सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/स्वारꣳ सौपर्णम्

स्वारं सौपर्णम्.
स्वारं सौपर्णम्.

त्वं ह्या३ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।
अमृतत्वाय घोषयन् ।।९३८ ।। ऋ. ९.१०८.३
येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे ।
देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत ।। ९३९ ।।

सम्पाद्यताम्

टिप्पणी

त्वं ह्य् अंग दैव्येति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। पवमान जनिमानि द्युमत्तम इति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः। तासु सौपर्णम् उक्तब्राह्मणम्। - जैब्रा ३.२६६