सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/ऐडमायास्यम्

ऐडमायास्यम्.
ऐडमायास्यम्.


पुनानः सोम धारयापो वसानो अर्षसि |
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः || ६७५ || ऋ. ९.१०७.४
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् |
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः || ६७६ ||


२०. ऐडमायास्यम्।। अयास्यः । बृहती । पवमानः सोमः ।

आइपुना ।। नास्सो । मधारया । आपोवसाऽ३१ । नोअर्षसी । आरत्नधाऽ३१ः । योनिमृता । स्यसीदसी ।। ऊत्सोदेवाऽ३१ः ।। हिरण्याऽ२३याऽ३४३ः ।। श्रीः ।। आउत्साः ।। दाइवो । हिरण्ययाः । ऊत्सोदेवाऽ३१ ः । हिरण्ययाः । दूहानऊऽ३१ । धर्दिवियाम् । मधुप्रियाम् ।। प्रात्नꣳसधाऽ३१ ।। स्थमासाऽ२३दाऽ३४३त् ।। श्रीः ।। आइप्रत्नाम् ।। साधा । स्थमासदात् । प्रात्नꣳसधाऽ३१ । स्थमासदात् । आपृच्छियाऽ३१म् । धरुणंवा । जियर्षसाइ ।। नृभिर्धौताऽ३१ः ।। विचक्षाऽ२३णाऽ३४३ः ।। ओऽ२३४५इ ।।डा।।

दी. ९. उत् १२. मा. २४ थी. ।।४०।।

सम्पाद्यताम्

टिप्पणी

द्र. ऐडमायास्यम् (५११।५) ग्रामगेयः

द्र. त्रिणिधनमायास्यम् (ऊहगानम् दशरात्रपर्व ३.१)

दशरात्रे द्वितीयस्याह्नः माध्यन्दिनसवनम् - आयास्ये भवतः। अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानामन्नाद्यमाश्नात् तं शुगार्च्छत् स तपोऽतप्यत स एते आयास्ये अपश्यत् ताभ्यां शुचमपाहताप शुचं हत आयास्याभ्यां तुष्टुवानः एभ्यो वै लोकेभ्यो वृष्टिरपाक्रामत् तामयास्य आयास्याभ्यामच्यावयत् च्यावयति वृष्टिमायास्याभ्यां तुष्टुवानः। अन्नाद्यं वाव तदेभ्यो लोकेभ्योऽपाक्रामत् तदयास्य आयास्याभ्यामच्यावयत् च्यावयत्यन्नाद्यमायास्याभ्यां तुष्टुवानः - पञ्चविंशब्रा. ११.८.९