सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/गौङ्गवम्

गौङ्गवम्
गौङ्गवम्.

पुनानः सोम धारयापो वसानो अर्षसि ।
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ ६७५ ॥ ऋ. ९.१०७.४
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥ ६७६ ॥

टिप्पणी

अथ गौङ्गवं यत् साम देवता प्रशंसति। सामैतद् देवता प्रशंसति तेन यजमानास् सत्याशिषो भवन्ति। देवासुराः पशुष्व् अस्पर्धन्त। ते ऽसुराः पशुभिस् सह समुद्रम् अभ्यवायन्। ते देवा अकामयन्त - वृञ्जीमह्य् असुराणां पशून् इति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुराणां पशून् अवृञ्जत। ते ऽब्रुवन् गां गां वावासुराणाम् अवृक्ष्महीति। तद् एव गौङ्गवस्य गौङ्गवत्वम्। तद् एतत् पशव्यं साम। गां - गाम् एव द्विषतो भ्रातृव्यस्य वृंक्ते ऽव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। गौङ्गवेन वै देवा असुरान् हत्वा घोषं गंगणिम् अकुर्वत। तद् व् एव गौङ्गवस्य गौङ्गवत्वम्। तद् उ भ्रातृव्यहा। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। तद् ऊर्ध्वम् इव च तिर्यग् इव च गीयते। यद् ऊर्ध्वम् इव गीयते तद् बृहतो रूपं, यत् तिर्यग् इव तद् रथन्तरस्य। एतद् वै समृद्धं छन्दोमानां यद् उभयं रूपम्॥जैब्रा ३.१८५

गौङ्गवं भवति । अग्निरकामयतान्नादः स्यामिति स तपोऽतप्यत स एतद्गौङ्गवमपश्यत् तेनान्नादोऽभवद्यदन्नं वित्वा गर्द्दद्यदगङ्गूयत् तद्गौङ्गवस्य गौङ्गवत्वमन्नाद्यस्यावरुध्यै गौङ्गवं कियते । यत् साम देवता प्रशंयति तेन यजमानाः सत्याशिषः सत्याशिषोऽसामेति वै सत्त्रमासते सत्याशिष एव भवन्ति - तांब्रा १४.३