सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/दक्षणिधनमौक्षम्
टिप्पणी
यस् ते मदो वरेण्य इत्य् आर्भवस्य पवमानस्य मद्वतीर् गायत्र्यो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य्, ऐवैनद् एतेन प्याययन्ति। तेना पवस्वान्धसेत्य् अन्धस्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। अग्निर् वृत्रम् अमित्रियम् इति बार्हतं रूपम्। यद् ऊर्ध्वं मध्यंदिनाद् तद् एतस्याह्नो बार्हतम्। संमिश्लो अरुषो भुवस् सूपस्थाभिर् न धेनुभिर् इति। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् यत् सूपस्थाभिर् इत्य् अह्न एवोपस्थित्यै। तासु गायत्रम् उक्तब्राह्मणम्। - जैब्रा ३.१९१
अथ दक्षोणिधनम्। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् दक्षोणिधनेनैव संदक्षयन्ति। प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। सो ऽकामयत - प्राणवतीर् म इमाः प्रजा स्युर् इति। स एतत् सामापश्यत्। तेनैना दक्षाया इत्य् एवाभ्यमृशत्। प्राणा वै दक्षाः। प्राणान् एवासु तद् अदधात्। प्राणान् एवात्मंश् च यजमाने च दधाति य एवं वेद। तद् उ होवाच सुदक्षिणः क्षैमिर् मन्थं हास्य कुले विदुर् न विविदुर् दक्षोणिधनं स्वित् ते पवमानमुखे चक्रुर् इति। कथा हेति। मन्थं हि ते कुले न विन्दन्तीति। तस्माद् अग्नेर् एवार्कः प्रथमायां कार्यः। -जैब्रा ३.१९२