सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/गौरीवितम्(पवस्व)

गौरीवितम्.
गौरीवितम्

पवस्व वाजसातये पवित्रे धारया सुतः।
इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः॥ १०१६ ऋ. ९.१००.६
त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः।
वत्सं जातं न मातरः पवमान विधर्मणि॥ १०१७
त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे।
प्रति द्रापिममुञ्चथाः पवमान महित्वना॥ १०१८



१३ गौरीवितम् ।। गौरीवितिः । अनुष्टुप्। पवमानस्सोमः ।
पव । स्ववाऽ३ । जसातयाइ ।। पवित्रेधारयासुताऽ२३ः । आइन्द्रायसोऽ३१२३ । मवाऽ५इष्णवाइ ।। दाइवेभ्योमाऽ३१२३ ।। धुमोवा । ताऽ५रोऽ६“हाइ ।। श्रीः ।। तुवाम् । ।रिहाऽ३ । तिधीतयाः ।। हरिंपवित्रेअद्रुहाऽ२३ः । वात्संजाताऽ३१२३म् । नमाऽ५तराः ।। पावमानाऽ३१२३ । विधोवा । माऽ५णोऽ६“हाइ ।।श्रीः।। तुवम् । द्याञ्चाऽ३ । महिव्रता । पृथिवीञ्चातिजभ्रिषाऽ२३इ । प्रातिद्रापाऽ३१२३इम् । अमूऽ५ञ्चथाः ।। पावमानाऽ३१२३ ।। महोवा । त्वाऽ५नोऽ६“हाइ ।।
दी १७ उत्. न मा. २०. यौ. ।।९३।।

सम्पाद्यताम्