सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/घृतश्चुन्निधनम्

घृतश्चुन्निधनम्(स्तोमरहितम्).
घृतश्चुन्निधनम्(स्तोमसहितम्)
घृतश्चुन्निधनम्.

इदं ह्यन्वोजसा सुतं राधानां पते ।
पिबा त्वा३स्य गिर्वणः ॥ ७३७ ॥ (ऋग्वेदः ३.५१.१०-१२)
यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वं ।
स त्वा ममत्तु सोम्यं ॥ ७३८॥
प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः ।
प्र बाहू शूर राधसा ॥ ७३९ ॥



७. घृतश्चुन्निधनम् ।। प्रजापतिः । गायत्री । इन्द्रः ।

इदꣳह्यनूऽ३ओजसा ।। सुतꣳराधा । नांपातौ । होवाऽ३हाइ । पिबातुव । स्यगाइर्वाणौ । होवाऽ३हाइ ।। पिबातुवौ । होवाऽ३हा ।। स्यगाइः । वाऽ२नाऽ२३औहोवा ।। श्रीः ।। यस्तेअनुस्वाऽ३धामसात् ।। सुताइनिय । छतानुवमौ । होवाऽ३हाइ । सत्वामम । तुसोमायौ । होवाऽ३हाइ ।। सत्वाममौ । होवाऽहा ।। तुसो । माऽ२याऽ२३४औहोवा ।। श्रीः ।। प्रतेअश्नोतूऽ३कुक्षियोः ।। प्राइन्द्रब्र। ह्मणाशाइरौ । होवाऽ३हाइ । प्रबाहूशू । रराधासौ । होवाऽ३हाइ ।। प्रबाहूशौ।। । होवाऽ३हा ।। ररा । धाऽ२साऽ२३४औहोवा ।। घृतश्चुताऽ२३४५ः ।।

दी ३१ उत्. १७ मा. २१ ख. ।।२७।।



टिप्पणी

द्र. आङ्गिरसं घृतश्चुन्निधनम् (ग्रामगेयः)

घृतोपरि टिप्पणी एवं वैदिकसंदर्भाः


गरुडपुराणे २.३२.११५ शरीरे मज्जायां घृतसागरस्य स्थितिः अस्ति, अयं कथनमस्ति। मज्जायाः च्युतिः शोणिते भवति येन देहव्यापारः प्रचलति। अयं स्थूलस्तरे घृतस्य कार्यमस्ति।

द्र. आंगिरसं माधुछान्दसं (ग्रामगेयः)


इदं ह्यन्वोजसेति माधुच्छन्दसं प्रजापतेर्वा एषा तनूरयातयाम्नी प्रयुज्यते - तांब्रा.९.२.१९

(अस्य तृचे आद्ये द्वे अनिरुक्ते अतः प्रजापतेस्तनुत्वं अतएव देवतान्तराश्रवणादेवायातयाम्न्यगतसारा प्रयुज्यते- सायणटीका)

उत्तमेन पर्यायेण स्तुवत उत्तमान्येव पदानि पुनराददते यदेवैषां(असुराणां) वासो हिरण्यम्मणिरध्यात्ममासीत्तदेवैषां तेनाददत आ द्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते.......यदेवेन्द्राय मद्वने सुतमिदं वसो सुतमन्ध इदं ह्यन्वोजसा सुतमिति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती तेनोभे पवमानवती भवतस्तेन ते समावद्भाजौ भवतः - ऐ.ब्रा. ४.६

