सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/सौभरम्
२२
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
वज्रिञ्चित्रं हवामहे ॥ ७०८ ॥ ऋ. ८.२१.१
उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् ।
त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिं ॥ ७०९ ॥
१६ सौभरम् ।। सौभरिः । ककुप्। इन्द्रः।
वयाऽ३मूऽ३त्वामपूर्वियोवा ।। स्थूरन्नकच्चिद्भराऽ२न्ताअवाऽ२३ । हो । स्याऽ२३४वाः ।। वज्रिञ्चित्रम् । हवाऽ३हाऽ३इ ।। माऽ२हाऽ२३४औहोवा ।। श्रीः ।। वज्राऽ३इञ्चाऽ३इत्रꣳहवामहोवा ।। उपत्वाकर्मन्नूताऽ२याइसनाऽ२३ः । होइ । यूऽ२३४वा ।। उग्रश्चक्रा ।। मयोऽ३हाऽ३इ ।। धाऽ२र्षाऽ२३४औहोवा ।। श्रीः ।। उग्राऽ३श्चाऽ३क्रामयोधृषोवा ।। त्वामिद्ध्यविताऽ२राम्ववाऽ२३ । हो । माऽ२३४हाइ ।। सखायइ । द्रसाऽ३हाऽ३इ ।। नाऽ२साऽ२३४औहोवा ।। ऊऽ२३४५ ।।
दी. १५. उत्. १. मा. १६ पू ।।१६।।
टिप्पणी
सौभरं प्रजाकामः कुर्वीत। हुस् इति निधनम् उपेयात्। सौभरम् अन्नाद्यकामः कुर्वीत। ऊर्क् इति निधनम् उपेयात्। सौभरं वृष्टिकामः कुर्वीत। हिस् इति निधनम् उपेयात्। सौभरम् उद्ग्रहणकामः कुर्वीत्। उत् इति निधनम् उपेयात्। सौभरं स्वर्गकामः कुर्वीत। ऊ इति निधनम् उपेयात्॥ जैब्रा १.१८६ ,
जैब्रा. १.१८७
वयम् उ त्वाम् अपूर्व्येत्य् अपूर्वाम् इव ह्य् एतर्हि तन्वम् अगच्छन्। तासु सौभरं बृहतस् तेजः। व्यवप्लीनातीव वै वैराजं यज्ञम्। तत् सौभरेणोत्तभ्नुवन्ति बृहतस् तेजसा। तद् ऊकारणिधनं भवति। एतद् वै प्रत्यक्षं बृहतो रूपं यद् ऊकारो यद् ईकारः। तेन वै रूपसमृद्धम्। - जै.ब्रा. ३.८२