सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/यज्ञायज्ञीयम्
टिप्पणी
तेजो वै यज्ञायज्ञीयम्, आत्मा मध्यन्दिनः। तद् यद् यज्ञायज्ञीयं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् तेजः प्रतिष्ठापयन्ति। यज्ञायज्ञीयेन वै पूर्वेष्व् अहस्सु गर्भान् दधतो यन्ति। तद् दशमे ऽहन् योनेश् च्यावयन्ति। तस्माद् दशमास्या गर्भा योनेश् च्यवन्ते प्रजात्यै। तं मध्यन्दिनम् अभि प्रत्याहरन्ति। आत्मा वै मध्यन्दिनः प्रजैषा। तद् यद् यज्ञायज्ञीयं मध्यन्दिनम् अभि प्रत्याहरन्त्य्, आत्मन्न् एवैतत् प्रजां प्रतिष्ठापयन्ति। मध्यन्दिनाद् वै देवा यज्ञायज्ञीयेनोर्द्ध्वा स्वर्गं लोकम् उदक्रामन्। तद् यद् उष्णिक्ककुभाव् उत्तर भवतो, बृहती पूर्वा - पुरुष छन्दसं ककुप्, स्वर्गो लोको बृहती - स्वर्ग एव तल् लोके प्रतिष्ठाय स्वर्गं लोकम् आरोहन्। देवासुरा यज्ञ आजिम् आयन् दशमस्याह्नः। ते यज्ञायज्ञीयम् एव काष्ठाम् अकुर्वत। ते देवा अकामयन्त वयम् इमम् आजिम् उज्जयेमेति। ते यज्ञायज्ञीयम् मध्यन्दिनम् अभि प्रत्याहरन्न्, अतो ऽन्तिकाद् उज्जेष्याम इति। एतद् उ ह वै देवानां देवक्षेत्रं यत् पवमानः। ततो वै ते तम् आजिम् उदजयन्। आजिम् इवैते यन्ति य एतद् अहर् आगच्छन्ति। तद् यद् अत्र यज्ञायज्ञीयं भवत्य् उज्जित्या एव। उज्जयति य एवं वेद॥जैब्रा ३.२९०
पशवो वै यज्ञायज्ञीयम्। आत्मा मध्यन्दिनः। पशुमान् ह्य् एव यज्ञंयज्ञम् आहरते। तद् यद् यज्ञायज्ञीयम् मध्यन्दिनम् अभि प्रत्याहरन्ति आत्मन्न् एवैतत् पशून् प्रतिष्ठापयन्ति। - जैब्रा ३.२९१