प्रमुखा विकल्पसूचिः उद्घाट्यताम्

3.1
अग्नीन्पुनराधास्यमानो भवति
तदाहुः कृतयजुः संभृतसंभारो भवति न संभृत्याः संभारा न यजुः कर्तव्यमित्यथो खलु संभृत्या एव संभाराः कर्तव्यं यजुः पुनराधेयस्य समृद्ध्या इति
स उपकल्पयते पुनर्निष्कृतँ रथं पुनरुत्स्यूतं वासः पुनरुत्सृष्टमनड्वाहं दर्भकुलायं तिस्रो दर्भमयीर्विसूर्मिकाः
प्रज्ञाता आग्न्याधेयिकाः संभाराः
सा याषाढ्याः पौर्णमास्याः पुरस्तादमावास्या भवति सा सकृत्संवत्सरस्य पुनर्वसुभ्याँ संपद्यते तस्यामादधीतेति
तस्या उपवसथेऽरण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्याग्नेयमष्टाकपालं निर्वपति वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्निति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ तदानीमेवाद्भिरग्नीन्समुक्ष्य ब्रह्मौदनँ श्रपयित्वोपवसत्यथ प्रातराग्न्याधेयिकं कर्म तायत एतावदेव नाना
यदमुत्र मुञ्जकुलायं तदिह दर्भकुलायं योऽमुत्रेध्मः प्रणयनीयः स इह दर्भमयीर्विसूर्मिका
दर्भैर्गार्हपत्यमादधाति दर्भैरन्वाहार्यपचनं दर्भैराहवनीयं दर्भैर्गार्हपत्यमादधात्याधाने सर्पराज्ञीरृचोऽनुवर्तयति १
3.2
भूमिर्भूम्ना द्यौर्वरिणेति चतस्रो गार्हपत्ये तिस्र आहवनीये

समानं कर्मा रथचक्रादेतावदेव नाना
यदमुत्र तूष्णीमग्निहोत्रं तदिह सप्त ते अग्ने समिधः सप्त जिह्वा इति जुहोति
योऽमुत्राग्नेयोऽष्टाकपालः स इहाग्नेयः पञ्चकपालस्
तस्य प्रयाजेषु चतस्रो विभक्तीर्दधात्यग्न आयाहि वीतये समिधो अग्न आज्यस्य वियन्त्वग्निं दूतं वृणीमहे तनूनपादग्न आज्यस्य वेत्वग्निनाग्निः समिध्यत इडो अग्न आज्यस्य वियन्त्वग्निर्वृत्राणि जङ्घनद्बर्हिरग्न आज्यस्य वेत्विति
स्वयँ संपन्न उत्तमः प्रयाजोऽथात आज्यभागयोरेव मीमाँ सा
वार्त्रघ्नावाज्यभागौ स्यातामित्येके
वृधन्वन्तावाज्यभागौ स्यातामित्येकेऽग्निँ स्तोमेन बोधय त्वं नः सोमेत्येतौ स्यातामित्येकेऽग्न आयूँ षि पवसेऽग्ने पवस्वेत्येतौ स्यातामित्येके
यत्पवमानं तत्सोमरूपम्पङ्क्त्यौ हविषोऽग्ने तमद्याधा ह्यग्न इत्यथ पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुती जुहोत्यग्निं प्रति स्विष्टकृतं निराहाभिष्टे अद्य एभिर्नो अर्कैरिति संयाज्ये
अन्वाहार्यमासाद्य २
3.3
पुनराधेयदक्षिणा ददाति पुनर्निष्कृतँ रथं पुनरुत्स्यूतं वासः पुनरुत्सृष्टमनड्वाहं तस्यानूयाजेषु विभक्ती दधात्यग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः । भसन्नु ष प्र पूर्व्य इषं वुरीतावसे । देवं बर्हिर्वसुवने वसुधेयस्य वेत्वग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । देवस्य द्र विणस्यवो देवो नराशँ सो वसुवने वसुधेयस्य वेत्विति

स्वयँ संपन्न उत्तमोऽनूयाजः
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा
विसृजते व्रतम्
अथ तदानीमेव पृष्ठ्याँ स्तीर्त्वापः प्राणीयाग्निवारुणमेकादशकपालमनुनिर्वपति
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषस्त्वं नो अग्ने स त्वं नो अग्न इति
त्रिष्टुभौ संयाज्ये
अन्वाहार्यमासाद्यानड्वाहं ददाति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा
विसृजते व्रतं संतिष्ठते पुनराधेयम्
इति न्वृद्धिपुनराधेयम्
अथ वै भवति
यः पराचीनं पुनराधेयादग्निमादधीत स एतान्होमाञ्जुहुयादिति
तृतीयमाधान आग्नेयस्य पञ्चकपालस्य पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोति लेकः सलेकः सुलेकस्ते न आदित्या आज्यं जुषाणा वियन्तु स्वाहा । केतः सकेतः सुकेतस्ते न आदित्या आज्यं जुषाणा वियन्तु स्वाहा । विवस्वाँ अदितिर्देवजूतिस्ते न आदित्या आज्यं जुषाणा वियन्तु स्वाहेति
संतिष्ठते तृतीयमाधानम्
अथापहृताग्नेर्नष्टारणीकस्य च ब्रह्मौदनेनैव प्रतिपद्यते

सिद्धमग्न्याधेयम् ३
3.4
पुरस्तादित्यस्यास्तमयाद्गार्हपत्यमुपसमाधायान्वाहार्यपचनमाहृत्य ज्वलन्तमाहवनीयमुद्धरति सायमाहुतये
पुरस्तादित्यस्योदयाद्गार्हपत्यमुपसमाधायान्वाहार्यपचनमाहृत्य ज्वलन्तमाहवनीयमुद्धरति प्रातराहुतये
वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैरृत्विग्भिरुद्धरामि भूर्भुवः सुवरुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वाँ श्चकार । अह्ना यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति सायं रात्रिया यदेनः कृतमस्ति पापं सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति प्रातर्
अग्निं निदधात्यमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै । तयानन्तं काममितो जयेम प्रजापतिर्यं प्रथमो जिगायाग्निमग्नौ वैश्वानरेऽमृतं जुहोमि स्वाहेति सायं सूर्यमग्नौ वैश्वानरेऽमृतं जुहोमि स्वाहेति प्रातः
सायंप्रातरेवैषा पत्न्यन्वास्ते
सायँ सायमित्येकेऽथैतान्यग्निहोत्रपात्राणि प्रक्षालितान्युत्तरेण गार्हपत्यमुपसादयति कूर्चे वा सूनायां वा स्थालीं सस्रुवाँ स्रुचमभिद्योतनँ समिधमित्यथैतामग्निहोत्रीं दक्षिणत उदीचीँ स्थापयित्वा ब्राह्मणो दोग्धि

पूर्वौ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा गतश्रीः स्यादपरौ दुह्यात्कनिष्ठस्य कानिष्ठिनेयस्य यो वा बुभूषेद्न संमृशेद्द्वयोर्दुह्यात्पशुकामस्येत्यधिश्रित्योत्तरमानयत्यथैतदग्निहोत्रमग्रेणाहवनीयं पर्याहृत्य पूर्वया द्वारा प्रपाद्य जघनेन गार्हपत्यमुपसाद्याथ परिषिञ्चति ४
3.5
ऋतं त्वा सत्येन परिषिञ्चामीति सायं परिषिञ्चति
सत्यं त्वर्तेन परिषिञ्चामीति प्रातरेवमेव हुत्वा परिषिञ्चत्यथ प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य जघनेन गार्हपत्यमुपविश्योदीचोऽङ्गारान्निरूह्य व्यन्तान्कृत्वा तेष्वधिश्रित्याभिद्योतनेनाभिद्योतयत्यग्निस्ते तेजो मा प्रतिधाक्षीदिति
स्रुवेणापः प्रत्यानयत्यमृतमसीति
पुनरेवाभिद्योत्य त्रिः पर्यग्नि करोत्यन्तरितँ रक्षोऽन्तरिता अरातय इति
