सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/दावसुनिधनम्

दावसुनिधनम्.
दावसुनिधनम्.

त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
पवस्व मंहयद्रयिः ।। १३२३ ।। ऋ. ९.६७.१
त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः ।
इन्दुः सत्राजिदस्तृतः ।। १३२४ ।।
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्मा भर ।। १३२५ ।।

टिप्पणी

दावसुनिधनं भवति। आशिषमेवास्मा एतेनाशास्ते साम हि सत्याशीः । दावसुर्वा एतदाङ्गिरसः पशुकामः सामापश्यत् तेन सहस्रं पशूनसृजत् यदेतत् साम भवति पशूनां पुष्ट्यै - पञ्च.ब्रा १५.५.१२

अथैदावसुनिधनं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। असुर् ह वै नामर्षिर् अपशुर् आस। सो ऽकामयताव पशून् रुन्धीयेति। स एतत् सामापश्यत्। तेनास्तुत। स इदं वस्व् इत्य् एव निधनम् उपैत्। तद् एवैदावसुनिधनस्यैदावसुनिधनत्वम्। तत् पशवो वै वसु। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै॥जैब्रा ३.२६५