सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/गौरीवितम्

गौरीवितम्.
गौरीवितम्.


आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु ।
सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥ १३५७ ॥ ऋ. ९.९७.३७
स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः ।
प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत् ॥१३५८ ॥
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् ।
यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥१३५९ ॥





१४ गौरीवितिम् ।गौरीवितिः। त्रिष्टुप् । पवमानस्सोमः ।।

आजा । गृवाऽ३इः । विप्रऋताम् ।। मतीनाꣳसोमᳲपुनानो असदच्चमूषूऽ२३ । सापन्तियाऽ३१२३म् । मिथुनासोनिकामाऽ५ध्वर्या ।। वोरथिराऽ३१२३ ।। सस्सोवा । हाऽ५स्तोऽ६”हाइ। ।। श्रीः ।। सपु । नानाऽ३ः । उपसूराइ ।। दधानओभेअप्रारोदसीवीषआवाऽ२३ः प्रायाचिद्याऽ३१२३ । स्यप्रियसासऊतीसाऽ५तोधा ।। नाङ्कारिणाऽ३१२३इ ।। नप्रोवा। याऽ५ꣳसोऽ६”हाइ ।। श्री ।। सव । धिताऽ३ । वर्धनᳲपू ।। यमानस्सोमोमीढ्वाँअभिनोज्योतिषावाऽ२३इत् । यात्रनᳲपूऽ३१२३ । र्वेपि तरᳲपदज्ञास्सूऽ५वर्वाइ ।। दोअभिगाऽ३१२३ः । अद्रोवा। आऽ५इष्णोऽ६”हाइ ।।

दी. ३७ उत्. न. मा २४ यी. ।।२१४।।

सम्पाद्यताम्

टिप्पणी

अथैता भवन्त्य् आ जागृविर् विप्र ऋतं मतीनाम् इत्य् आवतीर् उत्थानीये ऽहन्। यत् प्रवतीः कुर्युः पराञ्चो ऽतिपद्येरन्। तद् यद् आवतीर् भवन्त्य् अनतिपादायैव। तद् आहुर् अपेव वा एते भ्रंशन्ते य आवतीर् उत्थानीये ऽहन् कुर्वन्तीति। तद् यत् सोमो मीढ्वम् अभि नो ज्योतिषावीद् इति भवत्य् अभिक्रान्त्या एवानपभ्रंशाय। तासु गौरिवीतम्। प्रजा वै पशवो गौरिवीतम्, आत्मा मध्यन्दिनः। तद् यद् गौरिवीतं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् प्रजां पशून् प्रतिष्ठापयन्ति। श्वस्तनं वै गौरिवीतम्, आत्मा मध्यन्दिनः। तद् यद् गौरिवीतं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतच् छ्वस्तनं प्रतिष्ठापयन्ति। रसो वै गौरिवीतम्, आत्मा मध्यन्दिनः। तद् यद् गौरिवीतं मध्यन्दिनम् अभिप्रत्याहरन्त्य्, आत्मन्न् एवैतद् रसं प्रतिष्ठापयन्ति॥जैब्रा ३.२९१