वर्त्म कुर्वन्नुदगुद्वास्य प्रत्यूह्याङ्गारानादत्ते दक्षिणेन स्रुवँ समिधं च सव्येनाग्निहोत्रहवणीं देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूण्षो हस्ताभ्यामादद इति
गार्हपत्ये प्रतितपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इति त्रिरथ कूर्चे स्रुचं निधाय यजमानमामन्त्रयत ओमुन्नेष्यामीत्योमुन्नयेति यजमानोऽनुजानात्यथ चतुरः स्रुवानुन्नयति पूर्णान्वानूचो वा भूरिडा भुव इडा सुवरिडा भूर्भुवः सुवरिडेति
स्थाल्याँ स्रुवं प्रत्यवधायाथैने संमृशति सजूर्देवैः सायंयावभिः सायंयावानो मा देवाः स्वस्ति संपारयन्तु पशुभिसिति सायं
सजूर्देवैः प्रातर्यावभिः प्रातर्यावाणो मा देवाः स्वस्ति संपारयन्तु पशुभिरिति प्रातर्
अत्रैताँ समिधँ स्रुग्दण्ड उपसंगृह्य जघनेन गार्हपत्यमुपसादयति कूर्चे नम ईशानाय प्रजाः पशवो मे वर्धन्तामहं यजमानो मा रिषमिति
दशहोत्रोद्द्रुत्य प्राङ्हरति भूर्भुवः सुवरुर्वन्तरिक्षमन्विह्ययं पन्था विततो देवयानो येनायन्नृषयः स्वर्गकामास्तेन गच्छामि परमं व्योम यथा न हीये सुकृताँ सकाशादिति
जघनेनाहवनीयमुपसादयति कूर्चे नम ईशानाय प्रजा मे वर्धतामहं यजमानो मा रिषमित्यत्रैताँ समिधं मध्यत आहवनीयस्याभ्यादधाति ५
3.6
रजतां त्वाग्निज्योतिषं वायुमतीँ स्वर्ग्याँ स्वर्गाय लोकाय रात्रिमक्षितिमिष्टकामुपदधेऽमृतं प्राणे दधामि प्रजापतिस्त्वा सादयत्विति
तयादेवतं करोति तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यथ सूददोहसं करोति ता अस्य सूददोहसः सोमँ श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वा रोचने दिव इति सायम्
अथ प्रातर्हरिणीं त्वा सूर्यज्योतिषं वायुमतीँ स्वग्याँ र्! स्वर्गाय लोकायाहरक्षितिमिष्टकामुपदधेऽमृतमपाने दधामि प्रजापतिस्त्वा सादयदिति
तयादेवतं कृत्वा सूददोहसं करोति
तस्यामादीप्तायां प्रतिमुखं जुहोत्यग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहेति सायं
सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहेति प्रातर्
इति नु सँ सृष्टम्
अथासँ सृष्टमग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातर्
अथ सकृदतिवाल्य कूर्चे स्रुचं निधाय दक्षिणावृद्गार्हपत्यं प्रतीक्षत उपप्रेत संगच्छध्वं मा भागिनां भागधेयं प्रमायि । सप्तर्षीणाँ सुकृताम्यत्र लोकस्तत्रेमं यज्ञं यजमानं च धत्तेत्यतिहाय पूर्वामाहुतिमुत्तरां भूयः समिध्येव जुहोति प्रजापतये स्वाहेति मनसाथ त्रिरतिवाल्य कूर्चे स्रुचं निधायावाचीनमवमृज्य प्रतीचा नीचा पाणिनौषधीषु लेपं निमाऋष्ट्योषधीभ्यस्त्वौषधीर्जिन्वेत्येवमेव द्वितीयमवमृज्यौषधीष्वेव निमार्ष्टि दक्षिणतः प्राचीनावीती पितृभ्यस्त्वा पितॄञ्जिन्वेति सायम्
अथ प्रातरूर्ध्वमुन्मृज्य प्राचोत्तानेन पाणिनौषधीषु लेपमुन्मार्ष्ट्योषधीभ्यस्त्वौषधीर्जिन्वेत्य्
एवमेव द्वितीयमवमृज्यौषधीष्वेव निमाऋष्टि दक्षिणतः प्राचीनावीती पितृभ्यस्त्वा पितॄञ्जिन्वेत्यथाप उपस्पृश्य द्विरङ्गुल्या प्राश्नाति प्रजा ज्योतिरित्यथोदङ्पर्यावृत्य प्राचीनदण्डया स्रुचा भक्षयति ६
3.7
इदँ हविः प्रजननं मे अस्तु दशवीरँ सर्वगणँ सवस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि ॥ अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहेति सायं सूर्यः प्रजां बहुलां मे करोत्विति प्रातर्
निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वोदगुद्दिशति सप्तर्षीन्प्रीणीहि सप्तर्षीञ्जिन्व सप्तर्षिभ्यः स्वाहेति
सप्तर्षीनेव प्रीणातीति ब्राह्मणम्
अथ जघनेन गार्हपत्यमपो निनयतीदमहमग्नौ वैश्वानरेऽमृतं जुहोमि स्वाहेत्यक्षित्यामक्षिताहुतिं जुहोमि स्वाहेत्यन्तर्वेदि निनयति
हुत्वोपसमिन्द्धे ब्रह्मवर्चसस्य समिद्ध्ययपो निनयत्यवभृथस्यैव रूपमकरिति ब्राह्मणम् ७
3.8
अथ सायँ हुतेऽग्निहोत्रे यज्ञोपवीत्यप आचम्य यजमानायतने तिष्ठन्नाहवनीयमुपतिष्ठत उपप्रयन्तो अध्वरमिति षड्भिरनुच्छन्दसं षड्भिरेवोत्तराभिराग्निपावमानीभिराहवनीयमेवोपतिष्ठतेऽग्न आयूँ षि पवसेऽग्ने पवस्वाग्ने पावक स नः पावकाग्निः शुचिव्रततम उदग्ने शुचयस्तवेत्य्
अथाहवनीयमेवोपतिष्ठत आयुर्दा अग्नेऽस्यायुर्मे देहि वर्चोदा अग्नेऽसि वर्चो मे देहि तनूपा अग्नेऽसि तनुवं मे पाह्यग्ने यन्मे तनुवा ऊनं तन्म आपृणेत्यथ रात्रिमुपतिष्ठते चित्रावसो स्वस्ति ते पारमशीयेत्यथाहवनीये समिधमादधातीन्धानास्त्वा शतँ हिमा द्युमन्तः समिधीमहि वयस्वन्तो वयस्कृतं यशस्वन्तो यशस्कृतं सुवीरासो अदाभ्यम्। अग्ने सपत्नदम्भनम्वर्षिष्ठे अधि नाके स्वाहेत्यथाहवनीयमेवोपतिष्ठते सं त्वमग्ने सूर्यस्य वर्चसागथाः समृषीणाँ स्तुतेन सं प्रियेण धाम्ना ॥ त्वमग्ने सूर्यवर्चा असि सं मामायुषा वर्चसा प्रजया सृजेत्यथ वै भवति
यथा वै पुरुषोऽश्वो गौर्जीर्यत्येवमग्निराहितो जीर्यति संवत्सरस्य परस्तादाग्निपावमानीभिरुपतिष्ठत इति
स संवत्सरस्य परस्तादाग्निपावमानीभिर्गार्हपत्यमुपतिष्ठते
पुनर्नवमेवैनमजरं करोतीति ब्राह्मणम्
अथ गृहाँ श्च पशूँ श्चोपतिष्ठते संपश्यामि प्रजा अहमिडप्रजसो मानवीः । सर्वा भवन्तु नो गृहे ॥ अम्भ स्थाम्भो वो भक्षीय मह स्थ महो वो भक्षीय सह स्थ सहो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय । रेवती रमध्वमस्मिन्लोकेऽस्मिन्गोष्ठेऽस्मिन्क्षयेऽस्मिन्योनाविहैव स्तेतो माप गात बह्वीर्मे भूयास्तेत्य्
अथाग्निहोत्रियै वत्समभिमृशति सँ हितासि विश्वरूपीरा मोर्जा विशा गौपत्येना रायस्पोषेण । सहस्रपोषं वः पुष्यासं मयि वो रायः श्रयन्तामित्यथ द्विपदत्रिपदाभिर्गार्हपत्यमुपतिष्ठत उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम्। नमो भरन्त एमसि ॥ राजन्तमध्वराणां गोपामृतस्य दीदिविम्। वर्धमानँ स्वे दमे ॥ स नः पितेव सूनवे अग्ने सूपायनो भव । सचस्वा अः स्वस्तये ॥ अग्ने त्वं नो अन्तम उत त्राता शिवो भव वरूथ्यः ॥ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥ वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दा इत्यथ गृहाँ श्चैव पशूँ श्चैवोपतिष्ठते ८
