सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/समन्तम्
टिप्पणी
यत इन्द्र भयावहे ततो नो अभयं कृधि। मघवञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि"इति द्विषश्चैव मृधश्च नवमेनाह्ना विहत्य दशमेनाह्नोत्तिष्ठन्ति..........समन्तं भवति। समन्तेन पशुकामः स्तुवीत पुरोधाकामः समन्तेन स्तुवीत। आग्नेयी पृथिव्याग्नेयो ब्राह्मण ऐन्द्री द्यौरैन्द्रो राजन्योऽन्तरिक्षेण द्यावापृथिवी समन्ते अन्तरिक्षेणैवैनं समन्तं करोति विन्दते पशून् प्र पुरोधामाप्नोति य एवं विद्वान् समन्तेन स्तुवते स्तोमः - तांब्रा. १५.४.३
यत इन्द्र भयामहे ततो नो अभयं कृधि। मघवन् शग्धि तव तन् न ऊतये वि द्विषो वि मृधो जहि॥ इति मृध एवैतेन पाप्मानम् अपघ्नते। तासु समन्तम् उक्तब्राह्मणम्। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥जैब्रा ३.२६४
नकिष्टं न त्वा बृहन्त इति स्तोत्रियानुरूपौ प्रथमे छन्दोमे १८। उभयं शृणवदिति मध्यमे १९। यत इन्द्र भयामह इत्युत्तमे शांश्रौसू १२.५.२०
समन्तम् -- दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः । पूर्वेण मघवन्पदा वयामजो यथा यमः । देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ - श्येनः (षष्ठमअहः), ऋ. १०.१३४.१