सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/आसिताद्यम्
टिप्पणी
अथासितम्। ऋषयो वा अब्रुवन्न् - एतेमम् उपरिश्येनं स्वर्गं लोकं जिगीषाम, यद् अस्मिन्न् एते ऽथर्वाण इति। प्रेणी सौमाहितो मधुच्छन्दा वैश्वामित्रो ऽसितो दैवलो य उ चान्ये तस्य हान्तिकम् दिदीक्षते, तेषां ह ज्योग् एव यजमानानां नोपशुश्रुवुर् बहू य् एव वर्षाणि। तेषाम् उ होपशुश्रुवुर् - आश्रावयति वै, वषट्करोति वा इति। स होद्वन्तो नामाथर्वणाम् एकश् चमसहस्त उपावरुरोह। तान् होवाच - किंकामा आध्व इति। इमम् उपरिश्येनं स्वर्गं लोकं जिगीषाम्, यस्मिन्न् एते ऽथर्वाण इति। तान् होवाचेथ ग्रामं जघनेना इति। इमो हीति। कस्मै कामायेति। पथ इति। ओम् इति होवाच, न नु वस् तत् स्वर्ग्यम् इति। अथ ह चमसम् अवेक्षांचक्रे। स होवाचाश्नीय मांसा3म् इति। अश्नीमो हीति। कस्मै कामायेति। चक्षुषश् च प्राणानां चेति। ओम् इति होवाच्, नो वाव वस् तत् स्वर्ग्यम् इति। अथ ह चमसम् अवेक्षांचक्रे। स होवाचाश्नीथ मांसा3म् इति। उपेमो हीति। कस्मै कामायेति। प्रजायै संतत्या अव्यवच्छेदायेति। ओम् इति होवाच, नो वाव वस् तत् स्वर्ग्यम् इति। अथ ह चमसम् एवावेक्षांचक्रे। स होवाच-वदथानृता3म् इति। वदामो हीति। कस्मै कामायेति। स्त्रीकाम्या वा नर्मकाम्या वा सखीकाम्या वेति। ओम् इति होवाच॥ जैब्रा ३.२७०
उत्तिष्ठत, कामान् ब्रूध्वं, नो वाव वस् तस्याशास्ति यद् अमुं लोकं जयेतेति। अथ ह प्रेणी सौमाहितः पापक आस। स होवाच - सप्तानाम् एव स्यो बस्तानां दुर्वृषतां वृणीते। यां याम् व् अच्छाब्रूवीय, सा सा त्यं कामयताद् इति। अथ ह मधुच्छन्दा वैश्वामित्र उवाच - ब्राह्मणमुखम् एवाहं वृणा इति। अथ हासितो दैवल उवाचैतम् एवाहं चमसम् अवेक्षा इति। स होवाचैष एवैषाम् एको व्रतयति। तं हैवावेक्ष्यैतत् साम ददर्श। तेनास्तुत। राये अग्ने महे त्वा दानाय सम् इधीमहि। ईळिष्वा हि महे वृषं द्यावा होत्राय पृथिवी॥ इति(आसिते द्वे )। द्यावापृथिवी सर्व इमे लोकाः। ततो वै स सर्वान् इमान् लोकान् अनुसमचरत्। स ह पूर्वाह्ण एव देवानां समित्याम् आस, मध्यन्दिने मनुष्याणां द्रुपदस्य वार्द्ध्रविष्णस्य, अपराह्णे पितृणाम्। तद् एतत् स्वर्ग्यं साम। सर्वान् इमान् लोकान् अनुसंचरत्य्, अश्नुते स्वर्गं लोकं य एवं वेद। यद् व् असितो दैवलो ऽपश्यत्, तस्माद् आसितम् इत्य् आख्यायते॥जैब्रा ३.२७१ ॥