3.9
ऊर्जा वः पश्याम्यूर्जा मा पश्यत रायस्पोषेण वः पश्यामि रायस्पोषेण मा पश्यतेडा स्थ मधुकृतः स्योना मा विशतेरा मदः । सहस्रपोषं वः पुष्यासम्मयि वो रायः श्रयन्तामित्यथाहवनीयमुपतिष्ठते तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयादित्याहवनीयमेवोपतिष्ठते सोमानँ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजमित्यथ रात्रिमुपतिष्ठते कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यत इत्यथ गार्हपत्यमुपतिष्ठते परि त्वाग्ने पुरं वयं विप्रँ सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारं भङ्गुरावत इत्य्
अथ गार्हपत्यमेवोपतिष्ठतेऽग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासं सुगृहपतिर्मया त्वं गृहपतिना भूयाः शतँ हिमास्तामाशिषमाशासे मह्यममुष्मै ज्योतिष्मतीं तामाशिषमाशासेऽमुष्मा अमुष्मा इति
यावन्तोऽस्य पुत्रा जाता भवन्ति तन्तव इत्यन्ततोऽथ वै भवति
यो वा अग्निं प्रत्यङ्ङुपतिष्ठते प्रत्येनमोषति यः पराङ्विष्वङ्प्रजया पशुभिरेति कवातिर्यङ्ङिवोपतिष्ठेतेति
स कवातिर्यङ्ङिवोपतिष्ठते नैव प्रत्यङ्न पराङ् ९
3.10
पिण्डपितृयज्ञं करिष्यन्नुपकल्पयते सकृदाछिन्नं बर्हिर्दभाँ र्! श्च परिस्तरणीयान्व्रीहीँ श्च शूर्पं च प्रक्षालिते चोलूखलमुसले स्थालीँ स्रुवाँ समेक्षणामेरकोपबर्हणे आञ्जनाभ्यञ्जने दशाँ स्फ्यमुदकुम्भं यज्ञायुधानीत्यथान्वाहार्यपचनं परिस्तृणाति
तमुत्तरेणैकैकँ सँ सादयत्येरकोपबर्हणे आञ्जनाभ्यञ्जने दशाँ स्फ्यमुदकुम्भं यज्ञायुधानीत्यथ प्राचीनावीतं कृत्वा जघनेनान्वाहार्यपचनमुपविश्य पवित्रवत्याँ स्थाल्यां व्रीहीन्निर्वपति पितृभ्यो वो जुष्टं निर्वपामीति वा तूष्णीं वोपर्यधाँ र्! स्थालीं कृत्वैतस्मिन्नेव चर्मण्युलूखलमुसले निधायावहन्ति सकृदेव दक्षिणामुखोऽथैनानविविच्याथैतस्यामेव स्थाल्यां तिरः पवित्रमप आनीयाधिश्रित्य तिरः पवित्रं तण्डुलानावपत्य्
अथाज्यं निर्वपत्यथाज्यमधिश्रयत्युभयं पर्यग्नि कृत्वा मेक्षणँ स्रुवं च संमाऋष्ट्यथैतं चरुँ श्रपयित्वाभिघार्योदञ्चमुद्वासयत्यथ यज्ञोपवीतं कृत्वान्वाहार्यपचनमुपसमाधाय मेक्षणेनोपघातं तिस्र आहुतीर्जुहोति सोमाय पितृपीताय स्वधा नमः स्वाहा यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहाग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहेति दक्षिणार्धपूर्वार्धे
तूष्णीं मेक्षणमभ्याधाय प्राचीनावीतं कृत्वा दक्षिणेनान्वाहार्यपचनँ स्फ्येनोद्धत्यावोक्ष्य दक्षिणाग्रं बर्हि स्तीर्त्वाद्भिर्मार्जयति मार्जयन्तां पितरो मार्जयन्तां पितामहार्मार्ययन्तां प्रपितामहा इत्यथ स्रुवेणोपस्तीर्णाभिघारिताँ स्त्रीन्पिण्डान्ददात्येतत्ते ततासौ ये च त्वामन्वेतत्ते पितामहासौ ये च त्वामन्वेतत्ते प्रपितामहासौ ये च त्वामन्वित्यत्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदङ्पर्यावृत्योष्मणो व्यावृत उपास्ते
व्यावृत्त ऊष्मेति प्राहुरथाभिपर्याऋत्यैतं चरुमवजिघ्रति १०
3.11
ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम्॥ ये सजाताः समनसो जीवा जीवेषु मामकाः । तेषाँ श्रीर्मयि कल्पतामस्मिँ लोके शतँ समा इत्यथ तथैवाद्भिर्मार्जयति मार्जयन्तां पितरो मार्जयन्तां पितामहार्मार्जयन्तां प्रपितामहा इत्यथाञ्जनं ददात्याञ्जतां पितर आञ्जतां पितामहा आञ्जतां प्रपितामहेत्यथाभ्यञ्जनं ददात्यभ्यञ्जतां पितरोऽभ्यञ्जतां पितामहा अभ्यञ्ज्तां प्रपितामहा इत्य्
अथ वासाँ सि ददात्येतानि वः पितरो वासाँ स्येतानि वः पितामहा वासाँ स्येतानि वः प्रपितामहा वासाँ सीत्युत्तर आयुषि लोम छिन्दीतेति ब्राह्मणम्
अथ षड्भिर्नमस्कारैर्विपर्यासमुपतिष्ठते नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वो य एतस्मिँ लोके स्थ युष्माँ स्तेऽनु येऽस्मिँ लोके मां तेऽनु य एतस्मिँ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त येऽस्मिँ लोकेऽहं तेषां वसिष्ठो भूयासमित्यथ वीरं याचते वीरं मे पितरो दत्त वीरं मे पितामहा दत्त वीरम्मे प्रपितामहा दत्त पितृमानहं युष्माभिर्भूयासँ सुप्रजसो मया यूयं भूयास्तेत्यथैनानुत्थापयत्युत्तिष्ठत पितरः प्रेत शूरा यमस्य पन्थामनुयाता पुराणम्। धत्तादस्मासु द्र विणं यच्च भद्र म्प्र णो ब्रूताद्भागधान्देवतास्वित्यथैनान्सँ साधयति यन्तु पितरो यथालोकं मनसा जवेन परेत पितरः सोम्यास्गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त्सुविदत्राँ पीत यमेन ये सधमादं मदन्तीत्यथ तिसृभिर्मन आह्वयते मनो न्वाहुवामह आ न एतु मनः पुनः पुनर्नः पितरो मन इत्यत्रैतान्पिण्डान्सह बर्हिषाग्नावनुप्रहरत्यथैतेषाँ शस्त्राणां द्वेद्वे उदाहरन्त्यथ यज्ञोपवीतं कृत्वा प्राजापत्ययर्चा गार्हपत्यमुपतिष्ठते प्रजापते न त्वदेतान्यन्य इत्य्
अत्रैतां द्वितीयां जपति यदन्तरिक्षं पृथिवीमुत द्यामिति
संतिष्ठते पिण्डपितृयज्ञः ११
3.12
वर्षासु श्यामाकानामाग्रयणं करिष्यन्भवति
तस्य प्रज्ञात उपवसथोऽथ प्रातर्हुतेऽग्निहोत्रे पृष्ठ्याँ स्तीर्त्वापः प्रणीय सौम्यँ श्यामाकं चरुं निर्वपति
हविष्कृता वाचं विसृज्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीयेऽज्यानीर्जुहोति शतायुधाय शतवीर्यायेति पञ्च
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविष आप्यायस्व सं त इति
त्रिष्टुभौ संयाज्ये
अन्वाहार्यमासाद्य वासो ददात्यथ यजमानभागं प्राश्नात्यग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिरिति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम्
अथ शरदि व्रीहीणामाग्रयणं करिष्यन्भवति
तस्य प्रज्ञात उपवसथोऽथ प्रातर्हुतेऽग्निहोत्रे पृष्ठ्याँ स्तीर्त्वापः प्रणीयैन्द्रा ग्नं द्वादशकपालं निर्वपति वैश्वदेवं चरुं द्यावापृथिव्यमेककपालमिति
