सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/त्रैशोकम्

त्रैशोकम्.
त्रैशोकम्.

१४
विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे |
क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनं || ९३० ||
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे |
सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः || ९३१ ||
समु रेभसो अस्वरन्निन्द्रं सोमस्य पीतये |
स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः || ९३२ ||


१३ त्रैशोकम्।। त्रिशोकः । अतिजगत्युपरिष्ठाद्बृहती । पवमानस्सोमः।
विश्वोहाइ । पृतनाअभिभू । तरन्नराः । सजूस्ततक्षुराइन्द्रञ्जजनूः । चराजासोऽ२३४हाइ । क्रत्वौहोइ । वरौहोइ। । स्थेमन्याऽ२मूऽ२३४रीम् ।। उतोहाइ ।। उग्रमोऽ२३४जी । ष्ठन्ताराऽ२३४साम् । होइ। । तराऽ३४ । स्विनम् । ओऽ६वा ।।श्रीः।। नेमोहाइ। ।। नाम । तिचक्षसा । मेषंविप्राः । अभिस्वारोऽ२३४हाइ । सौहोइ । दौहोइ । तयोऽ२वोऽ२३४आ । द्रुहोहाइ ।। अपाइकाऽ२३४र्णे । तारस्वीऽ२३४नाः । होइ । समॄऽ३४ । क्वभिः । ओऽ६वा ।। श्रीः ।। समोहाइ ।। राइभा । सोअस्वरान् । इन्द्रꣳ सोम । स्यपीतायोऽ२३४हाइ। । सौहोइ । वौहोइ । पताऽ२इर्याऽ२३४दो ।। वृधोहाइ ।। धृतव्राऽ२३४ताः । हियोजाऽ२३४सा । होइ । समूऽ३४ । तिभिः । ओऽ६वा ।। ओइदीऽ२३४वा ।।
दी. १८ उत्. १६ मा. ३७ टे. ।।७३।।