सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.9 नवमप्रपाठकः/2.9.1 प्रथमोऽर्द्धः


प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।
देवां अनु प्रभूषतः ॥ १७६५ ॥
सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
ज्योतिर्जज्ञानमुक्थ्यं ॥ १७६६ ॥
सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
वर्धा समुद्रमुक्थ्यं ॥ १७६७ ॥



एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ १७६८ ॥
त्वामिच्छवसस्पते यन्ति गिरो न संयतः ॥ १७६९ ॥
वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः ॥ १७७० ॥



आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि ।
तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिं ॥ १७७१ ॥
तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
आ पप्राथ महित्वना ॥ १७७२ ॥
यस्य ते महिना महः परि ज्मायन्तमीयतुः ।
हस्ता वज्रं हिरण्ययं ॥ १७७३ ॥



आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्व ।
सूरो न रुरुक्वाञ्छतात्मा ॥ १७७४ ॥
अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचनो अस्थात् ।
होता यजिष्ठो अपां सधस्थे ॥ १७७५ ॥
अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
मर्तो यो अस्मै सुतुको ददाश ॥ १७७६ ॥



अग्ने तमद्याष्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृषं ।
ऋध्यामा त ओहैः ॥ १७७७ ॥
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
रथीरृतस्य बृहतो बभूथ ॥ १७७८ ॥
एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वा३र्ण ज्योतिः ।
अग्ने विश्वेभिः सुमना अनीकैः ॥ १७७९ ॥



अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य ।
आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः ॥ १७८० ॥
जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणां ।
सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥१७८१ ॥



विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ।
देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥ १७८२ ॥
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः ।
यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥ १७८३ ॥
ऐभिर्ददे वृष्ण्या प्ॐस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।
ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥ १७८४ ॥



अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः ।
उत स्वराजो अश्विना ॥ १७८५ ॥
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
त्रिषधस्थस्य जावतः ॥ १७८६ ॥
उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः ।
प्रातर्होतेव मत्सति ॥ १७८७ ॥



बण्महां असि सूर्य बडादित्य महां असि ।
महस्ते सतो महिमा पनिष्तम मह्ना देव महां असि ॥ १७८८ ॥
बट्सूर्य श्रवसा महां असि सत्रा देव महां असि ।
मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यं ॥ १७८९ ॥

गौरीविते
महादिवाकीर्त्यानि

१०
उप नो हरिभिः सुतं याहि मदानां पते ।
उप नो हरिभिः सुतं ॥ १७९० ॥
द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
उप नो हरिभिः सुतं ॥ १७९१ ॥
त्वं हि वृत्रहन्नेषां पाता सोमानामसि ।
उप नो हरिभिः सुतं ॥ १७९२ ॥


११
प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वं ।
विशः पूर्वीः प्र चर चर्षणिप्राः ॥ १७९३ ॥
उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः ।
तस्य व्रतानि न मिनन्ति धीराः ॥ १७९४ ॥
इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै ।
हर्यश्वाय बर्हया समापीन् ॥१७९५ ॥


१२
यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषं ॥ १७९६ ॥
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।
न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥ १७९७ ॥
महावैष्टम्भे

१३
श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषां ।
कृष्वा दुवांस्यन्तमा सचेमा ॥ १७९८ ॥
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् ।
सदा ते नाम स्वयशो विवक्मि ॥ १७९९ ॥
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् ।
मारे अस्मन्मघवञ्ज्योक्कः ॥ १८०० ॥


१४
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह ।
अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०१ ॥
त्वं सिन्धूंरवासृजोऽधराचो अहन्नहिं ।
अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं ।
तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०२ ॥
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति ।
या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०३ ॥


१५
रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः ।
प्रेदु हरिवः सुतस्य ॥ १८०४ ॥
उक्थं च न शस्यमानं नागो रयिरा चिकेत ।
न गायत्रं गीयमानं ॥ १८०५ ॥
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
शिक्षा शचीवः शचीभिः ॥ १८०६ ॥


१६
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिं ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०७ ॥
अत्रा वि नेमिरेषामुरां न धूनुते वृकः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०८ ॥
आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०९ ॥


१७
पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥ १८१० ॥
ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत ॥ १८११ ॥
असृग्रं देववीतये वाजयन्तो रथा इव ॥ १८१२ ॥


१८
अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥ १८१३ ॥
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्रमन्मभिः ।
परिज्मानमिव द्यां होतारं चर्षणीनां ।
शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥ १८१४ ॥
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः ।
वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरं ।
निष्षहमाणो यमते नायते धन्वासहा नायते ॥ १८१५ ॥