  • घृतश्चुच्च वै मधुश्चुच् चाङ्गिरसां स्वर्गं लोकं यताम् अहीयेताम्। - - - तौ तपो तप्येताम्। तावेते सामनी (घृतश्चुन्निधनं च मधुश्चुन्निधनं च) अपश्यताम्। ताभ्यामस्तुवाताम्। तौ स्तुत्वैव घृतश्चुते मधुश्चुत इत्येव स्वर्गं लोकमनूदपतताम्। अन्तो वै पयसां घृतम् अन्तस् स्वर्गो लोकानाम्। अन्तो वै रसानां मध्व् अन्तस् स्वर्गो लोकानाम्। - जै.ब्रा. १.२२४
  • पशवो ह वै खलु घृतश्चुतः पशवो मधुश्चुतः। पशून् वाव तौ तद् एताभ्याम् अवारुन्धाताम्। – जै.ब्रा. १.२२४
  • यज्ञस्तनौ वा एते सामनी (घृतश्चुन्निधनं च मधुश्चुन्निधनं च)। एताभ्यां वा इन्द्रो यज्ञं सर्वान् कामानदुग्ध। दुहे ह वै यज्ञं सर्वान् कामान् य एवं वेद। - -- - तद्यद् घृतश्चुन्निधनं तद् यजुर्निधनमथ यन्मधुश्चुन्निधनं तत् सामनिधनम् - जै.ब्रा. १.२२५
  • हरी॒ नु त॑ इन्द्र वा॒जय॑न्ता घृत॒श्चुतं॑ स्वा॒रम॑स्वार्ष्टाम्। - ऋ. २.११.७

घृ॒तव॑न्तः पावक ते स्तो॒काः श्चो॑तन्ति॒ मेद॑सः।

स्वध॑र्मन् दे॒ववी॑तये॒ श्रेष्ठं॑ नो धेहि॒ वार्य॑म्॥

तुभ्यं॑ स्तो॒का घृ॑त॒श्चुतो ऽग्ने॒ विप्रा॑य सन्त्य।

ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व॥

तुभ्यं॑ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य।

क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा॑ ह॒व्या जु॑षस्व मेधिर॥ - ऋ. ३.२१.१-४

  • तं हि शश्व॑न्त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता॑। अ॒ग्निं हव्याय॒ वोळ्ह॑वे॥ - ऋ. ५.१४.३
  • ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑। तेभि॑र्नोऽवि॒ता भ॑व॥ - ऋ. ७.९६.५
  • यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत्। तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुत॑म्॥ - ऋ. ८.८.१५
  • प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम्। यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती॥ - ऋ. ८.८.१६
  • तु॒रण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः। - ऋ. ८.५१.१०
  • ते स्तोभ॑न्त॒ ऊर्ज॑मावन् घृत॒श्चुतं॑ पौ॒रासो॑ नक्षन् धी॒तिभिः॑॥ - ऋ. ८.५४.१
  • घृ॒त॒प्रुषः॒ सौम्या॑ जी॒रदा॑नवः स॒प्त स्वसा॑रः॒ सद॑न ऋ॒तस्य॑। या ह॑ वामिन्द्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतम्॥ - ऋ. ८.५९.४
  • अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम्। अ॒स्मान् त्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभिः॑ सा॒प्तेभि॑रवतं शुभस्पती॥ - ऋ. ८.५९.५


घृतश्चुन्निधनसंज्ञकः स्तोत्रः अतिरात्रे उत्तमे पर्याये चतुर्षु स्तोत्रेषु प्रथमं स्तोत्रमस्ति। ताण्ड्यब्राह्मणे १.१०.१० एतेषां स्तोत्राणां लक्षणानां उल्लेखमस्ति - निरोहोऽसि निरोहाय त्वा संरोहोऽसि संरोहाय त्वा प्ररोहोऽसि प्ररोहाय त्वानुरोहोऽस्यनुरोहाय त्वा सवितृप्रसूता बृहस्पतये स्तुत ।

अतिरात्रे उत्तमेपर्याये

प्रथमं स्तोत्रम् (घृतश्चुन्निधनम्)

द्वितीयं स्तोत्रम् (दैवातिथम्)

तृतीयं स्तोत्रम् (सौमेधम्)

चतुर्थं स्तोत्रम् (कौत्सम्)