हविष्वृता वाचं विसृज्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृःतं गृहीत्वाहवनीयेऽज्यानीर्जुहोति शतायुधाय शतवीर्यायेति पञ्च
श्रपयित्वासादयति
तस्याः पञ्चदश सामिधेन्यः पञ्च प्रयाजा वार्त्रघ्नावाज्यभागवथ हविषामिन्द्रा ग्नी रोचना दिवः श्नथद्वृत्रमित्यैन्द्रा ग्नस्य
विश्वे देवा विश्वे देवा इति वैश्वदेवस्य

द्यावा नः पृथिवी प्र पूर्वजे पितरेति द्यावापृथिव्यस्य
त्रिष्टुभौ संयाजे
अन्वाहार्यमासाद्य प्रथमजं वत्सं ददात्यथ यजमानभागं प्राश्नाति भद्रा न्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नो मयोभूः पितो आ विशस्व शं तोकाय तनुवे स्योन इति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम्
अथ वसन्ते यवानामाग्रयणं करिष्यन्भवति
तस्य प्रज्ञात उपवसथः
समानं कर्म यथा व्रीह्याग्रयणस्यैतावदेव नानाथ यजमानभागं प्राश्नात्येतमु त्यं मधुना संयुतं यवँ सरस्वत्या अधि मनावचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति
संतिष्ठत एषेष्टिः सपूर्णपात्रविष्णुक्रमा विसृजते व्रतम् 3.१२
3.13
अग्निभ्यः प्रवत्स्यन्यज्ञोपवीत्यप आचम्याग्रेणाहवनीयं परीत्य यजमानायतने तिष्ठन्नाहवनीयमुपतिष्ठते मम नाम प्रथमं जातवेदः पिता मात च दधतुर्यदग्रे । तत्त्वं बिभृहि पुनरा मदैतोस्तवाहं नाम बिभ्राण्यग्न इत्यथ वाचंयमोऽभिप्रव्रजत्यग्नीनामसकाशे वाचं विसृजते
सोऽधःसंवेश्यमाँ साश्य स्त्र्! युपायी प्रवसति
न द्वादशीमतिप्रवसति
नोपवसथमुपात्येत्यायन्प्रपथे समिधः कुरुतेऽग्नीन्पराख्याय वाचं यच्छत्याहवनीयमेवोपतिष्ठते मम नाम तव च जातवेदो वाससी इव विवसानौ ये चरावः । आयुषे त्वं जीवसे वयं यथायथं विपरिदधावहै पुनस्त इत्य्
अथ गार्हपत्यमुपतिष्ठते नमोऽग्नयेऽप्रतिविद्धाय नमोऽनाधृष्टाय नमः सम्राजे । अषाढो अग्निर्बृहद्वया विश्वजित्सहन्त्यः श्रेष्ठो गन्धर्व इत्यथान्वाहार्यपचनमुपतिष्ठते त्वत्पितारो अग्ने देवास्त्वामाहुतयस्त्वद्विवाचनाः । सं मामायुष सं नौपत्येन सुहिते मा धा इत्यथाहवनीयमुपतिष्ठते १३
3.14
अयमग्निः श्रेष्ठतमोऽयं भगवत्तमोऽयँ सहस्रसातमः । अस्मा अस्तु सुवीर्यमिति
स यद्यस्मै यज्ञभ्रेषमाचक्षते न तेऽहौषीदिति तद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये संतनीं जुहोति मनो ज्योतिर्जुषतामाज्यम्विच्छिन्नं यज्ञँ समिमं दधातु । या इष्टा उषसो निम्रुचश्च ताः संदधामि हविषा घृतेन स्वाहेत्यथाग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपति
शरावं दक्षिणां ददाति
सा प्रसिद्धेष्टः संतिष्ठतेऽथातिपन्नाः प्रतिजुहोत्येतेन ह स्म वै पूर्वे श्रोत्रिया ऋतायवस्तेजस्कामा यशस्कामा ब्रह्मवर्चसकामा उपतिष्ठन्ते
तदेतदुत्सन्नं व्रतस्यैव गरिम्णाथातो वैराजमेवोपस्थानं नर्य प्रजां मे गोपायेति गार्हपत्यम्
अथर्व पितुं मे गोपायेत्यन्वाहार्यपचनं शँ स्य पशून्मे गोपायेत्याहवनीयं
सप्रथ सभां मे गोपायेति सभ्यम्
अहे बुध्निय मन्त्रं मे गोपायेत्यावसथीयं सोऽपरिमितं प्रवसति
पुनरायन्प्रपथे समिधः कुरुतेऽग्नीन्पराख्याय वाचं यच्छत्यागत्यैतेनैवोपतिष्ठते
समानी प्रायश्चित्तिः १४
3.15
अथोपवसथीयेऽहन्यज्ञोपवीत्यप आचम्याग्रेणाहवनीयं परीत्य यजमानायतन उपविश्य तिरः पवित्रमप आचामति पयस्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सँ सृजेत्यथाहवनीये समिध आदधात्यग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहा वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहेत्यथ श्वो भूते हविर्निरुप्यमाणमभिमन्त्रयतेऽग्निँ होतारमिह तँ हुवे देवान्यज्ञियानिह यान्हवामहे । आयन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्येति
तदुदित्वा वाचं यच्छत्या हविष्कृतो हविष्कृता वाचं विसृज्य यज्ञं योगेन युनक्ति कस्त्वा युनक्ति स त्वा युनक्त्विति
काले कपालानि युनक्ति यानि घर्मे कपालान्युपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्र वायू युङ्क्तामिति
तेषां यजुष्कृतानां यद्भिद्यते तदुत्कर उदस्यत्यभिन्नो घर्मो जीरदानुर्यत आत्तस्तदगन्पुनरित्य्
अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये संतनीं जुहोतीध्मो वेदिः परिधयश्च सर्वे यज्ञस्यायुरनुसंचरन्ति । त्रयस्त्रिँ शत्तन्तवो ये वितत्निरे य इमं यज्ञँ स्वधया ददन्ते तेषां धिन्नं प्रत्येतद्दधामि स्वाहेत्यथान्यदपिसृजति घर्मो देवाँ अप्येत्वित्यथ वै भवति
यदि नश्येदाश्विनं द्विकपालं निर्वपेद्द्यावापृथिव्यमेककपालमिति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ तथैव गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये संतनीं जुहोतीध्मो वेदिः परिधयश्च सर्वे यज्ञस्यायुरनुसंचरन्ति । त्रयस्त्रिँ शत्तन्तवो ये वितत्निरे य इमं यज्ञँ स्वधया ददन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहेत्यथान्यदपिसृजति घर्मो देवाँ अप्येत्वित्यथ यद्याज्यस्य वा सांनाय्यस्य वान्यत्र बर्हिषः पुरोत्तमात्प्रयाजात्स्कन्दति तस्य स्वधाँ संभरति १५
3.16
सं त्वा सिञ्चामि यजुषा प्रजामायुर्धनं च । बृहस्पतिप्रसूतो यजमान इह मा रिषदिति
स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेत्यथ यावत्परिशिष्टेन प्रचरत्यथ यजमानमाज्यमवेक्षयत्याजयमसि सत्यमसि सत्यस्याध्यक्षमसि हविरसि वैश्वानरं वैश्वदेवमुत्पूतशुष्मँ सत्यौजाः सहोऽसि सहमानमसि सहस्वारातीः सहस्वारातीयतः सहस्व पृतनाः सहस्व पृतन्यतः सहस्रवीर्यमसि तन्मा जिन्वाज्यस्याज्यमसि सत्यस्य सत्यमसि सत्यायुरसि सत्यशुष्ममसि सत्येन त्वाभिघारयामि तस्य ते भक्षीयेत्य्
अथाज्यग्रहाणां गृहीतंगृहीतमनुमन्त्रयते पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि पञ्चनां त्वा दिशां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामीति चतुर्भिर्जुहूम्
