति तदा चरित्रेण व्यवहारो बाध्यते । व्यवहारतः प्राप्तस्य दण्डस्य चरित्रतो निवृत्तत्वात् । चरित्रमपि क्वचिद्राजाज्ञया बाध्यते कुलगृहाभ्यन्तरेन केनचिद्राजपुरुषेण प्रवेष्टव्यमिति चरित्रमीदृशं कृतम् । ततो कश्चिदपराधी ज्ञातः प्रविष्टोऽन्तःपुरम् । ततो राज्ञा कश्चिद्राजपुरुष आज्ञप्तः "गृहाभ्यन्तरम(पि)भिप्रविश्य स दुष्ट आनेतव्य" इति । तदा चरित्रमपि राजशासनेन बाध्यते । दुष्टनिग्रहस्यावश्यकर्तव्यत्वेन चरित्रतो राजशासनस्य बलवत्त्वात् । चतुस्स्थानानि-- चत्वारि स्थानानि सत्यसाक्षिपुस्तकरणराजशासनरूपाणि यस्य सः चतुस्स्थानः । एतदुक्तं भवति-- धर्मस्य सत्यं स्थानम् । व्यवहारस्य साक्षिणः । चरितस्य पुस्तकरणं । लेख्यं राजाज्ञेति । साक्षिग्रहणं धर्मशास्त्रस्थदिव्येतरप्रमाणप्राप्त्युपलक्षणार्थम् । चतुस्साधनः-- साधनानि सामाद्युपाया अस्मिन्निति स तथोक्तः । चतुर्भ्यो वर्णाश्रमेभ्यो हितः चतुर्हितः । चतुर्व्यापी-- चतुरः कर्तॄन् साक्षिणश्च सभ्यान् राजानं व्याप्नोतीति । चतुष्कारी-- चतुरो धर्मार्थयशोलोकानुरागान् करोतीति । अष्टाङ्गः-- अष्टौ राजराजपुरुषसभ्यशास्त्रगणकलेखकहिरण्योदकान्यङ्गानि यस्य सोऽष्टाङ्गः । एतेषामुपयोग उत्तरत्र वक्ष्यते । अष्टादश व्यवहारपदानि व्याख्यातानि ।

 शतशाखः-- शतशब्दः सहस्रादिसंख्योपलक्षकः बहुशाख इति यावत् । त्रियोनिः-- त्रीणि कामक्रोधलोभात्मकानि तेभ्यो यथासंभवं प्रवर्तत इति कृत्वा त्रियोनिरुच्यते । द्व्यभियोगः-- द्वौ शङ्काभियोगतत्वाभियोगौ यस्य स द्व्यभियोगः । शङ्काभियोगः असद्भिः कितवस्तेनादिभिः संसर्गात् भवति । तत्वाभियोगो हेडाभिदर्शनमेकदेशोपालम्भः प्रत्यक्षदर्शनं वा । क्वचिन्निक्षेपादिशङ्का सत्संयोगादपि भवतीति असत्संयोगादित्युदाहरणमात्रमित्यवगन्तव्यम् । द्विद्वारस्तु द्वे द्वारे कार्यारम्भप्रवृत्तिपूर्वपक्षोत्तरपक्षौ । यस्मिन्वादे स द्विद्वारः । द्विगतिस्तु द्वे गती भूतच्छले यस्य सः । भूतं-- तत्वार्थसंयुक्तं, छलं प्रमादादियुतम् ।

 हारीतेनापि केचन भेदा उक्ताः । एकमूलः द्विरुत्थानः द्विग्कन्धः द्विफलः । कात्यायनस्तु तान् व्याचष्टे । एकं साध्यं मूलं यस्य स एकमूलः । द्विरुत्थानः-- द्विः द्विसंख्याभ्यःवृत्तमुत्थानं यस्मिन्निति द्विरुत्थानः । सुप्सुपेति समासः । एतदुक्तं भवति । [११]देयाप्रदानहिंसारूपोत्थानद्वयं [१२]समादिति द्विरुत्थानः । [१३]द्व्युत्थान इति यावत् । धर्मशास्त्रार्थशास्त्रात्मकं स्कन्धद्वयं यस्य सः द्विस्कन्धः । द्वे फले जयपराजयरूपे यस्य स द्विफलः । कात्यायनेनाप्यपरो भेदो दर्शितः । पूर्वोत्तरपक्षप्रत्याकलितक्रियापादभेदात् चतुष्पाद्व्यवहार इति । प्रत्याकलितं उक्तिस्वीकारानन्तरं विवदमानयोः कस्यात्र क्रियोपन्यासो न्याय्य इति प्राड्विवाकादीनां विमर्शनम् । [१४]क्रियापादो भेदो नाम लिखितादिप्रमाणनिर्देशः । विवादात्मकव्यवहारपर्यवसानभागतया प्रत्याकलितक्रिययोरपिव्ययहारत्वात् । चतुष्पात्त्वमुक्तमस्मिन् पक्षे । प्रत्याकलितवादः तृतीयः पादः । तथा क्रमस्य विवक्षितत्वात् । यस्मिन्मते प्रमाणोपन्यासानन्तरं प्रमाणाभासशङ्कापनोदकं जयपराजयफलकं विमर्शनं प्रत्याकलितं तन्मते संख्यैव विवक्षिता, न तु क्रमः । प्रत्याकलितस्य तुरीयपादत्वात् । यथोक्तं--

"भाषापादस्तु तत्राद्यो द्वितीयो मर्शनं तथा ।
क्रियापादस्तथाचान्यः चतुर्थो निर्णयस्स्मृतः" ॥ इति ॥

इति श्रीवीरगजपति गौडेश्वर नवकोटिकर्णाटकलुबुरिगेश्वर
जमुनापुराधीश्वर हुशनसाहि सुरत्राण शरणरक्षक श्री-
दुर्गावरपुत्र परमपवित्र चरित्र राजाधिराजराज-
परमेश्वर श्रीप्रतापरुद्र महादेव महाराज
विरचिते स्मृतिसंग्रहे सरस्वती-
विलासे व्यवहारकाण्डे शास्त्र-
मुखस्वरूपनिरूपणं नाम
द्वितीयोल्लासः.

  1. ज्ञाने ज्ञातुं दुश्शकमिति-- B.
  2. छागलेयप्रणीताः स्मृतयः.
  3. B कोशे नास्ति.
  4. स्मृतिपुराणकर्तारः.
  5. प्रबलमन्त्रयुक्तः.
  6. परिचक्षते.
  7. गतिकगतिप्रति--B. कोशपाठः.
  8. तत् क्षेत्रजविवादाख्य--& कोशपाठः.
  9. सत्त्वो--D कोशपाठः.
  10. वधोऽस्य.
  11. देवाप्रदानरूपहिंसोत्थानः--A कोशपाठः।
  12. सामादिभिर्द्विरुत्थानः-- B कोशपाठः।
  13. द्व्युर्द्वारः-- D कोशपाठः।
  14. क्रियाल्पभेदो--B कोशपाठः.