सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/वाजदावर्यः

वाजदावर्यः

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
अर्कस्य योनिमासदं ।। १०७६ ।। ऋ. ९.६४.२२
तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिं ।
सं त्वा मृजन्त्यायवः ।। १०७७ ।।
रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे ।
पवमानस्य मरुतः ।। १०७८ ।।

टिप्पणी

अथ वाजदावर्यः। अन्नं वै वाजो, ऽन्नं दावर्यः। एता अन्नाद्यस्यैवावरुद्ध्यै। प्रजापतिः प्रजा असृजत। ता अनशना असृजत। ता प्रजापतिम् एवोपाधावन्। ताभ्य एतेनैव साम्नान्नाद्यं प्रायच्छत्। ता अब्रुवन् - वाजं वै नो ऽन्नाद्यं प्रादाद् इति। तद् एव वाजदावरीणां वाजदावरीत्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। - जैब्रा ३.३४७

वाजदावर्यो भवन्ति। अन्नं वै वाजोऽन्नाद्यस्यावरुध्यै यदा हि वा अन्नमथ गौरथाश्वोऽथ पुरुषो वाजी ......मेथी वा इषोवृधीयं रज्जुः क्रौञ्चं वत्सो वाजदावर्यो रेवत्यो मातरो यदेतान्येवं सामानि क्रियन्त एवमेव प्रत्तां दुग्धे- तांब्रा. १३.९