अष्टाभिरुपभृतं चरोस्त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि ब्रह्मणस्त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि क्षत्रस्य त्वौजसे यन्त्राय धर्त्राय गृह्णामि विशे त्वा यन्त्राय धर्त्राय गृह्णामि सुवीर्याय त्वा गृह्णामि सुप्रजास्त्वाय त्वा गृह्णामि रायस्पोषाय त्वा गृह्णामि ब्रह्मवर्चसाय त्वा गृह्णामीति
चतुर्भिर्ध्रुवाम्भूरस्माकँ हविर्देवानामाशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामीत्यभिपूर्यमाणामनुमन्त्रयते कामाय त्वा गृह्णामीति
परिधीन्परिधीयमानाननुमन्त्रयते ध्रुवोऽसि ध्रुवोऽहँ सजातेषु भूयासं धीरश्चेत्ता वसुविदिति मध्यम्
उग्रोऽस्युग्रोऽहँ सजातेषु भूयासमुग्रश्चेत्ता वसुविदिति दक्षिणम्
अभिभूरस्यभिभूरहँ सजातेषु भूयासमभिभूश्चेत्ता वसुविदित्युत्तरम्

अथाग्निं योगेन युनक्ति युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेद इति
समिधोरभ्याधीयमानयोर्जपतीन्धानास्त्वा सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं त इत्यथान्तर्वेदि हवीँ ष्यासन्नान्यभिमन्त्रयते यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो । तेन हन्मि सपत्नं दुर्मरायुमैनं दधामि निरृत्या उपस्थ इति १६
3.17
अथ भूर्भुवः सुवरित्यग्निहोत्रमेताभिर्व्याहृतीभिरुपसादयेद्यज्ञमुखं वा अग्निहोत्रं ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म कुरुते
संवत्सरे पर्यागत एताभिरेवोपसादयेद्ब्रह्मणैवोभयतः संवत्सरं परिगृह्णातीति ब्राह्मणम्
अथ वै भवति
दर्शपूर्णमासावालभमान एताभिर्व्याहृतीभिर्हवीँ ष्यासादयेद्यज्ञमुखं वै दर्शपूर्णमासौ ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म कुरुते
संवत्सरे पर्यागत एताभिरेवासादयेद्ब्रह्मणैवोभयतः संवत्सरं परिगृह्णातीति ब्राह्मणम्
अथ वै भवति
चातुर्मास्यान्यालभमान एताभिर्व्याहृतीभिर्हवीँ ष्यासादयेद्यज्ञमुखं वै चातुर्मास्यानि ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म कुरुते
संवत्सरे पर्यागत एताभिरेवासादयेद्ब्रह्मणैवोभयतः संवत्सरं परिगृह्णातीति ब्राह्मणम्
अथ वै भवति
यद्वै यज्ञस्य साम्ना क्रियते राष्ट्रं यज्ञस्याशीर्गच्छति यदृचा विशं यज्ञस्याशीर्गच्छत्यथ ब्राह्मणोऽनाशीर्केण यज्ञेन यजते
सामिधेनीरनुवक्ष्यन्नेता व्याहृतीः पुरस्ताद्दध्याद्ब्रह्मैव प्रतिपदं कुरुते
तथा ब्रामणः साशीर्केण यज्ञेन यजत इति ब्राह्मणम्

अथ वै भवति
यं कामयेत यजमानं भ्रातृव्यमस्य यज्ञस्याशीर्गच्छेदिति तस्यैता व्याहृतीः पुरोऽनुवाक्यायां दध्याद्भ्रातृव्यदेवत्या वै पुरोऽनुवाक्या
भ्रातृव्यमेवास्य यज्ञस्याशीर्गच्छतीति ब्राह्मणम्
अथ वै भवति
यान्कामयेत यजमानान्त्समावत्येनान्यज्ञस्याशीर्गच्छेदिति तेषामेता व्याहृतीः पुरोऽनुवाक्याया अर्धर्च एकां दध्याद्याज्यायै पुरस्तादेकां याज्याया अर्धर्च एकां
तथैनान्त्समावती यज्ञस्याशीर्गच्छतीति ब्राह्मणम्
अथ वै भवति
यथा वै पर्जन्यः सुवृष्टः वर्षत्येवं यज्ञो यजमानाय वर्षति
स्थलयोदकं परिगृह्णन्त्याशिषा यज्ञं यजमानः परिगृह्णातीति ब्राह्मणम्व्याहृतीभिर्ब्राह्मणस्य प्रतिपद्यते हिङ्कारेण राजन्यस्यर्चा वैश्यस्य सर्वमेवैतत्त्रयं कुर्यादित्येतदपरम्
इध्ममभ्याधीयमानमनुमन्त्रयते १७
3.18
उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते । अग्ने देवेद्ध मन्विद्ध मन्द्र जिह्वेति
प्रवरं प्रव्रियमाणमनुमन्त्रयतेऽमर्त्यस्य ते होतर्मूर्धन्नाजिघर्मि रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति
स्रुवेणाघारमाघार्यमाणमनुमन्त्रयते मनोऽसि प्रजापत्यं मनसा मा भूतेनाविशेति
स्रुच्यमाघारमाघार्यमाणमनुमन्त्रयते वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रि येणाविशेति
प्रयाजानामिष्टमिष्टमनुमन्त्रयते वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीतामित्य्
आज्यभागाविष्टावनुमन्त्रयतेऽग्नीषोमयोरहं देवयज्यया चक्षुष्मान्भूयासमित्यग्निमिष्टमनुमन्त्रयतेऽग्नेरहं देवयज्ययान्नादो भूयासमित्युपाँ शुयाजमिष्टमनुमन्त्रयते दब्धिरस्यदब्धो भूयासममुं दभेयमित्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायत्यथाप उपस्पृश्याग्नीषोमाविष्टावनुमन्त्रयतेऽग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासमितीन्द्रा ग्नी इष्टावनुमन्त्रयत इन्द्रा ग्नियोरहं देवयज्ययेन्द्रि याव्यन्नादो भूयासमितीन्द्र मिष्टमनुमन्त्रयत इन्द्र स्याहं देवयज्ययेन्द्रि यावी भूयासमिति
महेन्द्र मिष्टमनुमन्त्रयते महेन्द्र स्याहं देवयज्यया जेमानं महिमानं गमेयमिति
स्विष्टकृतमिष्टमनुमन्त्रयतेऽग्नेः स्विष्टकृतोऽहं देवयज्ययायुष्मान्यज्ञेन प्रतिष्ठां गमेयमिति
प्राशित्रेऽवदीयमाने जपत्यग्निर्मा दुरिष्टात्पातु सविताघशँ सादिति
यजमानभागे यो मेऽन्ति दूरेऽरातीयति तमेतेन जेषमितीडामाह्रियमाणामनुमन्त्रयते सुरूपवर्षवर्ण एहीति प्रतिपद्य मघोनीत्यातोऽवान्तरेडां प्राश्यमानामनुमन्त्रयते जुष्टिरसि जुषस्व नो जुष्टा नोऽसि जुष्टिं ते गमेयमित्यथान्तर्वेद्यद्भिर्माजयते मनो ज्योतिर्जुषतामाज्यम्विच्छिन्नं यज्ञँ समिमं दधातु । बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्तामिति

बर्हिषदं पुरोडाशमभिमन्त्रयते ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसदित्यथान्वाहार्यं याचति
तमन्तर्वेद्यासन्नमभिमन्त्रयते प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वानित्यान्तादनुवाकस्य १८
3.19
अनूयाजानामिष्टमिष्टमनुमन्त्रयते बर्हिषोऽहं देवयज्यया प्रजावान्भूयासं नराशँ सस्याहं देवयज्यया पशुमान्भूयासमग्नेः स्विष्टकृतोऽहं देवयज्ययायुष्मान्यज्ञेन प्रतिष्ठां गमेयमित्यथ यत्र होतुरभिजानात्यग्निरिदं हविरजुषतेति तद्यजमानमुज्जितिं वाचयत्यग्नेरहमुज्जितिमनूज्जेषमिति यथेष्टम्
