सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/सैन्धुक्षितम्

सैन्धुक्षितम्.
सैन्धुक्षितम्.

२०
अग्निं वो वृधन्तमध्वराणां पुरूतमं ।
अच्छा नप्त्रे सहस्वते॥ ९४६
अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या ।
अस्य क्रत्वा यशस्वतः ॥ ९४७॥
अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते ।
आ वाजैरुप नो गमत् ॥९४८ ॥


२०. सैन्धुक्षितम् ।। सिन्धुक्षित् । गायत्री । अग्निः ।
अग्निंवोवृधान्ताम् ।। आध्वराणाम् । पुरूतामौ । होवाऽ३हाइ ।। आच्छाऽ२नाप्त्रेऽ२३ ।। सहोऽ२३४वा । स्वाऽ५तो६“हाइ। ।। श्रीः ।। अयंयथानआभूवात् ।। त्वाष्टारूपे । वताक्षायौ । हौवाऽ३हाइ ।। आस्याऽ२क्रात्वाऽ२३ । यशोऽ२३४वा । स्वाऽ५तोऽ६“हाइ ।। श्रीः ।। अयंविश्वा अभिश्रायाः ।। आग्निर्देवे । षुपात्यातौ । होवाऽ३हाइ ।। आवाऽ२जाइरूऽ२३ ।। पनोऽ२३४वा । गाऽ५मोऽ६“हाइ ।।
दी १७. उत् ९. मा. १३. झि. ।।८०।।

टिप्पणी

तासु सैन्धुक्षितम्। सिन्धुक्षिद् वा अन्तं वाचो ऽपश्यत्। वाचम् एतेनाह्ना समिच्छन्ति ताम् एवैतत् संविन्दन्ति। सिन्धुक्षिद् वै भारतो राजा ज्योग् अपरुद्धश्चरन् सो ऽकामयताव स्व ओकसि गच्छेयम् इति। सिन्धुं हैव चचार। सास्य सिन्धुक्षित्ता। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽव स्व ओकस्य् अगच्छत्। तद् एतत् सामसनि साम। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समर्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। तद् उ श्रीर् एव राज्यम्। राज्यं वै स तद् अगच्छत्। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ सिन्धुक्षिद् भारतो राजापश्यत् तस्मात् सैन्धुक्षितम् इत्य् आख्यायते। - जै.ब्रा. ३.८२