प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.2 द्वितीयप्रपाठकः/2.2.2 द्वितीयोऽर्द्धः

एत असृग्रमिन्दवस्तिरः पवित्रमाशवः |
विश्वान्यभि सौभगा || ८३० ||

१अ
१छ्

विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः |
त्मना कृण्वन्तो अर्वतः || ८३१ ||

२अ
२छ्

कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिं |
इडामस्मभ्यं संयतं || ८३२ ||

३अ
३छ्

राजा मेधाभिरीयते पवमानो मनावधि |
अन्तरिक्षेण यातवे || ८३३ ||

१अ
१छ्

आ नः सोम सहो जुवो रूपं न वर्चसे भर |
सुष्वाणो देववीतये || ८३४ ||

२अ
२छ्

आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यं |
वहा भगत्तिमूतये || ८३५ ||

३अ
३छ्

तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः |
चारुं सुकृत्ययेमहे || ८३६ ||

१अ
१छ्

संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदं |
शतं पुरो रुरुक्षणिं || ८३७ ||

२अ
२छ्

अतस्त्वा रयिरभ्ययद्राजानं सुक्रतो दिवः |
सुपर्णो अव्यथी भरत् ||८३८ ||

३अ
३छ्

अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे |
अभिष्टिकृद्विचर्षणिः || ८३९ ||

४अ
४छ्

विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरं |
गोपामृतस्य विर्भरत् ||८४० ||

५अ
५छ्

इषे पवस्व धारया मृज्यमानो मनीषिभिः |
इन्दो रुचाभि गा इहि || ८४१ ||

१अ
१छ्

पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः |
हरे सृजान आशिरं || ८४२ ||

२अ
२छ्

पुनानो देववीतय इन्द्रस्य याहि निष्कृतं |
द्युतानो वाजिभिर्हितः || ८४३ ||

३अ
३छ्

अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा |
हव्यवाड्जुह्वास्यः || ८४४ ||

१अ
१छ्

यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति |
तस्य स्म प्राविता भव || ८४५ ||

२अ
२छ्

यो अग्निं देववीतये हविष्मां आविवासति |
तस्मै पावक मृडय || ८४६ ||

३अ
३छ्

मित्रं हुवे पूतदक्षं वरुणं च रिशादसं |
धियं घृताचीं साधन्ता || ८४७ ||

१अ
१छ्

ऋतेन मित्रावरुणावृतावृधावृतस्पृशा |
क्रतुं बृहन्तमाशाथे || ८४८ ||

२अ
२छ्

कवी नो मित्रावरुणा तुविजाता उरुक्षया |
दक्षं दधाते अपसं || ८४९ ||

३अ
३छ्

इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा |
मन्दू समानवर्च्चसा || ८५० ||

१अ
१छ्

आदह स्वधामनु पुनर्गर्भत्वमेरिरे |
दधाना नाम यज्ञियं || ८५१ ||

२अ
२छ्

वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः |
अविन्द उस्रिया अनु || ८५२ ||

३अ
३छ्

ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतं |
इन्द्राग्नी न मर्धतः || ८५३ ||

१अ
१छ्

उग्रा विघनिना मृध इन्द्राग्नी हवामहे |
ता नो मृडात ईदृशे || ८५४ ||

२अ
२छ्

हथो वृत्राण्यार्या हथो दासानि सत्पती |
हथो विश्वा अप द्विषः || ८५५ ||

३अ
३छ्

अभि सोमास आयवः पवन्ते मद्यं मदं |
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः || ८५६ ||

१अ
१छ्

तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् |
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ||८५७ ||

२अ
२छ्

१०

तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषां |
गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः || ८५९ ||

१अ
१छ्

सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः |
सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते || ८६० ||

२अ
२छ्

एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति |
इन्द्रमा विश बृहता मदेन वर्धया वाचं जनया पुरन्धिं || ८६१ ||

३अ
३छ्

११

यद्द्याव इन्द्र ते शतंशतं भूमीरुत स्युः |
न त्वा वज्रिन्त्सहस्रं सुर्या अनु न जातमष्ट रोदसी || ८६२ ||

१अ
१छ्

आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा |
अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः || ८६३ ||

२अ
२छ्

१२

वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः |
पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते || ८६४ ||

१अ
१छ्

स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः |
कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः || ८६५ ||

२अ
२छ्

कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणं |
पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे || ८६६ ||

३अ
३छ्

१३

तरणिरित्सिषासति वाजं पुरन्ध्या युजा |
आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवं || ८६७ ||

१अ
१छ्

न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तं रयिर्नशत् |
सुशक्तिरिन्मघवं तुभ्यं मावते देष्णं यत्पार्ये दिवि || ८६८ ||

२अ
२छ्

१४

तिस्रो वाच उदीरते गावो मिमन्ति धेनवः |
हरिरेति कनिक्रदत् ||८६९ ||

१अ
१छ्

अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः |
मर्जयन्तीर्दिवः शिशुं || ८७० ||

२अ
२छ्

रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः |
आ पवस्व सहस्रिणः || ८७१ ||

३अ
३छ्

१५

सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः |
पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः || ८७२ ||

१अ
१छ्

इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् |
वाचस्पतिर्मखस्यते विश्वस्येशान ओजसाः || ८७३ ||

२अ
२छ्

सहस्रधारः पवते समुद्रो वाचमीङ्खयः |
सोमस्पती रयीणां सखेन्द्रस्य दिवेदिवे || ८७४ ||

३अ
३छ्

१६

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः |
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत || ८७५ ||

१अ
१छ्

तपोष्पवित्रं विततं दिवस्पदेऽर्चन्तो अस्य तन्तवो व्यस्थिरन् |
अवन्त्यस्य पवीतारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा || ८७६ ||

२अ
२छ्

अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः |
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः || ८७७ ||

३अ
३छ्

१७

प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे |
उपस्तुतासो अग्नये || ८७८ ||

१अ
१छ्

आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः |
कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत् ||८७९ ||

२अ
२छ्

१८

तं ते मदं गृणीमसि वृषणं पृक्षु सासहिं |
उ लोककृत्नुमद्रिवो हरिश्रियं || ८८० ||

१अ
१छ्

येन ज्योतींष्यायवे मनवे च विवेदिथ |
मन्दानो अस्य बर्हिषो वि राजसि || ८८१ ||

२अ
२छ्

तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा |
वृषपत्नीरपो जया दिवेदिवे || ८८२ ||

३अ
३छ्

१९

श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति |
सुवीर्यस्य गोमतो रायस्पूर्धि महां असि || ८८३ ||

१अ
१छ्

यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् |
चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीं || ८८४ ||

२अ
२छ्

तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः |
पुरूण्यस्य न्ॐस्या सिषासन्तो वनामहे || ८८५ ||

३अ
३छ्