उक्तं वाजवत्योर्व्यूहनम्
अथ यत्र होतुरभिजानात्याशास्तेऽयं यजमानोऽसविति तद्यजमानं यज्ञस्य दोहं वाचयत्येमा अग्मन्नाशिषो दोहकामा इन्द्र वन्तो वनामहे धुक्षीमहि प्रजामिषमिति
प्रस्तरं प्रह्रियमाणमनुमन्त्रयते रोहितेन त्वाग्निर्देवतां गमयतु हरिभ्यां त्वेन्द्रो देवतां गमयत्वेतशेन त्वा सूर्यो देवतां गमयत्विति
परिधीन्विमुच्यमानाननुमन्त्रयते वि ते मुञ्चामि रशना वि रश्मीन्वि योक्त्रा यानि परिचर्तनानि । धत्तादस्मासु द्र विणं यच्च भद्र म्प्र णो ब्रूताद्भागधान्देवतास्विति
शंयुवाकमुक्तमनुमन्त्रयते विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमिति

पत्नीसंयाजानामिष्टमिष्टमनुमन्त्रयते १९
3.20
सोमस्याहं देवयज्यया सुरेता रेतो धिषीय त्वष्टुरहं देवयज्यया पशूनाँ रूपं पुषेयमित्यथेतरावुपसमस्यति देवानां पत्वीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्यया मिथुनेन प्रभूयासमिति
वेदे यजमानं वाचयति वेदोऽसि वित्तिरसि विदेयेत्यान्तादनुवाकस्य
ध्रुवामाप्याय्यमानामनुमन्त्रयत आप्यायतां ध्रुवा घृतेन यज्ञंयज्ञं प्रति देवयद्भ्यः । सूर्याया ऊधोऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन्नित्यथ यजमानभागं प्राश्नाति प्रजापतेर्विभान्नाम लोकस्तस्मिँ स्त्वा दधामि सह यजमानेनेति सं यज्ञपतिराशिषेति वात्रैतत्पूर्णपात्रं याचति
तमन्तर्वेदि निधाय पूर्णपात्रे यजमानं वाचयति सदसि सन्मे भूयाः सर्वस्मसि सर्वं मे भूयाः पूर्णमसि पूर्णं मे भूया अक्षितमसि मा मे क्षेष्ठा इत्यथ दिशो व्युन्नयति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणायां दिशि मासाः पितरो मार्जयन्तां प्रतीच्यां दिशि गृहाः पशवो मार्जयन्तामुदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरो यज्ञपतिर्मार्जयन्तामित्यथैना निनयति समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपिगच्छत । अच्छिद्र ः! प्रजया भूयासम्मा परासेचि मत्पय इत्य्
अथोपोत्थाय दक्षिणेन पदा विष्णुक्रमान्क्रमते २०
3.21
विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु विक्रमे निर्भक्तः स यं द्विष्म इति चतुर्भिरनुच्छन्दसं तृतीये चतुर्थमनुवर्तयति
न चतुर्थाय प्रक्रामति
नाहवनीयमुपात्येत्यथात्रैव तिष्ठन्नाहवनीयमुपतिष्ठतेऽगन्म सुवः सुवरगन्म संदृशस्ते मा छित्सि यत्ते तपस्तस्मै ते मावृक्षीत्यथादित्यमुपतिष्ठते सुभूरसि श्रेष्ठो रश्मीनामायुर्धा अस्यायुर्मे धेहि वर्चोधा असि वर्चो मयि धेहीत्यथैभ्यो लोकेभ्यो भ्रातृव्यं निर्भजतीदमहममुं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिवोऽस्मादन्तरिक्षादस्यै पृथिव्या अस्मादन्नाद्यान्निर्भजामि निर्भक्तः स यं द्विष्म इत्यथाप उपस्पृश्य
सं ज्योतिषाभुवमित्युरः प्रत्यात्मानं प्रत्यभिमृशतेऽथ दक्षिणमँ समभि पर्यावर्ततेऽइन्द्री मावृतमन्वावर्त इत्यथोदङ्पर्यावर्तते समहं प्रजया सं मया प्रजा समहँ रायस्पोषेण सं मया रयस्पोष इत्यथाहवनीये समिधमादधाति समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासँ स्वाहेत्यथाहवनीयमुपतिष्ठते वसुमान्यज्ञो वसीयान्भूयासमित्यथाग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठतेऽग्न आयूँ षि पवसेऽग्ने पवस्वेत्यथ गार्हपत्यमेवोपतिष्ठतेऽग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासं सुगृहपतिर्मया त्वं गृहपतिना भूयाः शतँ हिमास्तामाशिषमाशसे मह्यममुष्मै ज्योतिष्मतीं तामाशिषमाशसेऽमुष्मा अमुष्मा इति

यावन्तोऽस्य पुत्रा जाता भवन्ति तन्तव इत्यन्ततः २१
3.22
अथ वै भवति
यो वै यज्ञं प्रयुज्य न विमुञ्चत्यप्रतिष्ठानो वै स भवति
कस्त्वा युनक्ति स त्वा विमुञ्चत्विति
काले कपालानि विमुञ्चति यानि घर्मे कपालान्युपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्र वायू विमुञ्चतामित्यथैतेनैव यथेतमेत्य यजमानायतन उपविश्य तथैव तिरः पवित्रमप आचामति पयस्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सँ सृजेत्यथाहवनीये समिध आदधात्यग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहा वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहेत्यथोपोत्थाय यज्ञस्य पुनरालम्भं जपति यज्ञो बभूव स आबभूव स प्रजज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्माँ धिपतीन्करोतु वयँ स्याम पतयो रयीणमित्यथ प्राङुत्क्रम्य जपति गोमाँ अग्नेऽविमाँ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः । इडावाँ एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावानित्यथ ब्राह्मणाँ स्तर्पयितवा इति संप्रेष्यति २२
3.23
ब्रह्मत्वं करिष्यन्यज्ञोपवीत्यप आचम्याग्रेणाहवनीयं परीत्य दक्षिणत उदङ्मुखस्तिष्ठन्ब्रह्मसदनमुपतिष्ठते नमो ब्रह्मणे नमो ब्रह्मसदनायेत्यथासनात्तृणं निरस्यत्यहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतर इत्युपविशत्युन्निवत उदुद्वतश्च गेषमित्यथेमे समीक्षते पातं मा द्यावापृथिवी अद्याह्न इत्युपविश्य जपति भूर्भुवः सुवः क इदं ब्रह्मा भविष्यति स इदं ब्रह्मा भविष्यति प्राणः प्रजापतियुक्तोऽहं युज्ये ब्रह्मणार्वेव वाजी सुधुर इव वह्निर्बलीवर्द इव युक्तो हव्यं वक्ष्याम्यहं देवताभ्यो भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवः सुवः प्रपद्ये वायुं प्रपद्ये ब्रह्म प्रपद्ये क्षत्रं प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं प्रपद्येऽनार्तां देवतां वाचं प्रपद्य ॐ प्रपद्य इति
तं यजमानो ब्रह्माणं वृणीते भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे वीतहव्ये पुरोहितं येनायन्नुत्तमँ सुवर्देवा अङ्गिरसो दिवमिति
