सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/रोहितकूलीयम्
इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।
श्रुष्टे जातास इन्दवः स्वर्विदः ॥ ६९४ ॥ ऋ. ९.१०६.१
अयं भराय सानसिरिन्द्राय पवते सुतः ।
सोमो जैत्रस्य चेतति यथा विदे ॥ ६९५ ॥
अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिं ।
वज्रं च वृषणं भरत्समप्सुजित् ॥६९६ ॥
१७ रोहितकूलीयम् ।। इन्द्रः । उण्णिक् । पवमानस्सोमः ।।
इन्द्रमच्छा ।। सुताइमे । वृषणंयन्तुहरयश्रुष्टेजाऽ२३ता ।। साऽ२३ई ।। दावस्सुवाऽ३१उवाऽ२३ ।। वीऽ२३४दाः ।। श्रीः ।। अयंभरा ।।यसानसिः । इन्द्रायपवतेसुतस्सोमोजाऽ२३इत्रा ।। स्याऽ२३चे ।। तातियथाऽ३१उवाऽ२३ ।। वीऽ२३४दे ।।श्रीः।। अस्येदिन्द्राः ।। मदेष्वा । ग्राभङ्गृभ्णातिसानसिंवज्रञ्चाऽ२३वा ।। षाऽ२३णाम् ।। भारत्समा३१उवाऽ२३।। प्सूऽ२३४जीत् ।।
दी. १४ उत्. १ मा. ११ त ।।२१७।।
टिप्पणी
इन्द्रम् अच्छ सुता इम इति यथाभिवत्यानयेद् एवं वा एतत् पदम्। पावमान्यस् सत्य ऐन्द्रियो भवन्ति वीर्यवतीः। तस्माद् एता एवोष्णिक्ककुभः कार्याः। - जै.ब्रा ३.२९६
अथ रोहितकूलीयम्। विश्वामित्रो वै भरतानाम् अनस्वत्या महावृषान् अयात्। तद् ध गंगायै वा यमुनायै वा बृहत् प्रतिकूलम् आस। ते होचुर् महावृषाः - कौ स्वित् ताव् एतर्ह्य् अनड्वाहौ, याव् इदम् इयद् बृहत् प्रतिकूलम् उद्वहेताम् इति। स होवाच विश्वामित्रस् - तौ त्वे मम रोहिताव् इति। रोहितौ हास्यानड्वाहाव् आसतुः। ते होचुर् महावृषास् - ते वा अंशम् अवहरावहै - यदि तवैतद् अनड्वाहाव् उद्वहातो, वस्न्य एव त्वम् अनांसि पूरयासै। यद्य् उ नोद्वहातो, वस्न्या उ वयं त्वां जयेमेति। तथेति। ते हांशम् अवजह्रिरे। तौ ह यवाचितस्य वा व्रीह्याचितस्य वा धुरि युयुजुः। सो ऽकामयत विश्वामित्र - उद् इमम् आजिं जयेयम् इति। स एते सामनी अपश्यत्। ताभ्याम् एनाव् अनुपरिक्रामम् अभ्यसेधत्। ताव् उदपारयेताम्। ताव् उदजयेताम्। ततो वै स तम् आजिम् उदजयत्। प्रतिकूलम् इवैते यन्ति ये षष्ठाद् अह्नश् छन्दोमान् अभ्युत्क्रामन्ति। तद् यद् अत्र रोहितकूलीयं भवत्य् उज्जित्या एव। उज्जयति य एवं वेद। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते। यद् उ कूले रोहिताभ्याम् उदजयत्, तस्माद् रोहितकूलीये इत्य् आख्यायेते। - जैब्रा ३.१८३
दशरात्रस्य द्वितीयमहः - इन्द्रमच्छ सुता इम इतीन्द्रियस्य वीर्यस्यावरुध्यै - पञ्च.ब्रा ११.१०.४
पदे (ग्रामगेयः)