सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/कण्वरथन्तरम्

कण्वरथन्तरम्.
कण्वरथन्तरम्

पुनानः सोम धारयापो वसानो अर्षसि ।
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ ६७५ ॥ ऋ. ९.१०७.४
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥ ६७६ ॥

सम्पाद्यताम्

टिप्पणी

पुनानस् सोम धारयेत्य् उभयरूपा बृहती भवति। एषा ह वा उभे सामनी उद्ययाम, तस्माद् एतां कुर्वन्त्य् एव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः॥जैब्रा ३.१८३

कण्वरथन्तरं भवति तेजो वा एतद्रथन्तरस्य यत् कण्वरथन्तरम्। सरसमेव तद्रथन्तरं प्रयुङ्क्ते यत् कण्वरथन्तरेण सप्तमेऽहनि स्तुवते। जामि द्वादशाहस्यास्तीति ह स्माहोग्रदेवो राजनिर्बार्हतं षष्ठमहर्बार्हतं सप्तमं यत् कण्वरथन्तरं भवति तेनाजामि - तांब्रा. १४.३