वृतो ब्रह्मा जपत्यहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि ब्रह्माणं मावृथा वीतहव्ये पुरोहितं येनायन्नुत्तमँ सुवर्देवा अङ्गिरसो दिवं देव सवितरेतं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टुभेऽनुष्टुप्पङ्क्त्यै पङ्क्तिः प्रजापतये प्रजापतिर्विश्वेभ्यो देवेभ्यो विश्वे देवा बृहस्पतये बृहस्पतिर्ब्रह्मणे ब्रह्म भूर्भुवः सुवर्बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणाम्बृहस्पते यज्ञं गोपायेति
स यत्राह ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेति तद्ब्रह्मा प्रसौति २३
3.24
देव सवितः प्रणय यज्ञं देवता वर्धयैता नाकस्य पृष्ठे सुवर्गे लोके यजमानो अस्तु । सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यॐ प्रणयेति
स वाचंयमो भवति प्रणीतासु प्रणीयमानास्वा हविष्कृतः
सांनाय्ये दोह्यमान आ ततो यदाह बहु दुग्धीन्द्रा य देवेभ्यो हव्यमिति महेन्द्रा येति वा यदि महेन्द्र याजी भवत्यधिवपने वाचं यच्छत्या कपालोपधानात्
संवपने वाचं यच्छत्या समभिवासनात्
स्तम्बयजुषि ह्रियमाण आ प्रोक्षणीनामासादनात्
स यत्राह ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामीति तद्ब्रह्मा प्रसौति बृहस्पते परिगृहाण वेदिं ब्रह्मणा यज्ञं परिगृह्णीहीमम्। सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यॐ परिगृहाणेत्याज्येषु गृह्यमाणेषु वाचं यच्छत्या ध्रुवासादनात्
सामिधेनीष्वनूच्यमानास्वा प्रवरादनूक्तायां पुरोऽनुवाक्यायामा वषट्कारात्
प्राशित्रेऽवदीयमान आ प्रसवात्
परिहरन्त्यस्मा एतत्प्राशित्रमग्रेणाहवनीयं तदाह्रियमाणं प्रतिपश्यति २४
3.25
सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्यथैनदुभाभ्याँ हस्ताभ्यां प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीत्य्
अथैनत्सादयति पृथिव्यास्त्वा नाभौ सादयामीत्यथैनदवेक्षते सुपर्णस्य त्वा गरुत्मतश्चक्षुषावेक्ष इत्यथैनदङ्गुष्ठेन च महानाम्न्या चोपसंगृह्यातिहाय दतः पूर्वं जिह्वाग्रे निदधात्यग्नेस्त्वास्येन प्राश्नामीति
प्राश्याप आचम्य सहाद्भिरवगिरति ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेत्यथाद्भिर्मार्जयित्वा प्राणान्संमृशते वाङ्म आसन्नसोः प्राणोऽक्ष्योश्चक्षुः कर्णयोः श्रोत्रं बाहुवोर्बलमूरुवोरोजोऽरिष्टा विश्वान्यङ्गानि तनूस्तनुवा मे सह नमस्ते अस्तु मा मा हिँ सीरिति
मयि प्राणा मयि प्राणा इति वाहृतं ब्रह्मभागं प्राशित्रहरणे निदधात्यथान्वाहार्यं याचति
तमन्तर्वेद्यासन्नमभिमन्त्रयते २५
3.26
ब्रह्मन्ब्रह्मासि नमस्ते ब्रह्मन्ब्रह्मणे पाहि मामहुताद्य सर्वो मह्यं हुतो भवेत्यथास्य यावन्मात्रमवदाय प्राशित्रहरणे निदधाति श्रीरस्येहि मामभ्यन्नवानन्नादो भूयासमित्यथैनमग्रेण स्रुच उदञ्चं नीयमानमनुमन्त्रयते यज्ञो दिवँ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवाँ अप्येत्विति
स यत्राह ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीति तद्ब्रह्मा प्रसौति देव सवितरेतत्ते प्राह तत्प्र च सुव प्रच यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यॐ प्रतिष्ठेति
प्रचरतेति प्रवर्ग्ये
सोऽत्रैवास्त आ समिष्टयजुषो होमाद्धुते समिष्टयजुष्युपोत्थायाहवनीयमुपतिष्ठतेऽयाड्यज्ञँ हविषो जातवेदा अदब्धो अन्ततः पूर्वो अस्मिन्निषद्य । सन्वन्सनिँ सुविमुचा नो विमुञ्च धेह्यस्मासु द्र विणं जातवेदो यच्च भद्र मिति

स एतेनैव ब्रह्मा भवति दर्शपूर्णमासयोरिष्टीनां चातुर्मास्यानां पशुबन्धस्य सौत्रामण्या इति २६
3.27
हवीँ ष्यासाद्य होतारमामन्त्रयते
स यज्ञोपवीत्यप आचम्य हस्तौ संमृशते कर्मणे वां देवेभ्यः शकेयँ शक्त्यै वाँ सुकृताय वामित्यथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो अग्निरित्यथान्तरेण वेद्युत्करौ प्रपद्यते सत्यं प्रपद्य ऋतं प्रपद्येऽमृतं प्रपद्ये प्रजापतेः प्रियां तनुवमनार्तां प्रपद्य इदमहं पञ्चदशेन वज्रेण द्विषन्तं भ्रातृव्यमवक्रामामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मो भूर्भुवः सुवर्विष्णो स्थाने तिष्ठामीति
दक्षिणेन प्रपदेनोत्तरं वेद्यन्तमवक्रम्य तिष्ठति
यदा जानात्यग्नये समिध्यमानायानुब्रूहीति तदेदँ हौत्रं जपति कं प्रपद्ये तं प्रपद्ये यत्ते प्रजापते शरणं छन्दस्तत्प्रपद्ये यावत्ते विष्णो वेद तावते करिष्यामि देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि नमोऽग्नय उपद्र ष्ट्रे नमो वायव उपश्रोत्रे नम आदित्यायानुख्यात्रे जुष्टामद्य देवेभ्यो वाचमुद्यासं शुश्रूषेण्यां मनुष्येभ्यः स्वधावतीं पितृभ्यः प्रतिष्ठां विश्वस्मै भूताय भूर्भुवः सुवः प्रशास्त आत्मना प्रजया पशुभिः प्रजापतिं प्रपद्ये अभयं मे अस्तु प्राजापत्यमनुवक्ष्यामि वाचं प्रपद्ये वागार्त्विज्यं करिष्यति यशसे त्वा द्युम्नाय त्वेन्द्रि याय त्वा भूत्यै त्वा यज्ञो यज्ञाय महि शर्म यच्छतामित्य्
अत्र त्रिरभिहिङ्कृत्यानवानमभि हिङ्कारादृचमुपसंदधाति
प्र वो वाजा अभिद्यव इति त्रिः प्रथमामन्वाह
त्रिरुत्तमां सर्वा अर्धर्चशोऽपानित्यनूक्तासु सामिधेनीषु देवता आवाह्य भूमौ प्रादेशं कृत्वोपविशतीदमहं गायत्रेण छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्ना वषट्कारेण वज्रेण द्विषन्तं भ्रातृव्यमवबाधेऽवबाढो द्विषन्निति
स आहवनीयं प्रेक्षमाण आस्ते प्रणीता वोभयं वान्तरेण
नेति वेति वा वीक्षतेऽनप्रगल्भो हास्माज्जायते
यदा जानात्यग्निर्देवो होतेत्येतज्जपति देव सवितरेतं त्वा वृणतेऽग्निहोत्राय सह पित्रा वैश्वानरेणेत्यथोपोत्थाय दक्षिणेन हस्तेन दक्षिणेऽँ! सेऽध्वर्युमन्वारभते सव्येन दक्षिणेऽँ! स आग्नीध्रं
यद्यु वै स्वयं प्रत्याश्रावयेन्नीविदेश एनं दक्षिणस्याँ श्रोण्यामन्वारभेताग्निमन्वारभामहे होतृवूर्ये पुरोहितम्। येनायन्नुत्तमँ स्वर्देवा अङ्गिरसो दिवम्॥ देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु त्रिरेकादशा अनुसँ रभध्वमित्यथाध्वर्यवे नाम प्रब्रूतेऽथ दक्षिणमँ समभि पर्यावर्ततेऽइन्द्री मावृतमन्वावर्त इत्यथ होतृषदनमभिव्रजञ्जपति २७
