सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/शैशवम्
टिप्पणी
यत् सोम चित्रम् उक्थ्यम् इति चित्रवतीर् भवन्ति - चित्ररूपा वै पशवः। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै। तद् आहुर् यन्ति वा एते त्रिष्टुभः पवमानान्ताद् ये गायत्रीष्व् अन्त्यं कुर्वन्तीति। वृषण्वतीर् भवन्ति। वृषण्वद् वै त्रिष्टुभो रूपम्। तेन त्रिष्टुभः पवमानान्तान् न यन्ति॥ तासु शैशवम्। शान्तिर् वै शैशवम्। यच् छैशवेन स्तुवन्ति शान्त्या एव। अथो आहुश् शैशवेन वा इन्द्रो वृत्रं पर्याकारं शक्वरीभिर् अहन्न् इति। तद् व् एव शैशवस्य शैशवत्वम्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। प्रजापतेर् अक्ष्य् अश्वयत्। तत् परापतत्। सो ऽकामयत - पुनर् मा चक्षुर् आविशेद् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै तं चक्षुः पुनर् आविशत्। अश्व एव शुचिर् भूत्वैनं पुनर् आविशत्। तज्ज्योतिर् वै चक्षुः। ज्योतिर् वावैनं तद् आविशत्। तद् एतच् चक्षुष्यं साम। अजरसं हास्य चक्षुर् न व्येति य एवं वेद॥जैब्रा ३.१०२॥
शैशवं भवति। शिशुर्वा आङ्गिरसो मन्त्रकृतां मन्त्रकृदासीत् स पितॄन् पुत्रका इत्यामन्त्रयत, तं पितरोऽब्रुवन्नधर्मं करोषि यो नः पितॄन् सतः पुत्रका इत्यामन्त्रयस इति, सोऽब्रवीदहं वाव वः पितास्मि यो मन्त्रकृदस्मीति, तं देवेष्वपृच्छन्त ते देवा अबुवन्नेष वाव पिता यो मन्त्रकृदिति तद्वै स उदजयदुज्जयति शैशवेन तुष्टुवानः। गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति - तांब्रा १३.३.२३
शैशवम् (स्वादिष्ठया इति)
शैशवानि (असाव्यंशु) (ग्रामगेयः)