सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/अग्नेस्त्रिणिधनम्
टिप्पणी
अथाग्नेयं त्रिणिधनं सवनानां क्लृप्त्यै। पवमानेन वै देवेभ्यो ऽन्नाद्यं प्रदीयते। तन् मध्येनिधनं भवति अन्नाद्यस्य विशेषाय। अग्निर् वा अकामयत अन्नाद एव श्रेष्ठः स्वानां स्याम इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽन्नाद एव श्रेष्ठ स्वानाम् अभवत्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् व् अग्निर् अपश्यत् तस्माद् आग्नेयं त्रिणिधनम् इत्य् आख्यायते॥जैब्रा. ३.१००॥
सोमसामानि षट् (ग्रामगेयः)