3.28
षण्मोर्वीरँ हसस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्च ता मा रक्षन्तु ता मा गोपायन्तु ताभ्यो नम इत्यथासमात्तृणं निरस्यति शुष्कं वा प्रतिच्छिन्नाग्रं वा दक्षिणायै च सन्धिमनु प्रतीच्यै च निरस्तः परावसुरित्यथाप उपस्पृश्योपस्तीर्योपविशतीदमहमर्वावसोः सदने सीदामीति दक्षिणोत्तर्यथ दक्षिणावृद्गार्हपत्यं प्रतीक्षते विश्वकमँ र्! स्तनूपा असि तनुवं मे पाहीत्युभौ समीक्षत आहवनीयं चाग्नाविष्णू मा वामवक्रमिषमोजोऽशिष्टम्विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कृणुतमित्येष वां लोक इति मनागिवोदङ्सर्पत्यथ तिस्र ऋचो जपति विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ॥ तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम । ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम्॥ नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान्यदि शक्नवाम मा ज्यायसः शँ समा वृक्षि देवा इत्य्
अथ स्रुगादापनेन स्रुचावादाप्य यथादेवतँ हविषो यजत्यथ वषट्काराणामनुमन्त्रणो वषट्कार मा मे प्रवृण्मो अहं त्वां बृहता मन उपह्वये मातरिश्वना प्राणान्न मे वाचं हव्यं देवेभ्योऽभिवहाम्योजः सहः सह ओजो वागिति
यद्यु वा अभ्यग्रा वषट्काराः स्युरेतावतैवानुमन्त्रयत ओजः सह ओजो वागित्यथ होतुर्द्विरङ्गुलावनक्ति
यत्पूर्वाक्तं तदुत्तरोष्ठे प्रोहति वाचस्पतये त्वा हुतं प्राश्नामीषे प्राणायेति
सदसस्पतये त्वा हुतं प्राश्नाम्यूर्जेऽपानायेत्यधरोष्ठेऽपोहत्य्
अथाप उपस्पृश्य चतुरवान्तरेडामवदापयतेऽप्रसृतेन पाणिनासमस्तेनेडां मुखसंमितामुपह्वयते २८
3.29
उपहूतँ रथन्तरँ सह पृथिव्या सहाग्निना सहान्नाद्येन सह वाचोप मा रथन्तरँ सह पृथिव्या सहाग्निना सहान्नाद्येन सह वाचा ह्वयताम्
उपहूतं वामदेव्यँ सहान्तरिक्षेण सह वायुना सह प्राणेन सह पशुभिरुप मा वामदेव्यँ सहान्तरिक्षेण सह वायुना सह प्राणेन सह पशुभिर्ह्वयताम्
उपहूतं बृहत्सह दिवा सहादित्येन सह चक्षुषोप मा बृहत्सह दिवा सहादित्येन सह चक्षुषा ह्वयताम्
उपहूतँ स्थास्नु भुवनमुप मा स्थास्नु भुवनँ ह्वयताम्
उपहूतं चरिष्णु हुवनमुप मा चरिष्णु भुवनं ह्वयताम्
उपहूताः सप्त होत्रा उप मा सप्त होत्रा ह्वयन्ताम्
उपहूता गावः सहाशिरोप मा धेनुः सहर्षभा ह्वयताम्
उपहूता धेनुः सहर्षभोप मा धेनुः सहर्षभा ह्वयताम्
उपहूतेडा वृष्तिरुप मामिडा वृष्टिर्ह्वयताम्
उपहूतो भक्षः सखोप मा भक्षः सखा ह्वयताम्

 उपहूता३ँ! हो इडोपहूता हे सासि जुषस्व मेड इत्युपाँ शूक्त्वोच्चैर्निरुक्तामुपह्वयते
स यदि सर्वां प्राशिष्यन्स्यात्पाणौ कृतानि प्राश्य चमसादेव प्राश्नीयादथ यदि दित्सेद्वा निधित्सेत वा पुरोडाशशकलमवच्छिद्यैव प्राश्नीयादिडासि स्योनासि स्योनकृत्सा नो रायस्पोषे सुप्रजास्त्वे धार्मुखस्य त्वा द्युम्नाय सुरभ्यास्यत्वाय प्राश्नामीति
प्राश्याप आचम्य प्राचीं वोदीचीं वोदकराजिं निनयति तूष्णीमिति न्वे वाज्यस्य वचोऽथाप्येतं जपं जपति मनो ज्योतिर्जुषतामाज्यम्विच्छिन्नं यज्ञँ समिमं दधातु । बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्तामित्यनूयाजानिष्ट्वा शंयुवाकमुक्त्वा बर्हिष्यञ्जलिं कृत्वा निह्नुते यज्ञ शं च म उप च मे प्रजापते यज्ञ यत्ते न्यूनं यदु तेऽतिरिक्तं कर्म प्रजापतौ यज्ञ तदित्य्
अथ दक्षिणार्धे वेद्यै वेदं निधाय यजमानं वाचयति २९
3.30
येन त्वं देव वेद देवेभ्यो वेदोऽभवस्तेनास्मभ्यं वेद एधि । वेदोऽसि वित्तिरसि विदेयाहं प्रजां पशून्स्वर्गं लोकम्। कर्मासि करुणमसि क्रियासमहं पुण्यं कर्म । सनिरसि सनितासि सनेयमहमदो घृतवन्तं कुलायिनँ राय अस्पोषँ सहस्रिणं वेदो ददातु वाजिनमिति
पत्नीसंयाजानिष्ट्वा फलीकरहोमे हुते वेदे पत्नीं वाचयति वेदोऽसि वित्तिरसि विदेयाहमदः । कर्मासि करुणमसि क्रियासमहमदः सनिरसि सनितासि सनेयमहमदो घृतवन्तं कुलायिनँ रायस्पोषँ सहस्रिणं वेदो ददातु वाजिनमिति
विस्रस्य वेदमर्धानि पत्न्यै प्रयच्छति
तानि पत्न्यन्तरोरू वा न्यस्यति दक्षिणेन वोरुण्पनिगृह्णीत
अथेतराणि प्राङावृत्त स्तृणन्नेति तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृताननुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनमित्यथ यान्यतिशिष्यन्ते तानि बर्हिषि संन्यस्यत्यापृणोऽसि संपृण प्रजया मा पशुभिरापृणेत्यथ यथाप्रपन्नं निष्क्रम्याग्रेणाहवनीयं परीत्य दक्षिणत उदङ्मुखस्तिष्ठन्नाहवनीयमुपतिष्ठतेऽयाड्यज्ञँ हविषो जातवेदा अदब्धो अन्ततः पूर्वो अस्मिन्निषद्य । सन्वन्सनिँ सुविमुचा नो विमुञ्च धेह्यस्मासु द्र विणं जातवेदो यच्च भद्र म्॥ एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा । उत प्रणेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या ॥ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिर्नो अग्निरिन्द्रो बृहस्पतिर्विश्वे मुञ्चन्तु मरुतः स्वर्का इत्येते न्वेव जपा दर्शपूर्णमासयोरिष्टीनां चातुर्मास्यानां पशुबन्धस्य सौत्रामण्या इति ३०
3.31
अथ पशावुपधीयन्ते
यदा जानात्यग्नये मथ्यमानायानुब्रूहीति तदेते ऋचौ जपति यद्वो वयं प्रमिनाम व्रतानि ॥ यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजातीति
मैत्रावरुणदण्डेऽध्वर्युर्यजमानं वाचयति त्वां गावोऽवृणत राज्याय त्वाँ हवन्त मरुतः स्वर्काः । वर्ष्मन्क्षत्रस्य ककुभि शिश्रियाणस्ततो न उग्रो विभजा वसूनीति

तमग्रे गृहीत्वा मैत्राव्रुणाय प्रयच्छति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रयच्छामीति
तँ स स्थूरतः प्रतिगृह्णाति मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रतिगृह्णामीति दक्षिणोत्तर्यथैनमूर्ध्वमुन्मार्ष्ट्यवक्रोऽविधुरो भूयासमिति
तमादाय संप्रेष्यति होता यक्षदग्निँ समिधा सुषमिधा समिद्धमितीध्मान्तं पशोः ३१