सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/वाजजित्

वाजजित्.
वाजजित्.

सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते ।
तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥ १३७० ॥ ऋ. ९.६९.६
उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि ।
पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति ॥ १३७१ ॥ ऋ. ९.६९.२
उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतं ।
अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥ १३७२ ॥ ऋ. ९,६९.४


२१. वाजजित् ॥ प्रजापतिः। जगती। पवमानस्सोमः॥
सूर्यस्येवा । रश्मयोद्रा । वायित्नवाः । होवाऽ३होइ ॥ मत्सरासाः । प्रसुतस्सा। कामीरताइ । होवाऽ३होइ ॥ तन्तुन्तताम् । परिसर्गा। साआशवाः । होवाऽ३होइ ॥ नेन्द्रादृताइ । पवतेधा । माकिञ्चना। होवाऽ३होऽ२ । वाऽ२३४औहोवा ॥श्रीः॥ उपोमताइः । पृच्यतेसाइ । च्यातेमधू । होवाऽ३होइ ॥ मन्द्राजनाइ । चोदतेआ। तारासनाइ। होवाऽ३होइ ॥ पवमानाः। सन्तनिस्सू । न्वातामिवा। होवाऽ३होइ ॥ मधुमान्द्रा । प्संपरिवा। रामर्षताइ । होवाऽऽहोऽ२। वाऽ२३४औहोवा ॥ श्रीः ॥ उक्षामिमाइ । तिप्रतिया। ताधेनवाः। होवाऽ३होइ ॥ देवस्यदाइ । वीरुपया। तीनिष्कृताम् । होवाऽ३होइ ॥ अत्यक्रमाइत् । अर्जुनम्वा । रामव्ययाम् । होवाऽऽहोइ ॥ अत्कन्ननाइ । क्तंपरिसो। मोअव्यता । होवाऽ३होऽ२ । वाऽ२३४औहोवा ॥ वाजीजिगीवाविश्वाधनाऽ२नीऽ२३४५॥
दी. ४६. उत् . ३७. मा. ३६. खू. ॥२२१॥


टिप्पणी

द्र. कावम्


सूर्यस्येव रश्मयो द्रावयित्नव इति सूर्यवतीर् भवन्ति रक्षसाम् एवापहत्यै। मत्सरासः प्रसुपस् साकम् ईरते। तन्तुं ततं परि सर्गास आशवो नेन्द्राद् ऋते पवते धाम किं चन॥ इति न हीन्द्राद् ऋते पवते धाम किं चन। उपो मतिः पृच्यते सिच्यते मध्व् इत्य् उप वा अयम् अद्य लोक उपश्व इमम् एवैतेन लोकम् अनु प्रजायन्ते ऽस्मिन्न् एवैतल् लोके पशून् प्रतिष्ठापयन्ति। उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीर् उप यन्ति निष्कृतम्। अत्य अक्रमीद् अर्जुनं वारम् अव्ययम् अत्कं न निक्तं परि सोमो अव्यत॥ इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः॥3.298॥

तासु वाजजित्। अन्नं वै वाजः। यदा वै गौर् अश्वः पुरुषो ऽन्नस्य सुहितो भवत्य् अथ स वाजी भवति। देवासुरा अन्नाद्ये ऽस्पर्धन्त। ते देवा अकामयन्त वृञ्जीमह्य् अन्नाद्यम् असुराणाम् इति। त एतत् सामापश्यन्। तेनास्तुवत। ते वांजजिगीवा (वाजिजिगीवा - पा.) विश्व धनानीत्य् एवासुराणां यद् धनं य पशवो यद् अन्नाद्यम् आसीत् तद् अवृञ्जत। तद् एव वाजजितो वाजजित्त्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस् साम। अवान्नाद्यं रुन्द्धे वृंक्ते द्विषतो भ्रातृव्यस्य यद् धनं ये पशवो यद् अन्नाद्यं य एवं वेद। तद् दशाक्षरणिधनं भवति। एकाक्षरणिधनेन वै प्रथमम् अहः कल्पते, दशाक्षरणिधनेन दशमम्। तद् यद् दशाक्षरणिधनं दशमे ऽहनि भवति, तेनैव दशाहानि कल्पन्ते। अथो एतां दशाक्षराम् एव विराजम् अन्नाद्यम् अवरुद्ध्यान्तत उत्तिष्ठन्ति॥जैब्रा 3.299