सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/यद्वाहिष्ठीयोत्तरम्

यद्वाहिष्ठीयोत्तरम्
यद्वाहिष्ठीयोत्तरम् .

१८
परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
यो देवान्विश्वां इत्परि मदेन सह गच्छति ।। १३२९ ।। ऋ. ९.९८.७
द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतं ।
प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ।। १३३० ।।
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
नरे च दक्षिणावते वीराय सदनासदे ।। १३३१ ।।

टिप्पणी

यद्वाहिष्ठीयं भवति। ब्रह्मयशसं वा एतानि सामान्यृचा श्रोत्रीयाणि ब्रह्मायशसी भवति यद्वाहिष्ठीयेन तुष्टुवानः - पञ्चब्रा. १५.५.२५

अथ यद्वाहिष्ठीयम्। अग्निर् वै देवेभ्यो हव्यं नवमाद् अह्नो दशमम् अहर् अभ्य् अतिवोढुं नाकामयत। ते देवा अकामयन्ताति न इदम् अग्निर् हव्यं वहेद् इति। त एतत् सामापश्यन्। तेनैनम् अस्तुवन् - यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो। महिवीव त्वद् रयिस् त्वद् वाजा उद् ईरते॥ साम ८६ (ग्रामगेयः) तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत्। उतो ते तन्यतुर् यथा स्वानो अर्त त्मना दिवः॥ एवो अग्निं वसूयवस् सहसानं ववन्दिम॥ स नो विश्वा अति द्विषः पर्षन् नावेव सुक्रतुः॥ इति। यथा नावातिपारयेद् एवम् एवैभ्य एतद् अग्निर् हव्यं नवमाद् अह्नो दशमम् अहर् अभ्य् अत्यपारयत्। एष ह वा एतद् अतिपारयितुम् अर्हति। तद् यद् अत्र यद्वाहिष्ठीयं भवति यज्ञस्यैव संतत्यै। सम् अस्मै यज्ञस् तायते तस्याग्निर् हव्यं पारयति य एवं वेद। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूपसमृद्धम्॥जैब्रा ३.२६९॥