सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/साध्रम्

साध्रम्.
साध्रम्

परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
यो देवान्विश्वां इत्परि मदेन सह गच्छति ।। १३२९ ।। ऋ. ९.९८.७
द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतं ।
प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ।। १३३० ।।
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
नरे च दक्षिणावते वीराय सदनासदे ।। १३३१ ।।

टिप्पणी

साध्रं भवति सिद्ध्यै - पञ्च.ब्रा. १५.५.२८

अथ साध्रं सिद्ध्या एव। तन् मध्येनिधनं भवति प्रतिष्ठायै। समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। देवा वा अकामयन्त कृतंकृतं नस् सिध्येद् इति। त एतत् सामापश्यन्। तेनास्तुवत्। ततो वै तेषां कृतंकृतम् असिध्यत्। कृतंकृतं नस् सिध्येद् इति सत्रम् आसते। कृतंकृतं हैवैभ्यस् सिध्यति। यद् व् एवैषाम् एतेन साम्ना कृतंकृतम् असिध्यत् तस्मात् साध्रम् इत्य् आख्यायते। सध्रिर् वैरूपः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ सध्रिर् वैरूपो ऽपश्यत् तस्मात् साध्रम् इत्य् आख्यायते॥जैब्रा ३.२७२