सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/आभीशवाद्यम्

आभीशवाद्यम्
आभीशवाद्यम्

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।। ऋ. ९.१०७.१
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।

टिप्पणी

अभीशवं यदाभीशवस्य - पञ्च.ब्रा. १५.३.२७

अथाभिशवम् उभयाभीशुतायै। यथा हैकाभीशुना यायाद् एवं तद् यद् अन्यतरद्, अथ यथोभयाभीशुना यायाद् एवं तद् यद् उभे। एताभ्यां वै द्वादशरात्रो ऽरिष्टस् संगृहीत एति। अरिष्टेन संगृहीतेन द्वादशरात्रेण पाप्मानं तरति श्रियम् अश्नुते य एवं वेद॥जैब्रा ३.२५८

स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम्। सुसंस्कृता अभीशवः॥ ऋ. १.०३८.१२

वृषणस्ते अभीशवो वृषा कशा हिरण्ययी। वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो॥ऋ. ८.०३३.११