सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/आभीशवोत्तरम्

आभीशवोत्तरम्
आभीशवोत्तरम्

तवाहं सोम रारण सख्य इन्दो दिवेदिवे |
पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि || ९२२ ||
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि |
घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम || ९२३ ||


तवाहꣳसोमरारणए । ए ।। सख्यइन्दोऽ३दाइवेऽ१दिवाई ।। पूऽ२३४रू । हाऽ३हा ।। णिबभ्रोनिचरन्ताइमाऽ१मवा।। पाऽ२३४री हाऽ३हाइ ।। धाइꣳरतितोऽ२३४मवा । आऽ५इहोऽ६हाइ ।। श्रीः ।। परिधीꣳरतिताꣳइहिए। ए ।। परिधीꣳरऽ३ताइतꣳऽ१इहाइ।। ताऽ२३४वा । हाऽ३हाइ ।। अहन्नक्तमुतसोमातेऽ१दिवा । दूऽ२३४हा । हाऽ३हाइ ।। नोबभ्रऽ२३४वा । घाऽ५नोऽ६हाइ ।। श्रीः ।। दुहानोबभ्रऊधनिए । ए ।। दुहानोबऽ३भ्राऊऽधनाइ ।। घाऽ२३४र्णा । हाऽ३हा ।। तपन्तमतिसूरायम्पारः ।। शाऽ२३४कू । हाऽ३हाइ ।। नाइवपोऽ२३४वा । प्ताऽ५इमोऽ६हाइ ।।

दी. १५. उत् १ मा २७. पे ।७०।।

टिप्पणी

अथाभीशवम् अभ्यारम्भो यज्ञस्य प्रत्यपसारो, ऽभ्य् एव पञ्चमम् अहर् आरभते प्रति तृतीयम् अपधावति। द्वादशाहेन वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवास्रंसत। त एते सामनी अपश्यन्। ताभ्याम् एनं यथाभीशुभ्यां रथं संगृह्यारोहेद् एवम् एवाभ्यां संगृह्य स्वर्गं लोकम् आरोहन्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा अभीशू वाव न इमे सामनी यज्ञस्याभूताम् इति। तद् एवाभीशवयोर् आभीशवत्वम्। ते एते स्वर्ग्ये सामनी। अश्नुते स्वर्गं लोकं य एवं वेद। तस्माद् उ हैते सामनी उभे कार्ये। यथा हैकाभीशुना यायाद् उभे एव कार्ये। अत्रान्यत् स्यान् नवमे ऽहन्न् अन्यतरत्। अभीशुर् वै श्यावाश्विर् अकामयत - देवा मे सोमस्य तृप्येयुर् इति। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। ततो वै तस्य देवास् सोमस्यातृप्यन्। तयोर् वा एतयोर् अस्त्य् अपसिद्धम् इव यथैव तर्पयेद् एवम्। ए ए इति वा अपसेधन्तस् संतर्पयन्ति। ते एते तृप्तिस्सामनी। तृप्यन्त्य् अस्य देवास् सोमस्य य एवं वेद। यद् व् अभीशुश् श्यावाश्विर् अपश्यत्, तस्माद् आभिशवे इत्य् आख्यायेते॥जैब्रा ३.६८