सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः ७/विशोविशीयम्

इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।

विशोविशीयम्

१. विशोविशीयम् ॥ अग्निः । उष्णिक् । पवमानस्सोमः॥
इ꣢न्द्रमच्छहु꣯म्स्थिसूऽ३ता꣢꣯इमाइ ॥ वाऽ३र्षा꣡णा꣢ऽ३म्या꣢। तु꣡हर । यश्रूऽ२३ष्टा꣢इ । हु꣡म्माइ । जा꣢ऽ३ता꣢ऽ३ । सा꣡ऽ२३४इहा꣥इ ॥ ओ꣡ । हु꣣वा꣢इ᳐ । दा꣣ऽ२३४वा꣥: ॥ हु꣡म्माइ । सू꣢ऽ३वा꣢ऽ३: । वा꣡ऽ२३४इदाः । ए꣥꣯हियाऽ६हा꣥ ॥ श्रीः ॥ अ꣢यम्भरा꣯हु꣯म्-स्थियाऽ३सा꣢꣯नसाइः ॥ आऽ३इन्द्रा꣡याऽऽपा꣢ । व꣡ते꣯सु। तस्सोऽ२३मा꣢:। हु꣡म्माइ । जा꣢ऽ३इत्रा꣢ऽ३ । स्या꣡ऽ२३४चे꣯हा꣥इ ॥ ओ꣡। हु꣣वा꣢इ᳐। ता꣣ऽ२३४ता꣥इ ॥ हु꣡म्माइ। या꣢ऽ३था꣢ऽ३ । वा꣡ऽ२३४इदाइ । ऐ꣥꣯हियाऽ६हा꣥ ।। श्रीः ॥ अ꣢स्ये꣯दिन्द्रो꣯हु꣯म्-स्थिमाऽ३दे꣢꣯षुवा ॥ ग्राऽ३भा꣡ङ्गा꣢३र्भ्णा꣢ । ति꣡सा꣯न । सिम्वाऽ२३ज्रा꣢म् । हु꣡म्माइ । चा꣢ऽ३वा꣢ऽ३ । षा꣡ऽ२३४णꣲहा꣥इ ॥ ओ꣡। हु꣣वा꣢इ᳐ । भा꣣ऽ२३४रा꣥त् ॥ हु꣡म्माइ । सा꣢ऽ३मा꣢ऽ३ । प्सू꣡ऽ२३४जीत् । ए꣥꣯हियाऽ६हा꣥ । हो꣤ऽ५इ॥ डा॥
दी. १५. उत् . न. मा. ३५. वु. ॥४९६॥

श्रुष्टे जातास इन्दवः स्वर्विदः ॥ ६९४ ॥ ऋ. ९.१०६.१

अयं भराय सानसिरिन्द्राय पवते सुतः ।

सोमो जैत्रस्य चेतति यथा विदे ॥ ६९५ ॥

अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिं ।

वज्रं च वृषणं भरत्समप्सुजित् ॥६९६ ॥


१. विशोविशीयम् ॥ अग्निः । उष्णिक् । पवमानस्सोमः॥

इन्द्रमच्छहुम्स्थिसूऽ३ताइमाइ ॥ वाऽ३र्षाणाऽ३म्या। तुहर । यश्रूऽ२३ष्टाह । हुम्माइ । जाऽ३ताऽ३ । साऽ२३४इहाइ ॥ ओ । हुवाइ । दाऽ२३४वाः ॥ हुम्माइ । सूऽ३वाऽ३: । वाऽ२३४इदाः । एहियाऽ६हा ॥ श्रीः ॥ अयम्भराहुम्-स्थियाऽ३सानसाइः ॥ आऽ३इन्द्रायाऽऽपा । वतेसु। तस्सोऽ२३माः। हुम्माइ । जाऽ३इत्राऽ३ । स्याऽ२३४चेहाइ ॥ ओ। हुवाई। ताऽ२३४ताइ ॥ हुम्माइ। याऽ३थाऽ३ । वाऽ२३४इदाइ । ऐहियाऽ६हा ।। श्रीः ॥ अस्येदिन्द्रोहुम्-स्थिमाऽ३देषुवा ॥ ग्राऽ३भाङ्गा३र्भ्णा । तिसान । सिम्वाऽ२३ज्राम् । हुम्माइ । चाऽ३वाऽ३ । षाऽ२३४णꣲहाइ ॥ ओ। हुवाइ । भाऽ२३४रात् ॥ हुम्माइ । साऽ३माऽ३ । प्सूऽ२३४जीत् । एहियाऽ६हा । होऽ५इ॥ डा॥

दी. १५. उत् . न. मा. ३५. वु. ॥४९६॥


टिप्पणी

विघनः -- श्रुध्यस्य लोके विशोविशीयम् - आर्षेयकल्पः ५ (पृ. २७८)