सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/वार्शम्

वार्शम्.
वार्शम्.

११
अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।
सीदन्योनौ वनेष्वा ॥ ९९४ ॥ ऋ. ९.६५.१९
अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमा अर्षन्तु विष्णवे ॥९९५ ॥
इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणं ॥ ९९६ ॥

२४. वार्शम् । वृशः । गायत्री । पवमानस्सोमः ।

अर्षासोमा ।। द्युमात्ताऽ३माः । अभिद्रो । णा। । निरोऽ२रूऽ२३४वात् ।। साइदन्योनाऽ३उ । ईऽ३या ।। वने । षूऽ२वाऽ२३४औहोवा ।। श्रीः ।। अप्साइन्द्रा ।। यवायाऽ३वाइ । वरुणा । या । मरूऽ२द्भाऽ२३४याः ।। सोमाअर्षाऽ३ । ईऽ३या ।। तुवि । ष्णाऽ२वाऽ२३४औहोवा ।। श्रीः ।। इषन्तोका ।। यनोदाऽ३धात् । अस्मभ्यम् । सो । मवाऽ२इश्वाऽ२३४ताः ।। आपवस्वाऽ३ । ईऽ३या ।। सह । स्राऽ२इणाऽ२३४औहोवा ।। ऊऽ३२३४पा ।।

दी. १४. उत्. ७. मा. १६ थू. ।।८४।।


टिप्पणी

अथ वार्शम्। वृशो वै जानस् त्रियरुणस्य त्रैवृष्णस्यैक्ष्वाकस्य राज्ञः पुरोहित आस। अथ ह स्म ततः पुरा राजभ्यः पुरोहिता एव रथान् संगृह्णन्त्य् औपद्रष्ट्र्याय - नेद् अयं पापं करवद् इति। तौ हाधावयन्तौ ब्राह्मणकुमारं पथि क्रीडन्तं रथचक्रेण विचिच्छिदतुः। इतरो हाधावयन्न् अभिप्रयुयावापेतर आययाम। स हाधिगत्य न शशाकापायन्तुम् । तं ह तद् एव विचिच्छिदतुः। तस्मिन् होदाते - त्वं हन्तासि त्वं हन्तासीति। स ह वृशो ऽभीशून् प्रकीर्यावतिष्ठन्न् उवाच - त्वं हन्तासीति। नेति होवाच। यो वै रथं संगृह्णाति स रथस्येशे। त्वं हन्तासीति। नेति हेतर उवाचाप वा अहम् आयांसं, स त्वम् अभिप्रायौषीस्, त्वम् एव हन्तासीति॥जैब्रा ३.९४

तौ वै - पृच्छावहा इति। तौ हेक्ष्वाकून् एव प्रश्नम् एयतुः। ते हेक्ष्वाकव ऊचुर् - यो वाव रथं संगृह्णाति स रथस्येशे। त्वम् एव हन्तासीति वृशम् एव पराब्रुवन्। सोऽकामयतोद् इत इयां, गातुं नाथं विन्देय । सम् अयं कुमारो जीवेद् इति। स एतत्सामापश्यत्। तेनैनं समैरयद् आ ते दक्षं मयोभुवम् इति(वार्शाणि त्रीणि)। प्राणा वै दक्षाः। प्राणान् एवास्मिंस् तद् अदधात्। जैब्रा ३.९५