सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/यज्ञायज्ञीयम्

यज्ञायज्ञीयम्
यज्ञायज्ञीयम्

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।
प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषं ॥ ७०३
ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये ।
भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनां ॥ ७०४ ॥



१४. यज्ञायज्ञीयम् ॥ अग्निर्वैश्वानरः। ककुबुत्तरा बृहती। अग्निः॥
  
यज्ञाऽ५य । ज्ञाऽ३वोऽग्नायाइ ॥ आइराइरा । चाऽ३दाक्षाऽ३साइ । पप्रीऽ२म्वयममृतम् । जाताऽ२३वा । हुम्माइ ॥ दाऽ३२साम् ।। प्रायंमित्रꣳ सुशाऽ२ꣳसिषाउ ॥ श्रीः ॥ प्रायाम् ॥ माइत्राम् । सूऽ३शाꣳसीऽ३षाम् ॥ ऊर्जोनपाऽ२तꣳसहि । नायाऽ२३मा । हुम्माइ ॥ स्माऽ३२यूः ॥ दाशेमहव्यदाऽ२तयाउ ॥ श्रीः ॥ दाशे ॥ माहा । व्याऽ३दाताऽ३याइ । भुवद्वाजेऽ२श्ववि । ताभूऽ२३वात् । हुम्माइ ॥ वाऽ३२र्द्धाइ । ऊतत्रातातनूऽ२नाऽ२उ ॥ वाऽ३४५ ॥
दी. १०. उत्. १. मा. २०. पौ. ॥१४॥


सम्पाद्यताम्

टिप्पणी