सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/हारिवर्णम्

हारिवर्णम्
हारिवर्णम्.
हारिवर्णम्.

१८
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिं |
उ लोककृत्नुमद्रिवो हरिश्रियं || ८८० ||
येन ज्योतींष्यायवे मनवे च विवेदिथ |
मन्दानो अस्य बर्हिषो वि राजसि || ८८१ ||
तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा |
वृषपत्नीरपो जया दिवेदिवे || ८८२ ||


६. हारिवर्णम् । हरिवर्णः । उष्णिक् । इन्द्रः ।
तन्तेमदाऽ२म्गृणीमसाइ ।। वार्षणंपृ । क्षुसासाऽ३हीऽ३म् । होवाऽ३हाइ। ।। उलोकाऽ३कॄऽ३ । होवाऽ३हा ।। त्नुम । द्राऽ२इवाऽ२३४औहोवा ।। हरिश्रियाऽ२३४५म् ।। श्रीः ।। येनज्योताऽ२इꣳषिआयवाइ ।। मानवेच । विवाइदीऽ३थाऽ३ । होवाऽ३हाइ ।। मन्दानोऽ३आऽ३ । होवाऽ३हा ।। स्यब । हाऽ२इषाऽ२३४औहोवा ।। विराजसाऽ२३४५इ ।। श्रीः ।। तदद्याचाऽ२इत्तउक्थिनाः । आनुष्टुव । तिपूर्वाऽ३थाऽ३ । होवाऽ३ऽहाइ ।। वृषापाऽ३त्नीऽ३ः । होवाऽ३हाइ । अपः । जाऽ२याऽ२३४औहोवा ।। दिवेदिवाऽ२३४५इ ।।
दी १५. उत ९. मा २४ भी ।।६६।।

सम्पाद्यताम्

टिप्पणी

तृतीयसवनयोग्यताकथनं -- तं ते मदङ्गृणीमसीति मदवद्वै रसवत्तृतीयसवनं मदं एव तद्रसं दधाति .......हारिवर्णं भवति इन्द्रश्च वै नमुचिश्चासुरः समदधातां न नो नक्तन्न दिवाहनन्नार्द्रेण न शुष्केणेति तस्य व्युष्टायामनुदित आदित्येऽपां फेनेन शिरोऽछिनदेतद्वै न नक्तं न दिवा यत् व्युष्टायामनुदित आदित्य एतन्नार्द्रन्न शुष्कं यदपां फेनस्तदेनं पापीयां वाचं वददन्ववर्तत वीरहन्न द्रुहो द्रुह इति तन्नर्चा न साम्नापहन्तुमशक्नोत्। तद्धारिवर्णस्यैव निधनेनापाहत। अपशुचंहते हारिवर्णस्य निधनेन श्रियं च हरश्चोपैति तुष्टुवानः- तांब्रा. १२.६.३

हारिवर्णं ब्रह्मसाम रक्षोगृहीतः कुर्वीत। आङ्गिरसस् स्वर्गं लोकं यत एभ्यो लोकेभ्यो रक्षांस्य् अन्वसचन्त। ते ऽकामयन्ताप रक्षांसि हनीमहीति। स एतद् धरिवर्ण आङ्गिरसस् सामापश्यत्। तेनास्तुत। तेनैभ्यो लोकेभ्यो रक्षांस्य् अपाघ्नत। हरिश्रियम् इत्य् एवास्माल् लोकात् विराजसि इत्य् अन्तरिक्षात् दिवेदिवे इत्य् अमुष्मात्। ततो वै ते सर्वेभ्य एभ्यो लोकेभ्यो रक्षांस्य् अपहत्य स्वर्गं लोकम् आरोहन्। सर्वेभ्य एवैभ्यो लोकेभ्यो रक्षांस्य् अपहत्य स्वर्गं लोकम् आरोहति य एवं वेद। यद् उ हरिवर्ण आङ्गिरसो ऽपश्यत् तस्माद् धारिवर्णम् इत्य् आख्यायते॥जैब्रा. १.१८३

हारिवर्णम्(तंतेमदं) (१.४.१८)

हरिश्रीनिधनम् (पवमानस्य जिघ्नतो)(दशरात्रपर्व) (१.९.१६)

हरिश्रीनिधनम्(वृषापवस्व) (५.५.१)

आंगिरसां हरिश्रीनिधनम् (गिर्वणः पाहि इति)(ग्रामगेय १९५)

हारिवर्णानि(तंतेमदं) (ग्रामगेय ३८३)